| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

तस्यैतस्य जनो नूनं नायं वेदोरुविक्रमम् । काल्यमानोऽपि बलिनो वायोरिव घनावलिः ॥ १ ॥
तस्य एतस्य जनः नूनम् न अयम् वेद उरु-विक्रमम् । काल्यमानः अपि बलिनः वायोः इव घन-आवलिः ॥ १ ॥
tasya etasya janaḥ nūnam na ayam veda uru-vikramam . kālyamānaḥ api balinaḥ vāyoḥ iva ghana-āvaliḥ .. 1 ..
कपिल उवाच -
यं यं अर्थमुपादत्ते दुःखेन सुखहेतवे । तं तं धुनोति भगवान् पुमान्छोचति यत्कृते ॥ २ ॥
यम् यम् अर्थम् उपादत्ते दुःखेन सुख-हेतवे । तम् तम् धुनोति भगवान् पुमान् शोचति यत्कृते ॥ २ ॥
yam yam artham upādatte duḥkhena sukha-hetave . tam tam dhunoti bhagavān pumān śocati yatkṛte .. 2 ..
यदध्रुवस्य देहस्य सानुबन्धस्य दुर्मतिः । ध्रुवाणि मन्यते मोहाद् गृहक्षेत्रवसूनि च ॥ ३ ॥
यत् अध्रुवस्य देहस्य सानुबन्धस्य दुर्मतिः । ध्रुवाणि मन्यते मोहात् गृह-क्षेत्र-वसूनि च ॥ ३ ॥
yat adhruvasya dehasya sānubandhasya durmatiḥ . dhruvāṇi manyate mohāt gṛha-kṣetra-vasūni ca .. 3 ..
जन्तुर्वै भव एतस्मिन् यां यां योनिमनुव्रजेत् । तस्यां तस्यां स लभते निर्वृतिं न विरज्यते ॥ ४ ॥
जन्तुः वै भवे एतस्मिन् याम् याम् योनिम् अनुव्रजेत् । तस्याम् तस्याम् स लभते निर्वृतिम् न विरज्यते ॥ ४ ॥
jantuḥ vai bhave etasmin yām yām yonim anuvrajet . tasyām tasyām sa labhate nirvṛtim na virajyate .. 4 ..
नरकस्थोऽपि देहं वै न पुमान् त्यक्तुमिच्छति । नारक्यां निर्वृतौ सत्यां देवमायाविमोहितः ॥ ५ ॥
नरक-स्थः अपि देहम् वै न पुमान् त्यक्तुम् इच्छति । नारक्याम् निर्वृतौ सत्याम् देव-माया-विमोहितः ॥ ५ ॥
naraka-sthaḥ api deham vai na pumān tyaktum icchati . nārakyām nirvṛtau satyām deva-māyā-vimohitaḥ .. 5 ..
आत्मजायासुतागार पशुद्रविण बन्धुषु । निरूढमूलहृदय आत्मानं बहु मन्यते ॥ ६ ॥
आत्म-जाया-सुत-आगार-पशु-द्रविण-बन्धुषु । निरूढ-मूल-हृदयः आत्मानम् बहु मन्यते ॥ ६ ॥
ātma-jāyā-suta-āgāra-paśu-draviṇa-bandhuṣu . nirūḍha-mūla-hṛdayaḥ ātmānam bahu manyate .. 6 ..
सन्दह्यमानसर्वाङ्ग एषां उद्वहनाधिना । करोति अविरतं मूढो दुरितानि दुराशयः ॥ ७ ॥
सन्दह्यमान-सर्व-अङ्गः एषाम् उद्वहन-आधिना । करोति अविरतम् मूढः दुरितानि दुराशयः ॥ ७ ॥
sandahyamāna-sarva-aṅgaḥ eṣām udvahana-ādhinā . karoti aviratam mūḍhaḥ duritāni durāśayaḥ .. 7 ..
आक्षिप्तात्मेन्द्रियः स्त्रीणां असतीनां च मायया । रहो रचितयालापैः शिशूनां कलभाषिणाम् ॥ ८ ॥
आक्षिप्त-आत्म-इन्द्रियः स्त्रीणाम् असतीनाम् च मायया । रहः रचितया आलापैः शिशूनाम् कल-भाषिणाम् ॥ ८ ॥
ākṣipta-ātma-indriyaḥ strīṇām asatīnām ca māyayā . rahaḥ racitayā ālāpaiḥ śiśūnām kala-bhāṣiṇām .. 8 ..
गृहेषु कूटधर्मेषु दुःखतन्त्रेष्वतन्द्रितः । कुर्वन् दुखप्रतीकारं सुखवन्मन्यते गृही ॥ ९ ॥
गृहेषु कूट-धर्मेषु दुःख-तन्त्रेषु अतन्द्रितः । कुर्वन् दुख-प्रतीकारम् सुखवत् मन्यते गृही ॥ ९ ॥
gṛheṣu kūṭa-dharmeṣu duḥkha-tantreṣu atandritaḥ . kurvan dukha-pratīkāram sukhavat manyate gṛhī .. 9 ..
अर्थैरापादितैर्गुर्व्या हिंसयेतः ततश्च तान् । पुष्णाति येषां पोषेण शेषभुग्यात्यधः स्वयम् ॥ १० ॥
अर्थैः आपादितैः गुर्व्याः हिंसया इतस् ततस् च तान् । पुष्णाति येषाम् पोषेण शेष-भुज् याति अधस् स्वयम् ॥ १० ॥
arthaiḥ āpāditaiḥ gurvyāḥ hiṃsayā itas tatas ca tān . puṣṇāti yeṣām poṣeṇa śeṣa-bhuj yāti adhas svayam .. 10 ..
वार्तायां लुप्यमानायां आरब्धायां पुनः पुनः । लोभाभिभूतो निःसत्त्वः परार्थे कुरुते स्पृहाम् ॥ ११ ॥
वार्तायाम् लुप्यमानायाम् आरब्धायाम् पुनर् पुनर् । लोभ-अभिभूतः निःसत्त्वः पर-अर्थे कुरुते स्पृहाम् ॥ ११ ॥
vārtāyām lupyamānāyām ārabdhāyām punar punar . lobha-abhibhūtaḥ niḥsattvaḥ para-arthe kurute spṛhām .. 11 ..
कुटुम्बभरणाकल्पो मन्दभाग्यो वृथोद्यमः । श्रिया विहीनः कृपणो ध्यायन् श्वसिति मूढधीः ॥ १२ ॥
कुटुम्ब-भरण-आकल्पः मन्दभाग्यः वृथक् उद्यमः । श्रिया विहीनः कृपणः ध्यायन् श्वसिति मूढ-धीः ॥ १२ ॥
kuṭumba-bharaṇa-ākalpaḥ mandabhāgyaḥ vṛthak udyamaḥ . śriyā vihīnaḥ kṛpaṇaḥ dhyāyan śvasiti mūḍha-dhīḥ .. 12 ..
एवं स्वभरणाकल्पं तत्कलत्रादयस्तथा । नाद्रियन्ते यथा पूर्वं कीनाशा इव गोजरम् ॥ १३ ॥
एवम् स्व-भरण-आकल्पम् तद्-कलत्र-आदयः तथा । न आद्रियन्ते यथा पूर्वम् कीनाशाः इव गोजरम् ॥ १३ ॥
evam sva-bharaṇa-ākalpam tad-kalatra-ādayaḥ tathā . na ādriyante yathā pūrvam kīnāśāḥ iva gojaram .. 13 ..
तत्राप्यजातनिर्वेदो भ्रियमाणः स्वयम्भृतैः । जरयोपात्तवैरूप्यो मरणाभिमुखो गृहे ॥ १४ ॥
तत्र अपि अजात-निर्वेदः भ्रियमाणः स्वयम्भृतैः । जरया उपात्त-वैरूप्यः मरण-अभिमुखः गृहे ॥ १४ ॥
tatra api ajāta-nirvedaḥ bhriyamāṇaḥ svayambhṛtaiḥ . jarayā upātta-vairūpyaḥ maraṇa-abhimukhaḥ gṛhe .. 14 ..
आस्तेऽवमत्योपन्यस्तं गृहपाल इवाहरन् । आमयाव्यप्रदीप्ताग्निः अल्पाहारोऽल्पचेष्टितः ॥ १५ ॥
आस्ते अवमत्य उपन्यस्तम् गृहपालः इव आहरन् । आमयावी अप्रदीप्ताग्निः अल्प-आहारः अल्प-चेष्टितः ॥ १५ ॥
āste avamatya upanyastam gṛhapālaḥ iva āharan . āmayāvī apradīptāgniḥ alpa-āhāraḥ alpa-ceṣṭitaḥ .. 15 ..
वायुनोत्क्रमतोत्तारः कफसंरुद्धनाडिकः । कासश्वासकृतायासः कण्ठे घुरघुरायते ॥ १६ ॥
कफ-संरुद्ध-नाडिकः । कास-श्वास-कृत-आयासः कण्ठे घुरघुरायते ॥ १६ ॥
kapha-saṃruddha-nāḍikaḥ . kāsa-śvāsa-kṛta-āyāsaḥ kaṇṭhe ghuraghurāyate .. 16 ..
शयानः परिशोचद्भिः परिवीतः स्वबन्धुभिः । वाच्यमानोऽपि न ब्रूते कालपाशवशं गतः ॥ १७ ॥
शयानः परिशोचद्भिः परिवीतः स्व-बन्धुभिः । वाच्यमानः अपि न ब्रूते काल-पाश-वशम् गतः ॥ १७ ॥
śayānaḥ pariśocadbhiḥ parivītaḥ sva-bandhubhiḥ . vācyamānaḥ api na brūte kāla-pāśa-vaśam gataḥ .. 17 ..
एवं कुटुम्बभरणे व्यापृतात्माजितेन्द्रियः । म्रियते रुदतां स्वानां उरुवेदनयास्तधीः ॥ १८ ॥
एवम् कुटुम्ब-भरणे व्यापृत-आत्मा अजित-इन्द्रियः । म्रियते रुदताम् स्वानाम् उरु-वेदनया अस्त-धीः ॥ १८ ॥
evam kuṭumba-bharaṇe vyāpṛta-ātmā ajita-indriyaḥ . mriyate rudatām svānām uru-vedanayā asta-dhīḥ .. 18 ..
यमदूतौ तदा प्राप्तौ भीमौ सरभसेक्षणौ । स दृष्ट्वा त्रस्तहृदयः शकृन् मूत्रं विमुञ्चति ॥ १९ ॥
यम-दूतौ तदा प्राप्तौ भीमौ सरभस-ईक्षणौ । स दृष्ट्वा त्रस्त-हृदयः शकृत् मूत्रम् विमुञ्चति ॥ १९ ॥
yama-dūtau tadā prāptau bhīmau sarabhasa-īkṣaṇau . sa dṛṣṭvā trasta-hṛdayaḥ śakṛt mūtram vimuñcati .. 19 ..
यातनादेह आवृत्य पाशैर्बद्ध्वा गले बलात् । नयतो दीर्घमध्वानं दण्ड्यं राजभटा यथा ॥ २० ॥
यातना-देहः आवृत्य पाशैः बद्ध्वा गले बलात् । नयतः दीर्घम् अध्वानम् दण्ड्यम् राज-भटाः यथा ॥ २० ॥
yātanā-dehaḥ āvṛtya pāśaiḥ baddhvā gale balāt . nayataḥ dīrgham adhvānam daṇḍyam rāja-bhaṭāḥ yathā .. 20 ..
तयोर्निर्भिन्नहृदयः तर्जनैर्जातवेपथुः । पथि श्वभिर्भक्ष्यमाण आर्तोऽघं स्वमनुस्मरन् ॥ २१ ॥
तयोः निर्भिन्न-हृदयः तर्जनैः जात-वेपथुः । पथि श्वभिः भक्ष्यमाणः आर्तः अघम् स्वम् अनुस्मरन् ॥ २१ ॥
tayoḥ nirbhinna-hṛdayaḥ tarjanaiḥ jāta-vepathuḥ . pathi śvabhiḥ bhakṣyamāṇaḥ ārtaḥ agham svam anusmaran .. 21 ..
क्षुत्तृट्परीतोऽर्कदवानलानिलैः सन्तप्यमानः पथि तप्तवालुके । कृच्छ्रेण पृष्ठे कशया च ताडितः चलत्यशक्तोऽपि निराश्रमोदके ॥ २२ ॥
क्षुध्-तृष्-परीतः अर्क-दवानल-अनिलैः सन्तप्यमानः पथि तप्त-वालुके । कृच्छ्रेण पृष्ठे कशया च ताडितः चलति अशक्तः अपि निराश्रम-उदके ॥ २२ ॥
kṣudh-tṛṣ-parītaḥ arka-davānala-anilaiḥ santapyamānaḥ pathi tapta-vāluke . kṛcchreṇa pṛṣṭhe kaśayā ca tāḍitaḥ calati aśaktaḥ api nirāśrama-udake .. 22 ..
तत्र तत्र पतन्छ्रान्तो मूर्च्छितः पुनरुत्थितः । पथा पापीयसा नीतस्तरसा यमसादनम् ॥ २३ ॥
तत्र तत्र पतन् श्रान्तः मूर्च्छितः पुनर् उत्थितः । पथा पापीयसा नीतः तरसा यम-सादनम् ॥ २३ ॥
tatra tatra patan śrāntaḥ mūrcchitaḥ punar utthitaḥ . pathā pāpīyasā nītaḥ tarasā yama-sādanam .. 23 ..
योजनानां सहस्राणि नवतिं नव चाध्वनः । त्रिभिर्मुहूर्तैर्द्वाभ्यां वा नीतः प्राप्नोति यातनाः ॥ २४ ॥
योजनानाम् सहस्राणि नवतिम् नव च अध्वनः । त्रिभिः मुहूर्तैः द्वाभ्याम् वा नीतः प्राप्नोति यातनाः ॥ २४ ॥
yojanānām sahasrāṇi navatim nava ca adhvanaḥ . tribhiḥ muhūrtaiḥ dvābhyām vā nītaḥ prāpnoti yātanāḥ .. 24 ..
आदीपनं स्वगात्राणां वेष्टयित्वोल्मुकादिभिः । आत्ममांसादनं क्वापि स्वकृत्तं परतोऽपि वा ॥ २५ ॥
आदीपनम् स्व-गात्राणाम् वेष्टयित्वा उल्मुक-आदिभिः । आत्म-मांस-अदनम् क्वापि स्व-कृत्तम् परतस् अपि वा ॥ २५ ॥
ādīpanam sva-gātrāṇām veṣṭayitvā ulmuka-ādibhiḥ . ātma-māṃsa-adanam kvāpi sva-kṛttam paratas api vā .. 25 ..
जीवतश्चान्त्राभ्युद्धारः श्वगृध्रैर्यमसादने । सर्पवृश्चिक दंशाद्यैः दशद्भिश्चात्मवैशसम् ॥ २६ ॥
जीवतः च अन्त्र-अभ्युद्धारः श्व-गृध्रैः यम-सादने । सर्प-वृश्चिक-दंश-आद्यैः दशद्भिः च आत्म-वैशसम् ॥ २६ ॥
jīvataḥ ca antra-abhyuddhāraḥ śva-gṛdhraiḥ yama-sādane . sarpa-vṛścika-daṃśa-ādyaiḥ daśadbhiḥ ca ātma-vaiśasam .. 26 ..
कृन्तनं चावयवशो गजादिभ्यो भिदापनम् । पातनं गिरिशृङ्गेभ्यो रोधनं चाम्बुगर्तयोः ॥ २७ ॥
कृन्तनम् च अवयवशस् गज-आदिभ्यः भिदापनम् । पातनम् गिरि-शृङ्गेभ्यः रोधनम् च अम्बु-गर्तयोः ॥ २७ ॥
kṛntanam ca avayavaśas gaja-ādibhyaḥ bhidāpanam . pātanam giri-śṛṅgebhyaḥ rodhanam ca ambu-gartayoḥ .. 27 ..
यास्तामिस्रान्धतामिस्रा रौरवाद्याश्च यातनाः । भुङ्क्ते नरो वा नारी वा मिथः सङ्गेन निर्मिताः ॥ २८ ॥
याः तामिस्र-अन्धतामिस्राः रौरव-आद्याः च यातनाः । भुङ्क्ते नरः वा नारी वा मिथस् सङ्गेन निर्मिताः ॥ २८ ॥
yāḥ tāmisra-andhatāmisrāḥ raurava-ādyāḥ ca yātanāḥ . bhuṅkte naraḥ vā nārī vā mithas saṅgena nirmitāḥ .. 28 ..
अत्रैव नरकः स्वर्ग इति मातः प्रचक्षते । या यातना वै नारक्यः ता इहाप्युपलक्षिताः ॥ २९ ॥
अत्र एव नरकः स्वर्गः इति मा अतस् प्रचक्षते । याः यातनाः वै नारक्यः ताः इह अपि उपलक्षिताः ॥ २९ ॥
atra eva narakaḥ svargaḥ iti mā atas pracakṣate . yāḥ yātanāḥ vai nārakyaḥ tāḥ iha api upalakṣitāḥ .. 29 ..
एवं कुटुम्बं बिभ्राण उदरम्भर एव वा । विसृज्येहोभयं प्रेत्य भुङ्क्ते तत्फलमीदृशम् ॥ ३० ॥
एवम् कुटुम्बम् बिभ्राणः उदरम्भरः एव वा । विसृज्य इह उभयम् प्रेत्य भुङ्क्ते तद्-फलम् ईदृशम् ॥ ३० ॥
evam kuṭumbam bibhrāṇaḥ udarambharaḥ eva vā . visṛjya iha ubhayam pretya bhuṅkte tad-phalam īdṛśam .. 30 ..
एकः प्रपद्यते ध्वान्तं हित्वेदं स्वकलेवरम् । कुशलेतरपाथेयो भूतद्रोहेण यद् भृतम् ॥ ३१ ॥
एकः प्रपद्यते ध्वान्तम् हित्वा इदम् स्व-कलेवरम् । कुशल-इतर-पाथेयः भूत-द्रोहेण यत् भृतम् ॥ ३१ ॥
ekaḥ prapadyate dhvāntam hitvā idam sva-kalevaram . kuśala-itara-pātheyaḥ bhūta-droheṇa yat bhṛtam .. 31 ..
दैवेनासादितं तस्य शमलं निरये पुमान् । भुङ्क्ते कुटुम्बपोषस्य हृतवित्त इवातुरः ॥ ३२ ॥
दैवेन आसादितम् तस्य शमलम् निरये पुमान् । भुङ्क्ते कुटुम्ब-पोषस्य हृत-वित्तः इव आतुरः ॥ ३२ ॥
daivena āsāditam tasya śamalam niraye pumān . bhuṅkte kuṭumba-poṣasya hṛta-vittaḥ iva āturaḥ .. 32 ..
केवलेन हि अधर्मेण कुटुम्बभरणोत्सुकः । याति जीवोऽन्धतामिस्रं चरमं तमसः पदम् ॥ ३३ ॥
केवलेन हि अधर्मेण कुटुम्ब-भरण-उत्सुकः । याति जीवः अन्धतामिस्रम् चरमम् तमसः पदम् ॥ ३३ ॥
kevalena hi adharmeṇa kuṭumba-bharaṇa-utsukaḥ . yāti jīvaḥ andhatāmisram caramam tamasaḥ padam .. 33 ..
अधस्तात् नरलोकस्य यावतीर्यातनादयः । क्रमशः समनुक्रम्य पुनरत्राव्रजेच्छुचिः ॥ ३४ ॥
अधस्तात् नर-लोकस्य यावतीः यातना-आदयः । क्रमशस् समनुक्रम्य पुनर् अत्र आव्रजेत् शुचिः ॥ ३४ ॥
adhastāt nara-lokasya yāvatīḥ yātanā-ādayaḥ . kramaśas samanukramya punar atra āvrajet śuciḥ .. 34 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां तृतीयस्कन्धे त्रिंशोऽध्यायः ॥ ३० ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् तृतीय-स्कन्धे त्रिंशः अध्यायः ॥ ३० ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām tṛtīya-skandhe triṃśaḥ adhyāyaḥ .. 30 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In