| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

कर्मणा दैवनेत्रेण जन्तुर्देहोपपत्तये । स्त्रियाः प्रविष्ट उदरं पुंसो रेतःकणाश्रयः ॥ १ ॥
कर्मणा दैव-नेत्रेण जन्तुः देह-उपपत्तये । स्त्रियाः प्रविष्टः उदरम् पुंसः रेतः-कणा-आश्रयः ॥ १ ॥
karmaṇā daiva-netreṇa jantuḥ deha-upapattaye . striyāḥ praviṣṭaḥ udaram puṃsaḥ retaḥ-kaṇā-āśrayaḥ .. 1 ..
श्रीभगवानुवाच -
कललं त्वेकरात्रेण पञ्चरात्रेण बुद्बुदम् । दशाहेन तु कर्कन्धूः पेश्यण्डं वा ततः परम् ॥ २ ॥
कललम् तु एक-रात्रेण पञ्च-रात्रेण बुद्बुदम् । दश-अहेन तु कर्कन्धूः पेशी-अण्डम् वा ततस् परम् ॥ २ ॥
kalalam tu eka-rātreṇa pañca-rātreṇa budbudam . daśa-ahena tu karkandhūḥ peśī-aṇḍam vā tatas param .. 2 ..
मासेन तु शिरो द्वाभ्यां बाह्वङ्घ्र्याद्यङ्गविग्रहः । नखलोमास्थिचर्माणि लिङ्गच्छिद्रोद् भवस्त्रिभिः ॥ ३ ॥
मासेन तु शिरः द्वाभ्याम् बाहु-अङ्घ्रि-आदि-अङ्ग-विग्रहः । नख-लोम-अस्थि-चर्माणि लिङ्ग-छिद्रा उद् भवः त्रिभिः ॥ ३ ॥
māsena tu śiraḥ dvābhyām bāhu-aṅghri-ādi-aṅga-vigrahaḥ . nakha-loma-asthi-carmāṇi liṅga-chidrā ud bhavaḥ tribhiḥ .. 3 ..
चतुर्भिर्धातवः सप्त पञ्चभिः क्षुत्तृडुद्भवः । षड्भिर्जरायुणा वीतः कुक्षौ भ्राम्यति दक्षिणे ॥ ४ ॥
चतुर्भिः धातवः सप्त पञ्चभिः क्षुध्-तृष्-उद्भवः । षड्भिः जरायुणा वीतः कुक्षौ भ्राम्यति दक्षिणे ॥ ४ ॥
caturbhiḥ dhātavaḥ sapta pañcabhiḥ kṣudh-tṛṣ-udbhavaḥ . ṣaḍbhiḥ jarāyuṇā vītaḥ kukṣau bhrāmyati dakṣiṇe .. 4 ..
मातुर्जग्धान्नपानाद्यैः एधद् धातुरसम्मते । शेते विण्मूत्रयोर्गर्ते स जन्तुर्जन्तुसम्भवे ॥ ५ ॥
मातुः जग्ध-अन्न-पान-आद्यैः एधत् धातुः असम्मते । शेते विष्-मूत्रयोः गर्ते स जन्तुः जन्तु-सम्भवे ॥ ५ ॥
mātuḥ jagdha-anna-pāna-ādyaiḥ edhat dhātuḥ asammate . śete viṣ-mūtrayoḥ garte sa jantuḥ jantu-sambhave .. 5 ..
कृमिभिः क्षतसर्वाङ्गः सौकुमार्यात्प्रतिक्षणम् । मूर्च्छां आप्नोति उरुक्लेशः तत्रत्यैः क्षुधितैर्मुहुः ॥ ६ ॥
कृमिभिः क्षत-सर्व-अङ्गः सौकुमार्यात् प्रतिक्षणम् । मूर्च्छाम् आप्नोति उरु-क्लेशः तत्रत्यैः क्षुधितैः मुहुर् ॥ ६ ॥
kṛmibhiḥ kṣata-sarva-aṅgaḥ saukumāryāt pratikṣaṇam . mūrcchām āpnoti uru-kleśaḥ tatratyaiḥ kṣudhitaiḥ muhur .. 6 ..
कटुतीक्ष्णोष्णलवण रूक्षाम्लादिभिरुल्बणैः । मातृभुक्तैरुपस्पृष्टः सर्वाङ्गोत्थितवेदनः ॥ ७ ॥
कटु-तीक्ष्ण-उष्ण-लवण-रूक्ष-अम्ल-आदिभिः उल्बणैः । मातृ-भुक्तैः उपस्पृष्टः सर्व-अङ्ग-उत्थित-वेदनः ॥ ७ ॥
kaṭu-tīkṣṇa-uṣṇa-lavaṇa-rūkṣa-amla-ādibhiḥ ulbaṇaiḥ . mātṛ-bhuktaiḥ upaspṛṣṭaḥ sarva-aṅga-utthita-vedanaḥ .. 7 ..
उल्बेन संवृतस्तस्मिन् अन्त्रैश्च बहिरावृतः । आस्ते कृत्वा शिरः कुक्षौ भुग्नपृष्ठशिरोधरः ॥ ८ ॥
उल्बेन संवृतः तस्मिन् अन्त्रैः च बहिस् आवृतः । आस्ते कृत्वा शिरः कुक्षौ भुग्न-पृष्ठ-शिरोधरः ॥ ८ ॥
ulbena saṃvṛtaḥ tasmin antraiḥ ca bahis āvṛtaḥ . āste kṛtvā śiraḥ kukṣau bhugna-pṛṣṭha-śirodharaḥ .. 8 ..
अकल्पः स्वाङ्गचेष्टायां शकुन्त इव पञ्जरे । तत्र लब्धस्मृतिर्दैवात् कर्म जन्मशतोद्भवम् । स्मरन् दीर्घमनुच्छ्वासं शर्म किं नाम विन्दते ॥ ९ ॥
अकल्पः स्व-अङ्ग-चेष्टायाम् शकुन्तः इव पञ्जरे । तत्र लब्ध-स्मृतिः दैवात् कर्म जन्म-शत-उद्भवम् । स्मरन् दीर्घम् अनुच्छ्वासम् शर्म किम् नाम विन्दते ॥ ९ ॥
akalpaḥ sva-aṅga-ceṣṭāyām śakuntaḥ iva pañjare . tatra labdha-smṛtiḥ daivāt karma janma-śata-udbhavam . smaran dīrgham anucchvāsam śarma kim nāma vindate .. 9 ..
आरभ्य सप्तमान् मासात् लब्धबोधोऽपि वेपितः । नैकत्रास्ते सूतिवातैः विष्ठाभूरिव सोदरः ॥ १० ॥
आरभ्य सप्तमात् मासात् लब्ध-बोधः अपि वेपितः । न एकत्र आस्ते सूतिवातैः विष्ठा-भूः इव सोदरः ॥ १० ॥
ārabhya saptamāt māsāt labdha-bodhaḥ api vepitaḥ . na ekatra āste sūtivātaiḥ viṣṭhā-bhūḥ iva sodaraḥ .. 10 ..
नाथमान ऋषिर्भीतः सप्तवध्रिः कृताञ्जलिः । स्तुवीत तं विक्लवया वाचा येनोदरेऽर्पितः ॥ ११ ॥
नाथमानः ऋषिः भीतः सप्तवध्रिः कृताञ्जलिः । स्तुवीत तम् विक्लवया वाचा येन उदरे अर्पितः ॥ ११ ॥
nāthamānaḥ ṛṣiḥ bhītaḥ saptavadhriḥ kṛtāñjaliḥ . stuvīta tam viklavayā vācā yena udare arpitaḥ .. 11 ..
तस्योपसन्नमवितुं जगदिच्छयात्त नानातनोर्भुवि चलत् चरणारविन्दम् । सोऽहं व्रजामि शरणं ह्यकुतोभयं मे येनेदृशी गतिरदर्श्यसतोऽनुरूपा ॥ १२ ॥
तस्य उपसन्नम् अवितुम् जगत्-इच्छया आत्त नाना तनोः भुवि चलत् चरण-अरविन्दम् । सः अहम् व्रजामि शरणम् हि अकुतोभयम् मे येन ईदृशी गतिः अदर्श्य-सतः अनुरूपा ॥ १२ ॥
tasya upasannam avitum jagat-icchayā ātta nānā tanoḥ bhuvi calat caraṇa-aravindam . saḥ aham vrajāmi śaraṇam hi akutobhayam me yena īdṛśī gatiḥ adarśya-sataḥ anurūpā .. 12 ..
जन्तुरुवाच -
यस्त्वत्र बद्ध इव कर्मभिरावृतात्मा भूतेन्द्रियाशयमयीमवलम्ब्य मायाम् । आस्ते विशुद्धमविकारमखण्डबोधम् आतप्यमानहृदयेऽवसितं नमामि ॥ १३ ॥
यः तु अत्र बद्धः इव कर्मभिः आवृत-आत्मा भूत-इन्द्रिय-आशय-मयीम् अवलम्ब्य मायाम् । आस्ते विशुद्धम् अविकारम् अखण्ड-बोधम् आतप्यमान-हृदये अवसितम् नमामि ॥ १३ ॥
yaḥ tu atra baddhaḥ iva karmabhiḥ āvṛta-ātmā bhūta-indriya-āśaya-mayīm avalambya māyām . āste viśuddham avikāram akhaṇḍa-bodham ātapyamāna-hṛdaye avasitam namāmi .. 13 ..
यः पञ्चभूतरचिते रहितः शरीरे छन्नोऽयथेन्द्रियगुणार्थचिदात्मकोऽहम् । तेनाविकुण्ठमहिमानमृषिं तमेनं वन्दे परं प्रकृतिपूरुषयोः पुमांसम् ॥ १४ ॥
यः पञ्चभूत-रचिते रहितः शरीरे छन्नः अयथा इन्द्रिय-गुण-अर्थ-चित्-आत्मकः अहम् । तेन अविकुण्ठ-महिमानम् ऋषिम् तम् एनम् वन्दे परम् प्रकृति-पूरुषयोः पुमांसम् ॥ १४ ॥
yaḥ pañcabhūta-racite rahitaḥ śarīre channaḥ ayathā indriya-guṇa-artha-cit-ātmakaḥ aham . tena avikuṇṭha-mahimānam ṛṣim tam enam vande param prakṛti-pūruṣayoḥ pumāṃsam .. 14 ..
यन्माययोरुगुणकर्म निबन्धनेऽस्मिन् सांसारिके पथि चरन् तदभिश्रमेण । नष्टस्मृतिः पुनरयं प्रवृणीत लोकं युक्त्या कया महदनुग्रहमन्तरेण ॥ १५ ॥
यत् मायया उरु-गुण-कर्म निबन्धने अस्मिन् सांसारिके पथि चरन् तद्-अभिश्रमेण । नष्ट-स्मृतिः पुनर् अयम् प्रवृणीत लोकम् युक्त्या कया महत्-अनुग्रहम् अन्तरेण ॥ १५ ॥
yat māyayā uru-guṇa-karma nibandhane asmin sāṃsārike pathi caran tad-abhiśrameṇa . naṣṭa-smṛtiḥ punar ayam pravṛṇīta lokam yuktyā kayā mahat-anugraham antareṇa .. 15 ..
ज्ञानं यदेतद् अदधात्कतमः स देवः त्रैकालिकं स्थिरचरेष्वनुवर्तितांशः । तं जीवकर्मपदवीं अनुवर्तमानाः तापत्रयोपशमनाय वयं भजेम ॥ १६ ॥
ज्ञानम् यत् एतत् अदधात् कतमः स देवः त्रैकालिकम् स्थिर-चरेषु अनुवर्तित-अंशः । तम् जीव-कर्म-पदवीम् अनुवर्तमानाः ताप-त्रय-उपशमनाय वयम् भजेम ॥ १६ ॥
jñānam yat etat adadhāt katamaḥ sa devaḥ traikālikam sthira-careṣu anuvartita-aṃśaḥ . tam jīva-karma-padavīm anuvartamānāḥ tāpa-traya-upaśamanāya vayam bhajema .. 16 ..
देह्यन्यदेहविवरे जठराग्निनासृग् विण्मूत्रकूपपतितो भृशतप्तदेहः । इच्छन्नितो विवसितुं गणयन् स्वमासान् निर्वास्यते कृपणधीर्भगवन् कदा नु ॥ १७ ॥
देही अन्य-देह-विवरे जठर-अग्निना असृक् विष्-मूत्र-कूप-पतितः भृश-तप्त-देहः । इच्छन् इतस् विवसितुम् गणयन् स्व-मासान् निर्वास्यते कृपण-धीः भगवन् कदा नु ॥ १७ ॥
dehī anya-deha-vivare jaṭhara-agninā asṛk viṣ-mūtra-kūpa-patitaḥ bhṛśa-tapta-dehaḥ . icchan itas vivasitum gaṇayan sva-māsān nirvāsyate kṛpaṇa-dhīḥ bhagavan kadā nu .. 17 ..
येनेदृशीं गतिमसौ दशमास्य ईश सङ्ग्राहितः पुरुदयेन भवादृशेन । स्वेनैव तुष्यतु कृतेन स दीननाथः को नाम तत्प्रति विनाञ्जलिमस्य कुर्यात् ॥ १८ ॥
येन ईदृशीम् गतिम् असौ दशमास्ये ईश सङ्ग्राहितः पुरुदयेन भवादृशेन । स्वेन एव तुष्यतु कृतेन स दीन-नाथः कः नाम तत् प्रति विना अञ्जलिम् अस्य कुर्यात् ॥ १८ ॥
yena īdṛśīm gatim asau daśamāsye īśa saṅgrāhitaḥ purudayena bhavādṛśena . svena eva tuṣyatu kṛtena sa dīna-nāthaḥ kaḥ nāma tat prati vinā añjalim asya kuryāt .. 18 ..
पश्यत्ययं धिषणया ननु सप्तवध्रिः शारीरके दमशरीर्यपरः स्वदेहे । यत्सृष्टयाऽऽसं तमहं पुरुषं पुराणं पश्ये बहिर्हृदि च चैत्यमिव प्रतीतम् ॥ १९ ॥
पश्यति अयम् धिषणया ननु सप्तवध्रिः शारीरके दम-शरीर्य-परः स्व-देहे । यद्-सृष्टया आसम् तम् अहम् पुरुषम् पुराणम् पश्ये बहिस् हृदि च चैत्यम् इव प्रतीतम् ॥ १९ ॥
paśyati ayam dhiṣaṇayā nanu saptavadhriḥ śārīrake dama-śarīrya-paraḥ sva-dehe . yad-sṛṣṭayā āsam tam aham puruṣam purāṇam paśye bahis hṛdi ca caityam iva pratītam .. 19 ..
सोऽहं वसन्नपि विभो बहुदुःखवासं गर्भान्न निर्जिगमिषे बहिरन्धकूपे । यत्रोपयातमुपसर्पति देवमाया मिथ्या मतिर्यदनु संसृतिचक्रमेतत् ॥ २० ॥
सः अहम् वसन् अपि विभो बहु-दुःख-वासम् गर्भात् न निर्जिगमिषे बहिस् अन्धकूपे । यत्र उपयातम् उपसर्पति देव-माया मिथ्या मतिः यत् अनु संसृति-चक्रम् एतत् ॥ २० ॥
saḥ aham vasan api vibho bahu-duḥkha-vāsam garbhāt na nirjigamiṣe bahis andhakūpe . yatra upayātam upasarpati deva-māyā mithyā matiḥ yat anu saṃsṛti-cakram etat .. 20 ..
तस्मादहं विगतविक्लव उद्धरिष्य आत्मानमाशु तमसः सुहृदाऽऽत्मनैव । भूयो यथा व्यसनमेतदनेकरन्ध्रं मा मे भविष्यदुपसादितविष्णुपादः ॥ २१ ॥
तस्मात् अहम् विगत-विक्लवः उद्धरिष्ये आत्मानम् आशु तमसः सुहृदा आत्मना एव । भूयस् यथा व्यसनम् एतत् अनेक-रन्ध्रम् मा मे भविष्यत्-उपसादित-विष्णु-पादः ॥ २१ ॥
tasmāt aham vigata-viklavaḥ uddhariṣye ātmānam āśu tamasaḥ suhṛdā ātmanā eva . bhūyas yathā vyasanam etat aneka-randhram mā me bhaviṣyat-upasādita-viṣṇu-pādaḥ .. 21 ..
एवं कृतमतिर्गर्भे दशमास्यः स्तुवन्नृषिः । सद्यः क्षिपत्यवाचीनं प्रसूत्यै सूतिमारुतः ॥ २२ ॥
एवम् कृतमतिः गर्भे दशमास्यः स्तुवन् ऋषिः । सद्यस् क्षिपति अवाचीनम् प्रसूत्यै सूतिमारुतः ॥ २२ ॥
evam kṛtamatiḥ garbhe daśamāsyaḥ stuvan ṛṣiḥ . sadyas kṣipati avācīnam prasūtyai sūtimārutaḥ .. 22 ..
कपिल उवाच - (अनुष्टुप्)
तेनावसृष्टः सहसा कृत्वावाक् शिर आतुरः । विनिष्क्रामति कृच्छ्रेण निरुच्छ्वासो हतस्मृतिः ॥ २३ ॥
तेन अवसृष्टः सहसा कृत्वा अवाक् शिरः आतुरः । विनिष्क्रामति कृच्छ्रेण निरुच्छ्वासः हत-स्मृतिः ॥ २३ ॥
tena avasṛṣṭaḥ sahasā kṛtvā avāk śiraḥ āturaḥ . viniṣkrāmati kṛcchreṇa nirucchvāsaḥ hata-smṛtiḥ .. 23 ..
पतितो भुव्यसृङ्मूत्रे विष्ठाभूरिव चेष्टते । रोरूयति गते ज्ञाने विपरीतां गतिं गतः ॥ २४ ॥
पतितः भुवि असृज्-मूत्रे विष्ठा-भूः इव चेष्टते । रोरूयति गते ज्ञाने विपरीताम् गतिम् गतः ॥ २४ ॥
patitaḥ bhuvi asṛj-mūtre viṣṭhā-bhūḥ iva ceṣṭate . rorūyati gate jñāne viparītām gatim gataḥ .. 24 ..
परच्छन्दं न विदुषा पुष्यमाणो जनेन सः । अनभिप्रेतमापन्नः प्रत्याख्यातुमनीश्वरः ॥ २५ ॥
पर-छन्दम् न विदुषा पुष्यमाणः जनेन सः । अनभिप्रेतम् आपन्नः प्रत्याख्यातुम् अनीश्वरः ॥ २५ ॥
para-chandam na viduṣā puṣyamāṇaḥ janena saḥ . anabhipretam āpannaḥ pratyākhyātum anīśvaraḥ .. 25 ..
शायितोऽशुचिपर्यङ्के जन्तुः स्वेदजदूषिते । नेशः कण्डूयनेऽङ्गानां आसनोत्थानचेष्टने ॥ २६ ॥
शायितः अशुचि-पर्यङ्के जन्तुः स्वेद-ज-दूषिते । न ईशः कण्डूयने अङ्गानाम् आसन-उत्थान-चेष्टने ॥ २६ ॥
śāyitaḥ aśuci-paryaṅke jantuḥ sveda-ja-dūṣite . na īśaḥ kaṇḍūyane aṅgānām āsana-utthāna-ceṣṭane .. 26 ..
तुदन्त्यामत्वचं दंशा मशका मत्कुणादयः । रुदन्तं विगतज्ञानं कृमयः कृमिकं यथा ॥ २७ ॥
तुदन्ति आम-त्वचम् दंशाः मशकाः मत्कुण-आदयः । रुदन्तम् विगत-ज्ञानम् कृमयः कृमिकम् यथा ॥ २७ ॥
tudanti āma-tvacam daṃśāḥ maśakāḥ matkuṇa-ādayaḥ . rudantam vigata-jñānam kṛmayaḥ kṛmikam yathā .. 27 ..
इत्येवं शैशवं भुक्त्वा दुःखं पौगण्डमेव च । अलब्धाभीप्सितोऽज्ञानाद् इद्धमन्युः शुचार्पितः ॥ २८ ॥
इति एवम् शैशवम् भुक्त्वा दुःखम् पौगण्डम् एव च । अलब्ध-अभीप्सितः अज्ञानात् इद्ध-मन्युः शुचा अर्पितः ॥ २८ ॥
iti evam śaiśavam bhuktvā duḥkham paugaṇḍam eva ca . alabdha-abhīpsitaḥ ajñānāt iddha-manyuḥ śucā arpitaḥ .. 28 ..
सह देहेन मानेन वर्धमानेन मन्युना । करोति विग्रहं कामी कामिष्वन्ताय चात्मनः ॥ २९ ॥
सह देहेन मानेन वर्धमानेन मन्युना । करोति विग्रहम् कामी कामिषु अन्ताय च आत्मनः ॥ २९ ॥
saha dehena mānena vardhamānena manyunā . karoti vigraham kāmī kāmiṣu antāya ca ātmanaḥ .. 29 ..
भूतैः पञ्चभिरारब्धे देहे देह्यबुधोऽसकृत् । अहं ममेत्यसद्ग्राहः करोति कुमतिर्मतिम् ॥ ३० ॥
भूतैः पञ्चभिः आरब्धे देहे देही अबुधः असकृत् । अहम् मम इति असत्-ग्राहः करोति कुमतिः मतिम् ॥ ३० ॥
bhūtaiḥ pañcabhiḥ ārabdhe dehe dehī abudhaḥ asakṛt . aham mama iti asat-grāhaḥ karoti kumatiḥ matim .. 30 ..
तदर्थं कुरुते कर्म यद्बद्धो याति संसृतिम् । योऽनुयाति ददत्क्लेशं अविद्याकर्मबन्धनः ॥ ३१ ॥
तद्-अर्थम् कुरुते कर्म यत् बद्धः याति संसृतिम् । यः अनुयाति ददत् क्लेशम् अविद्या-कर्म-बन्धनः ॥ ३१ ॥
tad-artham kurute karma yat baddhaḥ yāti saṃsṛtim . yaḥ anuyāti dadat kleśam avidyā-karma-bandhanaḥ .. 31 ..
यद्यसद्भि पथि पुनः शिश्नोदरकृतोद्यमैः । आस्थितो रमते जन्तुः तमो विशति पूर्ववत् ॥ ३२ ॥
पथि पुनर् शिश्न-उदर-कृत-उद्यमैः । आस्थितः रमते जन्तुः तमः विशति पूर्ववत् ॥ ३२ ॥
pathi punar śiśna-udara-kṛta-udyamaiḥ . āsthitaḥ ramate jantuḥ tamaḥ viśati pūrvavat .. 32 ..
सत्यं शौचं दया मौनं बुद्धिः श्रीर्ह्रीर्यशः क्षमा । शमो दमो भगश्चेति यत्सङ्गाद्याति सङ्क्षयम् ॥ ३३ ॥
सत्यम् शौचम् दया मौनम् बुद्धिः श्रीः ह्रीः यशः क्षमा । शमः दमः भगः च इति यत् सङ्गात् याति सङ्क्षयम् ॥ ३३ ॥
satyam śaucam dayā maunam buddhiḥ śrīḥ hrīḥ yaśaḥ kṣamā . śamaḥ damaḥ bhagaḥ ca iti yat saṅgāt yāti saṅkṣayam .. 33 ..
तेष्वशान्तेषु मूढेषु खण्डितात्मस्वसाधुषु । सङ्गं न कुर्याच्छोच्येषु योषित् क्रीडामृगेषु च ॥ ३४ ॥
तेषु अशान्तेषु मूढेषु खण्डित-आत्मसु असाधुषु । सङ्गम् न कुर्यात् शोच्येषु योषित् क्रीडामृगेषु च ॥ ३४ ॥
teṣu aśānteṣu mūḍheṣu khaṇḍita-ātmasu asādhuṣu . saṅgam na kuryāt śocyeṣu yoṣit krīḍāmṛgeṣu ca .. 34 ..
न तथास्य भवेन्मोहो बन्धश्चान्यप्रसङ्गतः । योषित्सङ्गात् यथा पुंसो यथा तत्सङ्गिसङ्गतः ॥ ३५ ॥
न तथा अस्य भवेत् मोहः बन्धः च अन्य-प्रसङ्गतः । योषित्-सङ्गात् यथा पुंसः यथा तद्-सङ्गि-सङ्गतः ॥ ३५ ॥
na tathā asya bhavet mohaḥ bandhaḥ ca anya-prasaṅgataḥ . yoṣit-saṅgāt yathā puṃsaḥ yathā tad-saṅgi-saṅgataḥ .. 35 ..
प्रजापतिः स्वां दुहितरं दृष्ट्वा तद् रूपधर्षितः । रोहिद्भूतां सोऽन्वधावद् ऋक्षरूपी हतत्रपः ॥ ३६ ॥
प्रजापतिः स्वाम् दुहितरम् दृष्ट्वा तत् रूप-धर्षितः । रोहित्-भूताम् सः अन्वधावत् ऋक्ष-रूपी हत-त्रपः ॥ ३६ ॥
prajāpatiḥ svām duhitaram dṛṣṭvā tat rūpa-dharṣitaḥ . rohit-bhūtām saḥ anvadhāvat ṛkṣa-rūpī hata-trapaḥ .. 36 ..
तत्सृष्टसृष्टसृष्टेषु को न्वखण्डितधीः पुमान् । ऋषिं नारायणमृते योषिन् मय्येह मायया ॥ ३७ ॥
तद्-सृष्ट-सृष्ट-सृष्टेषु कः नु अखण्डित-धीः पुमान् । ऋषिम् नारायणम् ऋते योषित् मयि आ इह मायया ॥ ३७ ॥
tad-sṛṣṭa-sṛṣṭa-sṛṣṭeṣu kaḥ nu akhaṇḍita-dhīḥ pumān . ṛṣim nārāyaṇam ṛte yoṣit mayi ā iha māyayā .. 37 ..
बलं मे पश्य मायायाः स्त्रीमय्या जयिनो दिशाम् । या करोति पदाक्रान्तान् भ्रूविजृम्भेण केवलम् ॥ ३८ ॥
बलम् मे पश्य मायायाः स्त्री-मय्याः जयिनः दिशाम् । या करोति पद-आक्रान्तान् भ्रू-विजृम्भेण केवलम् ॥ ३८ ॥
balam me paśya māyāyāḥ strī-mayyāḥ jayinaḥ diśām . yā karoti pada-ākrāntān bhrū-vijṛmbheṇa kevalam .. 38 ..
सङ्गं न कुर्यात्प्रमदासु जातु योगस्य पारं परमारुरुक्षुः । मत्सेवया प्रतिलब्धात्मलाभो वदन्ति या निरयद्वारमस्य ॥ ३९ ॥
सङ्गम् न कुर्यात् प्रमदासु जातु योगस्य पारम् परम् आरुरुक्षुः । मद्-सेवया प्रतिलब्ध-आत्मलाभः वदन्ति याः निरय-द्वारम् अस्य ॥ ३९ ॥
saṅgam na kuryāt pramadāsu jātu yogasya pāram param ārurukṣuḥ . mad-sevayā pratilabdha-ātmalābhaḥ vadanti yāḥ niraya-dvāram asya .. 39 ..
योपयाति शनैर्माया योषिद् देवविनिर्मिता । तामीक्षेतात्मनो मृत्युं तृणैः कूपमिवावृतम् ॥ ४० ॥
या उपयाति शनैस् माया योषित् देव-विनिर्मिता । ताम् ईक्षेत आत्मनः मृत्युम् तृणैः कूपम् इव आवृतम् ॥ ४० ॥
yā upayāti śanais māyā yoṣit deva-vinirmitā . tām īkṣeta ātmanaḥ mṛtyum tṛṇaiḥ kūpam iva āvṛtam .. 40 ..
यां मन्यते पतिं मोहान् मन्मायामृषभायतीम् । स्त्रीत्वं स्त्रीसङ्गतः प्राप्तो वित्तापत्यगृहप्रदम् ॥ ४१ ॥
याम् मन्यते पतिम् मोहात् मद्-मायाम् ऋषभायतीम् । स्त्री-त्वम् स्त्री-सङ्गतः प्राप्तः वित्त-अपत्य-गृह-प्रदम् ॥ ४१ ॥
yām manyate patim mohāt mad-māyām ṛṣabhāyatīm . strī-tvam strī-saṅgataḥ prāptaḥ vitta-apatya-gṛha-pradam .. 41 ..
तां आत्मनो विजानीयात् पत्यपत्यगृहात्मकम् । दैवोपसादितं मृत्युं मृगयोर्गायनं यथा ॥ ४२ ॥
ताम् आत्मनः विजानीयात् पति-अपत्य-गृह-आत्मकम् । दैव-उपसादितम् मृत्युम् मृगयोः गायनम् यथा ॥ ४२ ॥
tām ātmanaḥ vijānīyāt pati-apatya-gṛha-ātmakam . daiva-upasāditam mṛtyum mṛgayoḥ gāyanam yathā .. 42 ..
देहेन जीवभूतेन लोकात् लोकमनुव्रजन् । भुञ्जान एव कर्माणि करोत्यविरतं पुमान् ॥ ४३ ॥
देहेन जीव-भूतेन लोकात् लोकम् अनुव्रजन् । भुञ्जानः एव कर्माणि करोति अविरतम् पुमान् ॥ ४३ ॥
dehena jīva-bhūtena lokāt lokam anuvrajan . bhuñjānaḥ eva karmāṇi karoti aviratam pumān .. 43 ..
जीवो ह्यस्यानुगो देहो भूतेन्द्रियमनोमयः । तन्निरोधोऽस्य मरणं आविर्भावस्तु सम्भवः ॥ ४४ ॥
जीवः हि अस्य अनुगः देहः भूत-इन्द्रिय-मनः-मयः । तद्-निरोधः अस्य मरणम् आविर्भावः तु सम्भवः ॥ ४४ ॥
jīvaḥ hi asya anugaḥ dehaḥ bhūta-indriya-manaḥ-mayaḥ . tad-nirodhaḥ asya maraṇam āvirbhāvaḥ tu sambhavaḥ .. 44 ..
द्रव्योपलब्धिस्थानस्य द्रव्येक्षायोग्यता यदा । तत्पञ्चत्वं अहंमानाद् उत्पत्तिर्द्रव्यदर्शनम् ॥ ४५ ॥
द्रव्य-उपलब्धि-स्थानस्य द्रव्य-ईक्षा-योग्य-ता यदा । तत् पञ्चत्वम् अहंमानात् उत्पत्तिः द्रव्य-दर्शनम् ॥ ४५ ॥
dravya-upalabdhi-sthānasya dravya-īkṣā-yogya-tā yadā . tat pañcatvam ahaṃmānāt utpattiḥ dravya-darśanam .. 45 ..
यथाक्ष्णोर्द्रव्यावयव दर्शनायोग्यता यदा । तदैव चक्षुषो द्रष्टुः द्रष्टृत्वायोग्यतानयोः ॥ ४६ ॥
यथा अक्ष्णोः द्रव्य-अवयव दर्शन-अयोग्य-ता यदा । तदा एव चक्षुषः द्रष्टुः द्रष्टृ-त्व-अयोग्य-ता अनयोः ॥ ४६ ॥
yathā akṣṇoḥ dravya-avayava darśana-ayogya-tā yadā . tadā eva cakṣuṣaḥ draṣṭuḥ draṣṭṛ-tva-ayogya-tā anayoḥ .. 46 ..
तस्मान्न कार्यः सन्त्रासो न कार्पण्यं न सम्भ्रमः । बुद्ध्वा जीवगतिं धीरो मुक्तसङ्गश्चरेदिह ॥ ४७ ॥
तस्मात् न कार्यः सन्त्रासः न कार्पण्यम् न सम्भ्रमः । बुद्ध्वा जीव-गतिम् धीरः मुक्त-सङ्गः चरेत् इह ॥ ४७ ॥
tasmāt na kāryaḥ santrāsaḥ na kārpaṇyam na sambhramaḥ . buddhvā jīva-gatim dhīraḥ mukta-saṅgaḥ caret iha .. 47 ..
सम्यग्दर्शनया बुद्ध्या योगवैराग्ययुक्तया । मायाविरचिते लोके चरेन्न्यस्य कलेवरम् ॥ ४८ ॥
सम्यक् दर्शनया बुद्ध्या योग-वैराग्य-युक्तया । माया-विरचिते लोके चरेत् न्यस्य कलेवरम् ॥ ४८ ॥
samyak darśanayā buddhyā yoga-vairāgya-yuktayā . māyā-viracite loke caret nyasya kalevaram .. 48 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां तृतीयस्कन्धे कपिलेयोपाख्याने जीवगतिर्नाम एकयस्त्रिंशोऽध्यायः ॥ ३१ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् तृतीय-स्कन्धे कपिलेयोपाख्याने जीवगतिः नाम एकयस्त्रिंशः अध्यायः ॥ ३१ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām tṛtīya-skandhe kapileyopākhyāne jīvagatiḥ nāma ekayastriṃśaḥ adhyāyaḥ .. 31 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In