| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीशुक उवाच -(अनुष्टुप्)
एवं ब्रुवाणं मैत्रेयं द्वैपायनसुतो बुधः । प्रीणयन्निव भारत्या विदुरः प्रत्यभाषत ॥ १ ॥
एवम् ब्रुवाणम् मैत्रेयम् द्वैपायन-सुतः बुधः । प्रीणयन् इव भारत्याः विदुरः प्रत्यभाषत ॥ १ ॥
evam bruvāṇam maitreyam dvaipāyana-sutaḥ budhaḥ . prīṇayan iva bhāratyāḥ viduraḥ pratyabhāṣata .. 1 ..
विदुर उवाच ।
ब्रह्मन् कथं भगवतः चिन्मात्रस्याविकारिणः । लीलया चापि युज्येरन् निर्गुणस्य गुणाः क्रियाः ॥ २ ॥
ब्रह्मन् कथम् भगवतः चित्-मात्रस्य अविकारिणः । लीलया च अपि युज्येरन् निर्गुणस्य गुणाः क्रियाः ॥ २ ॥
brahman katham bhagavataḥ cit-mātrasya avikāriṇaḥ . līlayā ca api yujyeran nirguṇasya guṇāḥ kriyāḥ .. 2 ..
क्रीडायां उद्यमोऽर्भस्य कामश्चिक्रीडिषान्यतः । स्वतस्तृप्तस्य च कथं निवृत्तस्य सदान्यतः ॥ ३ ॥
क्रीडायाम् उद्यमः अर्भस्य कामः चिक्रीडिषा अन्यतस् । स्वतस् तृप्तस्य च कथम् निवृत्तस्य सदा अन्यतस् ॥ ३ ॥
krīḍāyām udyamaḥ arbhasya kāmaḥ cikrīḍiṣā anyatas . svatas tṛptasya ca katham nivṛttasya sadā anyatas .. 3 ..
अस्राक्षीत् भगवान् विश्वं गुणमय्याऽऽत्ममायया । तया संस्थापयत्येतद् भूयः प्रत्यपिधास्यति ॥ ४ ॥
अस्राक्षीत् भगवान् विश्वम् गुण-मय्या आत्म-मायया । तया संस्थापयति एतत् भूयस् प्रत्यपिधास्यति ॥ ४ ॥
asrākṣīt bhagavān viśvam guṇa-mayyā ātma-māyayā . tayā saṃsthāpayati etat bhūyas pratyapidhāsyati .. 4 ..
देशतः कालतो योऽसौ अवस्थातः स्वतोऽन्यतः । अविलुप्तावबोधात्मा स युज्येताजया कथम् ॥ ५ ॥
देशतः कालतः यः असौ अवस्थातः स्वतस् अन्यतस् । अ विलुप्त-अवबोध-आत्मा स युज्येत आजया कथम् ॥ ५ ॥
deśataḥ kālataḥ yaḥ asau avasthātaḥ svatas anyatas . a vilupta-avabodha-ātmā sa yujyeta ājayā katham .. 5 ..
भगवानेक एवैष सर्वक्षेत्रेष्ववस्थितः । अमुष्य दुर्भगत्वं वा क्लेशो वा कर्मभिः कुतः ॥ ६ ॥
भगवान् एकः एव एष सर्व-क्षेत्रेषु अवस्थितः । अमुष्य दुर्भग-त्वम् वा क्लेशः वा कर्मभिः कुतस् ॥ ६ ॥
bhagavān ekaḥ eva eṣa sarva-kṣetreṣu avasthitaḥ . amuṣya durbhaga-tvam vā kleśaḥ vā karmabhiḥ kutas .. 6 ..
एतस्मिन्मे मनो विद्वन् खिद्यतेऽज्ञानसङ्कटे । तन्नः पराणुद विभो कश्मलं मानसं महत् ॥ ७ ॥
एतस्मिन् मे मनः विद्वन् खिद्यते अज्ञान-सङ्कटे । तत् नः पराणुद विभो कश्मलम् मानसम् महत् ॥ ७ ॥
etasmin me manaḥ vidvan khidyate ajñāna-saṅkaṭe . tat naḥ parāṇuda vibho kaśmalam mānasam mahat .. 7 ..
श्रीशुक उवाच -
स इत्थं चोदितः क्षत्त्रा तत्त्वजिज्ञासुना मुनिः । प्रत्याह भगवच्चित्तः स्मयन्निव गतस्मयः ॥ ८ ॥
सः इत्थम् चोदितः क्षत्त्रा तत्त्व-जिज्ञासुना मुनिः । प्रत्याह भगवत्-चित्तः स्मयन् इव गत-स्मयः ॥ ८ ॥
saḥ ittham coditaḥ kṣattrā tattva-jijñāsunā muniḥ . pratyāha bhagavat-cittaḥ smayan iva gata-smayaḥ .. 8 ..
मैत्रेय उवाच -
सेयं भगवतो माया यन्नयेन विरुध्यते । ईश्वरस्य विमुक्तस्य कार्पण्यमुत बन्धनम् ॥ ९ ॥
सा इयम् भगवतः माया यत् नयेन विरुध्यते । ईश्वरस्य विमुक्तस्य कार्पण्यम् उत बन्धनम् ॥ ९ ॥
sā iyam bhagavataḥ māyā yat nayena virudhyate . īśvarasya vimuktasya kārpaṇyam uta bandhanam .. 9 ..
यदर्थेन विनामुष्य पुंस आत्मविपर्ययः । प्रतीयत उपद्रष्टुः स्वशिरश्छेदनादिकः ॥ १० ॥
यद्-अर्थेन विना अमुष्य पुंसः आत्म-विपर्ययः । प्रतीयते उपद्रष्टुः स्व-शिरः-छेदन-आदिकः ॥ १० ॥
yad-arthena vinā amuṣya puṃsaḥ ātma-viparyayaḥ . pratīyate upadraṣṭuḥ sva-śiraḥ-chedana-ādikaḥ .. 10 ..
यथा जले चन्द्रमसः कम्पादिस्तत्कृतो गुणः । दृश्यतेऽसन्नपि द्रष्टुः आत्मनोऽनात्मनो गुणः ॥ ११ ॥
यथा जले चन्द्रमसः कम्प-आदिः तद्-कृतः गुणः । दृश्यते असान् अपि द्रष्टुः आत्मनः अनात्मनः गुणः ॥ ११ ॥
yathā jale candramasaḥ kampa-ādiḥ tad-kṛtaḥ guṇaḥ . dṛśyate asān api draṣṭuḥ ātmanaḥ anātmanaḥ guṇaḥ .. 11 ..
स वै निवृत्तिधर्मेण वासुदेवानुकम्पया । भगवद्भक्तियोगेन तिरोधत्ते शनैरिह ॥ १२ ॥
स वै निवृत्ति-धर्मेण वासुदेव-अनुकम्पया । भगवत्-भक्ति-योगेन तिरोधत्ते शनैस् इह ॥ १२ ॥
sa vai nivṛtti-dharmeṇa vāsudeva-anukampayā . bhagavat-bhakti-yogena tirodhatte śanais iha .. 12 ..
यदेन्द्रियोपरामोऽथ द्रष्ट्रात्मनि परे हरौ । विलीयन्ते तदा क्लेशाः संसुप्तस्येव कृत्स्नशः ॥ १३ ॥
यदा इन्द्रिय-उपरामः अथ द्रष्टृ-आत्मनि परे हरौ । विलीयन्ते तदा क्लेशाः संसुप्तस्य इव कृत्स्नशस् ॥ १३ ॥
yadā indriya-uparāmaḥ atha draṣṭṛ-ātmani pare harau . vilīyante tadā kleśāḥ saṃsuptasya iva kṛtsnaśas .. 13 ..
अशेषसङ्क्लेशशमं विधत्ते गुणानुवादश्रवणं मुरारेः । किं वा पुनस्तच्चरणारविन्द परागसेवारतिरात्मलब्धा ॥ १४ ॥
विधत्ते । किम् वा पुनर् तद्-चरण-अरविन्द पराग-सेवा-रतिः आत्म-लब्धा ॥ १४ ॥
vidhatte . kim vā punar tad-caraṇa-aravinda parāga-sevā-ratiḥ ātma-labdhā .. 14 ..
विदुर उवाच - (अनुष्टुप्)
सञ्छिन्नः संशयो मह्यं तव सूक्तासिना विभो । उभयत्रापि भगवन् मनो मे सम्प्रधावति ॥ १५ ॥
सञ्छिन्नः संशयः मह्यम् तव सूक्त-असिना विभो । उभयत्र अपि भगवत् मनः मे सम्प्रधावति ॥ १५ ॥
sañchinnaḥ saṃśayaḥ mahyam tava sūkta-asinā vibho . ubhayatra api bhagavat manaḥ me sampradhāvati .. 15 ..
साध्वेतद् व्याहृतं विद्वन् आत्ममायायनं हरेः । आभात्यपार्थं निर्मूलं विश्वमूलं न यद्बहिः ॥ १६ ॥
साधु एतत् व्याहृतम् विद्वन् आत्म-माया-अयनम् हरेः । आभाति अपार्थम् निर्मूलम् विश्व-मूलम् न यत् बहिस् ॥ १६ ॥
sādhu etat vyāhṛtam vidvan ātma-māyā-ayanam hareḥ . ābhāti apārtham nirmūlam viśva-mūlam na yat bahis .. 16 ..
यश्च मूढतमो लोके यश्च बुद्धेः परं गतः । तावुभौ सुखमेधेते क्लिश्यत्यन्तरितो जनः ॥ १७ ॥
यः च मूढतमः लोके यः च बुद्धेः परम् गतः । तौ उभौ सुखम् एधेते क्लिश्यति अन्तरितः जनः ॥ १७ ॥
yaḥ ca mūḍhatamaḥ loke yaḥ ca buddheḥ param gataḥ . tau ubhau sukham edhete kliśyati antaritaḥ janaḥ .. 17 ..
अर्थाभावं विनिश्चित्य प्रतीतस्यापि नात्मनः । तां चापि युष्मच्चरण सेवयाहं पराणुदे ॥ १८ ॥
अर्थ-अभावम् विनिश्चित्य प्रतीतस्य अपि ना आत्मनः । ताम् च अपि युष्मद्-चरण सेवया अहम् पराणुदे ॥ १८ ॥
artha-abhāvam viniścitya pratītasya api nā ātmanaḥ . tām ca api yuṣmad-caraṇa sevayā aham parāṇude .. 18 ..
यत्सेवया भगवतः कूटस्थस्य मधुद्विषः । रतिरासो भवेत्तीव्रः पादयोर्व्यसनार्दनः ॥ १९ ॥
यद्-सेवया भगवतः कूटस्थस्य मधुद्विषः । रति-रासः भवेत् तीव्रः पादयोः व्यसन-अर्दनः ॥ १९ ॥
yad-sevayā bhagavataḥ kūṭasthasya madhudviṣaḥ . rati-rāsaḥ bhavet tīvraḥ pādayoḥ vyasana-ardanaḥ .. 19 ..
दुरापा ह्यल्पतपसः सेवा वैकुण्ठवर्त्मसु । यत्रोपगीयते नित्यं देवदेवो जनार्दनः ॥ २० ॥
दुरापा हि अल्प-तपसः सेवा वैकुण्ठ-वर्त्मसु । यत्र उपगीयते नित्यम् देवदेवः जनार्दनः ॥ २० ॥
durāpā hi alpa-tapasaḥ sevā vaikuṇṭha-vartmasu . yatra upagīyate nityam devadevaḥ janārdanaḥ .. 20 ..
सृष्ट्वाग्रे महदादीनि सविकाराणि अनुक्रमात् । तेभ्यो विराजं उद्धृत्य तमनु प्राविशद्विभुः ॥ २१ ॥
सृष्ट्वा अग्रे महत्-आदीनि स विकाराणि अनुक्रमात् । तेभ्यः विराजम् उद्धृत्य तम् अनु प्राविशत् विभुः ॥ २१ ॥
sṛṣṭvā agre mahat-ādīni sa vikārāṇi anukramāt . tebhyaḥ virājam uddhṛtya tam anu prāviśat vibhuḥ .. 21 ..
यमाहुराद्यं पुरुषं सहस्राङ्घ्र्यूरुबाहुकम् । यत्र विश्व इमे लोकाः सविकाशं समासते ॥ २२ ॥
यम् आहुः आद्यम् पुरुषम् सहस्र-अङ्घ्रि-ऊरु-बाहुकम् । यत्र विश्वे इमे लोकाः स विकाशम् समासते ॥ २२ ॥
yam āhuḥ ādyam puruṣam sahasra-aṅghri-ūru-bāhukam . yatra viśve ime lokāḥ sa vikāśam samāsate .. 22 ..
यस्मिन् दशविधः प्राणः सेन्द्रियार्थेन्द्रियः त्रिवृत् । त्वयेरितो यतो वर्णाः तद्विभूतीर्वदस्व नः ॥ २३ ॥
यस्मिन् दशविधः प्राणः स इन्द्रिय-अर्थ-इन्द्रियः त्रिवृत् । त्वया ईरितः यतस् वर्णाः तद्-विभूतीः वदस्व नः ॥ २३ ॥
yasmin daśavidhaḥ prāṇaḥ sa indriya-artha-indriyaḥ trivṛt . tvayā īritaḥ yatas varṇāḥ tad-vibhūtīḥ vadasva naḥ .. 23 ..
यत्र पुत्रैश्च पौत्रैश्च नप्तृभिः सह गोत्रजैः । प्रजा विचित्राकृतय आसन्याभिरिदं ततम् ॥ २४ ॥
यत्र पुत्रैः च पौत्रैः च नप्तृभिः सह गोत्र-जैः । प्रजाः विचित्र-आकृतयः आसन् याभिः इदम् ततम् ॥ २४ ॥
yatra putraiḥ ca pautraiḥ ca naptṛbhiḥ saha gotra-jaiḥ . prajāḥ vicitra-ākṛtayaḥ āsan yābhiḥ idam tatam .. 24 ..
प्रजापतीनां स पतिः चकॢपे कान् प्रजापतीन् । सर्गांश्चैवानुसर्गांश्च मनून् मन्वन्तराधिपान् ॥ २५ ॥
प्रजापतीनाम् स पतिः चकॢपे कान् प्रजापतीन् । सर्गान् च एव अनुसर्गान् च मनून् मन्वन्तर-अधिपान् ॥ २५ ॥
prajāpatīnām sa patiḥ cakḷpe kān prajāpatīn . sargān ca eva anusargān ca manūn manvantara-adhipān .. 25 ..
एतेषामपि वंशांश्च वंशानुचरितानि च । उपर्यधश्च ये लोका भूमेर्मित्रात्मजासते ॥ २६ ॥
एतेषाम् अपि वंशान् च वंशानुचरितानि च । उपरि अधस् च ये लोकाः भूमेः मित्र-आत्मज आसते ॥ २६ ॥
eteṣām api vaṃśān ca vaṃśānucaritāni ca . upari adhas ca ye lokāḥ bhūmeḥ mitra-ātmaja āsate .. 26 ..
तेषां संस्थां प्रमाणं च भूर्लोकस्य च वर्णय । तिर्यङ्मानुषदेवानां सरीसृप पतत्त्रिणाम् । वद नः सर्गसंव्यूहं गार्भस्वेदद्विजोद्भिदाम् ॥ २७॥
तेषाम् संस्थाम् प्रमाणम् च भूर्लोकस्य च वर्णय । तिर्यक्-मानुष-देवानाम् सरीसृप पतत्त्रिणाम् । वद नः सर्ग-संव्यूहम् गार्भ-स्वेद-द्विज-उद्भिदाम् ॥ २७॥
teṣām saṃsthām pramāṇam ca bhūrlokasya ca varṇaya . tiryak-mānuṣa-devānām sarīsṛpa patattriṇām . vada naḥ sarga-saṃvyūham gārbha-sveda-dvija-udbhidām .. 27..
गुणावतारैर्विश्वस्य सर्गस्थित्यप्ययाश्रयम् । सृजतः श्रीनिवासस्य व्याचक्ष्वोदारविक्रमम् ॥ २८ ॥
गुणावतारैः विश्वस्य सर्ग-स्थिति-अप्यय-आश्रयम् । सृजतः श्रीनिवासस्य व्याचक्ष्व उदार-विक्रमम् ॥ २८ ॥
guṇāvatāraiḥ viśvasya sarga-sthiti-apyaya-āśrayam . sṛjataḥ śrīnivāsasya vyācakṣva udāra-vikramam .. 28 ..
वर्णाश्रमविभागांश्च रूपशीलस्वभावतः । ऋषीणां जन्मकर्माणि वेदस्य च विकर्षणम् ॥ २९ ॥
वर्ण-आश्रम-विभागान् च रूप-शील-स्वभावतः । ऋषीणाम् जन्म-कर्माणि वेदस्य च विकर्षणम् ॥ २९ ॥
varṇa-āśrama-vibhāgān ca rūpa-śīla-svabhāvataḥ . ṛṣīṇām janma-karmāṇi vedasya ca vikarṣaṇam .. 29 ..
यज्ञस्य च वितानानि योगस्य च पथः प्रभो । नैष्कर्म्यस्य च साङ्ख्यस्य तंत्रं वा भगवत्स्मृतम् ॥ ३० ॥
यज्ञस्य च वितानानि योगस्य च पथः प्रभो । नैष्कर्म्यस्य च साङ्ख्यस्य तंत्रम् वा भगवत् स्मृतम् ॥ ३० ॥
yajñasya ca vitānāni yogasya ca pathaḥ prabho . naiṣkarmyasya ca sāṅkhyasya taṃtram vā bhagavat smṛtam .. 30 ..
पाषण्डपथवैषम्यं प्रतिलोमनिवेशनम् । जीवस्य गतयो याश्च यावतीर्गुणकर्मजाः ॥ ३१ ॥
पाषण्ड-पथ-वैषम्यम् प्रतिलोम-निवेशनम् । जीवस्य गतयः याः च यावतीः गुण-कर्म-जाः ॥ ३१ ॥
pāṣaṇḍa-patha-vaiṣamyam pratiloma-niveśanam . jīvasya gatayaḥ yāḥ ca yāvatīḥ guṇa-karma-jāḥ .. 31 ..
धर्मार्थकाममोक्षाणां निमित्तान्यविरोधतः । वार्ताया दण्डनीतेश्च श्रुतस्य च विधिं पृथक् ॥ ३२ ॥
धर्म-अर्थ-काम-मोक्षाणाम् निमित्तानि अविरोधतः । वार्तायाः दण्डनीतेः च श्रुतस्य च विधिम् पृथक् ॥ ३२ ॥
dharma-artha-kāma-mokṣāṇām nimittāni avirodhataḥ . vārtāyāḥ daṇḍanīteḥ ca śrutasya ca vidhim pṛthak .. 32 ..
श्राद्धस्य च विधिं ब्रह्मन् पितॄणां सर्गमेव च । ग्रहनक्षत्रताराणां कालावयवसंस्थितिम् ॥ ३३ ॥
श्राद्धस्य च विधिम् ब्रह्मन् पितॄणाम् सर्गम् एव च । ग्रह-नक्षत्र-ताराणाम् काल-अवयव-संस्थितिम् ॥ ३३ ॥
śrāddhasya ca vidhim brahman pitṝṇām sargam eva ca . graha-nakṣatra-tārāṇām kāla-avayava-saṃsthitim .. 33 ..
दानस्य तपसो वापि यच्चेष्टापूर्तयोः फलम् । प्रवासस्थस्य यो धर्मो यश्च पुंस उतापदि ॥ ३४ ॥
दानस्य तपसः वा अपि यत् च इष्टापूर्तयोः फलम् । प्रवास-स्थस्य यः धर्मः यः च पुंसः उत आपदि ॥ ३४ ॥
dānasya tapasaḥ vā api yat ca iṣṭāpūrtayoḥ phalam . pravāsa-sthasya yaḥ dharmaḥ yaḥ ca puṃsaḥ uta āpadi .. 34 ..
येन वा भगवान् तुस्तुष्येद् धर्मयोनिर्जनार्दनः । सम्प्रसीदति वा येषां एतत् आख्याहि मेऽनघ ॥ ३५ ॥
येन वा भगवान् धर्मयोनिः जनार्दनः । सम्प्रसीदति वा येषाम् एतत् आख्याहि मे अनघ ॥ ३५ ॥
yena vā bhagavān dharmayoniḥ janārdanaḥ . samprasīdati vā yeṣām etat ākhyāhi me anagha .. 35 ..
अनुव्रतानां शिष्याणां पुत्राणां च द्विजोत्तम । अनापृष्टमपि ब्रूयुः गुरवो दीनवत्सलाः ॥ ३६ ॥
अनुव्रतानाम् शिष्याणाम् पुत्राणाम् च द्विजोत्तम । अन् आपृष्टम् अपि ब्रूयुः गुरवः दीन-वत्सलाः ॥ ३६ ॥
anuvratānām śiṣyāṇām putrāṇām ca dvijottama . an āpṛṣṭam api brūyuḥ guravaḥ dīna-vatsalāḥ .. 36 ..
तत्त्वानां भगवन् तेषां कतिधा प्रतिसङ्क्रमः । तत्रेमं क उपासीरन् क उ स्विदनुशेरते ॥ ३७ ॥
तत्त्वानाम् भगवन् तेषाम् कतिधा प्रतिसङ्क्रमः । तत्र इमम् के उपासीरन् के उ स्विद् अनुशेरते ॥ ३७ ॥
tattvānām bhagavan teṣām katidhā pratisaṅkramaḥ . tatra imam ke upāsīran ke u svid anuśerate .. 37 ..
पुरुषस्य च संस्थानं स्वरूपं वा परस्य च । ज्ञानं च नैगमं यत्तद् गुरुशिष्यप्रयोजनम् ॥ ३८ ॥
पुरुषस्य च संस्थानम् स्वरूपम् वा परस्य च । ज्ञानम् च नैगमम् यत् तत् गुरु-शिष्य-प्रयोजनम् ॥ ३८ ॥
puruṣasya ca saṃsthānam svarūpam vā parasya ca . jñānam ca naigamam yat tat guru-śiṣya-prayojanam .. 38 ..
निमित्तानि च तस्येह प्रोक्तान्यनघसूरिभिः । स्वतो ज्ञानं कुतः पुंसां भक्तिर्वैराग्यमेव वा ॥ ३९ ॥
निमित्तानि च तस्य इह प्रोक्तानि अनघ-सूरिभिः । स्वतस् ज्ञानम् कुतस् पुंसाम् भक्तिः वैराग्यम् एव वा ॥ ३९ ॥
nimittāni ca tasya iha proktāni anagha-sūribhiḥ . svatas jñānam kutas puṃsām bhaktiḥ vairāgyam eva vā .. 39 ..
एतान्मे पृच्छतः प्रश्नान् हरेः कर्मविवित्सया । ब्रूहि मेऽज्ञस्य मित्रत्वात् अजया नष्टचक्षुषः ॥ ४० ॥
एतान् मे पृच्छतः प्रश्नान् हरेः कर्म-विवित्सया । ब्रूहि मे अज्ञस्य मित्र-त्वात् अजया नष्ट-चक्षुषः ॥ ४० ॥
etān me pṛcchataḥ praśnān hareḥ karma-vivitsayā . brūhi me ajñasya mitra-tvāt ajayā naṣṭa-cakṣuṣaḥ .. 40 ..
सर्वे वेदाश्च यज्ञाश्च तपो दानानि चानघ । जीवाभयप्रदानस्य न कुर्वीरन् कलामपि ॥ ४१ ॥
सर्वे वेदाः च यज्ञाः च तपः दानानि च अनघ । जीव-अभय-प्रदानस्य न कुर्वीरन् कलाम् अपि ॥ ४१ ॥
sarve vedāḥ ca yajñāḥ ca tapaḥ dānāni ca anagha . jīva-abhaya-pradānasya na kurvīran kalām api .. 41 ..
श्रीशुक उवाच -
स इत्थं आपृष्टपुराणकल्पः कुरुप्रधानेन मुनिप्रधानः । प्रवृद्धहर्षो भगवत्कथायां सञ्चोदितस्तं प्रहसन्निवाह ॥ ४२ ॥
सः इत्थम् आपृष्ट-पुराण-कल्पः कुरु-प्रधानेन मुनि-प्रधानः । प्रवृद्ध-हर्षः भगवत्-कथायाम् सञ्चोदितः तम् प्रहसन् इव आह ॥ ४२ ॥
saḥ ittham āpṛṣṭa-purāṇa-kalpaḥ kuru-pradhānena muni-pradhānaḥ . pravṛddha-harṣaḥ bhagavat-kathāyām sañcoditaḥ tam prahasan iva āha .. 42 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां तृतीयस्कन्धे सप्तमोऽध्यायः ॥ ७ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् तृतीय-स्कन्धे सप्तमः अध्यायः ॥ ७ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām tṛtīya-skandhe saptamaḥ adhyāyaḥ .. 7 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In