| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

मातुः कुक्षौ प्रविष्टस्य जीवस्य देहप्राप्तिवर्णनं गर्भस्थजीवकृता भगवत्स्तुतिः,जीवस्य बाल्यादि अवस्था क्लेशवर्णनं च -
मातुः कुक्षौ प्रविष्टस्य जीवस्य देह-प्राप्ति-वर्णनम् गर्भ-स्थ-जीव-कृता भगवत्-स्तुतिः,जीवस्य बाल्य-आदि अवस्था क्लेश-वर्णनम् च
mātuḥ kukṣau praviṣṭasya jīvasya deha-prāpti-varṇanam garbha-stha-jīva-kṛtā bhagavat-stutiḥ,jīvasya bālya-ādi avasthā kleśa-varṇanam ca
अथ यो गृहमेधीयान् धर्मानेवावसन्गृहे । काममर्थं च धर्मान् स्वान् दोग्धि भूयः पिपर्ति तान् ॥ १ ॥
अथ यः गृहमेधीयान् धर्मान् एव अवसन् गृहे । कामम् अर्थम् च धर्मान् स्वान् दोग्धि भूयस् पिपर्ति तान् ॥ १ ॥
atha yaḥ gṛhamedhīyān dharmān eva avasan gṛhe . kāmam artham ca dharmān svān dogdhi bhūyas piparti tān .. 1 ..
कपिल उवाच -
स चापि भगवद्धर्मात् काममूढः पराङ्मुखः । यजते क्रतुभिर्देवान् पितॄंश्च श्रद्धयान्वितः ॥ २ ॥
स च अपि भगवत्-धर्मात् काम-मूढः पराङ्मुखः । यजते क्रतुभिः देवान् पितॄन् च श्रद्धया अन्वितः ॥ २ ॥
sa ca api bhagavat-dharmāt kāma-mūḍhaḥ parāṅmukhaḥ . yajate kratubhiḥ devān pitṝn ca śraddhayā anvitaḥ .. 2 ..
तत् श्रद्धया क्रान्तमतिः पितृदेवव्रतः पुमान् । गत्वा चान्द्रमसं लोकं सोमपाः पुनरेष्यति ॥ ३ ॥
तत् श्रद्धया क्रान्तमतिः पितृ-देव-व्रतः पुमान् । गत्वा चान्द्रमसम् लोकम् सोमपाः पुनर् एष्यति ॥ ३ ॥
tat śraddhayā krāntamatiḥ pitṛ-deva-vrataḥ pumān . gatvā cāndramasam lokam somapāḥ punar eṣyati .. 3 ..
यदा चाहीन्द्रशय्यायां शेतेऽनन्तासनो हरिः । तदा लोका लयं यान्ति ते एते गृहमेधिनाम् ॥ ४ ॥
यदा च अहि-इन्द्र-शय्यायाम् शेते अनन्त-आसनः हरिः । तदा लोकाः लयम् यान्ति ते एते गृहमेधिनाम् ॥ ४ ॥
yadā ca ahi-indra-śayyāyām śete ananta-āsanaḥ hariḥ . tadā lokāḥ layam yānti te ete gṛhamedhinām .. 4 ..
ये स्वधर्मान्न दुह्यन्ति धीराः कामार्थहेतवे । निःसङ्गा न्यस्तकर्माणः प्रशान्ताः शुद्धचेतसः ॥ ५ ॥
ये स्वधर्मान् न दुह्यन्ति धीराः काम-अर्थ-हेतवे । निःसङ्गाः न्यस्त-कर्माणः प्रशान्ताः शुद्ध-चेतसः ॥ ५ ॥
ye svadharmān na duhyanti dhīrāḥ kāma-artha-hetave . niḥsaṅgāḥ nyasta-karmāṇaḥ praśāntāḥ śuddha-cetasaḥ .. 5 ..
निवृत्तिधर्मनिरता निर्ममा निरहङ्कृताः । स्वधर्माप्तेन सत्त्वेन परिशुद्धेन चेतसा ॥ ६ ॥
निवृत्ति-धर्म-निरताः निर्ममाः निरहङ्कृताः । स्वधर्म-आप्तेन सत्त्वेन परिशुद्धेन चेतसा ॥ ६ ॥
nivṛtti-dharma-niratāḥ nirmamāḥ nirahaṅkṛtāḥ . svadharma-āptena sattvena pariśuddhena cetasā .. 6 ..
सूर्यद्वारेण ते यान्ति पुरुषं विश्वतोमुखम् । परावरेशं प्रकृतिं अस्योत्पत्त्यन्तभावनम् ॥ ७ ॥
सूर्य-द्वारेण ते यान्ति पुरुषम् विश्वतोमुखम् । परावर-ईशम् प्रकृतिम् अस्य उत्पत्ति-अन्त-भावनम् ॥ ७ ॥
sūrya-dvāreṇa te yānti puruṣam viśvatomukham . parāvara-īśam prakṛtim asya utpatti-anta-bhāvanam .. 7 ..
द्विपरार्धावसाने यः प्रलयो ब्रह्मणस्तु ते । तावद् अध्यासते लोकं परस्य परचिन्तकाः ॥ ८ ॥
द्वि-परार्ध-अवसाने यः प्रलयः ब्रह्मणः तु ते । तावत् अध्यासते लोकम् परस्य पर-चिन्तकाः ॥ ८ ॥
dvi-parārdha-avasāne yaḥ pralayaḥ brahmaṇaḥ tu te . tāvat adhyāsate lokam parasya para-cintakāḥ .. 8 ..
क्ष्माम्भोऽनलानिलवियन् मनैन्द्रियार्थ भूतादिभिः परिवृतं प्रतिसञ्जिहीर्षुः । अव्याकृतं विशति यर्हि गुणत्रयात्मा कालं पराख्यमनुभूय परः स्वयम्भूः ॥ ९ ॥
क्ष्मा-अम्भः-अनल-अनिल-वियत् भूत-आदिभिः परिवृतम् प्रतिसञ्जिहीर्षुः । अव्याकृतम् विशति यर्हि गुण-त्रय-आत्मा कालम् पर-आख्यम् अनुभूय परः ॥ ९ ॥
kṣmā-ambhaḥ-anala-anila-viyat bhūta-ādibhiḥ parivṛtam pratisañjihīrṣuḥ . avyākṛtam viśati yarhi guṇa-traya-ātmā kālam para-ākhyam anubhūya paraḥ .. 9 ..
एवं परेत्य भगवन्तमनुप्रविष्टा ये योगिनो जितमरुन्मनसो विरागाः । तेनैव साकममृतं पुरुषं पुराणं ब्रह्म प्रधानमुपयान्ति अगताभिमानाः ॥ १० ॥
एवम् परेत्य भगवन्तम् अनुप्रविष्टाः ये योगिनः जित-मरुत्-मनसः विरागाः । तेन एव साकम् अमृतम् पुरुषम् पुराणम् ब्रह्म प्रधानम् उपयान्ति अगत-अभिमानाः ॥ १० ॥
evam paretya bhagavantam anupraviṣṭāḥ ye yoginaḥ jita-marut-manasaḥ virāgāḥ . tena eva sākam amṛtam puruṣam purāṇam brahma pradhānam upayānti agata-abhimānāḥ .. 10 ..
अथ तं सर्वभूतानां हृत्पद्मेषु कृतालयम् । श्रुतानुभावं शरणं व्रज भावेन भामिनि ॥ ११ ॥
अथ तम् सर्व-भूतानाम् हृद्-पद्मेषु कृत-आलयम् । श्रुत-अनुभावम् शरणम् व्रज भावेन भामिनि ॥ ११ ॥
atha tam sarva-bhūtānām hṛd-padmeṣu kṛta-ālayam . śruta-anubhāvam śaraṇam vraja bhāvena bhāmini .. 11 ..
(अनुष्टुप्)
आद्यः स्थिरचराणां यो वेदगर्भः सहर्षिभिः । योगेश्वरैः कुमाराद्यैः सिद्धैर्योगप्रवर्तकैः ॥ १२ ॥
आद्यः स्थिर-चराणाम् यः वेद-गर्भः सह ऋषिभिः । योग-ईश्वरैः कुमार-आद्यैः सिद्धैः योग-प्रवर्तकैः ॥ १२ ॥
ādyaḥ sthira-carāṇām yaḥ veda-garbhaḥ saha ṛṣibhiḥ . yoga-īśvaraiḥ kumāra-ādyaiḥ siddhaiḥ yoga-pravartakaiḥ .. 12 ..
भेददृष्ट्याभिमानेन निःसङ्गेनापि कर्मणा । कर्तृत्वात्सगुणं ब्रह्म पुरुषं पुरुषर्षभम् ॥ १३ ॥
भेद-दृष्ट्या अभिमानेन निःसङ्गेन अपि कर्मणा । कर्तृ-त्वात् स गुणम् ब्रह्म पुरुषम् पुरुष-ऋषभम् ॥ १३ ॥
bheda-dṛṣṭyā abhimānena niḥsaṅgena api karmaṇā . kartṛ-tvāt sa guṇam brahma puruṣam puruṣa-ṛṣabham .. 13 ..
स संसृत्य पुनः काले कालेनेश्वरमूर्तिना । जाते गुणव्यतिकरे यथापूर्वं प्रजायते ॥ १४ ॥
स संसृत्य पुनर् काले कालेन ईश्वर-मूर्तिना । जाते गुण-व्यतिकरे यथापूर्वम् प्रजायते ॥ १४ ॥
sa saṃsṛtya punar kāle kālena īśvara-mūrtinā . jāte guṇa-vyatikare yathāpūrvam prajāyate .. 14 ..
ऐश्वर्यं पारमेष्ठ्यं च तेऽपि धर्मविनिर्मितम् । निषेव्य पुनरायान्ति गुणव्यतिकरे सति ॥ १५ ॥
ऐश्वर्यम् पारमेष्ठ्यम् च ते अपि धर्म-विनिर्मितम् । निषेव्य पुनर् आयान्ति गुण-व्यतिकरे सति ॥ १५ ॥
aiśvaryam pārameṣṭhyam ca te api dharma-vinirmitam . niṣevya punar āyānti guṇa-vyatikare sati .. 15 ..
ये त्विहासक्तमनसः कर्मसु श्रद्धयान्विताः । कुर्वन्ति अप्रतिषिद्धानि नित्यान्यपि च कृत्स्नशः ॥ १६ ॥
ये तु इह आसक्त-मनसः कर्मसु श्रद्धया अन्विताः । कुर्वन्ति अ प्रतिषिद्धानि नित्यानि अपि च कृत्स्नशस् ॥ १६ ॥
ye tu iha āsakta-manasaḥ karmasu śraddhayā anvitāḥ . kurvanti a pratiṣiddhāni nityāni api ca kṛtsnaśas .. 16 ..
रजसा कुण्ठमनसः कामात्मानोऽजितेन्द्रियाः । पितॄन् यजन्ति अनुदिनं गृहेष्वभिरताशयाः ॥ १७ ॥
रजसा कुण्ठमनसः काम-आत्मानः अजित-इन्द्रियाः । पितॄन् यजन्ति अनुदिनम् गृहेषु अभिरत-आशयाः ॥ १७ ॥
rajasā kuṇṭhamanasaḥ kāma-ātmānaḥ ajita-indriyāḥ . pitṝn yajanti anudinam gṛheṣu abhirata-āśayāḥ .. 17 ..
त्रैवर्गिकास्ते पुरुषा विमुखा हरिमेधसः । कथायां कथनीयोरुविक्रमस्य मधुद्विषः ॥ १८ ॥
त्रैवर्गिकाः ते पुरुषाः विमुखाः हरिमेधसः । कथायाम् कथनीय-उरु-विक्रमस्य मधुद्विषः ॥ १८ ॥
traivargikāḥ te puruṣāḥ vimukhāḥ harimedhasaḥ . kathāyām kathanīya-uru-vikramasya madhudviṣaḥ .. 18 ..
नूनं दैवेन विहता ये चाच्युतकथासुधाम् । हित्वा शृण्वन्ति असद्गाथाः पुरीषमिव विड्भुजः ॥ १९ ॥
नूनम् दैवेन विहताः ये च अच्युत-कथा-सुधाम् । हित्वा शृण्वन्ति असत्-गाथाः पुरीषम् इव विड्भुजः ॥ १९ ॥
nūnam daivena vihatāḥ ye ca acyuta-kathā-sudhām . hitvā śṛṇvanti asat-gāthāḥ purīṣam iva viḍbhujaḥ .. 19 ..
दक्षिणेन पथार्यम्णः पितृलोकं व्रजन्ति ते । प्रजामनु प्रजायन्ते श्मशानान्तक्रियाकृतः ॥ २० ॥
दक्षिणेन पथा अर्यम्णः पितृ-लोकम् व्रजन्ति ते । प्रजाम् अनु प्रजायन्ते श्मशान-अन्त-क्रिया-कृतः ॥ २० ॥
dakṣiṇena pathā aryamṇaḥ pitṛ-lokam vrajanti te . prajām anu prajāyante śmaśāna-anta-kriyā-kṛtaḥ .. 20 ..
ततस्ते क्षीणसुकृताः पुनर्लोकमिमं सति । पतन्ति विवशा देवैः सद्यो विभ्रंशितोदयाः ॥ २१ ॥
ततस् ते क्षीण-सुकृताः पुनर् लोकम् इमम् सति । पतन्ति विवशाः देवैः सद्यस् विभ्रंशित-उदयाः ॥ २१ ॥
tatas te kṣīṇa-sukṛtāḥ punar lokam imam sati . patanti vivaśāḥ devaiḥ sadyas vibhraṃśita-udayāḥ .. 21 ..
तस्मात्त्वं सर्वभावेन भजस्व परमेष्ठिनम् । तद्गुणाश्रयया भक्त्या भजनीयपदाम्बुजम् ॥ २२ ॥
तस्मात् त्वम् सर्व-भावेन भजस्व परमेष्ठिनम् । तद्-गुण-आश्रयया भक्त्या भजनीय-पद-अम्बुजम् ॥ २२ ॥
tasmāt tvam sarva-bhāvena bhajasva parameṣṭhinam . tad-guṇa-āśrayayā bhaktyā bhajanīya-pada-ambujam .. 22 ..
वासुदेवे भगवति भक्तियोगः प्रयोजितः । जनयत्याशु वैराग्यं ज्ञानं यद्ब्रह्मदर्शनम् ॥ २३ ॥
वासुदेवे भगवति भक्तियोगः प्रयोजितः । जनयति आशु वैराग्यम् ज्ञानम् यत् ब्रह्म-दर्शनम् ॥ २३ ॥
vāsudeve bhagavati bhaktiyogaḥ prayojitaḥ . janayati āśu vairāgyam jñānam yat brahma-darśanam .. 23 ..
यदास्य चित्तमर्थेषु समेष्विन्द्रियवृत्तिभिः । न विगृह्णाति वैषम्यं प्रियं अप्रियमित्युत ॥ २४ ॥
यदा अस्य चित्तम् अर्थेषु समेषु इन्द्रिय-वृत्तिभिः । न विगृह्णाति वैषम्यम् प्रियम् अप्रियम् इति उत ॥ २४ ॥
yadā asya cittam artheṣu sameṣu indriya-vṛttibhiḥ . na vigṛhṇāti vaiṣamyam priyam apriyam iti uta .. 24 ..
स तदैवात्मनात्मानं निःसङ्गं समदर्शनम् । हेयोपादेयरहितं आरूढं पदमीक्षते ॥ २५ ॥
स तदा एव आत्मना आत्मानम् निःसङ्गम् समदर्शनम् । हेय-उपादेय-रहितम् आरूढम् पदम् ईक्षते ॥ २५ ॥
sa tadā eva ātmanā ātmānam niḥsaṅgam samadarśanam . heya-upādeya-rahitam ārūḍham padam īkṣate .. 25 ..
ज्ञानमात्रं परं ब्रह्म परमात्मेश्वरः पुमान् । दृश्यादिभिः पृथग्भावैः भगवान् एक ईयते ॥ २६ ॥
ज्ञान-मात्रम् परम् ब्रह्म परमात्म-ईश्वरः पुमान् । दृश्य-आदिभिः पृथग्भावैः भगवान् एकः ईयते ॥ २६ ॥
jñāna-mātram param brahma paramātma-īśvaraḥ pumān . dṛśya-ādibhiḥ pṛthagbhāvaiḥ bhagavān ekaḥ īyate .. 26 ..
एतावानेव योगेन समग्रेणेह योगिनः । युज्यतेऽभिमतो ह्यर्थो यद् असङ्गस्तु कृत्स्नशः ॥ २७ ॥
एतावान् एव योगेन समग्रेण इह योगिनः । युज्यते अभिमतः हि अर्थः यत् असङ्गः तु कृत्स्नशस् ॥ २७ ॥
etāvān eva yogena samagreṇa iha yoginaḥ . yujyate abhimataḥ hi arthaḥ yat asaṅgaḥ tu kṛtsnaśas .. 27 ..
ज्ञानमेकं पराचीनैः इन्द्रियैर्ब्रह्म निर्गुणम् । अवभात्यर्थरूपेण भ्रान्त्या शब्दादिधर्मिणा ॥ २८ ॥
ज्ञानम् एकम् पराचीनैः इन्द्रियैः ब्रह्म निर्गुणम् । अवभाति अर्थ-रूपेण भ्रान्त्या शब्द-आदि-धर्मिणा ॥ २८ ॥
jñānam ekam parācīnaiḥ indriyaiḥ brahma nirguṇam . avabhāti artha-rūpeṇa bhrāntyā śabda-ādi-dharmiṇā .. 28 ..
यथा महान् अहंरूपः त्रिवृत् पञ्चविधः स्वराट् । एकादशविधस्तस्य वपुरण्डं जगद्यतः ॥ २९ ॥
यथा महान् अहंरूपः त्रिवृत् पञ्चविधः स्वराज् । एकादशविधः तस्य वपुः-अण्डम् जगत् यतस् ॥ २९ ॥
yathā mahān ahaṃrūpaḥ trivṛt pañcavidhaḥ svarāj . ekādaśavidhaḥ tasya vapuḥ-aṇḍam jagat yatas .. 29 ..
एतद्वै श्रद्धया भक्त्या योगाभ्यासेन नित्यशः । समाहितात्मा निःसङ्गो विरक्त्या परिपश्यति ॥ ३० ॥
एतत् वै श्रद्धया भक्त्या योग-अभ्यासेन नित्यशस् । समाहित-आत्मा निःसङ्गः विरक्त्या परिपश्यति ॥ ३० ॥
etat vai śraddhayā bhaktyā yoga-abhyāsena nityaśas . samāhita-ātmā niḥsaṅgaḥ viraktyā paripaśyati .. 30 ..
इत्येतत्कथितं गुर्वि ज्ञानं तद्ब्रह्मदर्शनम् । येन अनुबुद्ध्यते तत्त्वं प्रकृतेः पुरुषस्य च ॥ ३१ ॥
इति एतत् कथितम् गुर्वि ज्ञानम् तत् ब्रह्म-दर्शनम् । येन अनुबुद्ध्यते तत्त्वम् प्रकृतेः पुरुषस्य च ॥ ३१ ॥
iti etat kathitam gurvi jñānam tat brahma-darśanam . yena anubuddhyate tattvam prakṛteḥ puruṣasya ca .. 31 ..
ज्ञानयोगश्च मन्निष्ठो नैर्गुण्यो भक्तिलक्षणः । द्वयोरप्येक एवार्थो भगवत् शब्दलक्षणः ॥ ३२ ॥
ज्ञान-योगः च मन्निष्ठः नैर्गुण्यः भक्ति-लक्षणः । द्वयोः अपि एकः एव अर्थः भगवत् शब्द-लक्षणः ॥ ३२ ॥
jñāna-yogaḥ ca manniṣṭhaḥ nairguṇyaḥ bhakti-lakṣaṇaḥ . dvayoḥ api ekaḥ eva arthaḥ bhagavat śabda-lakṣaṇaḥ .. 32 ..
यथेन्द्रियैः पृथग्द्वारैः अर्थो बहुगुणाश्रयः । एको नानेयते तद्वद् भगवान् शास्त्रवर्त्मभिः ॥ ३३ ॥
यथा इन्द्रियैः पृथक् द्वारैः अर्थः बहु-गुण-आश्रयः । एकः नाना इयते तद्वत् भगवान् शास्त्र-वर्त्मभिः ॥ ३३ ॥
yathā indriyaiḥ pṛthak dvāraiḥ arthaḥ bahu-guṇa-āśrayaḥ . ekaḥ nānā iyate tadvat bhagavān śāstra-vartmabhiḥ .. 33 ..
क्रियया क्रतुभिर्दानैः तपःस्वाध्यायमर्शनैः । आत्मेन्द्रियजयेनापि सन्न्यासेन च कर्मणाम् ॥ ३४ ॥
क्रियया क्रतुभिः दानैः तपः-स्वाध्याय-मर्शनैः । आत्म-इन्द्रिय-जयेन अपि सन्न्यासेन च कर्मणाम् ॥ ३४ ॥
kriyayā kratubhiḥ dānaiḥ tapaḥ-svādhyāya-marśanaiḥ . ātma-indriya-jayena api sannyāsena ca karmaṇām .. 34 ..
योगेन विविधाङ्गेन भक्तियोगेन चैव हि । धर्मेणोभयचिह्नेन यः प्रवृत्तिनिवृत्तिमान् ॥ ३५ ॥
योगेन विविध-अङ्गेन भक्ति-योगेन च एव हि । धर्मेण उभय-चिह्नेन यः प्रवृत्ति-निवृत्तिमान् ॥ ३५ ॥
yogena vividha-aṅgena bhakti-yogena ca eva hi . dharmeṇa ubhaya-cihnena yaḥ pravṛtti-nivṛttimān .. 35 ..
आत्मतत्त्वावबोधेन वैराग्येण दृढेन च । ईयते भगवानेभिः सगुणो निर्गुणः स्वदृक् ॥ ३६ ॥
आत्म-तत्त्व-अवबोधेन वैराग्येण दृढेन च । ईयते भगवान् एभिः सगुणः निर्गुणः स्वदृश् ॥ ३६ ॥
ātma-tattva-avabodhena vairāgyeṇa dṛḍhena ca . īyate bhagavān ebhiḥ saguṇaḥ nirguṇaḥ svadṛś .. 36 ..
प्रावोचं भक्तियोगस्य स्वरूपं ते चतुर्विधम् । कालस्य चाव्यक्तगतेः योऽन्तर्धावति जन्तुषु ॥ ३७ ॥
प्रावोचम् भक्ति-योगस्य स्वरूपम् ते चतुर्विधम् । कालस्य च अव्यक्त-गतेः यः अन्तर् धावति जन्तुषु ॥ ३७ ॥
prāvocam bhakti-yogasya svarūpam te caturvidham . kālasya ca avyakta-gateḥ yaḥ antar dhāvati jantuṣu .. 37 ..
जीवस्य संसृतीर्बह्वीः अविद्याकर्म निर्मिताः । यास्वङ्ग प्रविशन्नात्मा न वेद गतिमात्मनः ॥ ३८ ॥
जीवस्य संसृतीः बह्वीः अविद्या-कर्म निर्मिताः । यासु अङ्ग प्रविशन् आत्मा न वेद गतिम् आत्मनः ॥ ३८ ॥
jīvasya saṃsṛtīḥ bahvīḥ avidyā-karma nirmitāḥ . yāsu aṅga praviśan ātmā na veda gatim ātmanaḥ .. 38 ..
नैतत्खलायोपदिशेन् नाविनीताय कर्हिचित् । न स्तब्धाय न भिन्नाय नैव धर्मध्वजाय च ॥ ३९ ॥
न एतत् खलाय उपदिशेत् न अविनीताय कर्हिचित् । न स्तब्धाय न भिन्नाय न एव धर्म-ध्वजाय च ॥ ३९ ॥
na etat khalāya upadiśet na avinītāya karhicit . na stabdhāya na bhinnāya na eva dharma-dhvajāya ca .. 39 ..
न लोलुपायोपदिशेत् न गृहारूढचेतसे । नाभक्ताय च मे जातु न मद्भक्तद्विषामपि ॥ ४० ॥
न लोलुपाय उपदिशेत् न गृह-आरूढ-चेतसे । न अभक्ताय च मे जातु न मद्-भक्त-द्विषाम् अपि ॥ ४० ॥
na lolupāya upadiśet na gṛha-ārūḍha-cetase . na abhaktāya ca me jātu na mad-bhakta-dviṣām api .. 40 ..
श्रद्दधानाय भक्ताय विनीताय अनसूयवे । भूतेषु कृतमैत्राय शुश्रूषाभिरताय च ॥ ४१ ॥
श्रद्दधानाय भक्ताय विनीताय अनसूयवे । भूतेषु कृत-मैत्राय शुश्रूषा-अभिरताय च ॥ ४१ ॥
śraddadhānāya bhaktāya vinītāya anasūyave . bhūteṣu kṛta-maitrāya śuśrūṣā-abhiratāya ca .. 41 ..
बहिर्जातविरागाय शान्तचित्ताय दीयताम् । निर्मत्सराय शुचये यस्याहं प्रेयसां प्रियः ॥ ४२ ॥
बहिस् जात-विरागाय शान्त-चित्ताय दीयताम् । निर्मत्सराय शुचये यस्य अहम् प्रेयसाम् प्रियः ॥ ४२ ॥
bahis jāta-virāgāya śānta-cittāya dīyatām . nirmatsarāya śucaye yasya aham preyasām priyaḥ .. 42 ..
य इदं श्रृणुयाद् अम्ब श्रद्धया पुरुषः सकृत् । यो वाभिधत्ते मच्चित्तः स ह्येति पदवीं च मे ॥ ४३ ॥
यः इदम् श्रृणुयात् अम्ब श्रद्धया पुरुषः सकृत् । यः वा अभिधत्ते मद्-चित्तः स हि एति पदवीम् च मे ॥ ४३ ॥
yaḥ idam śrṛṇuyāt amba śraddhayā puruṣaḥ sakṛt . yaḥ vā abhidhatte mad-cittaḥ sa hi eti padavīm ca me .. 43 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां तृतीयस्कन्धे कपिलेये द्वात्रिंशोऽध्यायः ॥ ३२ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् तृतीय-स्कन्धे कपिलेये द्वात्रिंशः अध्यायः ॥ ३२ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām tṛtīya-skandhe kapileye dvātriṃśaḥ adhyāyaḥ .. 32 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In