| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

ब्रह्मोवाच - (अनुष्टुप्)
ज्ञातोऽसि मेऽद्य सुचिरान्ननु देहभाजां न ज्ञायते भगवतो गतिरित्यवद्यम् । नान्यत्त्वदस्ति भगवन्नपि तन्न शुद्धं मायागुणव्यतिकराद् यदुरुर्विभासि ॥ १ ॥
ज्ञातः असि मे अद्य सुचिरात् ननु देहभाजाम् न ज्ञायते भगवतः गतिः इति अवद्यम् । न अन्यत् त्वत् अस्ति भगवन् अपि तत् न शुद्धम् माया-गुण-व्यतिकरात् यत् उरुः विभासि ॥ १ ॥
jñātaḥ asi me adya sucirāt nanu dehabhājām na jñāyate bhagavataḥ gatiḥ iti avadyam . na anyat tvat asti bhagavan api tat na śuddham māyā-guṇa-vyatikarāt yat uruḥ vibhāsi .. 1 ..
रूपं यदेतदवबोधरसोदयेन । शश्वन्निवृत्ततमसः सदनुग्रहाय । आदौ गृहीतमवतारशतैकबीजं । यन्नाभिपद्मभवनाद् अहमाविरासम् ॥ २ ॥
रूपम् यत् एतत् अवबोध-रस-उदयेन । शश्वत् निवृत्त-तमसः सत्-अनुग्रहाय । आदौ गृहीतम् अवतार-शत-एक-बीजम् । यद्-नाभि-पद्म-भवनात् अहम् आविरासम् ॥ २ ॥
rūpam yat etat avabodha-rasa-udayena . śaśvat nivṛtta-tamasaḥ sat-anugrahāya . ādau gṛhītam avatāra-śata-eka-bījam . yad-nābhi-padma-bhavanāt aham āvirāsam .. 2 ..
नातः परं परम यद्भवतः स्वरूपम् । आनन्दमात्रमविकल्पमविद्धवर्चः । पश्यामि विश्वसृजमेकमविश्वमात्मन् । भूतेन्द्रियात्मकमदस्त उपाश्रितोऽस्मि ॥ ३ ॥
न अतस् परम् परम यत् भवतः स्व-रूपम् । आनन्द-मात्रम् अविकल्पम् अविद्ध-वर्चः । पश्यामि विश्वसृजम् एकम् अविश्वम् आत्मन् । भूत-इन्द्रिय-आत्मकम् अदः ते उपाश्रितः अस्मि ॥ ३ ॥
na atas param parama yat bhavataḥ sva-rūpam . ānanda-mātram avikalpam aviddha-varcaḥ . paśyāmi viśvasṛjam ekam aviśvam ātman . bhūta-indriya-ātmakam adaḥ te upāśritaḥ asmi .. 3 ..
तद्वा इदं भुवनमङ्गल मङ्गलाय । ध्याने स्म नो दर्शितं त उपासकानाम् । तस्मै नमो भगवतेऽनुविधेम तुभ्यं । योऽनादृतो नरकभाग्भिरसत्प्रसङ्गैः ॥ ४ ॥
तत् वै इदम् भुवन-मङ्गल मङ्गलाय । ध्याने स्म नः दर्शितम् ते उपासकानाम् । तस्मै नमः भगवते अनुविधेम तुभ्यम् । यः अन् आदृतः नरक-भाग्भिः असत्-प्रसङ्गैः ॥ ४ ॥
tat vai idam bhuvana-maṅgala maṅgalāya . dhyāne sma naḥ darśitam te upāsakānām . tasmai namaḥ bhagavate anuvidhema tubhyam . yaḥ an ādṛtaḥ naraka-bhāgbhiḥ asat-prasaṅgaiḥ .. 4 ..
ये तु त्वदीयचरणाम्बुजकोशगन्धं । जिघ्रन्ति कर्णविवरैः श्रुतिवातनीतम् । भक्त्या गृहीतचरणः परया च तेषां । नापैषि नाथ हृदयाम्बुरुहात्स्वपुंसाम् ॥ ५ ॥
ये तु त्वदीय-चरण-अम्बुज-कोश-गन्धम् । जिघ्रन्ति कर्ण-विवरैः श्रुति-वात-नीतम् । भक्त्या गृहीत-चरणः परया च तेषाम् । न अपैषि नाथ हृदय-अम्बुरुहात् स्व-पुंसाम् ॥ ५ ॥
ye tu tvadīya-caraṇa-ambuja-kośa-gandham . jighranti karṇa-vivaraiḥ śruti-vāta-nītam . bhaktyā gṛhīta-caraṇaḥ parayā ca teṣām . na apaiṣi nātha hṛdaya-amburuhāt sva-puṃsām .. 5 ..
तावद्भयं द्रविणगेहसुहृन्निमित्तं । शोकः स्पृहा परिभवो विपुलश्च लोभः । तावन्ममेत्यसदवग्रह आर्तिमूलं । यावन्न तेऽङ्घ्रिमभयं प्रवृणीत लोकः ॥ ६ ॥
तावत् भयम् द्रविण-गेह-सुहृद्-निमित्तम् । शोकः स्पृहा परिभवः विपुलः च लोभः । तावत् मम इति असत्-अवग्रहः आर्ति-मूलम् । यावत् न ते अङ्घ्रिम् अभयम् प्रवृणीत लोकः ॥ ६ ॥
tāvat bhayam draviṇa-geha-suhṛd-nimittam . śokaḥ spṛhā paribhavaḥ vipulaḥ ca lobhaḥ . tāvat mama iti asat-avagrahaḥ ārti-mūlam . yāvat na te aṅghrim abhayam pravṛṇīta lokaḥ .. 6 ..
दैवेन ते हतधियो भवतः प्रसङ्गात् । सर्वाशुभोपशमनाद् विमुखेन्द्रिया ये । कुर्वन्ति कामसुखलेशलवाय दीना । लोभाभिभूतमनसोऽकुशलानि शश्वत् ॥ ७ ॥
दैवेन ते हतधियः भवतः प्रसङ्गात् । सर्व-अशुभ-उपशमनात् विमुख-इन्द्रियाः ये । कुर्वन्ति काम-सुख-लेश-लवाय दीना । लोभ-अभिभूत-मनसः अकुशलानि शश्वत् ॥ ७ ॥
daivena te hatadhiyaḥ bhavataḥ prasaṅgāt . sarva-aśubha-upaśamanāt vimukha-indriyāḥ ye . kurvanti kāma-sukha-leśa-lavāya dīnā . lobha-abhibhūta-manasaḥ akuśalāni śaśvat .. 7 ..
क्षुत्तृट्त्रधातुभिरिमा मुहुरर्द्यमानाः । शीतोष्णवातवर्षैरितरेतराच्च । कामाग्निनाच्युत रुषा च सुदुर्भरेण । सम्पश्यतो मन उरुक्रम सीदते मे ॥ ८ ॥
क्षुध्-तृष्-त्र-धातुभिः इमाः मुहुर् अर्द्यमानाः । शीत-उष्ण-वात-वर्षैः इतरेतरात् च । काम-अग्निना अच्युत रुषा च सु दुर्भरेण । सम्पश्यतः मनः उरु-क्रम सीदते मे ॥ ८ ॥
kṣudh-tṛṣ-tra-dhātubhiḥ imāḥ muhur ardyamānāḥ . śīta-uṣṇa-vāta-varṣaiḥ itaretarāt ca . kāma-agninā acyuta ruṣā ca su durbhareṇa . sampaśyataḥ manaḥ uru-krama sīdate me .. 8 ..
यावत् पृथक्त्वमिदमात्मन इन्द्रियार्थ । मायाबलं भगवतो जन ईश पश्येत् । तावन्न संसृतिरसौ प्रतिसङ्क्रमेत । व्यर्थापि दुःखनिवहं वहती क्रियार्था ॥ ९ ॥
यावत् पृथक्त्वम् इदम् आत्मनः इन्द्रियार्थ । माया-बलम् भगवतः जनः ईश पश्येत् । तावत् न संसृतिः असौ प्रतिसङ्क्रमेत । व्यर्था अपि दुःख-निवहम् वहती क्रिया-अर्था ॥ ९ ॥
yāvat pṛthaktvam idam ātmanaḥ indriyārtha . māyā-balam bhagavataḥ janaḥ īśa paśyet . tāvat na saṃsṛtiḥ asau pratisaṅkrameta . vyarthā api duḥkha-nivaham vahatī kriyā-arthā .. 9 ..
अह्न्यापृतार्तकरणा निशि निःशयाना । नानामनोरथधिया क्षणभग्ननिद्राः । दैवाहतार्थरचना ऋषयोऽपि देव । युष्मत् प्रसङ्गविमुखा इह संसरन्ति ॥ १० ॥
अह्नि आपृत-आर्त-करणा निशि निःशयाना । नाना मनोरथ-धिया क्षण-भग्न-निद्राः । दैव-आहत-अर्थ-रचनाः ऋषयः अपि देव । युष्मत् प्रसङ्ग-विमुखाः इह संसरन्ति ॥ १० ॥
ahni āpṛta-ārta-karaṇā niśi niḥśayānā . nānā manoratha-dhiyā kṣaṇa-bhagna-nidrāḥ . daiva-āhata-artha-racanāḥ ṛṣayaḥ api deva . yuṣmat prasaṅga-vimukhāḥ iha saṃsaranti .. 10 ..
त्वं भक्तियोगपरिभावितहृत्सरोज । आस्से श्रुतेक्षितपथो ननु नाथ पुंसाम् । यद् यद् धिया ते उरुगाय विभावयन्ति । तत्तद् वपुः प्रणयसे सदनुग्रहाय ॥ ११ ॥
त्वम् भक्तियोग-परिभावित-हृद्-सरोज । आस्से श्रुत-ईक्षित-पथः ननु नाथ पुंसाम् । यत् यत् धिया ते उरुगाय विभावयन्ति । तत् तत् वपुः प्रणयसे सत्-अनुग्रहाय ॥ ११ ॥
tvam bhaktiyoga-paribhāvita-hṛd-saroja . āsse śruta-īkṣita-pathaḥ nanu nātha puṃsām . yat yat dhiyā te urugāya vibhāvayanti . tat tat vapuḥ praṇayase sat-anugrahāya .. 11 ..
नातिप्रसीदति तथोपचितोपचारैः । आराधितः सुरगणैर्हृदि बद्धकामैः । यत्सर्वभूतदययासदलभ्ययैको । नानाजनेष्ववहितः सुहृदन्तरात्मा ॥ १२ ॥
न अतिप्रसीदति तथा उपचित-उपचारैः । आराधितः सुर-गणैः हृदि बद्ध-कामैः । यत् सर्व-भूत-दयया असत्-अलभ्यया एकः । नाना जनेषु अवहितः सुहृद्-अन्तरात्मा ॥ १२ ॥
na atiprasīdati tathā upacita-upacāraiḥ . ārādhitaḥ sura-gaṇaiḥ hṛdi baddha-kāmaiḥ . yat sarva-bhūta-dayayā asat-alabhyayā ekaḥ . nānā janeṣu avahitaḥ suhṛd-antarātmā .. 12 ..
पुंसामतो विविधकर्मभिरध्वराद्यैः । दानेन चोग्रतपसा परिचर्यया च । आराधनं भगवतस्तव सत्क्रियार्थो । धर्मोऽर्पितः कर्हिचिद् ध्रियते न यत्र ॥ १३ ॥
पुंसाम् अतस् विविध-कर्मभिः अध्वर-आद्यैः । दानेन च उग्र-तपसा परिचर्यया च । आराधनम् भगवतः तव । धर्मः अर्पितः कर्हिचित् ध्रियते न यत्र ॥ १३ ॥
puṃsām atas vividha-karmabhiḥ adhvara-ādyaiḥ . dānena ca ugra-tapasā paricaryayā ca . ārādhanam bhagavataḥ tava . dharmaḥ arpitaḥ karhicit dhriyate na yatra .. 13 ..
शश्वत्स्वरूपमहसैव निपीतभेद । मोहाय बोधधिषणाय नमः परस्मै । विश्वोद्भवस्थितिलयेषु निमित्तलीला । रासाय ते नम इदं चकृमेश्वराय ॥ १४ ॥
शश्वत् स्व-रूप-महसा एव निपीत-भेद । मोहाय बोध-धिषणाय नमः परस्मै । विश्व-उद्भव-स्थिति-लयेषु निमित्त-लीला । रासाय ते नमः इदम् चकृम ईश्वराय ॥ १४ ॥
śaśvat sva-rūpa-mahasā eva nipīta-bheda . mohāya bodha-dhiṣaṇāya namaḥ parasmai . viśva-udbhava-sthiti-layeṣu nimitta-līlā . rāsāya te namaḥ idam cakṛma īśvarāya .. 14 ..
यस्यावतार गुणकर्मविडम्बनानि । नामानि येऽसुविगमे विवशा गृणन्ति । तेऽनैकजन्मशमलं सहसैव हित्वा । संयान्त्यपावृतामृतं तमजं प्रपद्ये ॥ १५ ॥
यस्य अवतार गुण-कर्म-विडम्बनानि । नामानि ये असु-विगमे विवशाः गृणन्ति । ते अना एक-जन्म-शमलम् सहसा एव हित्वा । संयान्ति अपावृत-अमृतम् तम् अजम् प्रपद्ये ॥ १५ ॥
yasya avatāra guṇa-karma-viḍambanāni . nāmāni ye asu-vigame vivaśāḥ gṛṇanti . te anā eka-janma-śamalam sahasā eva hitvā . saṃyānti apāvṛta-amṛtam tam ajam prapadye .. 15 ..
यो वा अहं च गिरिशश्च विभुः स्वयं च । स्थित्युद्भवप्रलयहेतव आत्ममूलम् । भित्त्वा त्रिपाद्ववृध एक उरुप्ररोहः । तस्मै नमो भगवते भुवनद्रुमाय ॥ १६ ॥
यः वै अहम् च गिरिशः च विभुः स्वयम् च । स्थिति-उद्भव-प्रलय-हेतवः आत्म-मूलम् । भित्त्वा त्रिपाद् ववृधे एकः उरु-प्ररोहः । तस्मै नमः भगवते भुवन-द्रुमाय ॥ १६ ॥
yaḥ vai aham ca giriśaḥ ca vibhuḥ svayam ca . sthiti-udbhava-pralaya-hetavaḥ ātma-mūlam . bhittvā tripād vavṛdhe ekaḥ uru-prarohaḥ . tasmai namaḥ bhagavate bhuvana-drumāya .. 16 ..
लोको विकर्मनिरतः कुशले प्रमत्तः । कर्मण्ययं त्वदुदिते भवदर्चने स्वे । यस्तावदस्य बलवान् इह जीविताशां । सद्यश्छिनत्त्यनिमिषाय नमोऽस्तु तस्मै ॥ १७ ॥
लोकः विकर्म-निरतः कुशले प्रमत्तः । कर्मणि अयम् त्वद्-उदिते भवत्-अर्चने स्वे । यः तावत् अस्य बलवान् इह जीवित-आशाम् । सद्यस् छिनत्ति अनिमिषाय नमः अस्तु तस्मै ॥ १७ ॥
lokaḥ vikarma-nirataḥ kuśale pramattaḥ . karmaṇi ayam tvad-udite bhavat-arcane sve . yaḥ tāvat asya balavān iha jīvita-āśām . sadyas chinatti animiṣāya namaḥ astu tasmai .. 17 ..
यस्माद्बिभेम्यहमपि द्विपरार्धधिष्ण्यं । अध्यासितः सकललोकनमस्कृतं यत् । तेपे तपो बहुसवोऽवरुरुत्समानः । तस्मै नमो भगवतेऽधिमखाय तुभ्यम् ॥ १८ ॥
यस्मात् बिभेमि अहम् अपि द्वि-परार्ध-धिष्ण्यम् । अध्यासितः सकल-लोक-नमस्कृतम् यत् । तेपे तपः बहु-सवः अवरुरुत्समानः । तस्मै नमः भगवते अधि मखाय तुभ्यम् ॥ १८ ॥
yasmāt bibhemi aham api dvi-parārdha-dhiṣṇyam . adhyāsitaḥ sakala-loka-namaskṛtam yat . tepe tapaḥ bahu-savaḥ avarurutsamānaḥ . tasmai namaḥ bhagavate adhi makhāya tubhyam .. 18 ..
तिर्यङ्मनुष्यविबुधादिषु जीवयोनि । ष्वात्मेच्छयात्मकृतसेतुपरीप्सया यः । रेमे निरस्तविषयोऽप्यवरुद्धदेहः । तस्मै नमो भगवते पुरुषोत्तमाय ॥ १९ ॥
तिर्यक्-मनुष्य-विबुध-आदिषु जीवयोनि । षु आत्म-इच्छया आत्म-कृत-सेतु-परीप्सया यः । रेमे निरस्त-विषयः अपि अवरुद्ध-देहः । तस्मै नमः भगवते पुरुषोत्तमाय ॥ १९ ॥
tiryak-manuṣya-vibudha-ādiṣu jīvayoni . ṣu ātma-icchayā ātma-kṛta-setu-parīpsayā yaḥ . reme nirasta-viṣayaḥ api avaruddha-dehaḥ . tasmai namaḥ bhagavate puruṣottamāya .. 19 ..
योऽविद्ययानुपहतोऽपि दशार्धवृत्त्या । निद्रामुवाह जठरीकृतलोकयात्रः । अन्तर्जलेऽहिकशिपुस्पर्शानुकूलां । भीमोर्मिमालिनि जनस्य सुखं विवृण्वन् ॥ २० ॥
यः अविद्यया अनुपहतः अपि दशार्ध-वृत्त्या । निद्राम् उवाह जठरीकृत-लोकयात्रः । अन्तर् जले अहि-कशिपु-स्पर्श-अनुकूलाम् । भीम-ऊर्मि-मालिनि जनस्य सुखम् विवृण्वन् ॥ २० ॥
yaḥ avidyayā anupahataḥ api daśārdha-vṛttyā . nidrām uvāha jaṭharīkṛta-lokayātraḥ . antar jale ahi-kaśipu-sparśa-anukūlām . bhīma-ūrmi-mālini janasya sukham vivṛṇvan .. 20 ..
यन्नाभिपद्मभवनाद् अहमासमीड्य । लोकत्रयोपकरणो यदनुग्रहेण । तस्मै नमस्त उदरस्थभवाय योग । निद्रावसानविकसन् नलिनेक्षणाय ॥ २१ ॥
यद्-नाभि-पद्म-भवनात् अहम् आसम् ईड्य । लोक-त्रय-उपकरणः यत् अनुग्रहेण । तस्मै नमः ते उदरस्थ-भवाय योग । निद्रा-अवसान-विकसन् नलिन-ईक्षणाय ॥ २१ ॥
yad-nābhi-padma-bhavanāt aham āsam īḍya . loka-traya-upakaraṇaḥ yat anugraheṇa . tasmai namaḥ te udarastha-bhavāya yoga . nidrā-avasāna-vikasan nalina-īkṣaṇāya .. 21 ..
सोऽयं समस्तजगतां सुहृदेक आत्मा । सत्त्वेन यन्मृडयते भगवान् भगेन । तेनैव मे दृशमनुस्पृशताद्यथाहं । स्रक्ष्यामि पूर्ववदिदं प्रणतप्रियोऽसौ ॥ २२ ॥
सः अयम् समस्त-जगताम् सुहृद् एकः आत्मा । सत्त्वेन यत् मृडयते भगवान् भगेन । तेन एव मे दृशम् अनुस्पृशतात् यथा अहम् । स्रक्ष्यामि पूर्ववत् इदम् प्रणत-प्रियः असौ ॥ २२ ॥
saḥ ayam samasta-jagatām suhṛd ekaḥ ātmā . sattvena yat mṛḍayate bhagavān bhagena . tena eva me dṛśam anuspṛśatāt yathā aham . srakṣyāmi pūrvavat idam praṇata-priyaḥ asau .. 22 ..
एष प्रपन्नवरदो रमयात्मशक्त्या । यद्यत् करिष्यति गृहीतगुणावतारः । तस्मिन्स्वविक्रममिदं सृजतोऽपि चेतो । युञ्जीत कर्मशमलं च यथा विजह्याम् ॥ २३ ॥
एष प्रपन्न-वरदः रमया आत्म-शक्त्या । यत् यत् करिष्यति गृहीत-गुणावतारः । तस्मिन् स्व-विक्रमम् इदम् सृजतः अपि चेतः । युञ्जीत कर्म-शमलम् च यथा विजह्याम् ॥ २३ ॥
eṣa prapanna-varadaḥ ramayā ātma-śaktyā . yat yat kariṣyati gṛhīta-guṇāvatāraḥ . tasmin sva-vikramam idam sṛjataḥ api cetaḥ . yuñjīta karma-śamalam ca yathā vijahyām .. 23 ..
नाभिह्रदादिह सतोऽम्भसि यस्य पुंसो । विज्ञानशक्तिरहमासमनन्तशक्तेः । रूपं विचित्रमिदमस्य विवृण्वतो मे । मा रीरिषीष्ट निगमस्य गिरां विसर्गः ॥ २४ ॥
नाभि-ह्रदात् इह सतः अम्भसि यस्य पुंसः । विज्ञानशक्तिः अहम् आसम् अनन्तशक्तेः । रूपम् विचित्रम् इदम् अस्य विवृण्वतः मे । मा रीरिषीष्ट निगमस्य गिराम् विसर्गः ॥ २४ ॥
nābhi-hradāt iha sataḥ ambhasi yasya puṃsaḥ . vijñānaśaktiḥ aham āsam anantaśakteḥ . rūpam vicitram idam asya vivṛṇvataḥ me . mā rīriṣīṣṭa nigamasya girām visargaḥ .. 24 ..
सोऽसौ अदभ्रकरुणो भगवान् विवृद्ध । प्रेमस्मितेन नयनाम्बुरुहं विजृम्भन् । उत्थाय विश्वविजयाय च नो विषादं । माध्व्या गिरापनयतात्पुरुषः पुराणः ॥ २५ ॥
सः असौ अदभ्र-करुणः भगवान् विवृद्ध । प्रेम-स्मितेन नयन-अम्बुरुहम् विजृम्भन् । उत्थाय विश्व-विजयाय च नः विषादम् । माध्व्या गिरा अपनयतात् पुरुषः पुराणः ॥ २५ ॥
saḥ asau adabhra-karuṇaḥ bhagavān vivṛddha . prema-smitena nayana-amburuham vijṛmbhan . utthāya viśva-vijayāya ca naḥ viṣādam . mādhvyā girā apanayatāt puruṣaḥ purāṇaḥ .. 25 ..
मैत्रेय उवाच - (अनुष्टुप्)
स्वसम्भवं निशाम्यैवं तपोविद्यासमाधिभिः । यावन्मनोवचः स्तुत्वा विरराम स खिन्नवत् ॥ २६ ॥
स्व-सम्भवम् निशाम्य एवम् तपः-विद्या-समाधिभिः । यावत् मनः-वचः स्तुत्वा विरराम स खिन्न-वत् ॥ २६ ॥
sva-sambhavam niśāmya evam tapaḥ-vidyā-samādhibhiḥ . yāvat manaḥ-vacaḥ stutvā virarāma sa khinna-vat .. 26 ..
अथाभिप्रेतमन्वीक्ष्य ब्रह्मणो मधुसूदनः । विषण्णचेतसं तेन कल्पव्यतिकराम्भसा ॥ २७ ॥
अथ अभिप्रेतम् अन्वीक्ष्य ब्रह्मणः मधुसूदनः । विषण्ण-चेतसम् तेन कल्प-व्यतिकर-अम्भसा ॥ २७ ॥
atha abhipretam anvīkṣya brahmaṇaḥ madhusūdanaḥ . viṣaṇṇa-cetasam tena kalpa-vyatikara-ambhasā .. 27 ..
लोकसंस्थानविज्ञान आत्मनः परिखिद्यतः । तमाहागाधया वाचा कश्मलं शमयन्निव ॥ २८ ॥
लोक-संस्थान-विज्ञाने आत्मनः परिखिद्यतः । तम् आह अगाधया वाचा कश्मलम् शमयन् इव ॥ २८ ॥
loka-saṃsthāna-vijñāne ātmanaḥ parikhidyataḥ . tam āha agādhayā vācā kaśmalam śamayan iva .. 28 ..
श्रीभगवानुवाच -
मा वेदगर्भ गास्तन्द्रीं सर्ग उद्यममावह । तन्मयाऽऽपादितं ह्यग्रे यन्मां प्रार्थयते भवान् ॥ २९ ॥
मा वेदगर्भ गाः तन्द्रीम् सर्गे उद्यमम् आवह । तत् मया आपादितम् हि अग्रे यत् माम् प्रार्थयते भवान् ॥ २९ ॥
mā vedagarbha gāḥ tandrīm sarge udyamam āvaha . tat mayā āpāditam hi agre yat mām prārthayate bhavān .. 29 ..
भूयस्त्वं तप आतिष्ठ विद्यां चैव मदाश्रयाम् । ताभ्यां अन्तर्हृदि ब्रह्मन् लोकान् द्रक्ष्यसि अपावृतान् ॥ ३० ॥
भूयस् त्वम् तपः आतिष्ठ विद्याम् च एव मद्-आश्रयाम् । ताभ्याम् अन्तर्हृदि ब्रह्मन् लोकान् द्रक्ष्यसि अपावृतान् ॥ ३० ॥
bhūyas tvam tapaḥ ātiṣṭha vidyām ca eva mad-āśrayām . tābhyām antarhṛdi brahman lokān drakṣyasi apāvṛtān .. 30 ..
तत आत्मनि लोके च भक्तियुक्तः समाहितः । द्रष्टासि मां ततं ब्रह्मन् मयि लोकान् त्वमात्मनः ॥ ३१ ॥
ततस् आत्मनि लोके च भक्ति-युक्तः समाहितः । द्रष्टा असि माम् ततम् ब्रह्मन् मयि लोकान् त्वम् आत्मनः ॥ ३१ ॥
tatas ātmani loke ca bhakti-yuktaḥ samāhitaḥ . draṣṭā asi mām tatam brahman mayi lokān tvam ātmanaḥ .. 31 ..
यदा तु सर्वभूतेषु दारुष्वग्निमिव स्थितम् । प्रतिचक्षीत मां लोको जह्यात्तर्ह्येव कश्मलम् ॥ ३२ ॥
यदा तु सर्व-भूतेषु दारुषु अग्निम् इव स्थितम् । प्रतिचक्षीत माम् लोकः जह्यात् तर्हि एव कश्मलम् ॥ ३२ ॥
yadā tu sarva-bhūteṣu dāruṣu agnim iva sthitam . praticakṣīta mām lokaḥ jahyāt tarhi eva kaśmalam .. 32 ..
यदा रहितमात्मानं भूतेन्द्रियगुणाशयैः । स्वरूपेण मयोपेतं पश्यन् स्वाराज्यमृच्छति ॥ ३३ ॥
यदा रहितम् आत्मानम् भूत-इन्द्रिय-गुण-आशयैः । स्व-रूपेण मया उपेतम् पश्यन् स्वाराज्यम् ऋच्छति ॥ ३३ ॥
yadā rahitam ātmānam bhūta-indriya-guṇa-āśayaiḥ . sva-rūpeṇa mayā upetam paśyan svārājyam ṛcchati .. 33 ..
नानाकर्मवितानेन प्रजा बह्वीः सिसृक्षतः । नात्मावसीदत्यस्मिन् ते वर्षीयान् मदनुग्रहः ॥ ३४ ॥
नाना कर्म-वितानेन प्रजाः बह्वीः सिसृक्षतः । न आत्मा अवसीदति अस्मिन् ते वर्षीयान् मद्-अनुग्रहः ॥ ३४ ॥
nānā karma-vitānena prajāḥ bahvīḥ sisṛkṣataḥ . na ātmā avasīdati asmin te varṣīyān mad-anugrahaḥ .. 34 ..
ऋषिमाद्यं न बध्नाति पापीयान् त्वां रजोगुणः । यन्मनो मयि निर्बद्धं प्रजाः संसृजतोऽपि ते ॥ ३५ ॥
ऋषिम् आद्यम् न बध्नाति पापीयान् त्वाम् रजः-गुणः । यत् मनः मयि निर्बद्धम् प्रजाः संसृजतः अपि ते ॥ ३५ ॥
ṛṣim ādyam na badhnāti pāpīyān tvām rajaḥ-guṇaḥ . yat manaḥ mayi nirbaddham prajāḥ saṃsṛjataḥ api te .. 35 ..
ज्ञातोऽहं भवता त्वद्य दुर्विज्ञेयोऽपि देहिनाम् । यन्मां त्वं मन्यसेऽयुक्तं भूतेन्द्रियगुणात्मभिः ॥ ३६ ॥
ज्ञातः अहम् भवता तु अद्य दुर्विज्ञेयः अपि देहिनाम् । यत् माम् त्वम् मन्यसे अयुक्तम् भूत-इन्द्रिय-गुण-आत्मभिः ॥ ३६ ॥
jñātaḥ aham bhavatā tu adya durvijñeyaḥ api dehinām . yat mām tvam manyase ayuktam bhūta-indriya-guṇa-ātmabhiḥ .. 36 ..
तुभ्यं मद्विचिकित्सायां आत्मा मे दर्शितोऽबहिः । नालेन सलिले मूलं पुष्करस्य विचिन्वतः ॥ ३७ ॥
तुभ्यम् मद्-विचिकित्सायाम् आत्मा मे दर्शितः अबहिर् । नालेन सलिले मूलम् पुष्करस्य विचिन्वतः ॥ ३७ ॥
tubhyam mad-vicikitsāyām ātmā me darśitaḥ abahir . nālena salile mūlam puṣkarasya vicinvataḥ .. 37 ..
यच्चकर्थाङ्ग मत्स्तोत्रं मत्कथा अभ्युदयांकितम् । यद्वा तपसि ते निष्ठा स एष मदनुग्रहः ॥ ३८ ॥
यत् चकर्थ अङ्ग मद्-स्तोत्रम् मद्-कथाः अभ्युदय-अंकितम् । यत् वा तपसि ते निष्ठा सः एष मद्-अनुग्रहः ॥ ३८ ॥
yat cakartha aṅga mad-stotram mad-kathāḥ abhyudaya-aṃkitam . yat vā tapasi te niṣṭhā saḥ eṣa mad-anugrahaḥ .. 38 ..
प्रीतोऽहमस्तु भद्रं ते लोकानां विजयेच्छया । यद् अस्तौषीर्गुणमयं निर्गुणं मानुवर्णयन् ॥ ३९ ॥
प्रीतः अहम् अस्तु भद्रम् ते लोकानाम् विजय-इच्छया । यत् अस्तौषीः गुण-मयम् निर्गुणम् मा अनुवर्णयन् ॥ ३९ ॥
prītaḥ aham astu bhadram te lokānām vijaya-icchayā . yat astauṣīḥ guṇa-mayam nirguṇam mā anuvarṇayan .. 39 ..
य एतेन पुमान्नित्यं स्तुत्वा स्तोत्रेण मां भजेत् । तस्याशु सम्प्रसीदेयं सर्वकामवरेश्वरः ॥ ४० ॥
यः एतेन पुमान् नित्यम् स्तुत्वा स्तोत्रेण माम् भजेत् । तस्य आशु सम्प्रसीदेयम् सर्व-काम-वर-ईश्वरः ॥ ४० ॥
yaḥ etena pumān nityam stutvā stotreṇa mām bhajet . tasya āśu samprasīdeyam sarva-kāma-vara-īśvaraḥ .. 40 ..
पूर्तेन तपसा यज्ञैः दानैर्योगसमाधिना । राद्धं निःश्रेयसं पुंसां मत्प्रीतिः तत्त्वविन्मतम् ॥ ४१ ॥
पूर्तेन तपसा यज्ञैः दानैः योग-समाधिना । राद्धम् निःश्रेयसम् पुंसाम् मद्-प्रीतिः तत्त्व-विद्-मतम् ॥ ४१ ॥
pūrtena tapasā yajñaiḥ dānaiḥ yoga-samādhinā . rāddham niḥśreyasam puṃsām mad-prītiḥ tattva-vid-matam .. 41 ..
अहमात्मात्मनां धातः प्रेष्ठः सन् प्रेयसामपि । अतो मयि रतिं कुर्याद् देहादिर्यत्कृते प्रियः ॥ ४२ ॥
अहम् आत्मा आत्मनाम् धातर् प्रेष्ठः सन् प्रेयसाम् अपि । अतस् मयि रतिम् कुर्यात् देह-आदिः यत् कृते प्रियः ॥ ४२ ॥
aham ātmā ātmanām dhātar preṣṭhaḥ san preyasām api . atas mayi ratim kuryāt deha-ādiḥ yat kṛte priyaḥ .. 42 ..
सर्ववेदमयेनेदं आत्मनाऽऽत्माऽऽत्मयोनिना । प्रजाः सृज यथापूर्वं याश्च मय्यनुशेरते ॥ ४३ ॥
सर्व-वेद-मयेन इदम् आत्मना आत्मा आत्मयोनिना । प्रजाः सृज यथापूर्वम् याः च मयि अनुशेरते ॥ ४३ ॥
sarva-veda-mayena idam ātmanā ātmā ātmayoninā . prajāḥ sṛja yathāpūrvam yāḥ ca mayi anuśerate .. 43 ..
मैत्रेय उवाच -
तस्मा एवं जगत्स्रष्ट्रे प्रधानपुरुषेश्वरः । व्यज्येदं स्वेन रूपेण कञ्जनाभस्तिरोदधे ॥ ४४ ॥
तस्मै एवम् जगत्स्रष्ट्रे प्रधान-पुरुष-ईश्वरः । व्यज्य इदम् स्वेन रूपेण कञ्जन-आभः तिरोदधे ॥ ४४ ॥
tasmai evam jagatsraṣṭre pradhāna-puruṣa-īśvaraḥ . vyajya idam svena rūpeṇa kañjana-ābhaḥ tirodadhe .. 44 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां तृतीयस्कन्धे नवमोऽध्यायः ॥ ९ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् तृतीय-स्कन्धे नवमः अध्यायः ॥ ९ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām tṛtīya-skandhe navamaḥ adhyāyaḥ .. 9 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In