| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

ऋषिरुवाच - (अनुष्टुप्)
इति तासां स्वशक्तीनां सतीनामसमेत्य सः । प्रसुप्तलोकतन्त्राणां निशाम्य गतिमीश्वरः ॥ १ ॥
इति तासाम् स्व-शक्तीनाम् सतीनाम् अ समेत्य सः । प्रसुप्त-लोक-तन्त्राणाम् निशाम्य गतिम् ईश्वरः ॥ १ ॥
iti tāsām sva-śaktīnām satīnām a sametya saḥ . prasupta-loka-tantrāṇām niśāmya gatim īśvaraḥ .. 1 ..
कालसञ्ज्ञां तदा देवीं बिभ्रत् शक्तिमुरुक्रमः । त्रयोविंशति तत्त्वानां गणं युगपदाविशत् ॥ २ ॥
काल-सञ्ज्ञाम् तदा देवीम् बिभ्रत् शक्तिम् उरुक्रमः । त्रयोविंशति तत्त्वानाम् गणम् युगपद् आविशत् ॥ २ ॥
kāla-sañjñām tadā devīm bibhrat śaktim urukramaḥ . trayoviṃśati tattvānām gaṇam yugapad āviśat .. 2 ..
सोऽनुप्रविष्टो भगवान् चेष्टारूपेण तं गणम् । भिन्नं संयोजयामास सुप्तं कर्म प्रबोधयन् ॥ ३ ॥
सः अनुप्रविष्टः भगवान् चेष्टा-रूपेण तम् गणम् । भिन्नम् संयोजयामास सुप्तम् कर्म प्रबोधयन् ॥ ३ ॥
saḥ anupraviṣṭaḥ bhagavān ceṣṭā-rūpeṇa tam gaṇam . bhinnam saṃyojayāmāsa suptam karma prabodhayan .. 3 ..
प्रबुद्धकर्म दैवेन त्रयोविंशतिको गणः । प्रेरितोऽजनयत्स्वाभिः मात्राभिः अधिपूरुषम् ॥ ४ ॥
प्रबुद्ध-कर्म दैवेन त्रयोविंशतिकः गणः । प्रेरितः अजनयत् स्वाभिः मात्राभिः अधिपूरुषम् ॥ ४ ॥
prabuddha-karma daivena trayoviṃśatikaḥ gaṇaḥ . preritaḥ ajanayat svābhiḥ mātrābhiḥ adhipūruṣam .. 4 ..
परेण विशता स्वस्मिन् मात्रया विश्वसृग्गणः । चुक्षोभान्योन्यमासाद्य यस्मिन् लोकाश्चराचराः ॥ ५ ॥
परेण विशता स्वस्मिन् मात्रया विश्वसृज्-गणः । चुक्षोभ अन्योन्यम् आसाद्य यस्मिन् लोकाः चर-अचराः ॥ ५ ॥
pareṇa viśatā svasmin mātrayā viśvasṛj-gaṇaḥ . cukṣobha anyonyam āsādya yasmin lokāḥ cara-acarāḥ .. 5 ..
हिरण्मयः स पुरुषः सहस्रपरिवत्सरान् । आण्डकोश उवासाप्सु सर्वसत्त्वोपबृंहितः ॥ ६ ॥
हिरण्मयः स पुरुषः सहस्र-परिवत्सरान् । आण्डकोशः उवास अप्सु सर्व-सत्त्व-उपबृंहितः ॥ ६ ॥
hiraṇmayaḥ sa puruṣaḥ sahasra-parivatsarān . āṇḍakośaḥ uvāsa apsu sarva-sattva-upabṛṃhitaḥ .. 6 ..
स वै विश्वसृजां गर्भो देवकर्मात्मशक्तिमान् । विबभाजात्मनात्मानं एकधा दशधा त्रिधा ॥ ७ ॥
स वै विश्वसृजाम् गर्भः देव-कर्म-आत्म-शक्तिमान् । विबभाज आत्मना आत्मानम् एकधा दशधा त्रिधा ॥ ७ ॥
sa vai viśvasṛjām garbhaḥ deva-karma-ātma-śaktimān . vibabhāja ātmanā ātmānam ekadhā daśadhā tridhā .. 7 ..
एष ह्यशेषसत्त्वानां आत्मांशः परमात्मनः । आद्योऽवतारो यत्रासौ भूतग्रामो विभाव्यते ॥ ८ ॥
एष हि अशेष-सत्त्वानाम् आत्मा अंशः परमात्मनः । आद्यः अवतारः यत्र असौ भूत-ग्रामः विभाव्यते ॥ ८ ॥
eṣa hi aśeṣa-sattvānām ātmā aṃśaḥ paramātmanaḥ . ādyaḥ avatāraḥ yatra asau bhūta-grāmaḥ vibhāvyate .. 8 ..
साध्यात्मः साधिदैवश्च साधिभूत इति त्रिधा । विराट्प्राणो दशविध एकधा हृदयेन च ॥ ९ ॥
स अध्यात्मः स अधिदैवः च स अधिभूतः इति त्रिधा । विराज्-प्राणः दशविधः एकधा हृदयेन च ॥ ९ ॥
sa adhyātmaḥ sa adhidaivaḥ ca sa adhibhūtaḥ iti tridhā . virāj-prāṇaḥ daśavidhaḥ ekadhā hṛdayena ca .. 9 ..
स्मरन्विश्वसृजामीशो विज्ञापितं अधोक्षजः । विराजं अतपत्स्वेन तेजसैषां विवृत्तये ॥ १० ॥
स्मरन् विश्वसृजाम् ईशः विज्ञापितम् अधोक्षजः । विराजम् अतपत् स्वेन तेजसा एषाम् विवृत्तये ॥ १० ॥
smaran viśvasṛjām īśaḥ vijñāpitam adhokṣajaḥ . virājam atapat svena tejasā eṣām vivṛttaye .. 10 ..
अथ तस्याभितप्तस्य कति चायतनानि ह । निरभिद्यन्त देवानां तानि मे गदतः श्रृणु ॥ ११ ॥
अथ तस्य अभितप्तस्य कति च आयतनानि ह । निरभिद्यन्त देवानाम् तानि मे गदतः श्रृणु ॥ ११ ॥
atha tasya abhitaptasya kati ca āyatanāni ha . nirabhidyanta devānām tāni me gadataḥ śrṛṇu .. 11 ..
तस्याग्निरास्यं निर्भिन्नं लोकपालोऽविशत्पदम् । वाचा स्वांशेन वक्तव्यं ययासौ प्रतिपद्यते ॥ १२ ॥
तस्य अग्निः आस्यम् निर्भिन्नम् लोकपालः अविशत् पदम् । वाचा स्व-अंशेन वक्तव्यम् यया असौ प्रतिपद्यते ॥ १२ ॥
tasya agniḥ āsyam nirbhinnam lokapālaḥ aviśat padam . vācā sva-aṃśena vaktavyam yayā asau pratipadyate .. 12 ..
निर्भिन्नं तालु वरुणो लोकपालोऽविशद्धरेः । जिह्वयांशेन च रसं ययासौ प्रतिपद्यते ॥ १३ ॥
निर्भिन्नम् तालु वरुणः लोकपालः अविशत् हरेः । जिह्वया अंशेन च रसम् यया असौ प्रतिपद्यते ॥ १३ ॥
nirbhinnam tālu varuṇaḥ lokapālaḥ aviśat hareḥ . jihvayā aṃśena ca rasam yayā asau pratipadyate .. 13 ..
निर्भिन्ने अश्विनौ नासे विष्णोः आविशतां पदम् । घ्राणेनांशेन गन्धस्य प्रतिपत्तिर्यतो भवेत् ॥ १४ ॥
निर्भिन्ने अश्विनौ नासे विष्णोः आविशताम् पदम् । घ्राणेन अंशेन गन्धस्य प्रतिपत्तिः यतस् भवेत् ॥ १४ ॥
nirbhinne aśvinau nāse viṣṇoḥ āviśatām padam . ghrāṇena aṃśena gandhasya pratipattiḥ yatas bhavet .. 14 ..
निर्भिन्ने अक्षिणी त्वष्टा लोकपालोऽविशद्विभोः । चक्षुषांशेन रूपाणां प्रतिपत्तिर्यतो भवेत् ॥ १५ ॥
निर्भिन्ने अक्षिणी त्वष्टा लोकपालः अविशत् विभोः । चक्षुषा अंशेन रूपाणाम् प्रतिपत्तिः यतस् भवेत् ॥ १५ ॥
nirbhinne akṣiṇī tvaṣṭā lokapālaḥ aviśat vibhoḥ . cakṣuṣā aṃśena rūpāṇām pratipattiḥ yatas bhavet .. 15 ..
निर्भिन्नान्यस्य चर्माणि लोकपालोऽनिलोऽविशत् । प्राणेनांशेन संस्पर्शं येनासौ प्रतिपद्यते ॥ १६ ॥
निर्भिन्नानि अस्य चर्माणि लोकपालः अनिलः अविशत् । प्राणेन अंशेन संस्पर्शम् येन असौ प्रतिपद्यते ॥ १६ ॥
nirbhinnāni asya carmāṇi lokapālaḥ anilaḥ aviśat . prāṇena aṃśena saṃsparśam yena asau pratipadyate .. 16 ..
कर्णौ अस्य विनिर्भिन्नौ धिष्ण्यं स्वं विविशुर्दिशः । श्रोत्रेणांशेन शब्दस्य सिद्धिं येन प्रपद्यते ॥ १७ ॥
कर्णौ अस्य विनिर्भिन्नौ धिष्ण्यम् स्वम् विविशुः दिशः । श्रोत्रेण अंशेन शब्दस्य सिद्धिम् येन प्रपद्यते ॥ १७ ॥
karṇau asya vinirbhinnau dhiṣṇyam svam viviśuḥ diśaḥ . śrotreṇa aṃśena śabdasya siddhim yena prapadyate .. 17 ..
त्वचमस्य विनिर्भिन्नां विविशुर्धिष्ण्यमोषधीः । अंशेन रोमभिः कण्डूं यैरसौ प्रतिपद्यते ॥ १८ ॥
त्वचम् अस्य विनिर्भिन्नाम् विविशुः धिष्ण्यम् ओषधीः । अंशेन रोमभिः कण्डूम् यैः असौ प्रतिपद्यते ॥ १८ ॥
tvacam asya vinirbhinnām viviśuḥ dhiṣṇyam oṣadhīḥ . aṃśena romabhiḥ kaṇḍūm yaiḥ asau pratipadyate .. 18 ..
मेढ्रं तस्य विनिर्भिन्नं स्वधिष्ण्यं क उपाविशत् । रेतसांशेन येनासौ आनन्दं प्रतिपद्यते ॥ १९ ॥
मेढ्रम् तस्य विनिर्भिन्नम् स्व-धिष्ण्यम् कः उपाविशत् । रेतसा अंशेन येन असौ आनन्दम् प्रतिपद्यते ॥ १९ ॥
meḍhram tasya vinirbhinnam sva-dhiṣṇyam kaḥ upāviśat . retasā aṃśena yena asau ānandam pratipadyate .. 19 ..
गुदं पुंसो विनिर्भिन्नं मित्रो लोकेश आविशत् । पायुनांशेन येनासौ विसर्गं प्रतिपद्यते ॥ २० ॥
गुदम् पुंसः विनिर्भिन्नम् मित्रः लोक-ईशः आविशत् । पायुना अंशेन येन असौ विसर्गम् प्रतिपद्यते ॥ २० ॥
gudam puṃsaḥ vinirbhinnam mitraḥ loka-īśaḥ āviśat . pāyunā aṃśena yena asau visargam pratipadyate .. 20 ..
हस्तावस्य विनिर्भिन्नौ इन्द्रः स्वर्पतिराविशत् । वार्तयांशेन पुरुषो यया वृत्तिं प्रपद्यते ॥ २१ ॥
हस्तौ अस्य विनिर्भिन्नौ इन्द्रः स्वर्पतिः आविशत् । वार्तया अंशेन पुरुषः यया वृत्तिम् प्रपद्यते ॥ २१ ॥
hastau asya vinirbhinnau indraḥ svarpatiḥ āviśat . vārtayā aṃśena puruṣaḥ yayā vṛttim prapadyate .. 21 ..
पादौ अस्य विनिर्भिन्नौ लोकेशो विष्णुराविशत् । गत्या स्वांशेन पुरुषो यया प्राप्यं प्रपद्यते ॥ २२ ॥
पादौ अस्य विनिर्भिन्नौ लोकेशः विष्णुः आविशत् । गत्या स्व-अंशेन पुरुषः यया प्राप्यम् प्रपद्यते ॥ २२ ॥
pādau asya vinirbhinnau lokeśaḥ viṣṇuḥ āviśat . gatyā sva-aṃśena puruṣaḥ yayā prāpyam prapadyate .. 22 ..
बुद्धिं चास्य विनिर्भिन्नां वागीशो धिष्ण्यमाविशत् । बोधेनांशेन बोद्धव्य प्रतिपत्तिर्यतो भवेत् ॥ २३ ॥
बुद्धिम् च अस्य विनिर्भिन्नाम् वागीशः धिष्ण्यम् आविशत् । बोधेन अंशेन बोद्धव्य प्रतिपत्तिः यतस् भवेत् ॥ २३ ॥
buddhim ca asya vinirbhinnām vāgīśaḥ dhiṣṇyam āviśat . bodhena aṃśena boddhavya pratipattiḥ yatas bhavet .. 23 ..
हृदयं चास्य निर्भिन्नं चन्द्रमा धिष्ण्यमाविशत् । मनसांशेन येनासौ विक्रियां प्रतिपद्यते ॥ २४ ॥
हृदयम् च अस्य निर्भिन्नम् चन्द्रमाः धिष्ण्यम् आविशत् । मनसा अंशेन येन असौ विक्रियाम् प्रतिपद्यते ॥ २४ ॥
hṛdayam ca asya nirbhinnam candramāḥ dhiṣṇyam āviśat . manasā aṃśena yena asau vikriyām pratipadyate .. 24 ..
आत्मानं चास्य निर्भिन्नं अभिमानोऽविशत्पदम् । कर्मणांशेन येनासौ कर्तव्यं प्रतिपद्यते ॥ २५ ॥
आत्मानम् च अस्य निर्भिन्नम् अभिमानः अविशत् पदम् । कर्मणा अंशेन येन असौ कर्तव्यम् प्रतिपद्यते ॥ २५ ॥
ātmānam ca asya nirbhinnam abhimānaḥ aviśat padam . karmaṇā aṃśena yena asau kartavyam pratipadyate .. 25 ..
सत्त्वं चास्य विनिर्भिन्नं महान् धिष्ण्यमुपाविशत् । चित्तेनांशेन येनासौ विज्ञानं प्रतिपद्यते ॥ २६ ॥
सत्त्वम् च अस्य विनिर्भिन्नम् महान् धिष्ण्यम् उपाविशत् । चित्तेन अंशेन येन असौ विज्ञानम् प्रतिपद्यते ॥ २६ ॥
sattvam ca asya vinirbhinnam mahān dhiṣṇyam upāviśat . cittena aṃśena yena asau vijñānam pratipadyate .. 26 ..
शीर्ष्णोऽस्य द्यौर्धरा पद्भ्यां खं नाभेरुदपद्यत । गुणानां वृत्तयो येषु प्रतीयन्ते सुरादयः ॥ २७ ॥
शीर्ष्णः अस्य द्यौः धरा पद्भ्याम् खम् नाभेः उदपद्यत । गुणानाम् वृत्तयः येषु प्रतीयन्ते सुर-आदयः ॥ २७ ॥
śīrṣṇaḥ asya dyauḥ dharā padbhyām kham nābheḥ udapadyata . guṇānām vṛttayaḥ yeṣu pratīyante sura-ādayaḥ .. 27 ..
आत्यन्तिकेन सत्त्वेन दिवं देवाः प्रपेदिरे । धरां रजःस्वभावेन पणयो ये च ताननु ॥ २८ ॥
आत्यन्तिकेन सत्त्वेन दिवम् देवाः प्रपेदिरे । धराम् रजः-स्वभावेन पणयः ये च तान् अनु ॥ २८ ॥
ātyantikena sattvena divam devāḥ prapedire . dharām rajaḥ-svabhāvena paṇayaḥ ye ca tān anu .. 28 ..
तार्तीयेन स्वभावेन भगवन् नाभिमाश्रिताः । उभयोरन्तरं व्योम ये रुद्रपार्षदां गणाः ॥ २९ ॥
तार्तीयेन स्वभावेन भगवत् नाभिम् आश्रिताः । उभयोः अन्तरम् व्योम ये रुद्र-पार्षदाम् गणाः ॥ २९ ॥
tārtīyena svabhāvena bhagavat nābhim āśritāḥ . ubhayoḥ antaram vyoma ye rudra-pārṣadām gaṇāḥ .. 29 ..
मुखतोऽवर्तत ब्रह्म पुरुषस्य कुरूद्वह । यस्तून्मुखत्वाद् वर्णानां मुख्योऽभूद् ब्राह्मणो गुरुः ॥ ३० ॥
मुखतः अवर्तत ब्रह्म पुरुषस्य कुरु-उद्वह । यः तु उन्मुख-त्वात् वर्णानाम् मुख्यः अभूत् ब्राह्मणः गुरुः ॥ ३० ॥
mukhataḥ avartata brahma puruṣasya kuru-udvaha . yaḥ tu unmukha-tvāt varṇānām mukhyaḥ abhūt brāhmaṇaḥ guruḥ .. 30 ..
बाहुभ्योऽवर्तत क्षत्रं क्षत्रियस्तदनुव्रतः । यो जातस्त्रायते वर्णान् पौरुषः कण्टकक्षतात् ॥ ३१ ॥
बाहुभ्यः अवर्तत क्षत्रम् क्षत्रियः तद्-अनुव्रतः । यः जातः त्रायते वर्णान् पौरुषः कण्टक-क्षतात् ॥ ३१ ॥
bāhubhyaḥ avartata kṣatram kṣatriyaḥ tad-anuvrataḥ . yaḥ jātaḥ trāyate varṇān pauruṣaḥ kaṇṭaka-kṣatāt .. 31 ..
विशोऽवर्तन्त तस्योर्वोः लोकवृत्तिकरीर्विभोः । वैश्यस्तदुद्भवो वार्तां नृणां यः समवर्तयत् ॥ ३२ ॥
विशः अवर्तन्त तस्य ऊर्वोः लोक-वृत्ति-करीः विभोः । वैश्यः तद्-उद्भवः वार्ताम् नृणाम् यः समवर्तयत् ॥ ३२ ॥
viśaḥ avartanta tasya ūrvoḥ loka-vṛtti-karīḥ vibhoḥ . vaiśyaḥ tad-udbhavaḥ vārtām nṛṇām yaḥ samavartayat .. 32 ..
पद्भ्यां भगवतो जज्ञे शुश्रूषा धर्मसिद्धये । तस्यां जातः पुरा शूद्रो यद्वृत्त्या तुष्यते हरिः ॥ ३३ ॥
पद्भ्याम् भगवतः जज्ञे शुश्रूषा धर्म-सिद्धये । तस्याम् जातः पुरा शूद्रः यद्-वृत्त्या तुष्यते हरिः ॥ ३३ ॥
padbhyām bhagavataḥ jajñe śuśrūṣā dharma-siddhaye . tasyām jātaḥ purā śūdraḥ yad-vṛttyā tuṣyate hariḥ .. 33 ..
एते वर्णाः स्वधर्मेण यजन्ति स्वगुरुं हरिम् । श्रद्धया आत्मविशुद्ध्यर्थं यज्जाताः सह वृत्तिभिः ॥ ३४ ॥
एते वर्णाः स्वधर्मेण यजन्ति स्व-गुरुम् हरिम् । श्रद्धया आत्म-विशुद्धि-अर्थम् यत् जाताः सह वृत्तिभिः ॥ ३४ ॥
ete varṇāḥ svadharmeṇa yajanti sva-gurum harim . śraddhayā ātma-viśuddhi-artham yat jātāḥ saha vṛttibhiḥ .. 34 ..
एतत् क्षत्तर्भगवतो दैवकर्मात्मरूपिणः । कः श्रद्दध्यादुपाकर्तुं योगमायाबलोदयम् ॥ ३५ ॥
एतत् क्षत्तर् भगवतः दैव-कर्म-आत्म-रूपिणः । कः श्रद्दध्यात् उपाकर्तुम् योग-माया-बल-उदयम् ॥ ३५ ॥
etat kṣattar bhagavataḥ daiva-karma-ātma-rūpiṇaḥ . kaḥ śraddadhyāt upākartum yoga-māyā-bala-udayam .. 35 ..
तथापि कीर्तयाम्यङ्ग यथामति यथाश्रुतम् । कीर्तिं हरेः स्वां सत्कर्तुं गिरमन्याभिधासतीम् ॥ ३६ ॥
तथा अपि कीर्तयामि अङ्ग यथामति यथाश्रुतम् । कीर्तिम् हरेः स्वाम् सत्कर्तुम् गिरम् अन्य-अभिधा-सतीम् ॥ ३६ ॥
tathā api kīrtayāmi aṅga yathāmati yathāśrutam . kīrtim hareḥ svām satkartum giram anya-abhidhā-satīm .. 36 ..
एकान्तलाभं वचसो नु पुंसां सुश्लोकमौलेर्गुणवादमाहुः । श्रुतेश्च विद्वद्भिरुपाकृतायां कथासुधायां उपसम्प्रयोगम् ॥ ३७ ॥
एकान्त-लाभम् वचसः नु पुंसाम् सुश्लोक-मौलेः गुणवादम् आहुः । श्रुतेः च विद्वद्भिः उपाकृतायाम् कथा-सुधायाम् उपसम्प्रयोगम् ॥ ३७ ॥
ekānta-lābham vacasaḥ nu puṃsām suśloka-mauleḥ guṇavādam āhuḥ . śruteḥ ca vidvadbhiḥ upākṛtāyām kathā-sudhāyām upasamprayogam .. 37 ..
आत्मनोऽवसितो वत्स महिमा कविनाऽऽदिना । संवत्सरसहस्रान्ते धिया योगविपक्वया ॥ ३८ ॥
आत्मनः अवसितः वत्स महिमा कविना आदिना । संवत्सर-सहस्र-अन्ते धिया योग-विपक्वया ॥ ३८ ॥
ātmanaḥ avasitaḥ vatsa mahimā kavinā ādinā . saṃvatsara-sahasra-ante dhiyā yoga-vipakvayā .. 38 ..
अतो भगवतो माया मायिनामपि मोहिनी । यत्स्वयं चात्मवर्त्मात्मा न वेद किमुतापरे ॥ ३९ ॥
अतस् भगवतः माया मायिनाम् अपि मोहिनी । यत् स्वयम् च आत्म-वर्त्म आत्मा न वेद किम् उत अपरे ॥ ३९ ॥
atas bhagavataḥ māyā māyinām api mohinī . yat svayam ca ātma-vartma ātmā na veda kim uta apare .. 39 ..
यतोऽप्राप्य न्यवर्तन्त वाचश्च मनसा सह । अहं चान्य इमे देवाः तस्मै भगवते नमः ॥ ४० ॥
यतस् अ प्राप्य न्यवर्तन्त वाचः च मनसा सह । अहम् च अन्ये इमे देवाः तस्मै भगवते नमः ॥ ४० ॥
yatas a prāpya nyavartanta vācaḥ ca manasā saha . aham ca anye ime devāḥ tasmai bhagavate namaḥ .. 40 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां तृतीयस्कन्धे षष्ठोऽध्यायः ॥ ६ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् तृतीय-स्कन्धे षष्ठः अध्यायः ॥ ६ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām tṛtīya-skandhe ṣaṣṭhaḥ adhyāyaḥ .. 6 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In