| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

एवं निशम्य कपिलस्य वचो जनित्री सा कर्दमस्य दयिता किल देवहूतिः । विस्रस्तमोहपटला तमभिप्रणम्य तुष्टाव तत्त्वविषयाङ्कित सिद्धिभूमिम् ॥ १ ॥
एवम् निशम्य कपिलस्य वचः जनित्री सा कर्दमस्य दयिता किल देवहूतिः । विस्रस्त-मोह-पटला तम् अभिप्रणम्य तुष्टाव तत्त्व-विषय-अङ्कित सिद्धि-भूमिम् ॥ १ ॥
evam niśamya kapilasya vacaḥ janitrī sā kardamasya dayitā kila devahūtiḥ . visrasta-moha-paṭalā tam abhipraṇamya tuṣṭāva tattva-viṣaya-aṅkita siddhi-bhūmim .. 1 ..
मैत्रेय उवाच -
अथाप्यजोऽन्तःसलिले शयानं भूतेन्द्रियार्थात्ममयं वपुस्ते । गुणप्रवाहं सदशेषबीजं दध्यौ स्वयं यत् जठराब्जजातः ॥ २ ॥
अथ अपि अजः अन्तर् सलिले शयानम् भूत-इन्द्रियार्थ-आत्म-मयम् वपुः ते । गुण-प्रवाहम् सत्-अशेष-बीजम् दध्यौ स्वयम् यत् जठर-अब्ज-जातः ॥ २ ॥
atha api ajaḥ antar salile śayānam bhūta-indriyārtha-ātma-mayam vapuḥ te . guṇa-pravāham sat-aśeṣa-bījam dadhyau svayam yat jaṭhara-abja-jātaḥ .. 2 ..
देवहूतिरुवाच -
स एव विश्वस्य भवान् विधत्ते गुणप्रवाहेण विभक्तवीर्यः । सर्गाद्यनीहोऽवितथाभिसन्धिः आत्मेश्वरोऽतर्क्य सहस्रशक्तिः ॥ ३ ॥
सः एव विश्वस्य भवान् विधत्ते गुण-प्रवाहेण विभक्त-वीर्यः । सर्ग-आदि-अनीहः अवितथ-अभिसन्धिः आत्म-ईश्वरः अतर्क्य सहस्र-शक्तिः ॥ ३ ॥
saḥ eva viśvasya bhavān vidhatte guṇa-pravāheṇa vibhakta-vīryaḥ . sarga-ādi-anīhaḥ avitatha-abhisandhiḥ ātma-īśvaraḥ atarkya sahasra-śaktiḥ .. 3 ..
स त्वं भृतो मे जठरेण नाथ कथं नु यस्योदर एतदासीत् । विश्वं युगान्ते वटपत्र एकः शेते स्म मायाशिशुरङ्घ्रिपानः ॥ ४ ॥
स त्वम् भृतः मे जठरेण नाथ कथम् नु यस्य उदरे एतत् आसीत् । विश्वम् युग-अन्ते वट-पत्रे एकः शेते स्म माया-शिशुः अङ्घ्रि-पानः ॥ ४ ॥
sa tvam bhṛtaḥ me jaṭhareṇa nātha katham nu yasya udare etat āsīt . viśvam yuga-ante vaṭa-patre ekaḥ śete sma māyā-śiśuḥ aṅghri-pānaḥ .. 4 ..
त्वं देहतन्त्रः प्रशमाय पाप्मनां निदेशभाजां च विभो विभूतये । यथावतारास्तव सूकरादयः तथायमप्यात्म पथोपलब्धये ॥ ५ ॥
त्वम् देहतन्त्रः प्रशमाय पाप्मनाम् निदेश-भाजाम् च विभो विभूतये । यथा अवताराः तव सूकर-आदयः तथा अयम् अपि आत्म-पथा उपलब्धये ॥ ५ ॥
tvam dehatantraḥ praśamāya pāpmanām nideśa-bhājām ca vibho vibhūtaye . yathā avatārāḥ tava sūkara-ādayaḥ tathā ayam api ātma-pathā upalabdhaye .. 5 ..
यन्नामधेयश्रवणानुकीर्तनाद् यत्प्रह्वणाद् यत् स्मरणादपि क्वचित् । श्वादोऽपि सद्यः सवनाय कल्पते कुतः पुनस्ते भगवन्नु दर्शनात् ॥ ६ ॥
यद्-नामधेय-श्रवण-अनुकीर्तनात् यद्-प्रह्वणात् यत् स्मरणात् अपि क्वचिद् । श्व-आदः अपि सद्यस् सवनाय कल्पते कुतस् पुनर् ते भगवन् नु दर्शनात् ॥ ६ ॥
yad-nāmadheya-śravaṇa-anukīrtanāt yad-prahvaṇāt yat smaraṇāt api kvacid . śva-ādaḥ api sadyas savanāya kalpate kutas punar te bhagavan nu darśanāt .. 6 ..
अहो बत श्वपचोऽतो गरीयान् यज्जिह्वाग्रे वर्तते नाम तुभ्यम् । तेपुस्तपस्ते जुहुवुः सस्नुरार्या ब्रह्मानूचुर्नाम गृणन्ति ये ते ॥ ७ ॥
अहो बत श्वपचः अतस् गरीयान् यत् जिह्वा-अग्रे वर्तते नाम तुभ्यम् । तेपुः तपः ते जुहुवुः सस्नुः आर्याः ब्रह्म अनूचुः नाम गृणन्ति ये ते ॥ ७ ॥
aho bata śvapacaḥ atas garīyān yat jihvā-agre vartate nāma tubhyam . tepuḥ tapaḥ te juhuvuḥ sasnuḥ āryāḥ brahma anūcuḥ nāma gṛṇanti ye te .. 7 ..
तं त्वामहं ब्रह्म परं पुमांसं प्रत्यक्स्रोतस्यात्मनि संविभाव्यम् । स्वतेजसा ध्वस्तगुणप्रवाहं वन्दे विष्णुं कपिलं वेदगर्भम् ॥ ८ ॥
तम् त्वाम् अहम् ब्रह्म परम् पुमांसम् प्रत्यक्-स्रोतसि आत्मनि संविभाव्यम् । स्व-तेजसा ध्वस्त-गुण-प्रवाहम् वन्दे विष्णुम् कपिलम् वेदगर्भम् ॥ ८ ॥
tam tvām aham brahma param pumāṃsam pratyak-srotasi ātmani saṃvibhāvyam . sva-tejasā dhvasta-guṇa-pravāham vande viṣṇum kapilam vedagarbham .. 8 ..
ईडितो भगवानेवं कपिलाख्यः परः पुमान् । वाचाविक्लवयेत्याह मातरं मातृवत्सलः ॥ ९ ॥
ईडितः भगवान् एवम् कपिल-आख्यः परः पुमान् । वाचा अविक्लवया इति आह मातरम् मातृ-वत्सलः ॥ ९ ॥
īḍitaḥ bhagavān evam kapila-ākhyaḥ paraḥ pumān . vācā aviklavayā iti āha mātaram mātṛ-vatsalaḥ .. 9 ..
मैत्रेय उवाच -
मार्गेणानेन मातस्ते सुसेव्येनोदितेन मे । आस्थितेन परां काष्ठां अचिराद् अवरोत्स्यसि ॥ १० ॥
मार्गेण अनेन मातर् ते सुसेव्येन उदितेन मे । आस्थितेन पराम् काष्ठाम् अचिरात् अवरोत्स्यसि ॥ १० ॥
mārgeṇa anena mātar te susevyena uditena me . āsthitena parām kāṣṭhām acirāt avarotsyasi .. 10 ..
कपिल उवाच -
श्रद्धत्स्वैतन्मतं मह्यं जुष्टं यद्ब्रह्मवादिभिः । येन मां अभयं याया मृत्युमृच्छन्त्यतद्विदः ॥ ११ ॥
श्रद्धत्स्व एतत् मतम् मह्यम् जुष्टम् यत् ब्रह्म-वादिभिः । येन माम् अभयम् यायाः मृत्युम् ऋच्छन्ति अ तद्-विदः ॥ ११ ॥
śraddhatsva etat matam mahyam juṣṭam yat brahma-vādibhiḥ . yena mām abhayam yāyāḥ mṛtyum ṛcchanti a tad-vidaḥ .. 11 ..
इति प्रदर्श्य भगवान् सतीं तां आत्मनो गतिम् । स्वमात्रा ब्रह्मवादिन्या कपिलोऽनुमतो ययौ ॥ १२ ॥
इति प्रदर्श्य भगवान् सतीम् ताम् आत्मनः गतिम् । स्व-मात्रा ब्रह्म-वादिन्या कपिलः अनुमतः ययौ ॥ १२ ॥
iti pradarśya bhagavān satīm tām ātmanaḥ gatim . sva-mātrā brahma-vādinyā kapilaḥ anumataḥ yayau .. 12 ..
मैत्रेय उवाच -
सा चापि तनयोक्तेन योगादेशेन योगयुक् । तस्मिन् आश्रम आपीडे सरस्वत्याः समाहिता ॥ १३ ॥
सा च अपि तनय-उक्तेन योग-आदेशेन योग-युज् । तस्मिन् आश्रम-आपीडे सरस्वत्याः समाहिता ॥ १३ ॥
sā ca api tanaya-uktena yoga-ādeśena yoga-yuj . tasmin āśrama-āpīḍe sarasvatyāḥ samāhitā .. 13 ..
अभीक्ष्ण अवगाहकपिशान् जटिलान् कुटिलालकान् । आत्मानं च उग्रतपसा बिभ्रती चीरिणं कृशम् ॥ १४ ॥
अभीक्ष्ण-अवगाह-कपिशान् जटिलान् कुटिल-अलकान् । आत्मानम् च उग्र-तपसा बिभ्रती चीरिणम् कृशम् ॥ १४ ॥
abhīkṣṇa-avagāha-kapiśān jaṭilān kuṭila-alakān . ātmānam ca ugra-tapasā bibhratī cīriṇam kṛśam .. 14 ..
प्रजापतेः कर्दमस्य तपोयोगविजृम्भितम् । स्वगार्हस्थ्यमनौपम्यं प्रार्थ्यं वैमानिकैरपि ॥ १५ ॥
प्रजापतेः कर्दमस्य तपः-योग-विजृम्भितम् । स्व-गार्हस्थ्यम् अनौपम्यम् प्रार्थ्यम् वैमानिकैः अपि ॥ १५ ॥
prajāpateḥ kardamasya tapaḥ-yoga-vijṛmbhitam . sva-gārhasthyam anaupamyam prārthyam vaimānikaiḥ api .. 15 ..
पयःफेननिभाः शय्या दान्ता रुक्मपरिच्छदाः । आसनानि च हैमानि सुस्पर्शास्तरणानि च ॥ १६ ॥
पयः-फेन-निभाः शय्या दान्ता रुक्म-परिच्छदाः । आसनानि च हैमानि सुस्पर्श-आस्तरणानि च ॥ १६ ॥
payaḥ-phena-nibhāḥ śayyā dāntā rukma-paricchadāḥ . āsanāni ca haimāni susparśa-āstaraṇāni ca .. 16 ..
स्वच्छस्फटिककुड्येषु महामारकतेषु च । रत्नप्रदीपा आभान्ति ललना रत्नसंयुताः ॥ १७ ॥
स्वच्छ-स्फटिक-कुड्येषु महा-मारकतेषु च । रत्न-प्रदीपाः आभान्ति ललनाः रत्न-संयुताः ॥ १७ ॥
svaccha-sphaṭika-kuḍyeṣu mahā-mārakateṣu ca . ratna-pradīpāḥ ābhānti lalanāḥ ratna-saṃyutāḥ .. 17 ..
गृहोद्यानं कुसुमितै रम्यं बह्वमरद्रुमैः । कूजद् विहङ्गमिथुनं गायन् मत्तमधुव्रतम् ॥ १८ ॥
गृह-उद्यानम् कुसुमितैः रम्यम् बहु-अमर-द्रुमैः । कूजत् विहङ्ग-मिथुनम् गायत् मत्त-मधु-व्रतम् ॥ १८ ॥
gṛha-udyānam kusumitaiḥ ramyam bahu-amara-drumaiḥ . kūjat vihaṅga-mithunam gāyat matta-madhu-vratam .. 18 ..
यत्र प्रविष्टमात्मानं विबुधानुचरा जगुः । वाप्यां उत्पलगन्धिन्यां कर्दमेनोपलालितम् ॥ १९ ॥
यत्र प्रविष्टम् आत्मानम् विबुध-अनुचराः जगुः । वाप्याम् उत्पल-गन्धिन्याम् कर्दमेन उपलालितम् ॥ १९ ॥
yatra praviṣṭam ātmānam vibudha-anucarāḥ jaguḥ . vāpyām utpala-gandhinyām kardamena upalālitam .. 19 ..
हित्वा तदीप्सिततमं अप्याखण्डलयोषिताम् । किञ्चिच्चकार वदनं पुत्रविश्लेषणातुरा ॥ २० ॥
हित्वा तत् ईप्सिततमम् अपि आखण्डल-योषिताम् । किञ्चिद् चकार वदनम् पुत्र-विश्लेषण-आतुरा ॥ २० ॥
hitvā tat īpsitatamam api ākhaṇḍala-yoṣitām . kiñcid cakāra vadanam putra-viśleṣaṇa-āturā .. 20 ..
वनं प्रव्रजिते पत्यौ अपत्यविरहातुरा । ज्ञाततत्त्वाप्यभून्नष्टे वत्से गौरिव वत्सला ॥ २१ ॥
वनम् प्रव्रजिते पत्यौ अपत्य-विरह-आतुरा । ज्ञात-तत्त्वा अपि अभूत् नष्टे वत्से गौः इव वत्सला ॥ २१ ॥
vanam pravrajite patyau apatya-viraha-āturā . jñāta-tattvā api abhūt naṣṭe vatse gauḥ iva vatsalā .. 21 ..
तमेव ध्यायती देवं अपत्यं कपिलं हरिम् । बभूवाचिरतो वत्स निःस्पृहा तादृशे गृहे ॥ २२ ॥
तम् एव ध्यायती देवम् अपत्यम् कपिलम् हरिम् । बभूव अचिरतस् वत्स निःस्पृहा तादृशे गृहे ॥ २२ ॥
tam eva dhyāyatī devam apatyam kapilam harim . babhūva aciratas vatsa niḥspṛhā tādṛśe gṛhe .. 22 ..
ध्यायती भगवद्रूपं यदाह ध्यानगोचरम् । सुतः प्रसन्नवदनं समस्तव्यस्तचिन्तया ॥ २३ ॥
ध्यायती भगवत्-रूपम् यत् आह ध्यान-गोचरम् । सुतः प्रसन्न-वदनम् समस्त-व्यस्त-चिन्तया ॥ २३ ॥
dhyāyatī bhagavat-rūpam yat āha dhyāna-gocaram . sutaḥ prasanna-vadanam samasta-vyasta-cintayā .. 23 ..
भक्तिप्रवाहयोगेन वैराग्येण बलीयसा । युक्तानुष्ठानजातेन ज्ञानेन ब्रह्महेतुना ॥ २४ ॥
भक्ति-प्रवाह-योगेन वैराग्येण बलीयसा । युक्त-अनुष्ठान-जातेन ज्ञानेन ब्रह्म-हेतुना ॥ २४ ॥
bhakti-pravāha-yogena vairāgyeṇa balīyasā . yukta-anuṣṭhāna-jātena jñānena brahma-hetunā .. 24 ..
विशुद्धेन तदात्मानं आत्मना विश्वतोमुखम् । स्वानुभूत्या तिरोभूत मायागुणविशेषणम् ॥ २५ ॥
विशुद्धेन तदा आत्मानम् आत्मना विश्वतोमुखम् । स्व-अनुभूत्या माया-गुण-विशेषणम् ॥ २५ ॥
viśuddhena tadā ātmānam ātmanā viśvatomukham . sva-anubhūtyā māyā-guṇa-viśeṣaṇam .. 25 ..
ब्रह्मण्यवस्थितमतिः भगवति आत्मसंश्रये । निवृत्तजीवापत्तित्वात् क्षीणक्लेशाऽऽप्त निर्वृतिः ॥ २६ ॥
ब्रह्मणि अवस्थित-मतिः भगवति आत्म-संश्रये । निवृत्त-जीव-आपत्ति-त्वात् क्षीण-क्लेश-आप्त-निर्वृतिः ॥ २६ ॥
brahmaṇi avasthita-matiḥ bhagavati ātma-saṃśraye . nivṛtta-jīva-āpatti-tvāt kṣīṇa-kleśa-āpta-nirvṛtiḥ .. 26 ..
नित्यारूढसमाधित्वात् परावृत्तगुणभ्रमा । न सस्मार तदाऽऽत्मानं स्वप्ने दृष्टमिवोत्थितः ॥ २७ ॥
नित्य-आरूढ-समाधि-त्वात् परावृत्त-गुण-भ्रमा । न सस्मार तदा आत्मानम् स्वप्ने दृष्टम् इव उत्थितः ॥ २७ ॥
nitya-ārūḍha-samādhi-tvāt parāvṛtta-guṇa-bhramā . na sasmāra tadā ātmānam svapne dṛṣṭam iva utthitaḥ .. 27 ..
तद्देहः परतः पोषोऽपि अकृशश्चाध्यसम्भवात् । बभौ मलैरवच्छन्नः सधूम इव पावकः ॥ २८ ॥
तद्-देहः परतस् पोषः अपि अकृशः च आधि-असम्भवात् । बभौ मलैः अवच्छन्नः स धूमः इव पावकः ॥ २८ ॥
tad-dehaḥ paratas poṣaḥ api akṛśaḥ ca ādhi-asambhavāt . babhau malaiḥ avacchannaḥ sa dhūmaḥ iva pāvakaḥ .. 28 ..
स्वाङ्गं तपोयोगमयं मुक्तकेशं गताम्बरम् । दैवगुप्तं न बुबुधे वासुदेवप्रविष्टधीः ॥ २९ ॥
स्व-अङ्गम् तपः-योग-मयम् मुक्तकेशम् गत-अम्बरम् । दैव-गुप्तम् न बुबुधे वासुदेव-प्रविष्ट-धीः ॥ २९ ॥
sva-aṅgam tapaḥ-yoga-mayam muktakeśam gata-ambaram . daiva-guptam na bubudhe vāsudeva-praviṣṭa-dhīḥ .. 29 ..
एवं सा कपिलोक्तेन मार्गेणाचिरतः परम् । आत्मानं ब्रह्मनिर्वाणं भगवन्तं अवाप ह ॥ ३० ॥
एवम् सा कपिल-उक्तेन मार्गेण अचिरतस् परम् । आत्मानम् ब्रह्म-निर्वाणम् भगवन्तम् अवाप ह ॥ ३० ॥
evam sā kapila-uktena mārgeṇa aciratas param . ātmānam brahma-nirvāṇam bhagavantam avāpa ha .. 30 ..
तद्वीरासीत् पुण्यतमं क्षेत्रं त्रैलोक्यविश्रुतम् । नाम्ना सिद्धपदं यत्र सा संसिद्धिमुपेयुषी ॥ ३१ ॥
तत् वीर आसीत् पुण्यतमम् क्षेत्रम् त्रैलोक्य-विश्रुतम् । नाम्ना सिद्धपदम् यत्र सा संसिद्धिम् उपेयुषी ॥ ३१ ॥
tat vīra āsīt puṇyatamam kṣetram trailokya-viśrutam . nāmnā siddhapadam yatra sā saṃsiddhim upeyuṣī .. 31 ..
तस्यास्तद्योगविधुतमार्त्यं मर्त्यमभूत्सरित् । स्रोतसां प्रवरा सौम्य सिद्धिदा सिद्धसेविता ॥ ३२ ॥
तस्याः तद्-योग-विधुत-मार्त्यम् मर्त्यम् अभूत् सरित् । स्रोतसाम् प्रवरा सौम्य सिद्धि-दा सिद्ध-सेविता ॥ ३२ ॥
tasyāḥ tad-yoga-vidhuta-mārtyam martyam abhūt sarit . srotasām pravarā saumya siddhi-dā siddha-sevitā .. 32 ..
कपिलोऽपि महायोगी भगवान् पितुराश्रमात् । मातरं समनुज्ञाप्य प्राग् उदीचीं दिशं ययौ ॥ ३३ ॥
कपिलः अपि महा-योगी भगवान् पितुः आश्रमात् । मातरम् समनुज्ञाप्य प्राक् उदीचीम् दिशम् ययौ ॥ ३३ ॥
kapilaḥ api mahā-yogī bhagavān pituḥ āśramāt . mātaram samanujñāpya prāk udīcīm diśam yayau .. 33 ..
सिद्धचारण गन्धर्वैः मुनिभिश्च अप्सरोगणैः । स्तूयमानः समुद्रेण दत्तार्हणनिकेतनः ॥ ३४ ॥
सिद्ध-चारण-गन्धर्वैः मुनिभिः च अप्सरः-गणैः । स्तूयमानः समुद्रेण दत्त-अर्हण-निकेतनः ॥ ३४ ॥
siddha-cāraṇa-gandharvaiḥ munibhiḥ ca apsaraḥ-gaṇaiḥ . stūyamānaḥ samudreṇa datta-arhaṇa-niketanaḥ .. 34 ..
आस्ते योगं समास्थाय साङ्ख्याचार्यैरभिष्टुतः । त्रयाणामपि लोकानां उपशान्त्यै समाहितः ॥ ३५ ॥
आस्ते योगम् समास्थाय साङ्ख्य-आचार्यैः अभिष्टुतः । त्रयाणाम् अपि लोकानाम् उपशान्त्यै समाहितः ॥ ३५ ॥
āste yogam samāsthāya sāṅkhya-ācāryaiḥ abhiṣṭutaḥ . trayāṇām api lokānām upaśāntyai samāhitaḥ .. 35 ..
एतन्निगदितं तात यत्पृष्टोऽहं तवानघ । कपिलस्य च संवादो देवहूत्याश्च पावनः ॥ ३६ ॥
एतत् निगदितम् तात यत् पृष्टः अहम् तव अनघ । कपिलस्य च संवादः देवहूत्याः च पावनः ॥ ३६ ॥
etat nigaditam tāta yat pṛṣṭaḥ aham tava anagha . kapilasya ca saṃvādaḥ devahūtyāḥ ca pāvanaḥ .. 36 ..
य इदमनुशृणोति योऽभिधत्ते कपिलमुनेर्मतं आत्मयोगगुह्यम् । भगवति कृतधीः सुपर्णकेतौ उपलभते भगवत् पदारविन्दम् ॥ ३७ ॥
यः इदम् अनुशृणोति यः अभिधत्ते कपिल-मुनेः मतम् आत्म-योग-गुह्यम् । भगवति कृत-धीः सुपर्ण-केतौ उपलभते भगवत् पद-अरविन्दम् ॥ ३७ ॥
yaḥ idam anuśṛṇoti yaḥ abhidhatte kapila-muneḥ matam ātma-yoga-guhyam . bhagavati kṛta-dhīḥ suparṇa-ketau upalabhate bhagavat pada-aravindam .. 37 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां तृतीयस्कन्धे कापिलेयोपाख्याने त्रयस्त्रिंशोऽध्यायः ॥ ३३ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् तृतीय-स्कन्धे कापिलेय-उपाख्याने त्रयस्त्रिंशः अध्यायः ॥ ३३ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām tṛtīya-skandhe kāpileya-upākhyāne trayastriṃśaḥ adhyāyaḥ .. 33 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In