| |
|

This overlay will guide you through the buttons:

ऋषय ऊचुः
भवता कथितः सम्यक् सर्गः स्वायंभुवस्ततः ।ब्रह्माण्डस्यास्य विस्तारो मन्वन्तरविनिश्चयः ॥ १.१
भवता कथितः सम्यक् सर्गः स्वायंभुवः ततस् ।ब्रह्माण्डस्य अस्य विस्तारः मन्वन्तर-विनिश्चयः ॥ १।१
bhavatā kathitaḥ samyak sargaḥ svāyaṃbhuvaḥ tatas .brahmāṇḍasya asya vistāraḥ manvantara-viniścayaḥ .. 1.1
तत्रेश्वरेश्वरो देवो वर्णिभिर्धर्मतत्परैः ।ज्ञानयोगरतैर्नित्यमाराध्यः कथितस्त्वया ॥ १.२
तत्र ईश्वर-ईश्वरः देवः वर्णिभिः धर्म-तत्परैः ।ज्ञान-योग-रतैः नित्यम् आराध्यः कथितः त्वया ॥ १।२
tatra īśvara-īśvaraḥ devaḥ varṇibhiḥ dharma-tatparaiḥ .jñāna-yoga-rataiḥ nityam ārādhyaḥ kathitaḥ tvayā .. 1.2
तद्वदाशेषसंसारदुःखनाशमनुत्तमम् ।ज्ञानं ब्रह्मैकविषयं येन पश्येम तत्परम् ॥ १.३
तद्वदा अशेष-संसार-दुःख-नाशम् अनुत्तमम् ।ज्ञानम् ब्रह्म-एक-विषयम् येन पश्येम तत् परम् ॥ १।३
tadvadā aśeṣa-saṃsāra-duḥkha-nāśam anuttamam .jñānam brahma-eka-viṣayam yena paśyema tat param .. 1.3
त्वं हि नारायण साक्षात् कृष्णद्वैपायनात् प्रभो ।अवाप्ताखिलविज्ञानस्तत्त्वां पृच्छामहे पुनः ॥ १.४
त्वम् हि नारायण साक्षात् कृष्णद्वैपायनात् प्रभो ।अवाप्त-अखिल-विज्ञानः तत् त्वाम् पृच्छामहे पुनर् ॥ १।४
tvam hi nārāyaṇa sākṣāt kṛṣṇadvaipāyanāt prabho .avāpta-akhila-vijñānaḥ tat tvām pṛcchāmahe punar .. 1.4
श्रुत्वा मुनीनां तद् वाक्यं कृष्णद्वैपायनात् प्रभुम् ।सूतः पौराणिकः स्मृत्वा भाषितुं ह्युपचक्रमे ॥ १.५
श्रुत्वा मुनीनाम् तत् वाक्यम् कृष्णद्वैपायनात् प्रभुम् ।सूतः पौराणिकः स्मृत्वा भाषितुम् हि उपचक्रमे ॥ १।५
śrutvā munīnām tat vākyam kṛṣṇadvaipāyanāt prabhum .sūtaḥ paurāṇikaḥ smṛtvā bhāṣitum hi upacakrame .. 1.5
अथास्मिन्नन्तरे व्यासः कृष्णद्वैपायनः स्वयम् ।आजगाम मुनिश्रेष्ठा यत्र सत्रं समासते ॥ १.६
अथ अस्मिन् अन्तरे व्यासः कृष्णद्वैपायनः स्वयम् ।आजगाम मुनि-श्रेष्ठाः यत्र सत्रम् समासते ॥ १।६
atha asmin antare vyāsaḥ kṛṣṇadvaipāyanaḥ svayam .ājagāma muni-śreṣṭhāḥ yatra satram samāsate .. 1.6
तं दृष्ट्वा वेदविद्वांसं कालमेघसमद्युतिम् ।व्यासं कमलपत्राक्षं प्रणेमुर्द्विजपुंगवाः ॥ १.७
तम् दृष्ट्वा वेद-विद्वांसम् काल-मेघ-सम-द्युतिम् ।व्यासम् कमल-पत्र-अक्षम् प्रणेमुः द्विज-पुंगवाः ॥ १।७
tam dṛṣṭvā veda-vidvāṃsam kāla-megha-sama-dyutim .vyāsam kamala-patra-akṣam praṇemuḥ dvija-puṃgavāḥ .. 1.7
पपात दण्डवद् भूमौ दृष्ट्वाऽसौ लोमहर्षणः ।प्रदक्षिणीकृत्य गुरुं प्राञ्जलिः पार्श्वगोऽभवत् ॥ १.८
पपात दण्ड-वत् भूमौ दृष्ट्वा असौ लोमहर्षणः ।प्रदक्षिणीकृत्य गुरुम् प्राञ्जलिः पार्श्व-गः अभवत् ॥ १।८
papāta daṇḍa-vat bhūmau dṛṣṭvā asau lomaharṣaṇaḥ .pradakṣiṇīkṛtya gurum prāñjaliḥ pārśva-gaḥ abhavat .. 1.8
पृष्टास्तेऽनामयं विप्राः शौनकाद्या महामुनिम् ।समाश्वास्यासनं तस्मै तद्योग्यं समकल्पयन् ॥ १.९
पृष्टाः ते अनामयम् विप्राः शौनक-आद्याः महा-मुनिम् ।समाश्वास्य आसनम् तस्मै तद्-योग्यम् समकल्पयन् ॥ १।९
pṛṣṭāḥ te anāmayam viprāḥ śaunaka-ādyāḥ mahā-munim .samāśvāsya āsanam tasmai tad-yogyam samakalpayan .. 1.9
अथैतानब्रवीद् वाक्यं पराशरसुतः प्रभुः ।कच्चिन्न तपसो हानिः स्वाध्यायस्य श्रुतस्य च ॥ १.१०
अथा एतान् अब्रवीत् वाक्यम् पराशर-सुतः प्रभुः ।कच्चित् न तपसः हानिः स्वाध्यायस्य श्रुतस्य च ॥ १।१०
athā etān abravīt vākyam parāśara-sutaḥ prabhuḥ .kaccit na tapasaḥ hāniḥ svādhyāyasya śrutasya ca .. 1.10
ततः स सूतः स्वगुरुं प्रणम्याह महामुनिम् ।ज्ञानं तद् ब्रह्मविषयं मुनीनां वक्तुमर्हसि ॥ १.११
ततस् स सूतः स्व-गुरुम् प्रणम्य आह महा-मुनिम् ।ज्ञानम् तत् ब्रह्म-विषयम् मुनीनाम् वक्तुम् अर्हसि ॥ १।११
tatas sa sūtaḥ sva-gurum praṇamya āha mahā-munim .jñānam tat brahma-viṣayam munīnām vaktum arhasi .. 1.11
इमे हि मुनयः शान्तास्तापसा धर्मतत्पराः ।शुश्रूषा जायते चैषां वक्तुमर्हसि तत्त्वतः ॥ १.१२
इमे हि मुनयः शान्ताः तापसाः धर्म-तत्पराः ।शुश्रूषा जायते च एषाम् वक्तुम् अर्हसि तत्त्वतः ॥ १।१२
ime hi munayaḥ śāntāḥ tāpasāḥ dharma-tatparāḥ .śuśrūṣā jāyate ca eṣām vaktum arhasi tattvataḥ .. 1.12
ज्ञानं विमुक्तिदं दिव्यं यन्मे साक्षात् त्वयोदितम् ।मुनीनां व्याहृतं पूर्वं विष्णुना कूर्मरूपिणा ॥ १.१
ज्ञानम् विमुक्ति-दम् दिव्यम् यत् मे साक्षात् त्वया उदितम् ।मुनीनाम् व्याहृतम् पूर्वम् विष्णुना कूर्म-रूपिणा ॥ १।१
jñānam vimukti-dam divyam yat me sākṣāt tvayā uditam .munīnām vyāhṛtam pūrvam viṣṇunā kūrma-rūpiṇā .. 1.1
३श्रुत्वा सूतस्य वचनं मुनिः सत्यवतीसुतः ।प्रणम्य शिरसा रुद्रं वचः प्राह सुखावहम् ॥ १.१४
श्रुत्वा सूतस्य वचनम् मुनिः सत्यवती-सुतः ।प्रणम्य शिरसा रुद्रम् वचः प्राह सुख-आवहम् ॥ १।१४
śrutvā sūtasya vacanam muniḥ satyavatī-sutaḥ .praṇamya śirasā rudram vacaḥ prāha sukha-āvaham .. 1.14
व्यास उवाच
वक्ष्ये देवो महादेवः पृष्टो योगीश्वरैः पुरा ।सनत्कुमारप्रमुखैः स स्वयं समभाषत ॥ १.१५
वक्ष्ये देवः महादेवः पृष्टः योगि-ईश्वरैः पुरा ।सनत्कुमार-प्रमुखैः स स्वयम् समभाषत ॥ १।१५
vakṣye devaḥ mahādevaḥ pṛṣṭaḥ yogi-īśvaraiḥ purā .sanatkumāra-pramukhaiḥ sa svayam samabhāṣata .. 1.15
सनत्कुमारः सनकस्तथैव च सनन्दनः ।अङ्गिरा रुद्रसहितो भृगुः परमधर्मवित् ॥ १.१६
सनत्कुमारः सनकः तथा एव च सनन्दनः ।अङ्गिराः रुद्र-सहितः भृगुः परम-धर्म-विद् ॥ १।१६
sanatkumāraḥ sanakaḥ tathā eva ca sanandanaḥ .aṅgirāḥ rudra-sahitaḥ bhṛguḥ parama-dharma-vid .. 1.16
कणादः कपिलो योगी वामदेवो महामुनिः ।शुक्रो वसिष्ठो भगवान् सर्वे संयतमानसाः ॥ १.१७
कणादः कपिलः योगी वामदेवः महा-मुनिः ।शुक्रः वसिष्ठः भगवान् सर्वे संयत-मानसाः ॥ १।१७
kaṇādaḥ kapilaḥ yogī vāmadevaḥ mahā-muniḥ .śukraḥ vasiṣṭhaḥ bhagavān sarve saṃyata-mānasāḥ .. 1.17
परस्परं विचार्यैते संशयाविष्टचेतसः ।तप्तवन्तस्तपो घोरं पुण्ये बदरिकाश्रमे ॥ १.१८
परस्परम् विचार्य एते संशय-आविष्ट-चेतसः ।तप्तवन्तः तपः घोरम् पुण्ये बदरिकाश्रमे ॥ १।१८
parasparam vicārya ete saṃśaya-āviṣṭa-cetasaḥ .taptavantaḥ tapaḥ ghoram puṇye badarikāśrame .. 1.18
अपश्यंस्ते महायोगमृषिं धर्मसुतं शुचिम् ।नारायणमनाद्यन्तं नरेण सहितं तदा ॥ १.१९
अपश्यन् ते महा-योगम् ऋषिम् धर्म-सुतम् शुचिम् ।नारायणम् अनाद्यन्तम् नरेण सहितम् तदा ॥ १।१९
apaśyan te mahā-yogam ṛṣim dharma-sutam śucim .nārāyaṇam anādyantam nareṇa sahitam tadā .. 1.19
संस्तूय विविधैः स्तोत्रैः सर्वे वेदसमुद्भवैः ।प्रणेमुर्भक्तिसंयुक्ता योगिनो योगवित्तमम् ॥ १.२०
संस्तूय विविधैः स्तोत्रैः सर्वे वेद-समुद्भवैः ।प्रणेमुः भक्ति-संयुक्ताः योगिनः योग-वित्तमम् ॥ १।२०
saṃstūya vividhaiḥ stotraiḥ sarve veda-samudbhavaiḥ .praṇemuḥ bhakti-saṃyuktāḥ yoginaḥ yoga-vittamam .. 1.20
विज्ञाय वाञ्छितं तेषां भगवानपि सर्ववित् ।प्राह गम्भीरया वाचा किमर्थं तप्यते तपः ॥ १.२१
विज्ञाय वाञ्छितम् तेषाम् भगवान् अपि सर्व-विद् ।प्राह गम्भीरया वाचा किमर्थम् तप्यते तपः ॥ १।२१
vijñāya vāñchitam teṣām bhagavān api sarva-vid .prāha gambhīrayā vācā kimartham tapyate tapaḥ .. 1.21
अब्रुवन् हृष्टमनसो विश्वात्मानं सनातनम् ।साक्षान्नारायणं देवमागतं सिद्धिसूचकम् ॥ १.२२
अब्रुवन् हृष्ट-मनसः विश्वात्मानम् सनातनम् ।साक्षात् नारायणम् देवम् आगतम् सिद्धि-सूचकम् ॥ १।२२
abruvan hṛṣṭa-manasaḥ viśvātmānam sanātanam .sākṣāt nārāyaṇam devam āgatam siddhi-sūcakam .. 1.22
वयं संशयमापन्नाः सर्वे वै ब्रह्मवादिनः ।भवन्तमेकं शरणं प्रपन्नाः पुरुषोत्तमम् ॥ १.२३
वयम् संशयम् आपन्नाः सर्वे वै ब्रह्म-वादिनः ।भवन्तम् एकम् शरणम् प्रपन्नाः पुरुषोत्तमम् ॥ १।२३
vayam saṃśayam āpannāḥ sarve vai brahma-vādinaḥ .bhavantam ekam śaraṇam prapannāḥ puruṣottamam .. 1.23
त्वं हि वेत्सि परमं गुह्यं सर्वन्तु भगवानृषिः ।नारायणः स्वयं साक्षात् पुराणोऽव्यक्तपूरुषः ॥ १.२४
त्वम् हि वेत्सि परमम् गुह्यम् सर्वन् तु भगवान् ऋषिः ।नारायणः स्वयम् साक्षात् पुराणः अव्यक्त-पूरुषः ॥ १।२४
tvam hi vetsi paramam guhyam sarvan tu bhagavān ṛṣiḥ .nārāyaṇaḥ svayam sākṣāt purāṇaḥ avyakta-pūruṣaḥ .. 1.24
नह्यन्यो विद्यते वेत्ता त्वामृते परमेश्वरम् ।शुश्रूषाऽस्माकमखिलं संशयं छेत्तुमर्हसि ॥ १.२५
न हि अन्यः विद्यते वेत्ता त्वाम् ऋते परमेश्वरम् ।शुश्रूषा अस्माकम् अखिलम् संशयम् छेत्तुम् अर्हसि ॥ १।२५
na hi anyaḥ vidyate vettā tvām ṛte parameśvaram .śuśrūṣā asmākam akhilam saṃśayam chettum arhasi .. 1.25
किं कारणमिदं कृत्स्नं कोऽनुसंसरते सदा ।कश्चिदात्मा च का मुक्तिः संसारः किंनिमित्तकः ॥ १.२६
किम् कारणम् इदम् कृत्स्नम् कः अनुसंसरते सदा ।कश्चिद् आत्मा च का मुक्तिः संसारः किंनिमित्तकः ॥ १।२६
kim kāraṇam idam kṛtsnam kaḥ anusaṃsarate sadā .kaścid ātmā ca kā muktiḥ saṃsāraḥ kiṃnimittakaḥ .. 1.26
कः संसारपतीशानः को वा सर्वं प्रपश्यति ।किं तत् परतरं ब्रह्म सर्वं नो वक्तुमर्हसि ॥ १.२७
कः संसार-पतिः ईशानः कः वा सर्वम् प्रपश्यति ।किम् तत् परतरम् ब्रह्म सर्वम् नः वक्तुम् अर्हसि ॥ १।२७
kaḥ saṃsāra-patiḥ īśānaḥ kaḥ vā sarvam prapaśyati .kim tat parataram brahma sarvam naḥ vaktum arhasi .. 1.27
एवमुक्ता तु मुनयः प्रापश्यन् पुरुषोत्तमम् ।विहाय तापसं रूपं संस्थितं स्वेन तेजसा ॥ १.२८
एवम् उक्ता तु मुनयः प्रापश्यन् पुरुषोत्तमम् ।विहाय तापसम् रूपम् संस्थितम् स्वेन तेजसा ॥ १।२८
evam uktā tu munayaḥ prāpaśyan puruṣottamam .vihāya tāpasam rūpam saṃsthitam svena tejasā .. 1.28
विभ्राजमानं विमलं प्रभामण्डलमण्डितम् ।श्रीवत्सवक्षसं देवं तप्तजाम्बूनदप्रभम् ॥ १.२९
विभ्राजमानम् विमलम् प्रभा-मण्डल-मण्डितम् ।श्रीवत्स-वक्षसम् देवम् तप्त-जाम्बूनद-प्रभम् ॥ १।२९
vibhrājamānam vimalam prabhā-maṇḍala-maṇḍitam .śrīvatsa-vakṣasam devam tapta-jāmbūnada-prabham .. 1.29
शङ्खचक्रगदापाणिं शार्ङ्गहस्तं श्रियावृतम् ।न दृष्टस्तत्क्षणादेव नरस्तस्यैव तेजसा ॥ १.३०
शङ्ख-चक्र-गदा-पाणिम् शार्ङ्ग-हस्तम् श्रिया आवृतम् ।न दृष्टः तद्-क्षणात् एव नरः तस्य एव तेजसा ॥ १।३०
śaṅkha-cakra-gadā-pāṇim śārṅga-hastam śriyā āvṛtam .na dṛṣṭaḥ tad-kṣaṇāt eva naraḥ tasya eva tejasā .. 1.30
तदन्तरे महादेवः शशाङ्काङ्कितशेखरः ।प्रसादाभिमुखो रुद्रः प्रादुरासीन्महेश्वरः ॥ १.३१
तद्-अन्तरे महादेवः शशाङ्क-अङ्कित-शेखरः ।प्रसाद-अभिमुखः रुद्रः प्रादुरासीत् महेश्वरः ॥ १।३१
tad-antare mahādevaḥ śaśāṅka-aṅkita-śekharaḥ .prasāda-abhimukhaḥ rudraḥ prādurāsīt maheśvaraḥ .. 1.31
निरीक्ष्य ते जगन्नाथं त्रिनेत्रं चन्द्रभूषणम् ।तुष्टबुर्हृष्टमनसो भक्त्या तं परमेश्वरम् ॥ १.३२
निरीक्ष्य ते जगन्नाथम् त्रिनेत्रम् चन्द्र-भूषणम् ।भक्त्या तम् परमेश्वरम् ॥ १।३२
nirīkṣya te jagannātham trinetram candra-bhūṣaṇam .bhaktyā tam parameśvaram .. 1.32
जयेश्वर महादेव जय भूतपते शिव ।जयाशेषमुनीशान तपसाऽभिप्रपूजित ॥ १.३३
जय ईश्वर महादेव जय भूतपते शिव ।जय अशेष-मुनि-ईशान तपसा अभिप्रपूजित ॥ १।३३
jaya īśvara mahādeva jaya bhūtapate śiva .jaya aśeṣa-muni-īśāna tapasā abhiprapūjita .. 1.33
सहस्रमूर्ते विश्वात्मन् जगद्यन्त्रप्रवर्त्तक ।जयानन्त जगज्जन्मत्राणसंहारकारक ॥ १.३४
सहस्रमूर्ते विश्वात्मन् जगत्-यन्त्र-प्रवर्त्तक ।जय अनन्त जगत्-जन्म-त्राण-संहार-कारक ॥ १।३४
sahasramūrte viśvātman jagat-yantra-pravarttaka .jaya ananta jagat-janma-trāṇa-saṃhāra-kāraka .. 1.34
सहस्रचरणेशान शंभो योगीन्द्रवन्दित ।जयाम्बिकापते देव नमस्ते परमेश्वर ॥ १.३५
सहस्रचरण ईशान शंभो योगि-इन्द्र-वन्दित ।जय अम्बिकापते देव नमः ते परमेश्वर ॥ १।३५
sahasracaraṇa īśāna śaṃbho yogi-indra-vandita .jaya ambikāpate deva namaḥ te parameśvara .. 1.35
संस्तुतो भगवानीशस्त्र्यम्बको भक्तवत्सलः ।समालिङ्ग्य हृषीकेशं प्राह गम्भीरया गिरा ॥ १.३६
संस्तुतः भगवान् ईशः त्र्यम्बकः भक्त-वत्सलः ।समालिङ्ग्य हृषीकेशम् प्राह गम्भीरया गिरा ॥ १।३६
saṃstutaḥ bhagavān īśaḥ tryambakaḥ bhakta-vatsalaḥ .samāliṅgya hṛṣīkeśam prāha gambhīrayā girā .. 1.36
किमर्थं पुण्डरीकाक्ष मुनीन्द्रा ब्रह्मवादिनः ।इमं समागता देशं किं वा कार्यं मयाऽच्युत ॥ १.३७
किमर्थम् पुण्डरीकाक्ष मुनि-इन्द्राः ब्रह्म-वादिनः ।इमम् समागताः देशम् किम् वा कार्यम् मया अच्युत ॥ १।३७
kimartham puṇḍarīkākṣa muni-indrāḥ brahma-vādinaḥ .imam samāgatāḥ deśam kim vā kāryam mayā acyuta .. 1.37
आकर्ण्य भगवद्वाक्यं देवदेवो जनार्दनः ।प्राह देवो महादेवं प्रसादाभिमुखं स्थितम् ॥ १.३८
आकर्ण्य भगवत्-वाक्यम् देवदेवः जनार्दनः ।प्राह देवः महादेवम् प्रसाद-अभिमुखम् स्थितम् ॥ १।३८
ākarṇya bhagavat-vākyam devadevaḥ janārdanaḥ .prāha devaḥ mahādevam prasāda-abhimukham sthitam .. 1.38
इमे हि मुनयो देव तापसाः क्षीणकल्पषाः ।अभ्यागतानां शरणं सम्यग्दर्शनकाङ्क्षिणाम् ॥ १.३९
इमे हि मुनयः देव तापसाः क्षीण-कल्पषाः ।अभ्यागतानाम् शरणम् सम्यक् दर्शन-काङ्क्षिणाम् ॥ १।३९
ime hi munayaḥ deva tāpasāḥ kṣīṇa-kalpaṣāḥ .abhyāgatānām śaraṇam samyak darśana-kāṅkṣiṇām .. 1.39
यदि प्रसन्नो भगवान् मुनीनां भावितात्मनाम् ।सन्निधौ मम तज्ज्ञानं दिव्यं वक्तुमिहार्हसि ॥ १.४०
यदि प्रसन्नः भगवान् मुनीनाम् भावितात्मनाम् ।सन्निधौ मम तत् ज्ञानम् दिव्यम् वक्तुम् इह अर्हसि ॥ १।४०
yadi prasannaḥ bhagavān munīnām bhāvitātmanām .sannidhau mama tat jñānam divyam vaktum iha arhasi .. 1.40
त्वं हि वेत्सि स्वमात्मानं न ह्यन्यो विद्यते शिव।ततस्त्वमात्मनात्मानं मुनीन्द्रेभ्यः प्रदर्शय ॥ १.४१
त्वम् हि वेत्सि स्वम् आत्मानम् न हि अन्यः विद्यते शिव।ततस् त्वम् आत्मना आत्मानम् मुनि-इन्द्रेभ्यः प्रदर्शय ॥ १।४१
tvam hi vetsi svam ātmānam na hi anyaḥ vidyate śiva.tatas tvam ātmanā ātmānam muni-indrebhyaḥ pradarśaya .. 1.41
एवमुक्त्वा हृषीकेशः प्रोवाच मुनिपुंगवान् ।प्रदर्शयन् योगसिद्धिं निरीक्ष्य वृषभध्वजम् ॥ १.४२
एवम् उक्त्वा हृषीकेशः प्रोवाच मुनि-पुंगवान् ।प्रदर्शयन् योग-सिद्धिम् निरीक्ष्य वृषभध्वजम् ॥ १।४२
evam uktvā hṛṣīkeśaḥ provāca muni-puṃgavān .pradarśayan yoga-siddhim nirīkṣya vṛṣabhadhvajam .. 1.42
संदर्शनान्महेशस्य शंकरस्याथ शूलिनः ।कृतार्थं स्वयमात्मानं ज्ञातुमर्हथ तत्त्वतः ॥ १.४३
संदर्शनात् महेशस्य शंकरस्य अथ शूलिनः ।कृतार्थम् स्वयम् आत्मानम् ज्ञातुम् अर्हथ तत्त्वतः ॥ १।४३
saṃdarśanāt maheśasya śaṃkarasya atha śūlinaḥ .kṛtārtham svayam ātmānam jñātum arhatha tattvataḥ .. 1.43
द्रष्टुमर्हथ विश्वेशं प्रत्यक्षं पुरतः स्थितम् ।ममैव सन्निधावेव यथावद् वक्तुमीश्वरः ॥ १.४४
द्रष्टुम् अर्हथ विश्वेशम् प्रत्यक्षम् पुरतस् स्थितम् ।मम एव सन्निधौ एव यथावत् वक्तुम् ईश्वरः ॥ १।४४
draṣṭum arhatha viśveśam pratyakṣam puratas sthitam .mama eva sannidhau eva yathāvat vaktum īśvaraḥ .. 1.44
निशम्य विष्णोर्वचनं प्रणम्य वृषभध्वजम् ।सनत्कुमारप्रमुखाः पृच्छन्ति स्म महेश्वरम् ॥ १.४५
निशम्य विष्णोः वचनम् प्रणम्य वृषभध्वजम् ।सनत्कुमार-प्रमुखाः पृच्छन्ति स्म महेश्वरम् ॥ १।४५
niśamya viṣṇoḥ vacanam praṇamya vṛṣabhadhvajam .sanatkumāra-pramukhāḥ pṛcchanti sma maheśvaram .. 1.45
अथास्मिन्नन्तरे दिव्यमासनं विमलं शिवम् ।किमप्यचिन्त्यं गगनादीश्वरार्थे समुद्बभौ ॥ १.४६
अथ अस्मिन् अन्तरे दिव्यम् आसनम् विमलम् शिवम् ।किम् अपि अचिन्त्यम् गगनात् ईश्वर-अर्थे समुद्बभौ ॥ १।४६
atha asmin antare divyam āsanam vimalam śivam .kim api acintyam gaganāt īśvara-arthe samudbabhau .. 1.46
तत्राससाद योगात्मा विष्णुना सह विश्वकृत् ।तेजसा पूरयन् विश्वं भाति देवो महेश्वरः ॥ १.४७
तत्र आससाद योग-आत्मा विष्णुना सह विश्वकृत् ।तेजसा पूरयन् विश्वम् भाति देवः महेश्वरः ॥ १।४७
tatra āsasāda yoga-ātmā viṣṇunā saha viśvakṛt .tejasā pūrayan viśvam bhāti devaḥ maheśvaraḥ .. 1.47
ततो देवादिदेवेशं शंकरं ब्रह्मवादिनः ।विभ्राजमानं विमले तस्मिन् ददृशुरासने ॥ १.४८
ततस् देव-आदिदेव-ईशम् शंकरम् ब्रह्म-वादिनः ।विभ्राजमानम् विमले तस्मिन् ददृशुः आसने ॥ १।४८
tatas deva-ādideva-īśam śaṃkaram brahma-vādinaḥ .vibhrājamānam vimale tasmin dadṛśuḥ āsane .. 1.48
यं प्रपश्यन्तियोगस्थाः स्वात्मन्यात्मानमीश्वरमा ।अनन्यतेजसं शान्तं शिवं ददृशिरे किल ॥ १.४९
यम् प्रपश्यन्ति योग-स्थाः स्व-आत्मनि आत्मानम् ईश्वरम् आ ।अन् अन्य-तेजसम् शान्तम् शिवम् ददृशिरे किल ॥ १।४९
yam prapaśyanti yoga-sthāḥ sva-ātmani ātmānam īśvaram ā .an anya-tejasam śāntam śivam dadṛśire kila .. 1.49
यतः प्रसूतिर्भूतानां यत्रैतत् प्रविलीयते ।तमासनस्थं भूतानामीशं ददृशिरे किल ॥ १.५०
यतस् प्रसूतिः भूतानाम् यत्र एतत् प्रविलीयते ।तम् आसन-स्थम् भूतानाम् ईशम् ददृशिरे किल ॥ १।५०
yatas prasūtiḥ bhūtānām yatra etat pravilīyate .tam āsana-stham bhūtānām īśam dadṛśire kila .. 1.50
यदन्तरा सर्वमेतद् यतोऽभिन्नमिदं जगत् ।सवासुदेवमासीनं तमीशं ददृशुः किल ॥ १.५१
यद्-अन्तरा सर्वम् एतत् यतस् अभिन्नम् इदम् जगत् ।स वासुदेवम् आसीनम् तम् ईशम् ददृशुः किल ॥ १।५१
yad-antarā sarvam etat yatas abhinnam idam jagat .sa vāsudevam āsīnam tam īśam dadṛśuḥ kila .. 1.51
प्रोवाच पृष्टो भगवान् मुनीनां परमेश्वरः ।निरीक्ष्य पुण्डरीकाक्षं स्वात्मयोगमनुत्तमम् ॥ १.५२
प्रोवाच पृष्टः भगवान् मुनीनाम् परमेश्वरः ।निरीक्ष्य पुण्डरीकाक्षम् स्व-आत्म-योगम् अनुत्तमम् ॥ १।५२
provāca pṛṣṭaḥ bhagavān munīnām parameśvaraḥ .nirīkṣya puṇḍarīkākṣam sva-ātma-yogam anuttamam .. 1.52
तच्छृणुध्वं यथान्यायमुच्यमानं मयाऽनघाः ।प्रशान्तमानसाः सर्वे ज्ञानमीश्वरभाषितम् ॥ १.५३
तत् शृणुध्वम् यथान्यायम् उच्यमानम् मया अनघाः ।प्रशान्त-मानसाः सर्वे ज्ञानम् ईश्वर-भाषितम् ॥ १।५३
tat śṛṇudhvam yathānyāyam ucyamānam mayā anaghāḥ .praśānta-mānasāḥ sarve jñānam īśvara-bhāṣitam .. 1.53
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे (ईश्वरगीतासु) प्रथमोऽध्यायः ॥ १ ॥
इति श्री-कूर्मपुराणे षट्साहस्त्र्याम् संहितायाम् उपरि विभागे (ईश्वरगीतासु प्रथमः अध्यायः ॥ १ ॥
iti śrī-kūrmapurāṇe ṣaṭsāhastryām saṃhitāyām upari vibhāge (īśvaragītāsu prathamaḥ adhyāyaḥ .. 1 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In