| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

मैत्रेय उवाच -
सत्सेवनीयो बत पूरुवंशो यल्लोकपालो भगवत्प्रधानः । बभूविथेहाजितकीर्तिमालां पदे पदे नूतनयस्यभीक्ष्णम् ॥ १ ॥
सत्-सेवनीयः बत पूरु-वंशः यत् लोकपालः भगवत्-प्रधानः । बभूविथ इह अजित-कीर्ति-मालाम् पदे पदे नूतन-यसि अभीक्ष्णम् ॥ १ ॥
sat-sevanīyaḥ bata pūru-vaṃśaḥ yat lokapālaḥ bhagavat-pradhānaḥ . babhūvitha iha ajita-kīrti-mālām pade pade nūtana-yasi abhīkṣṇam .. 1 ..
सोऽहं नृणां क्षुल्लसुखाय दुःखं महद्गतानां विरमाय तस्य । प्रवर्तये भागवतं पुराणं यदाह साक्षात् भगवान् ऋषिभ्यः ॥ २ ॥
सः अहम् नृणाम् क्षुल्ल-सुखाय दुःखम् महद्गतानाम् विरमाय तस्य । प्रवर्तये भागवतम् पुराणम् यत् आह साक्षात् भगवान् ऋषिभ्यः ॥ २ ॥
saḥ aham nṛṇām kṣulla-sukhāya duḥkham mahadgatānām viramāya tasya . pravartaye bhāgavatam purāṇam yat āha sākṣāt bhagavān ṛṣibhyaḥ .. 2 ..
आसीनमुर्व्यां भगवन्तमाद्यं सङ्कर्षणं देवमकुण्ठसत्त्वम् । विवित्सवस्तत्त्वमतः परस्य कुमारमुख्या मुनयोऽन्वपृच्छन् ॥ ३ ॥
आसीनम् उर्व्याम् भगवन्तम् आद्यम् सङ्कर्षणम् देवम् अकुण्ठ-सत्त्वम् । विवित्सवः तत्त्वम् अतस् परस्य कुमार-मुख्याः मुनयः अन्वपृच्छन् ॥ ३ ॥
āsīnam urvyām bhagavantam ādyam saṅkarṣaṇam devam akuṇṭha-sattvam . vivitsavaḥ tattvam atas parasya kumāra-mukhyāḥ munayaḥ anvapṛcchan .. 3 ..
स्वमेव धिष्ण्यं बहु मानयन्तं यद् वासुदेवाभिधमामनन्ति । प्रत्यग्धृताक्षाम्बुजकोशमीषद् उन्मीलयन्तं विबुधोदयाय ॥ ४ ॥
स्वम् एव धिष्ण्यम् बहु मानयन्तम् यत् वासुदेव-अभिधम् आमनन्ति । प्रत्यक्-धृत-अक्ष-अम्बुज-कोशम् ईषत् उन्मीलयन्तम् विबुध-उदयाय ॥ ४ ॥
svam eva dhiṣṇyam bahu mānayantam yat vāsudeva-abhidham āmananti . pratyak-dhṛta-akṣa-ambuja-kośam īṣat unmīlayantam vibudha-udayāya .. 4 ..
स्वर्धुन्युदार्द्रैः स्वजटाकलापैः उपस्पृशन्तश्चरणोपधानम् । पद्मं यदर्चन्त्यहिराजकन्याः सप्रेम नानाबलिभिर्वरार्थाः ॥ ५ ॥
स्वर्धुनी-उद-आर्द्रैः स्व-जटा-कलापैः उपस्पृशन्तः चरण-उपधानम् । पद्मम् यत् अर्चन्ति अहि-राज-कन्याः सप्रेम नाना बलिभिः वर-अर्थाः ॥ ५ ॥
svardhunī-uda-ārdraiḥ sva-jaṭā-kalāpaiḥ upaspṛśantaḥ caraṇa-upadhānam . padmam yat arcanti ahi-rāja-kanyāḥ saprema nānā balibhiḥ vara-arthāḥ .. 5 ..
मुहुर्गृणन्तो वचसानुराग स्खलत्पदेनास्य कृतानि तज्ज्ञाः । किरीटसाहस्रमणिप्रवेक प्रद्योतितोद्दामफणासहस्रम् ॥ ६ ॥
मुहुर् गृणन्तः वचसा अनुराग स्खलत्-पदेन अस्य कृतानि तद्-ज्ञाः । किरीट-साहस्र-मणि-प्रवेक प्रद्योतित-उद्दाम-फणा-सहस्रम् ॥ ६ ॥
muhur gṛṇantaḥ vacasā anurāga skhalat-padena asya kṛtāni tad-jñāḥ . kirīṭa-sāhasra-maṇi-praveka pradyotita-uddāma-phaṇā-sahasram .. 6 ..
प्रोक्तं किलैतद्भगवत्तमेन निवृत्तिधर्माभिरताय तेन । सनत्कुमाराय स चाह पृष्टः साङ्ख्यायनायाङ्ग धृतव्रताय ॥ ७ ॥
प्रोक्तम् किल एतत् भगवत्तमेन निवृत्ति-धर्म-अभिरताय तेन । सनत्कुमाराय स च आह पृष्टः साङ्ख्यायनाय अङ्ग धृत-व्रताय ॥ ७ ॥
proktam kila etat bhagavattamena nivṛtti-dharma-abhiratāya tena . sanatkumārāya sa ca āha pṛṣṭaḥ sāṅkhyāyanāya aṅga dhṛta-vratāya .. 7 ..
साङ्ख्यायनः पारमहंस्यमुख्यो विवक्षमाणो भगवद्विभूतीः । जगाद सोऽस्मद्गुरवेऽन्विताय पराशरायाथ बृहस्पतेश्च ॥ ८ ॥
साङ्ख्यायनः भगवत्-विभूतीः । जगाद सः अस्मद्-गुरवे अन्विताय पराशराय अथ बृहस्पतेः च ॥ ८ ॥
sāṅkhyāyanaḥ bhagavat-vibhūtīḥ . jagāda saḥ asmad-gurave anvitāya parāśarāya atha bṛhaspateḥ ca .. 8 ..
प्रोवाच मह्यं स दयालुरुक्तो मुनिः पुलस्त्येन पुराणमाद्यम् । सोऽहं तवैतत्कथयामि वत्स श्रद्धालवे नित्यमनुव्रताय ॥ ९ ॥
प्रोवाच मह्यम् स दयालुः उक्तः मुनिः पुलस्त्येन पुराणम् आद्यम् । सः अहम् तव एतत् कथयामि वत्स श्रद्धालवे नित्यम् अनुव्रताय ॥ ९ ॥
provāca mahyam sa dayāluḥ uktaḥ muniḥ pulastyena purāṇam ādyam . saḥ aham tava etat kathayāmi vatsa śraddhālave nityam anuvratāya .. 9 ..
उदाप्लुतं विश्वमिदं तदासीत् यन्निद्रयामीलितदृङ् न्यमीलयत् । अहीन्द्रतल्पेऽधिशयान एकः कृतक्षणः स्वात्मरतौ निरीहः ॥ १० ॥
उदाप्लुतम् विश्वम् इदम् तदा आसीत् यत् निद्रया आमीलित-दृश् न्यमीलयत् । अहीन्द्र-तल्पे अधिशयानः एकः कृतक्षणः स्वात्म-रतौ निरीहः ॥ १० ॥
udāplutam viśvam idam tadā āsīt yat nidrayā āmīlita-dṛś nyamīlayat . ahīndra-talpe adhiśayānaḥ ekaḥ kṛtakṣaṇaḥ svātma-ratau nirīhaḥ .. 10 ..
सोऽन्तः शरीरेऽर्पितभूतसूक्ष्मः कालात्मिकां शक्तिमुदीरयाणः । उवास तस्मिन् सलिले पदे स्वे यथानलो दारुणि रुद्धवीर्यः ॥ ११ ॥
सः अन्तर् शरीरे अर्पित-भूत-सूक्ष्मः काल-आत्मिकाम् शक्तिम् उदीरयाणः । उवास तस्मिन् सलिले पदे स्वे यथा अनलः दारुणि रुद्ध-वीर्यः ॥ ११ ॥
saḥ antar śarīre arpita-bhūta-sūkṣmaḥ kāla-ātmikām śaktim udīrayāṇaḥ . uvāsa tasmin salile pade sve yathā analaḥ dāruṇi ruddha-vīryaḥ .. 11 ..
चतुर्युगानां च सहस्रमप्सु स्वपन् स्वयोदीरितया स्वशक्त्या । कालाख्ययाऽऽसादितकर्मतन्त्रो लोकानपीतान्ददृशे स्वदेहे ॥ १२ ॥
चतुर्युगानाम् च सहस्रम् अप्सु स्वपन् स्वया उदीरितया स्व-शक्त्या । काल-आख्यया आसादित-कर्म-तन्त्रः लोकान् अपीतान् ददृशे स्व-देहे ॥ १२ ॥
caturyugānām ca sahasram apsu svapan svayā udīritayā sva-śaktyā . kāla-ākhyayā āsādita-karma-tantraḥ lokān apītān dadṛśe sva-dehe .. 12 ..
तस्यार्थसूक्ष्माभिनिविष्टदृष्टेः अन्तर्गतोऽर्थो रजसा तनीयान् । गुणेन कालानुगतेन विद्धः सूष्यंस्तदाभिद्यत नाभिदेशात् ॥ १३ ॥
तस्य अर्थ-सूक्ष्म-अभिनिविष्ट-दृष्टेः अन्तर्गतः अर्थः रजसा । गुणेन काल-अनुगतेन विद्धः नाभि-देशात् ॥ १३ ॥
tasya artha-sūkṣma-abhiniviṣṭa-dṛṣṭeḥ antargataḥ arthaḥ rajasā . guṇena kāla-anugatena viddhaḥ nābhi-deśāt .. 13 ..
स पद्मकोशः सहसोदतिष्ठत् कालेन कर्मप्रतिबोधनेन । स्वरोचिषा तत्सलिलं विशालं विद्योतयन्नर्क इवात्मयोनिः ॥ १४ ॥
स पद्मकोशः सहसा उदतिष्ठत् कालेन कर्म-प्रतिबोधनेन । स्व-रोचिषा तत् सलिलम् विशालम् विद्योतयन् अर्कः इव आत्मयोनिः ॥ १४ ॥
sa padmakośaḥ sahasā udatiṣṭhat kālena karma-pratibodhanena . sva-rociṣā tat salilam viśālam vidyotayan arkaḥ iva ātmayoniḥ .. 14 ..
तल्लोकपद्मं स उ एव विष्णुः प्रावीविशत्सर्वगुणावभासम् । तस्मिन् स्वयं वेदमयो विधाता स्वयंभुवं यं स्म वदन्ति सोऽभूत् ॥ १५ ॥
तत् लोक-पद्मम् सः उ एव विष्णुः प्रावीविशत् सर्व-गुण-अवभासम् । तस्मिन् स्वयम् वेद-मयः विधाता स्वयंभुवम् यम् स्म वदन्ति सः अभूत् ॥ १५ ॥
tat loka-padmam saḥ u eva viṣṇuḥ prāvīviśat sarva-guṇa-avabhāsam . tasmin svayam veda-mayaḥ vidhātā svayaṃbhuvam yam sma vadanti saḥ abhūt .. 15 ..
तस्यां स चाम्भोरुहकर्णिकायां अवस्थितो लोकमपश्यमानः । परिक्रमन् व्योम्नि विवृत्तनेत्रः चत्वारि लेभेऽनुदिशं मुखानि ॥ १६ ॥
तस्याम् स च अम्भोरुह-कर्णिकायाम् अवस्थितः लोकम् अपश्यमानः । परिक्रमन् व्योम्नि विवृत्त-नेत्रः चत्वारि लेभे अनुदिशम् मुखानि ॥ १६ ॥
tasyām sa ca ambhoruha-karṇikāyām avasthitaḥ lokam apaśyamānaḥ . parikraman vyomni vivṛtta-netraḥ catvāri lebhe anudiśam mukhāni .. 16 ..
तस्माद्युगान्तश्वसनावघूर्ण जलोर्मिचक्रात् सलिलाद्विरूढम् । उपाश्रितः कञ्जमु लोकतत्त्वं नात्मानमद्धाविददादिदेवः ॥ १७ ॥
तस्मात् युगान्त-श्वसन-अवघूर्ण जल-ऊर्मि-चक्रात् सलिलात् विरूढम् । उपाश्रितः कञ्जमु लोक-तत्त्वम् न आत्मानम् अद्धा विदद आदिदेवः ॥ १७ ॥
tasmāt yugānta-śvasana-avaghūrṇa jala-ūrmi-cakrāt salilāt virūḍham . upāśritaḥ kañjamu loka-tattvam na ātmānam addhā vidada ādidevaḥ .. 17 ..
क एष योऽसौ अहमब्जपृष्ठ एतत्कुतो वाब्जमनन्यदप्सु । अस्ति ह्यधस्तादिह किञ्चनैतद् अधिष्ठितं यत्र सता नु भाव्यम् ॥ १८ ॥
कः एष यः असौ अहम् अब्ज-पृष्ठे एतत् कुतस् वा अब्जम् अनन्यत् अप्सु । अस्ति हि अधस्तात् इह किञ्चन एतत् अधिष्ठितम् यत्र सता नु भाव्यम् ॥ १८ ॥
kaḥ eṣa yaḥ asau aham abja-pṛṣṭhe etat kutas vā abjam ananyat apsu . asti hi adhastāt iha kiñcana etat adhiṣṭhitam yatra satā nu bhāvyam .. 18 ..
स इत्थमुद्वीक्ष्य तदब्जनाल नाडीभिरन्तर्जलमाविवेश । नार्वाग्गतस्तत् खरनालनाल नाभिं विचिन्वन् तदविन्दताजः ॥ १९ ॥
सः इत्थम् उद्वीक्ष्य तद्-अब्ज-नाल नाडीभिः अन्तर् जलम् आविवेश । नाभिम् विचिन्वन् तत् अविन्दत अजः ॥ १९ ॥
saḥ ittham udvīkṣya tad-abja-nāla nāḍībhiḥ antar jalam āviveśa . nābhim vicinvan tat avindata ajaḥ .. 19 ..
तमस्यपारे विदुरात्मसर्गं विचिन्वतोऽभूत् सुमहांस्त्रिणेमिः । यो देहभाजां भयमीरयाणः परिक्षिणोत्यायुरजस्य हेतिः ॥ २० ॥
तमसि अपारे विदुर-आत्म-सर्गम् विचिन्वतः अभूत् सु महान् त्रिणेमिः । यः देहभाजाम् भयम् ईरयाणः परिक्षिणोति आयुः अजस्य हेतिः ॥ २० ॥
tamasi apāre vidura-ātma-sargam vicinvataḥ abhūt su mahān triṇemiḥ . yaḥ dehabhājām bhayam īrayāṇaḥ parikṣiṇoti āyuḥ ajasya hetiḥ .. 20 ..
ततो निवृत्तोऽप्रतिलब्धकामः स्वधिष्ण्यमासाद्य पुनः स देवः । शनैर्जितश्वासनिवृत्तचित्तो न्यषीददारूढसमाधियोगः ॥ २१ ॥
ततस् निवृत्तः अप्रतिलब्धकामः स्व-धिष्ण्यम् आसाद्य पुनर् स देवः । शनैस् जित-श्वास-निवृत्त-चित्तः न्यषीदत् आरूढ-समाधि-योगः ॥ २१ ॥
tatas nivṛttaḥ apratilabdhakāmaḥ sva-dhiṣṇyam āsādya punar sa devaḥ . śanais jita-śvāsa-nivṛtta-cittaḥ nyaṣīdat ārūḍha-samādhi-yogaḥ .. 21 ..
कालेन सोऽजः पुरुषायुषाभि प्रवृत्तयोगेन विरूढबोधः । स्वयं तदन्तर्हृदयेऽवभातं अपश्यतापश्यत यन्न पूर्वम् ॥ २२ ॥
कालेन सः अजः पुरुष-आयुष-अभि प्रवृत्त-योगेन विरूढ-बोधः । स्वयम् तत् अन्तर् हृदये अवभातम् अपश्यत अपश्यत यत् न पूर्वम् ॥ २२ ॥
kālena saḥ ajaḥ puruṣa-āyuṣa-abhi pravṛtta-yogena virūḍha-bodhaḥ . svayam tat antar hṛdaye avabhātam apaśyata apaśyata yat na pūrvam .. 22 ..
मृणालगौरायतशेषभोग पर्यङ्क एकं पुरुषं शयानम् । फणातपत्रायुतमूर्धरत्न द्युभिर्हतध्वान्तयुगान्ततोये ॥ २३ ॥
मृणाल-गौर-आयत-शेष-भोग पर्यङ्के एकम् पुरुषम् शयानम् । फण-आतपत्र-अयुत-मूर्ध-रत्न-द्युभिः हत-ध्वान्त-युगान्त-तोये ॥ २३ ॥
mṛṇāla-gaura-āyata-śeṣa-bhoga paryaṅke ekam puruṣam śayānam . phaṇa-ātapatra-ayuta-mūrdha-ratna-dyubhiḥ hata-dhvānta-yugānta-toye .. 23 ..
प्रेक्षां क्षिपन्तं हरितोपलाद्रेः सन्ध्याभ्रनीवेरु रुरुक्ममूर्ध्नः । रत्नोदधारौषधिसौमनस्य वनस्रजो वेणुभुजाङ्घ्रिपाङ्घ्रेः ॥ २४ ॥
प्रेक्षाम् क्षिपन्तम् हरितोपल-अद्रेः रुरुक्म-मूर्ध्नः । रत्न-उद-धारा-ओषधि-सौमनस्य वनस्रजः वेणु-भुज-अङ्घ्रिप-अङ्घ्रेः ॥ २४ ॥
prekṣām kṣipantam haritopala-adreḥ rurukma-mūrdhnaḥ . ratna-uda-dhārā-oṣadhi-saumanasya vanasrajaḥ veṇu-bhuja-aṅghripa-aṅghreḥ .. 24 ..
आयामतो विस्तरतः स्वमान देहेन लोकत्रयसङ्ग्रहेण । विचित्रदिव्याभरणांशुकानां कृतश्रियापाश्रितवेषदेहम् ॥ २५ ॥
आयामतः विस्तरतः स्व-मान देहेन लोक-त्रय-सङ्ग्रहेण । विचित्र-दिव्य-आभरण-अंशुकानाम् कृत-श्रिया अपाश्रित-वेष-देहम् ॥ २५ ॥
āyāmataḥ vistarataḥ sva-māna dehena loka-traya-saṅgraheṇa . vicitra-divya-ābharaṇa-aṃśukānām kṛta-śriyā apāśrita-veṣa-deham .. 25 ..
पुंसां स्वकामाय विविक्तमार्गैः अभ्यर्चतां कामदुघाङ्घ्रिपद्मम् । प्रदर्शयन्तं कृपया नखेन्दु मयूखभिन्नाङ्गुलिचारुपत्रम् ॥ २६ ॥
पुंसाम् स्व-कामाय विविक्त-मार्गैः अभ्यर्चताम् कामदुघा-अङ्घ्रि-पद्मम् । प्रदर्शयन्तम् कृपया नख-इन्दु मयूख-भिन्न-अङ्गुलि-चारु-पत्रम् ॥ २६ ॥
puṃsām sva-kāmāya vivikta-mārgaiḥ abhyarcatām kāmadughā-aṅghri-padmam . pradarśayantam kṛpayā nakha-indu mayūkha-bhinna-aṅguli-cāru-patram .. 26 ..
मुखेन लोकार्तिहरस्मितेन परिस्फुरत् कुण्डलमण्डितेन । शोणायितेनाधरबिम्बभासा प्रत्यर्हयन्तं सुनसेन सुभ्र्वा ॥ २७ ॥
मुखेन लोक-आर्ति-हर-स्मितेन परिस्फुरत् कुण्डल-मण्डितेन । शोण-आयितेन अधर-बिम्ब-भासा प्रत्यर्हयन्तम् सु नसेन सु भ्र्वा ॥ २७ ॥
mukhena loka-ārti-hara-smitena parisphurat kuṇḍala-maṇḍitena . śoṇa-āyitena adhara-bimba-bhāsā pratyarhayantam su nasena su bhrvā .. 27 ..
कदम्बकिञ्जल्कपिशङ्गवाससा स्वलङ्कृतं मेखलया नितम्बे । हारेण चानन्तधनेन वत्स श्रीवत्सवक्षःस्थलवल्लभेन ॥ २८ ॥
कदम्ब-किञ्जल्क-पिशङ्ग-वाससा सु अलङ्कृतम् मेखलया नितम्बे । हारेण च अनन्त-धनेन वत्स श्रीवत्स-वक्षःस्थल-वल्लभेन ॥ २८ ॥
kadamba-kiñjalka-piśaṅga-vāsasā su alaṅkṛtam mekhalayā nitambe . hāreṇa ca ananta-dhanena vatsa śrīvatsa-vakṣaḥsthala-vallabhena .. 28 ..
परार्ध्यकेयूरमणिप्रवेक पर्यस्तदोर्दण्डसहस्रशाखम् । अव्यक्तमूलं भुवनाङ्घ्रिपेन्द्र महीन्द्रभोगैरधिवीतवल्शम् ॥ २९ ॥
परार्ध्य-केयूर-मणि-प्रवेक पर्यस्त-दोर्दण्ड-सहस्र-शाखम् । अव्यक्त-मूलम् भुवन-अङ्घ्रिप-इन्द्र महीन्द्र-भोगैः अधिवीत-वल्शम् ॥ २९ ॥
parārdhya-keyūra-maṇi-praveka paryasta-dordaṇḍa-sahasra-śākham . avyakta-mūlam bhuvana-aṅghripa-indra mahīndra-bhogaiḥ adhivīta-valśam .. 29 ..
चराचरौको भगवन् महीध्र महीन्द्रबन्धुं सलिलोपगूढम् । किरीटसाहस्रहिरण्यश्रृङ्गं आविर्भवत्कौस्तुभरत्नगर्भम् ॥ ३० ॥
भगवत् महीध्र महीन्द्र-बन्धुम् सलिल-उपगूढम् । किरीट-साहस्र-हिरण्य-श्रृङ्गम् आविर्भवत्-कौस्तुभ-रत्न-गर्भम् ॥ ३० ॥
bhagavat mahīdhra mahīndra-bandhum salila-upagūḍham . kirīṭa-sāhasra-hiraṇya-śrṛṅgam āvirbhavat-kaustubha-ratna-garbham .. 30 ..
निवीतमाम्नायमधुव्रतश्रिया स्वकीर्तिमय्या वनमालया हरिम् । सूर्येन्दुवाय्वग्न्यगमं त्रिधामभिः परिक्रमत् प्राधनिकैर्दुरासदम् ॥ ३१ ॥
निवीतम् आम्नाय-मधु-व्रत-श्रिया स्व-कीर्ति-मय्या वनमालया हरिम् । सूर्य-इन्दु-वायु-अग्नि-अगमम् त्रिधामभिः परिक्रमत् प्राधनिकैः दुरासदम् ॥ ३१ ॥
nivītam āmnāya-madhu-vrata-śriyā sva-kīrti-mayyā vanamālayā harim . sūrya-indu-vāyu-agni-agamam tridhāmabhiḥ parikramat prādhanikaiḥ durāsadam .. 31 ..
तर्ह्येव तन्नाभिसरःसरोजं आत्मानमम्भः श्वसनं वियच्च । ददर्श देवो जगतो विधाता नातः परं लोकविसर्गदृष्टिः ॥ ३२ ॥
तर्हि एव तत् नाभि-सरः-सरोजम् आत्मानम् अम्भः श्वसनम् वियत् च । ददर्श देवः जगतः विधाता न अतस् परम् लोक-विसर्ग-दृष्टिः ॥ ३२ ॥
tarhi eva tat nābhi-saraḥ-sarojam ātmānam ambhaḥ śvasanam viyat ca . dadarśa devaḥ jagataḥ vidhātā na atas param loka-visarga-dṛṣṭiḥ .. 32 ..
स कर्मबीजं रजसोपरक्तः प्रजाः सिसृक्षन्नियदेव दृष्ट्वा । अस्तौद् विसर्गाभिमुखस्तमीड्यं अव्यक्तवर्त्मन्यभिवेशितात्मा ॥ ३३ ॥
स कर्म-बीजम् रजसा उपरक्तः प्रजाः सिसृक्षन् नियत् एव दृष्ट्वा । अस्तौत् विसर्ग-अभिमुखः तम् ईड्यम् अव्यक्त-वर्त्मनि अभिवेशित-आत्मा ॥ ३३ ॥
sa karma-bījam rajasā uparaktaḥ prajāḥ sisṛkṣan niyat eva dṛṣṭvā . astaut visarga-abhimukhaḥ tam īḍyam avyakta-vartmani abhiveśita-ātmā .. 33 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां तृतीयस्कन्धे अष्टमोऽध्यायः ॥ ८ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् तृतीय-स्कन्धे अष्टमः अध्यायः ॥ ८ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām tṛtīya-skandhe aṣṭamaḥ adhyāyaḥ .. 8 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In