| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

उद्धव उवाच ।
ततः स आगत्य पुरं स्वपित्रोः चिकीर्षया शं बलदेवसंयुतः । निपात्य तुङ्गाद् रिपुयूथनाथं हतं व्यकर्षद् व्यसुमोजसोर्व्याम् ॥ १ ॥
ततस् सः आगत्य पुरम् स्व-पित्रोः चिकीर्षया शम् बलदेव-संयुतः । निपात्य तुङ्गात् रिपु-यूथ-नाथम् हतम् व्यकर्षत् व्यसुम् ओजसा उर्व्याम् ॥ १ ॥
tatas saḥ āgatya puram sva-pitroḥ cikīrṣayā śam baladeva-saṃyutaḥ . nipātya tuṅgāt ripu-yūtha-nātham hatam vyakarṣat vyasum ojasā urvyām .. 1 ..
सान्दीपनेः सकृत् प्रोक्तं ब्रह्माधीत्य सविस्तरम् । तस्मै प्रादाद् वरं पुत्रं मृतं पञ्चजनोदरात् ॥ २ ॥
सान्दीपनेः सकृत् प्रोक्तम् ब्रह्म अधीत्य स विस्तरम् । तस्मै प्रादात् वरम् पुत्रम् मृतम् पञ्चजन-उदरात् ॥ २ ॥
sāndīpaneḥ sakṛt proktam brahma adhītya sa vistaram . tasmai prādāt varam putram mṛtam pañcajana-udarāt .. 2 ..
समाहुता भीष्मककन्यया ये श्रियः सवर्णेन बुभूषयैषाम् । गान्धर्ववृत्त्या मिषतां स्वभागं जह्रे पदं मूर्ध्नि दधत्सुपर्णः ॥ ३ ॥
भीष्मक-कन्यया ये श्रियः सवर्णेन । गान्धर्व-वृत्त्याः मिषताम् स्व-भागम् जह्रे पदम् मूर्ध्नि दधत् सुपर्णः ॥ ३ ॥
bhīṣmaka-kanyayā ye śriyaḥ savarṇena . gāndharva-vṛttyāḥ miṣatām sva-bhāgam jahre padam mūrdhni dadhat suparṇaḥ .. 3 ..
ककुद्मिनोऽविद्धनसो दमित्वा स्वयंवरे नाग्नजितीमुवाह । तद्भग्नमानानपि गृध्यतोऽज्ञान् जघ्नेऽक्षतः शस्त्रभृतः स्वशस्त्रैः ॥ ४ ॥
ककुद्मिनः अविद्धनसः दमित्वा स्वयंवरे नाग्नजितीम् उवाह । तद्-भग्न-मानान् अपि गृध्यतः अज्ञान् जघ्ने अक्षतः शस्त्रभृतः स्व-शस्त्रैः ॥ ४ ॥
kakudminaḥ aviddhanasaḥ damitvā svayaṃvare nāgnajitīm uvāha . tad-bhagna-mānān api gṛdhyataḥ ajñān jaghne akṣataḥ śastrabhṛtaḥ sva-śastraiḥ .. 4 ..
प्रियं प्रभुर्ग्राम्य इव प्रियाया विधित्सुरार्च्छद् द्युतरुं यदर्थे । वज्र्याद्रवत्तं सगणो रुषान्धः क्रीडामृगो नूनमयं वधूनाम् ॥ ५ ॥
प्रियम् प्रभुः ग्राम्यः इव प्रियायाः विधित्सुः आर्च्छत् द्युतरुम् यद्-अर्थे । वज्री अद्रवत् तम् स गणः रुषा अन्धः क्रीडामृगः नूनम् अयम् वधूनाम् ॥ ५ ॥
priyam prabhuḥ grāmyaḥ iva priyāyāḥ vidhitsuḥ ārcchat dyutarum yad-arthe . vajrī adravat tam sa gaṇaḥ ruṣā andhaḥ krīḍāmṛgaḥ nūnam ayam vadhūnām .. 5 ..
सुतं मृधे खं वपुषा ग्रसन्तं दृष्ट्वा सुनाभोन्मथितं धरित्र्या । आमंत्रितस्तत् तनयाय शेषं दत्त्वा तदन्तःपुरमाविवेश ॥ ६ ॥
सुतम् मृधे खम् वपुषा ग्रसन्तम् दृष्ट्वा सुनाभ-उन्मथितम् धरित्र्या । आमंत्रितः तत् तनयाय शेषम् दत्त्वा तत् अन्तःपुरम् आविवेश ॥ ६ ॥
sutam mṛdhe kham vapuṣā grasantam dṛṣṭvā sunābha-unmathitam dharitryā . āmaṃtritaḥ tat tanayāya śeṣam dattvā tat antaḥpuram āviveśa .. 6 ..
तत्राहृतास्ता नरदेवकन्याः कुजेन दृष्ट्वा हरिमार्तबन्धुम् । उत्थाय सद्यो जगृहुः प्रहर्ष व्रीडानुरागप्रहितावलोकैः ॥ ७ ॥
तत्र आहृताः ताः नरदेव-कन्याः कुजेन दृष्ट्वा हरिम् आर्त-बन्धुम् । उत्थाय सद्यस् जगृहुः प्रहर्ष व्रीडा-अनुराग-प्रहित-अवलोकैः ॥ ७ ॥
tatra āhṛtāḥ tāḥ naradeva-kanyāḥ kujena dṛṣṭvā harim ārta-bandhum . utthāya sadyas jagṛhuḥ praharṣa vrīḍā-anurāga-prahita-avalokaiḥ .. 7 ..
(अनुष्टुप्) आसां मुहूर्त एकस्मिन् नानागारेषु योषिताम् । सविधं जगृहे पाणीन् अनुरूपः स्वमायया ॥ ८ ॥
(आसाम् मुहूर्ते एकस्मिन् नाना आगारेषु योषिताम् । सविधम् जगृहे पाणीन् अनुरूपः स्व-मायया ॥ ८ ॥
(āsām muhūrte ekasmin nānā āgāreṣu yoṣitām . savidham jagṛhe pāṇīn anurūpaḥ sva-māyayā .. 8 ..
तास्वपत्यान्यजनयद् आत्मतुल्यानि सर्वतः । एकैकस्यां दश दश प्रकृतेर्विबुभूषया ॥ ९ ॥
तासु अपत्यानि अजनयत् आत्म-तुल्यानि सर्वतस् । एकैकस्याम् दश दश प्रकृतेः विबुभूषया ॥ ९ ॥
tāsu apatyāni ajanayat ātma-tulyāni sarvatas . ekaikasyām daśa daśa prakṛteḥ vibubhūṣayā .. 9 ..
कालमागधशाल्वादीन् अनीकै रुन्धतः पुरम् । अजीघनत् स्वयं दिव्यं स्वपुंसां तेज आदिशत् ॥ १० ॥
काल-मागध-शाल्व-आदीन् अनीकैः रुन्धतः पुरम् । अजीघनत् स्वयम् दिव्यम् स्व-पुंसाम् तेजः आदिशत् ॥ १० ॥
kāla-māgadha-śālva-ādīn anīkaiḥ rundhataḥ puram . ajīghanat svayam divyam sva-puṃsām tejaḥ ādiśat .. 10 ..
शम्बरं द्विविदं बाणं मुरं बल्वलमेव च । अन्यांश्च दन्तवक्रादीन् अवधीत्कांश्च घातयत् ॥ ११ ॥
शम्बरम् द्विविदम् बाणम् मुरम् बल्वलम् एव च । अन्यान् च दन्तवक्र-आदीन् अवधीत् कान् च घातयत् ॥ ११ ॥
śambaram dvividam bāṇam muram balvalam eva ca . anyān ca dantavakra-ādīn avadhīt kān ca ghātayat .. 11 ..
अथ ते भ्रातृपुत्राणां पक्षयोः पतितान् नृपान् । चचाल भूः कुरुक्षेत्रं येषां आपततां बलैः ॥ १२ ॥
अथ ते भ्रातृ-पुत्राणाम् पक्षयोः पतितान् नृपान् । चचाल भूः कुरुक्षेत्रम् येषाम् आपतताम् बलैः ॥ १२ ॥
atha te bhrātṛ-putrāṇām pakṣayoḥ patitān nṛpān . cacāla bhūḥ kurukṣetram yeṣām āpatatām balaiḥ .. 12 ..
स कर्णदुःशासनसौबलानां कुमंत्रपाकेन हतश्रियायुषम् । सुयोधनं सानुचरं शयानं भग्नोरुमूर्व्यां न ननन्द पश्यन् ॥ १३ ॥
स कर्ण-दुःशासन-सौबलानाम् कुमंत्र-पाकेन हत-श्रिया आयुषम् । सुयोधनम् स अनुचरम् शयानम् भग्न-ऊरुम् ऊर्व्याम् न ननन्द पश्यन् ॥ १३ ॥
sa karṇa-duḥśāsana-saubalānām kumaṃtra-pākena hata-śriyā āyuṣam . suyodhanam sa anucaram śayānam bhagna-ūrum ūrvyām na nananda paśyan .. 13 ..
कियान् भुवोऽयं क्षपितोरुभारो यद्द्रोणभीष्मार्जुन भीममूलैः । अष्टादशाक्षौहिणिको मदंशैः आस्ते बलं दुर्विषहं यदूनाम् ॥ १४ ॥
कियान् भुवः अयम् क्षपित-ऊरु-भारः यत् द्रोण-भीष्म-अर्जुन भीम-मूलैः । अष्टादश-अक्षौहिणिकः मद्-अंशैः आस्ते बलम् दुर्विषहम् यदूनाम् ॥ १४ ॥
kiyān bhuvaḥ ayam kṣapita-ūru-bhāraḥ yat droṇa-bhīṣma-arjuna bhīma-mūlaiḥ . aṣṭādaśa-akṣauhiṇikaḥ mad-aṃśaiḥ āste balam durviṣaham yadūnām .. 14 ..
मिथो यदैषां भविता विवादो मध्वामदाताम्रविलोचनानाम् । नैषां वधोपाय इयानतोऽन्यो मय्युद्यतेऽन्तर्दधते स्वयं स्म ॥ १५ ॥
मिथस् यदा एषाम् भविता विवादः । न एषाम् वध-उपायः इयान् अतस् अन्यः मयि उद्यते अन्तर्दधते स्वयम् स्म ॥ १५ ॥
mithas yadā eṣām bhavitā vivādaḥ . na eṣām vadha-upāyaḥ iyān atas anyaḥ mayi udyate antardadhate svayam sma .. 15 ..
(अनुष्टुप्)
एवं सञ्चिन्त्य भगवान् स्वराज्ये स्थाप्य धर्मजम् । नन्दयामास सुहृदः साधूनां वर्त्म दर्शयन् ॥ १६ ॥
एवम् सञ्चिन्त्य भगवान् स्व-राज्ये स्थाप्य धर्मजम् । नन्दयामास सुहृदः साधूनाम् वर्त्म दर्शयन् ॥ १६ ॥
evam sañcintya bhagavān sva-rājye sthāpya dharmajam . nandayāmāsa suhṛdaḥ sādhūnām vartma darśayan .. 16 ..
उत्तरायां धृतः पूरोः वंशः साध्वभिमन्युना । स वै द्रौण्यस्त्रसंछिन्नः पुनर्भगवता धृतः ॥ १७ ॥
उत्तरायाम् धृतः पूरोः वंशः साधु-अभिमन्युना । स वै द्रौणि-अस्त्र-संछिन्नः पुनर् भगवता धृतः ॥ १७ ॥
uttarāyām dhṛtaḥ pūroḥ vaṃśaḥ sādhu-abhimanyunā . sa vai drauṇi-astra-saṃchinnaḥ punar bhagavatā dhṛtaḥ .. 17 ..
अयाजयद् धर्मसुतं अश्वमेधैस्त्रिभिर्विभुः । सोऽपि क्ष्मामनुजै रक्षन् रेमे कृष्णमनुव्रतः ॥ १८ ॥
अयाजयत् धर्मसुतम् अश्वमेधैः त्रिभिः विभुः । सः अपि क्ष्मा-मनुजैः रक्षन् रेमे कृष्णम् अनुव्रतः ॥ १८ ॥
ayājayat dharmasutam aśvamedhaiḥ tribhiḥ vibhuḥ . saḥ api kṣmā-manujaiḥ rakṣan reme kṛṣṇam anuvrataḥ .. 18 ..
भगवान् अपि विश्वात्मा लोकवेदपथानुगः । कामान् सिषेवे द्वार्वत्यां असक्तः साङ्ख्यमास्थितः ॥ १९ ॥
भगवान् अपि विश्वात्मा लोक-वेद-पथ-अनुगः । कामान् सिषेवे द्वार्वत्याम् असक्तः साङ्ख्यम् आस्थितः ॥ १९ ॥
bhagavān api viśvātmā loka-veda-patha-anugaḥ . kāmān siṣeve dvārvatyām asaktaḥ sāṅkhyam āsthitaḥ .. 19 ..
स्निग्धस्मितावलोकेन वाचा पीयूषकल्पया । चरित्रेणानवद्येन श्रीनिकेतेन चात्मना ॥ २० ॥
स्निग्ध-स्मित-अवलोकेन वाचा पीयूष-कल्पया । चरित्रेण अनवद्येन श्रीनिकेतेन च आत्मना ॥ २० ॥
snigdha-smita-avalokena vācā pīyūṣa-kalpayā . caritreṇa anavadyena śrīniketena ca ātmanā .. 20 ..
इमं लोकममुं चैव रमयन् सुतरां यदून् । रेमे क्षणदया दत्त क्षणस्त्रीक्षणसौहृदः ॥ २१ ॥
इमम् लोकम् अमुम् च एव रमयन् सुतराम् यदून् । रेमे क्षणदया दत्त क्षण-स्त्री-क्षण-सौहृदः ॥ २१ ॥
imam lokam amum ca eva ramayan sutarām yadūn . reme kṣaṇadayā datta kṣaṇa-strī-kṣaṇa-sauhṛdaḥ .. 21 ..
तस्यैवं रममाणस्य संवत्सरगणान् बहून् । गृहमेधेषु योगेषु विरागः समजायत ॥ २२ ॥
तस्य एवम् रममाणस्य संवत्सर-गणान् बहून् । गृहमेधेषु योगेषु विरागः समजायत ॥ २२ ॥
tasya evam ramamāṇasya saṃvatsara-gaṇān bahūn . gṛhamedheṣu yogeṣu virāgaḥ samajāyata .. 22 ..
दैवाधीनेषु कामेषु दैवाधीनः स्वयं पुमान् । को विश्रम्भेत योगेन योगेश्वरमनुव्रतः ॥ २३ ॥
दैव-अधीनेषु कामेषु दैव-अधीनः स्वयम् पुमान् । कः विश्रम्भेत योगेन योगेश्वरम् अनुव्रतः ॥ २३ ॥
daiva-adhīneṣu kāmeṣu daiva-adhīnaḥ svayam pumān . kaḥ viśrambheta yogena yogeśvaram anuvrataḥ .. 23 ..
पुर्यां कदाचित् क्रीडद्भिः यदुभोजकुमारकैः । कोपिता मुनयः शेपुः भगवन् मतकोविदाः ॥ २४ ॥
पुर्याम् कदाचिद् क्रीडद्भिः यदु-भोज-कुमारकैः । कोपिताः मुनयः शेपुः भगवत् मत-कोविदाः ॥ २४ ॥
puryām kadācid krīḍadbhiḥ yadu-bhoja-kumārakaiḥ . kopitāḥ munayaḥ śepuḥ bhagavat mata-kovidāḥ .. 24 ..
ततः कतिपयैर्मासैः वृष्णिभोज अन्धकादयः । ययुः प्रभासं संहृष्टा रथैर्देवविमोहिताः ॥ २५ ॥
ततस् कतिपयैः मासैः वृष्णि-भोज-अन्धक-आदयः । ययुः प्रभासम् संहृष्टाः रथैः देव-विमोहिताः ॥ २५ ॥
tatas katipayaiḥ māsaiḥ vṛṣṇi-bhoja-andhaka-ādayaḥ . yayuḥ prabhāsam saṃhṛṣṭāḥ rathaiḥ deva-vimohitāḥ .. 25 ..
तत्र स्नात्वा पितॄन् देवान् ऋषींश्चैव तदम्भसा । तर्पयित्वाथ विप्रेभ्यो गावो बहुगुणा ददुः ॥ २६ ॥
तत्र स्नात्वा पितॄन् देवान् ऋषीन् च एव तद्-अम्भसा । तर्पयित्वा अथ विप्रेभ्यः गावः बहु-गुणाः ददुः ॥ २६ ॥
tatra snātvā pitṝn devān ṛṣīn ca eva tad-ambhasā . tarpayitvā atha viprebhyaḥ gāvaḥ bahu-guṇāḥ daduḥ .. 26 ..
हिरण्यं रजतं शय्यां वासांस्यजिनकम्बलान् । यानं रथानिभान् कन्या धरां वृत्तिकरीमपि ॥ २७ ॥
हिरण्यम् रजतम् शय्याम् वासांसि अजिन-कम्बलान् । यानम् कन्याः धराम् वृत्तिकरीम् अपि ॥ २७ ॥
hiraṇyam rajatam śayyām vāsāṃsi ajina-kambalān . yānam kanyāḥ dharām vṛttikarīm api .. 27 ..
अन्नं चोरुरसं तेभ्यो दत्त्वा भगवदर्पणम् । गोविप्रार्थासवः शूराः प्रणेमुर्भुवि मूर्धभिः ॥ २८ ॥
अन्नम् च उरु-रसम् तेभ्यः दत्त्वा भगवत्-अर्पणम् । गो विप्र-अर्थ-असवः शूराः प्रणेमुः भुवि मूर्धभिः ॥ २८ ॥
annam ca uru-rasam tebhyaḥ dattvā bhagavat-arpaṇam . go vipra-artha-asavaḥ śūrāḥ praṇemuḥ bhuvi mūrdhabhiḥ .. 28 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां तृतीयस्कन्धे विदुरोद्धवसंवादे तृतीयोऽध्यायः ॥ ३ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् तृतीय-स्कन्धे विदुर-उद्धव-संवादे तृतीयः अध्यायः ॥ ३ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām tṛtīya-skandhe vidura-uddhava-saṃvāde tṛtīyaḥ adhyāyaḥ .. 3 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In