| |
|

This overlay will guide you through the buttons:

ईश्वर उवाच ।
अतः परं प्रवक्ष्यामि योगं परमदुर्लभम् ।येनात्मानं प्रपश्यन्ति भानुमन्तमिवेश्वरम् ॥ ११.१
अतस् परम् प्रवक्ष्यामि योगम् परम-दुर्लभम् ।येन आत्मानम् प्रपश्यन्ति भानुमन्तम् इव ईश्वरम् ॥ ११।१
atas param pravakṣyāmi yogam parama-durlabham .yena ātmānam prapaśyanti bhānumantam iva īśvaram .. 11.1
योगाग्निर्दहति क्षिप्रमशेषं पापपञ्जरम् ।प्रसन्नं जायते ज्ञानं साक्षान्निर्वाणसिद्धिदम् ॥ ११.२
योग-अग्निः दहति क्षिप्रम् अशेषम् पाप-पञ्जरम् ।प्रसन्नम् जायते ज्ञानम् साक्षात् निर्वाण-सिद्धि-दम् ॥ ११।२
yoga-agniḥ dahati kṣipram aśeṣam pāpa-pañjaram .prasannam jāyate jñānam sākṣāt nirvāṇa-siddhi-dam .. 11.2
योगात्संजायते ज्ञानं ज्ञानाद् योगः प्रवर्त्तते ।योगज्ञानाभियुक्तस्य प्रसीदति महेश्वरः ॥ ११.३
योगात् संजायते ज्ञानम् ज्ञानात् योगः प्रवर्त्तते ।योग-ज्ञान-अभियुक्तस्य प्रसीदति महेश्वरः ॥ ११।३
yogāt saṃjāyate jñānam jñānāt yogaḥ pravarttate .yoga-jñāna-abhiyuktasya prasīdati maheśvaraḥ .. 11.3
एककालं द्विकालं वा त्रिकालं नित्यमेव वा ।ये युञ्जन्ति महायोगं ते विज्ञेया महेश्वराः ॥ ११.४
एक-कालम् द्वि-कालम् वा त्रि-कालम् नित्यम् एव वा ।ये युञ्जन्ति महा-योगम् ते विज्ञेयाः महेश्वराः ॥ ११।४
eka-kālam dvi-kālam vā tri-kālam nityam eva vā .ye yuñjanti mahā-yogam te vijñeyāḥ maheśvarāḥ .. 11.4
योगस्तु द्विविधो ज्ञेयो ह्यभावः प्रथमो मतः ।अपरस्तु महायोगः सर्वयोगोत्तमोत्तमः ॥ ११.५
योगः तु द्विविधः ज्ञेयः हि अभावः प्रथमः मतः ।अपरः तु महा-योगः सर्व-योग-उत्तम-उत्तमः ॥ ११।५
yogaḥ tu dvividhaḥ jñeyaḥ hi abhāvaḥ prathamaḥ mataḥ .aparaḥ tu mahā-yogaḥ sarva-yoga-uttama-uttamaḥ .. 11.5
शून्यं सर्वनिराभासं स्वरूपं यत्र चिन्त्यते ।अभावयोगः स प्रोक्तो येनात्मानं प्रपश्यति ॥ ११.६
शून्यम् सर्व-निराभासम् स्वरूपम् यत्र चिन्त्यते ।अभाव-योगः स प्रोक्तः येन आत्मानम् प्रपश्यति ॥ ११।६
śūnyam sarva-nirābhāsam svarūpam yatra cintyate .abhāva-yogaḥ sa proktaḥ yena ātmānam prapaśyati .. 11.6
यत्र पश्यति चात्मानं नित्यानन्दं निरञ्जनम् ।मयैक्यं स महायोगो भाषितः परमेश्वरः ॥ ११.७
यत्र पश्यति च आत्मानम् नित्य-आनन्दम् निरञ्जनम् ।मया ऐक्यम् स महा-योगः भाषितः परमेश्वरः ॥ ११।७
yatra paśyati ca ātmānam nitya-ānandam nirañjanam .mayā aikyam sa mahā-yogaḥ bhāṣitaḥ parameśvaraḥ .. 11.7
ये चान्ये योगिनां योगाः श्रूयन्ते ग्रन्थविस्तरे ।सर्वे ते ब्रह्मयोगस्य कलां नार्हन्ति षोडशीम् ॥ ११.८
ये च अन्ये योगिनाम् योगाः श्रूयन्ते ग्रन्थ-विस्तरे ।सर्वे ते ब्रह्मयोगस्य कलाम् न अर्हन्ति षोडशीम् ॥ ११।८
ye ca anye yoginām yogāḥ śrūyante grantha-vistare .sarve te brahmayogasya kalām na arhanti ṣoḍaśīm .. 11.8
यत्र साक्षात् प्रपश्यन्ति विमुक्ता विश्वमीश्वरम् ।सर्वेषामेव योगानां स योगः परमो मतः ॥ ११.९
यत्र साक्षात् प्रपश्यन्ति विमुक्ताः विश्वम् ईश्वरम् ।सर्वेषाम् एव योगानाम् स योगः परमः मतः ॥ ११।९
yatra sākṣāt prapaśyanti vimuktāḥ viśvam īśvaram .sarveṣām eva yogānām sa yogaḥ paramaḥ mataḥ .. 11.9
सहस्रशोऽथ शतशो ये चेश्वरबहिष्कृताः ।न ते पश्यन्ति मामेकं योगिनो यतमानसाः ॥ ११.१०
सहस्रशस् अथ शतशस् ये च ईश्वर-बहिष्कृताः ।न ते पश्यन्ति माम् एकम् योगिनः यत-मानसाः ॥ ११।१०
sahasraśas atha śataśas ye ca īśvara-bahiṣkṛtāḥ .na te paśyanti mām ekam yoginaḥ yata-mānasāḥ .. 11.10
प्राणायामस्तथा ध्यानं प्रत्याहारोऽथ धारणा ।समाधिश्च मुनिश्रेष्ठा यमो नियम आसनम् ॥ ११.११
प्राणायामः तथा ध्यानम् प्रत्याहारः अथ धारणा ।समाधिः च मुनि-श्रेष्ठाः यमः नियमः आसनम् ॥ ११।११
prāṇāyāmaḥ tathā dhyānam pratyāhāraḥ atha dhāraṇā .samādhiḥ ca muni-śreṣṭhāḥ yamaḥ niyamaḥ āsanam .. 11.11
मय्येकचित्ततायोगो वृत्त्यन्तरनिरोधतः ।तत्साधनानि चान्यानि युष्माकं कथितानि तु ॥ ११.१२
मयि एक-चित्त-ता-योगः वृत्ति-अन्तर-निरोधतः ।तद्-साधनानि च अन्यानि युष्माकम् कथितानि तु ॥ ११।१२
mayi eka-citta-tā-yogaḥ vṛtti-antara-nirodhataḥ .tad-sādhanāni ca anyāni yuṣmākam kathitāni tu .. 11.12
अहिंसा सत्यमस्तेयं ब्रह्मचर्यापरिग्रहौ ।यमाः संक्षेपतः प्रोक्ताश्चित्तशुद्धिप्रदा नृणाम् ॥ ११.१३
अहिंसा सत्यम् अस्तेयम् ब्रह्मचर्य-अपरिग्रहौ ।यमाः संक्षेपतः प्रोक्ताः चित्त-शुद्धि-प्रदाः नृणाम् ॥ ११।१३
ahiṃsā satyam asteyam brahmacarya-aparigrahau .yamāḥ saṃkṣepataḥ proktāḥ citta-śuddhi-pradāḥ nṛṇām .. 11.13
कर्मणा मनसा वाचा सर्वभूतेषु सर्वदा ।अक्लेशजननं प्रोक्ता त्वहिंसा परमर्षिभिः ॥ ११.१४
कर्मणा मनसा वाचा सर्व-भूतेषु सर्वदा ।अक्लेश-जननम् प्रोक्ता तु अहिंसा परम-ऋषिभिः ॥ ११।१४
karmaṇā manasā vācā sarva-bhūteṣu sarvadā .akleśa-jananam proktā tu ahiṃsā parama-ṛṣibhiḥ .. 11.14
अहिंसायाः परो धर्मो नास्त्यहिंसा परं सुखम् ।विधिना या भवेद्धिंसा त्वहिंसैव प्रकीर्त्तिता ॥ ११.१५
अहिंसायाः परः धर्मः न अस्ति अहिंसा परम् सुखम् ।विधिना या भवेत् हिंसा तु अहिंसा एव प्रकीर्त्तिता ॥ ११।१५
ahiṃsāyāḥ paraḥ dharmaḥ na asti ahiṃsā param sukham .vidhinā yā bhavet hiṃsā tu ahiṃsā eva prakīrttitā .. 11.15
सत्येन सर्वमाप्नोति सत्ये सर्वं प्रतिष्ठितम् ।यथार्थकथनाचारः सत्यं प्रोक्तं द्विजातिभिः ॥ ११.१६
सत्येन सर्वम् आप्नोति सत्ये सर्वम् प्रतिष्ठितम् ।यथार्थ-कथन-आचारः सत्यम् प्रोक्तम् द्विजातिभिः ॥ ११।१६
satyena sarvam āpnoti satye sarvam pratiṣṭhitam .yathārtha-kathana-ācāraḥ satyam proktam dvijātibhiḥ .. 11.16
परद्रव्यापहरणं चौर्यादऽथ बलेन वा ।स्तेयं तस्यानाचरणादस्तेयं धर्मसाधनम् ॥ ११.१७
पर-द्रव्य-अपहरणम् चौर्यात् अ थ बलेन वा ।स्तेयम् तस्य अन् आचरणात् अस्तेयम् धर्म-साधनम् ॥ ११।१७
para-dravya-apaharaṇam cauryāt a tha balena vā .steyam tasya an ācaraṇāt asteyam dharma-sādhanam .. 11.17
कर्मणा मनसा वाचा सर्वावस्थासु सर्वदा ।सर्वत्र मैथुनत्यागं ब्रह्मचर्यं प्रचक्षते ॥ ११.१८
कर्मणा मनसा वाचा सर्व-अवस्थासु सर्वदा ।सर्वत्र मैथुन-त्यागम् ब्रह्मचर्यम् प्रचक्षते ॥ ११।१८
karmaṇā manasā vācā sarva-avasthāsu sarvadā .sarvatra maithuna-tyāgam brahmacaryam pracakṣate .. 11.18
द्रव्याणामप्यनादानमापद्यपि तथेच्छया ।अपरिग्रहं इत्याहुस्तं प्रयत्नेन पालयेत् ॥ ११.१९
द्रव्याणाम् अपि अनादानम् आपदि अपि तथा इच्छया ।अपरिग्रहम् इति आहुः तम् प्रयत्नेन पालयेत् ॥ ११।१९
dravyāṇām api anādānam āpadi api tathā icchayā .aparigraham iti āhuḥ tam prayatnena pālayet .. 11.19
तपः स्वाध्यायसंतोषौ शौचमीश्वरपूजनम् ।समासान्नियमाः प्रोक्ता योगसिद्धिप्रदायिनः ॥ ११.२०
तपः स्वाध्याय-संतोषौ शौचम् ईश्वर-पूजनम् ।समासात् नियमाः प्रोक्ताः योग-सिद्धि-प्रदायिनः ॥ ११।२०
tapaḥ svādhyāya-saṃtoṣau śaucam īśvara-pūjanam .samāsāt niyamāḥ proktāḥ yoga-siddhi-pradāyinaḥ .. 11.20
उपवासपराकादिकृच्छ्रचान्द्रायणादिभिः ।शरीरशोषणं प्राहुस्तापसास्तप उत्तमम् ॥ ११.२१
उपवास-पराक-आदि-कृच्छ्र-चान्द्रायण-आदिभिः ।शरीर-शोषणम् प्राहुः तापसाः तपः उत्तमम् ॥ ११।२१
upavāsa-parāka-ādi-kṛcchra-cāndrāyaṇa-ādibhiḥ .śarīra-śoṣaṇam prāhuḥ tāpasāḥ tapaḥ uttamam .. 11.21
वेदान्तशतरुद्रीयप्रणवादिजपं बुधाः ।सत्त्वसिद्धिकरं पुंसां स्वाध्यायं परिचक्षते ॥ ११.२२
।सत्त्व-सिद्धि-करम् पुंसाम् स्वाध्यायम् परिचक्षते ॥ ११।२२
.sattva-siddhi-karam puṃsām svādhyāyam paricakṣate .. 11.22
स्वाध्यायस्य त्रयो भेदा वाचिकोपांशुमानसाः ।उत्तरोत्तरवैशिष्ट्यं प्राहुर्वेदार्थवेदिनः ॥ ११.२३
स्वाध्यायस्य त्रयः भेदाः वाचिक-उपांशु-मानसाः ।उत्तर-उत्तर-वैशिष्ट्यम् प्राहुः वेद-अर्थ-वेदिनः ॥ ११।२३
svādhyāyasya trayaḥ bhedāḥ vācika-upāṃśu-mānasāḥ .uttara-uttara-vaiśiṣṭyam prāhuḥ veda-artha-vedinaḥ .. 11.23
यः शब्दबोधजननः परेषां श्रृण्वतां स्फुटम् ।स्वाध्यायो वाचिकः प्रोक्त उपांशोरथ लक्षणम् ॥ ११.२४
यः शब्द-बोध-जननः परेषाम् श्रृण्वताम् स्फुटम् ।स्वाध्यायः वाचिकः प्रोक्तः उपांशोः अथ लक्षणम् ॥ ११।२४
yaḥ śabda-bodha-jananaḥ pareṣām śrṛṇvatām sphuṭam .svādhyāyaḥ vācikaḥ proktaḥ upāṃśoḥ atha lakṣaṇam .. 11.24
ओष्ठयोः स्पन्दमात्रेण परस्याशब्दबोधकम् ।उपांशुरेष निर्दिष्टः साहस्रवाचिकोजपः ॥ ११.२५
ओष्ठयोः स्पन्द-मात्रेण परस्य अ शब्द-बोधकम् ।उपांशुः एष निर्दिष्टः साहस्र-वाचिकः जपः ॥ ११।२५
oṣṭhayoḥ spanda-mātreṇa parasya a śabda-bodhakam .upāṃśuḥ eṣa nirdiṣṭaḥ sāhasra-vācikaḥ japaḥ .. 11.25
यत्पदाक्षरसङ्गत्या परिस्पन्दनवर्जितम् ।चिन्तनं सर्वशब्दानां मानसं तं जपं विदुः ॥ ११.२६
यत् पद-अक्षर-सङ्गत्या परिस्पन्दन-वर्जितम् ।चिन्तनम् सर्व-शब्दानाम् मानसम् तम् जपम् विदुः ॥ ११।२६
yat pada-akṣara-saṅgatyā parispandana-varjitam .cintanam sarva-śabdānām mānasam tam japam viduḥ .. 11.26
यदृच्छालाभतो नित्यमलं पुंसो भवेदिति ।प्राशस्त्यमृषयः प्राहुः संतोषं सुखलक्षणम् ॥ ११.२७
यदृच्छा-लाभतः नित्यम् अलम् पुंसः भवेत् इति ।प्राशस्त्यम् ऋषयः प्राहुः संतोषम् सुख-लक्षणम् ॥ ११।२७
yadṛcchā-lābhataḥ nityam alam puṃsaḥ bhavet iti .prāśastyam ṛṣayaḥ prāhuḥ saṃtoṣam sukha-lakṣaṇam .. 11.27
बाह्यमाभ्यन्तरं शौचं द्विधा प्रोक्तं द्विजोत्तमाः ।मृज्जलाभ्यां स्मृतं बाह्यं मनः शुद्धिरथान्तरम् ॥ ११.२८
बाह्यम् आभ्यन्तरम् शौचम् द्विधा प्रोक्तम् द्विजोत्तमाः ।मृद्-जलाभ्याम् स्मृतम् बाह्यम् मनः शुद्धिः अथ अन्तरम् ॥ ११।२८
bāhyam ābhyantaram śaucam dvidhā proktam dvijottamāḥ .mṛd-jalābhyām smṛtam bāhyam manaḥ śuddhiḥ atha antaram .. 11.28
स्तुतिस्मरणपूजाभिर्वाङ्मनः कायकर्मभिः ।सुनिश्चला शिवे भक्तिरेतदीश्वरपूजनम् ॥ ११.२९
स्तुति-स्मरण-पूजाभिः वाच्-मनः-काय-कर्मभिः ।सु निश्चला शिवे भक्तिः एतत् ईश्वर-पूजनम् ॥ ११।२९
stuti-smaraṇa-pūjābhiḥ vāc-manaḥ-kāya-karmabhiḥ .su niścalā śive bhaktiḥ etat īśvara-pūjanam .. 11.29
यमाश्च नियमाः प्रोक्ताः प्राणायामं निबोधत ।प्राणः स्वदेहजो वायुरायामस्तन्निरोधनम् ॥ ११.३०
यमाः च नियमाः प्रोक्ताः प्राणायामम् निबोधत । ॥ ११।३०
yamāḥ ca niyamāḥ proktāḥ prāṇāyāmam nibodhata . .. 11.30
उत्तमाधममध्यत्वात् त्रिधाऽयं प्रतिपादितः ।य एव द्विविधः प्रोक्तः सगर्भोऽगर्भ एव च ॥ ११.३१
उत्तम-अधम-मध्य-त्वात् त्रिधा अयम् प्रतिपादितः ।यः एव द्विविधः प्रोक्तः सगर्भः अगर्भः एव च ॥ ११।३१
uttama-adhama-madhya-tvāt tridhā ayam pratipāditaḥ .yaḥ eva dvividhaḥ proktaḥ sagarbhaḥ agarbhaḥ eva ca .. 11.31
मात्राद्वादशको मन्दश्चतुर्विशतिमात्रकः ।मध्यमः प्राणसंरोधः षट्त्रिंशान्मात्रिकोत्तमः ॥ ११.३२
मात्रा-द्वादशकः मन्दः चतुर्विशति-मात्रकः ।मध्यमः प्राण-संरोधः षट्त्रिंशात् मात्रिका-उत्तमः ॥ ११।३२
mātrā-dvādaśakaḥ mandaḥ caturviśati-mātrakaḥ .madhyamaḥ prāṇa-saṃrodhaḥ ṣaṭtriṃśāt mātrikā-uttamaḥ .. 11.32
यः स्वेदकम्पनोच्छ्वासजनकस्तु यथाक्रमम् ।मन्दमध्यममुख्यानामानन्दादुत्तमोत्तमः ॥ ११.३३
यः स्वेद-कम्पन-उच्छ्वास-जनकः तु यथाक्रमम् ।मन्द-मध्यम-मुख्यानाम् आनन्दात् उत्तमोत्तमः ॥ ११।३३
yaḥ sveda-kampana-ucchvāsa-janakaḥ tu yathākramam .manda-madhyama-mukhyānām ānandāt uttamottamaḥ .. 11.33
सगर्भमाहुः सजपमगर्भं विजपं बुधाः ।एतद् वै योगिनामुक्तं प्राणायामस्य लक्षणम् ॥ ११.३४
सगर्भम् आहुः स जपम् अगर्भम् विजपम् बुधाः ।एतत् वै योगिनाम् उक्तम् प्राणायामस्य लक्षणम् ॥ ११।३४
sagarbham āhuḥ sa japam agarbham vijapam budhāḥ .etat vai yoginām uktam prāṇāyāmasya lakṣaṇam .. 11.34
सव्याहृतिं सप्रणवां गायत्रीं शिरसा सह ।त्रिर्जपेदायतप्राणः प्राणायामः स उच्यते ॥ ११.३५
स व्याहृतिम् स प्रणवाम् गायत्रीम् शिरसा सह ।त्रिस् जपेत् आयत-प्राणः प्राणायामः सः उच्यते ॥ ११।३५
sa vyāhṛtim sa praṇavām gāyatrīm śirasā saha .tris japet āyata-prāṇaḥ prāṇāyāmaḥ saḥ ucyate .. 11.35
रेचकः पूरकश्चैव प्राणायामोऽथ कुम्भकः ।प्रोच्यते सर्वशास्त्रेषु योगिभिर्यतमानसैः ॥ ११.३६
रेचकः पूरकः च एव प्राणायामः अथ कुम्भकः ।प्रोच्यते सर्व-शास्त्रेषु योगिभिः यत-मानसैः ॥ ११।३६
recakaḥ pūrakaḥ ca eva prāṇāyāmaḥ atha kumbhakaḥ .procyate sarva-śāstreṣu yogibhiḥ yata-mānasaiḥ .. 11.36
रेचको बाह्यनिश्वासः पूरकस्तन्निरोधनः ।साम्येन संस्थितिर्या सा कुम्भकः परिगीयते ॥ ११.३७
।साम्येन संस्थितिः या सा कुम्भकः परिगीयते ॥ ११।३७
.sāmyena saṃsthitiḥ yā sā kumbhakaḥ parigīyate .. 11.37
इन्द्रियाणां विचरतां विषयेषु स्वबावतः ।निग्रहः प्रोच्यते सद्भिः प्रत्याहारस्तु सत्तमाः ॥ ११.३८
इन्द्रियाणाम् विचरताम् विषयेषु स्वबावतः ।निग्रहः प्रोच्यते सद्भिः प्रत्याहारः तु सत्तमाः ॥ ११।३८
indriyāṇām vicaratām viṣayeṣu svabāvataḥ .nigrahaḥ procyate sadbhiḥ pratyāhāraḥ tu sattamāḥ .. 11.38
हृत्पुण्डरीके नाभ्यां वा मूर्ध्नि पर्वसुस्तके ।एवमादिषु देशेषु धारणा चित्तबन्धनम् ॥ ११.३९
हृद्-पुण्डरीके नाभ्याम् वा मूर्ध्नि पर्व-सुस्तके ।एवमादिषु देशेषु धारणा चित्त-बन्धनम् ॥ ११।३९
hṛd-puṇḍarīke nābhyām vā mūrdhni parva-sustake .evamādiṣu deśeṣu dhāraṇā citta-bandhanam .. 11.39
देशावस्थितिमालम्ब्य बुद्धेर्या वृत्तिसंततिः ।वृत्त्यन्तरैरसृष्टा या तद्ध्यानं सूरयो विदुः ॥ ११.४०
देश-अवस्थितिम् आलम्ब्य बुद्धेः या वृत्ति-संततिः ।वृत्ति-अन्तरैः असृष्टा या तत् ध्यानम् सूरयः विदुः ॥ ११।४०
deśa-avasthitim ālambya buddheḥ yā vṛtti-saṃtatiḥ .vṛtti-antaraiḥ asṛṣṭā yā tat dhyānam sūrayaḥ viduḥ .. 11.40
एकाकारः समाधिः स्याद् देशालम्बनवर्जितः ।प्रत्ययो ह्यर्थमात्रेण योगसाधनमुत्तमम् ॥ ११.४१
एक-आकारः समाधिः स्यात् देश-आलम्बन-वर्जितः ।प्रत्ययः हि अर्थ-मात्रेण योग-साधनम् उत्तमम् ॥ ११।४१
eka-ākāraḥ samādhiḥ syāt deśa-ālambana-varjitaḥ .pratyayaḥ hi artha-mātreṇa yoga-sādhanam uttamam .. 11.41
धारणा द्वादशायामा ध्यानं द्वादशधारणाः ।ध्यानं द्वादशकं यावत् समाधिरभिधीयते ॥ ११.४२
धारणाः द्वादश-आयामाः ध्यानम् द्वादश-धारणाः ।ध्यानम् द्वादशकम् यावत् समाधिः अभिधीयते ॥ ११।४२
dhāraṇāḥ dvādaśa-āyāmāḥ dhyānam dvādaśa-dhāraṇāḥ .dhyānam dvādaśakam yāvat samādhiḥ abhidhīyate .. 11.42
आसनं स्वस्तिकं प्रोक्तं पद्ममर्द्धासनं तथा ।साधनानां च सर्वेषामेतत्साधनमुत्तमम् ॥ ११.४३
आसनम् स्वस्तिकम् प्रोक्तम् पद्मम् अर्द्धासनम् तथा ।साधनानाम् च सर्वेषाम् एतत् साधनम् उत्तमम् ॥ ११।४३
āsanam svastikam proktam padmam arddhāsanam tathā .sādhanānām ca sarveṣām etat sādhanam uttamam .. 11.43
ऊर्वोरुपरि विप्रेन्द्राः कृत्वा पादतले उभे ।समासीनात्मनः पद्ममेतदासनमुत्तमम् ॥ ११.४४
ऊर्वोः उपरि विप्र-इन्द्राः कृत्वा पाद-तले उभे ।समासीन-आत्मनः पद्मम् एतत् आसनम् उत्तमम् ॥ ११।४४
ūrvoḥ upari vipra-indrāḥ kṛtvā pāda-tale ubhe .samāsīna-ātmanaḥ padmam etat āsanam uttamam .. 11.44
एकं पादमथैकस्मिन् विष्टभ्योरसि सत्तमाः ।आसीनार्द्धासनमिदं योगसाधनमुत्तमम् ॥ ११.४५
एकम् पादम् अथ एकस्मिन् विष्टभ्य उरसि सत्तमाः ।आसीन-अर्द्धासनम् इदम् योग-साधनम् उत्तमम् ॥ ११।४५
ekam pādam atha ekasmin viṣṭabhya urasi sattamāḥ .āsīna-arddhāsanam idam yoga-sādhanam uttamam .. 11.45
उभे कृत्वा पादतले जानूर्वोरन्तरेण हि ।समासीतात्मनः प्रोक्तमासनं स्वस्तिकं परम् ॥ ११.४६
उभे कृत्वा पाद-तले जानु-ऊर्वोः अन्तरेण हि ।समासीत आत्मनः प्रोक्तम् आसनम् स्वस्तिकम् परम् ॥ ११।४६
ubhe kṛtvā pāda-tale jānu-ūrvoḥ antareṇa hi .samāsīta ātmanaḥ proktam āsanam svastikam param .. 11.46
अदेशकाले योगस्य दर्शनं हि न विद्यते ।अग्न्यभ्यासे जले वाऽपि शुष्कपर्णचये तथा ॥ ११.४७
अ देश-काले योगस्य दर्शनम् हि न विद्यते ।अग्नि-अभ्यासे जले वा अपि शुष्क-पर्ण-चये तथा ॥ ११।४७
a deśa-kāle yogasya darśanam hi na vidyate .agni-abhyāse jale vā api śuṣka-parṇa-caye tathā .. 11.47
जन्तुव्याप्ते श्मशाने च जीर्णगोष्ठे चतुष्पथे ।सशब्दे सभये वाऽपि चैत्यवल्मीकसंचये ॥ ११.४८
जन्तु-व्याप्ते श्मशाने च जीर्ण-गोष्ठे चतुष्पथे ।स शब्दे स भये वा अपि चैत्य-वल्मीक-संचये ॥ ११।४८
jantu-vyāpte śmaśāne ca jīrṇa-goṣṭhe catuṣpathe .sa śabde sa bhaye vā api caitya-valmīka-saṃcaye .. 11.48
अशुभे दुर्जनाक्रान्ते मशकादिसमन्विते ।नाचरेद् देहबाधे वा दौर्मनस्यादिसंभवे ॥ ११.४९
अशुभे दुर्जन-आक्रान्ते मशक-आदि-समन्विते ।न आचरेत् देह-बाधे वा दौर्मनस्य-आदि-संभवे ॥ ११।४९
aśubhe durjana-ākrānte maśaka-ādi-samanvite .na ācaret deha-bādhe vā daurmanasya-ādi-saṃbhave .. 11.49
सुगुप्ते सुशुभे देशे गुहायां पर्वतस्य तु ।नद्यास्तीरे पुण्यदेशे देवतायतने तथा ॥ ११.५०
सु गुप्ते सु शुभे देशे गुहायाम् पर्वतस्य तु ।नद्याः तीरे पुण्य-देशे देवतायतने तथा ॥ ११।५०
su gupte su śubhe deśe guhāyām parvatasya tu .nadyāḥ tīre puṇya-deśe devatāyatane tathā .. 11.50
गृहे वा सुशुभे रम्ये विजने जन्तुवर्जिते ।युञ्जीत योगी सततमात्मानं मत्परायणः ॥ ११.५१
गृहे वा सु शुभे रम्ये विजने जन्तु-वर्जिते ।युञ्जीत योगी सततम् आत्मानम् मद्-परायणः ॥ ११।५१
gṛhe vā su śubhe ramye vijane jantu-varjite .yuñjīta yogī satatam ātmānam mad-parāyaṇaḥ .. 11.51
नमस्कृत्याथ योगीन्द्रान् सशिष्यांश्च विनायकम् ।गुरुं चैवाथ मां योगी युञ्जीत सुसमाहितः ॥ ११.५२
नमस्कृत्य अथ योगि-इन्द्रान् स शिष्यान् च विनायकम् ।गुरुम् च एव अथ माम् योगी युञ्जीत सु समाहितः ॥ ११।५२
namaskṛtya atha yogi-indrān sa śiṣyān ca vināyakam .gurum ca eva atha mām yogī yuñjīta su samāhitaḥ .. 11.52
आसनं स्वस्तिकं बद्ध्वा पद्ममर्द्धमथापि वा ।नासिकाग्रे समां दृष्टिमीषदुन्मीलितेक्षणः ॥ ११.५३
आसनम् स्वस्तिकम् बद्ध्वा पद्मम् अर्द्धम् अथ अपि वा ।नासिका-अग्रे समाम् दृष्टिम् ईषत् उन्मीलित-ईक्षणः ॥ ११।५३
āsanam svastikam baddhvā padmam arddham atha api vā .nāsikā-agre samām dṛṣṭim īṣat unmīlita-īkṣaṇaḥ .. 11.53
कृत्वाऽथ निर्भयः शान्तस्त्यक्त्वा मायामयं जगत् ।स्वात्मन्यवस्थितं देवं चिन्तयेत् परमेश्वरम् ॥ ११.५४
कृत्वा अथ निर्भयः शान्तः त्यक्त्वा माया-मयम् जगत् ।स्व-आत्मनि अवस्थितम् देवम् चिन्तयेत् परमेश्वरम् ॥ ११।५४
kṛtvā atha nirbhayaḥ śāntaḥ tyaktvā māyā-mayam jagat .sva-ātmani avasthitam devam cintayet parameśvaram .. 11.54
शिखाग्रे द्वादशाङ्गुल्ये कल्पयित्वाऽथ पङ्कजम् ।धर्मकन्दसमुद्भूतं ज्ञाननालं सुशोभनम् ॥ ११.५५
शिखा-अग्रे द्वादश-अङ्गुल्ये कल्पयित्वा अथ पङ्कजम् ।धर्म-कन्द-समुद्भूतम् ज्ञान-नालम् सु शोभनम् ॥ ११।५५
śikhā-agre dvādaśa-aṅgulye kalpayitvā atha paṅkajam .dharma-kanda-samudbhūtam jñāna-nālam su śobhanam .. 11.55
ऐश्वर्याष्टदलं श्वेतं परं वैराग्यकर्णिकम् ।चिन्तयेत् परमं कोशं कर्णिकायां हिरण्मयम् ॥ ११.५६
ऐश्वर्य-अष्टदलम् श्वेतम् परम् वैराग्य-कर्णिकम् ।चिन्तयेत् परमम् कोशम् कर्णिकायाम् हिरण्मयम् ॥ ११।५६
aiśvarya-aṣṭadalam śvetam param vairāgya-karṇikam .cintayet paramam kośam karṇikāyām hiraṇmayam .. 11.56
सर्वशक्तिमयं साक्षाद् यं प्राहुर्दिव्यमव्ययम् ।ओंकारवाच्यमव्यक्तं रश्मिजालसमाकुलम् ॥ ११.५७
सर्व-शक्ति-मयम् साक्षात् यम् प्राहुः दिव्यम् अव्ययम् ।ओंकार-वाच्यम् अव्यक्तम् रश्मि-जाल-समाकुलम् ॥ ११।५७
sarva-śakti-mayam sākṣāt yam prāhuḥ divyam avyayam .oṃkāra-vācyam avyaktam raśmi-jāla-samākulam .. 11.57
चिन्तयेत् तत्र विमलं परं ज्योतिर्यदक्षरम् ।तस्मिन् ज्योतिषि विन्यस्यस्वात्मानं तदभेदतः ॥ ११.५८
चिन्तयेत् तत्र विमलम् परम् ज्योतिः यत् अक्षरम् ।तस्मिन् ज्योतिषि विन्यस्यस्व आत्मानम् तद्-अभेदतः ॥ ११।५८
cintayet tatra vimalam param jyotiḥ yat akṣaram .tasmin jyotiṣi vinyasyasva ātmānam tad-abhedataḥ .. 11.58
ध्यायीताकाशमध्यस्थमीशं परमकारणम् ।तदात्मा सर्वगो भूत्वा न किंचिदपि चिन्तयेत् ॥ ११.५९
ध्यायीत आकाश-मध्य-स्थम् ईशम् परम-कारणम् ।तदा आत्मा सर्व-गः भूत्वा न किंचिद् अपि चिन्तयेत् ॥ ११।५९
dhyāyīta ākāśa-madhya-stham īśam parama-kāraṇam .tadā ātmā sarva-gaḥ bhūtvā na kiṃcid api cintayet .. 11.59
एतद् गुह्यतमं ध्यानं ध्यानान्तरमथोच्यते ।चिन्तयित्वा तु पूर्वोक्तं हृदये पद्ममुत्तमम् ॥ ११.६०
एतत् गुह्यतमम् ध्यानम् ध्यान-अन्तरम् अथ उच्यते ।चिन्तयित्वा तु पूर्व-उक्तम् हृदये पद्मम् उत्तमम् ॥ ११।६०
etat guhyatamam dhyānam dhyāna-antaram atha ucyate .cintayitvā tu pūrva-uktam hṛdaye padmam uttamam .. 11.60
आत्मानमथ कर्त्तारं तत्रानलसमत्विषम् ।मध्ये वह्निशिखाकारं पुरुषं पञ्चविंशकम् ॥ ११.६१
आत्मानम् अथ कर्त्तारम् तत्र अनल-सम-त्विषम् ।मध्ये वह्नि-शिखा-आकारम् पुरुषम् पञ्चविंशकम् ॥ ११।६१
ātmānam atha karttāram tatra anala-sama-tviṣam .madhye vahni-śikhā-ākāram puruṣam pañcaviṃśakam .. 11.61
चिन्तयेत् परमात्मानं तन्मध्ये गगनं परम् ।ओंकरबोधितं तत्त्वं शाश्वतं शिवमच्युतम् ॥ ११.६२
चिन्तयेत् परमात्मानम् तद्-मध्ये गगनम् परम् ।ओंकर-बोधितम् तत्त्वम् शाश्वतम् शिवम् अच्युतम् ॥ ११।६२
cintayet paramātmānam tad-madhye gaganam param .oṃkara-bodhitam tattvam śāśvatam śivam acyutam .. 11.62
अव्यक्तं प्रकृतौ लीनं परं ज्योतिरनुत्तमम् ।तदन्तः परमं तत्त्वमात्माधारं निरञ्जनम् ॥ ११.६३
अव्यक्तम् प्रकृतौ लीनम् परम् ज्योतिः अनुत्तमम् ।तद्-अन्तर् परमम् तत्त्वम् आत्म-आधारम् निरञ्जनम् ॥ ११।६३
avyaktam prakṛtau līnam param jyotiḥ anuttamam .tad-antar paramam tattvam ātma-ādhāram nirañjanam .. 11.63
ध्यायीत तन्मयो नित्यमेकरूपं महेश्वरम् ।विशोध्य सर्वतत्त्वानि प्रणवेनाथवा पुनः ॥ ११.६४
ध्यायीत तद्-मयः नित्यम् एक-रूपम् महेश्वरम् ।विशोध्य सर्व-तत्त्वानि प्रणवेन अथवा पुनर् ॥ ११।६४
dhyāyīta tad-mayaḥ nityam eka-rūpam maheśvaram .viśodhya sarva-tattvāni praṇavena athavā punar .. 11.64
संस्थाप्य मयि चात्मानं निर्मले परमे पदे ।प्लावयित्वात्मनो देहं तेनैव ज्ञानवारिणा ॥ ११.६५
संस्थाप्य मयि च आत्मानम् निर्मले परमे पदे ।प्लावयित्वा आत्मनः देहम् तेन एव ज्ञान-वारिणा ॥ ११।६५
saṃsthāpya mayi ca ātmānam nirmale parame pade .plāvayitvā ātmanaḥ deham tena eva jñāna-vāriṇā .. 11.65
मदात्मा मन्मना भस्म गृहीत्वा त्वग्निहोत्रजम् ।तेनोद्धृत्य तु सर्वाङ्गमग्निरित्यादिमन्त्रतः ।११.६६
मद्-आत्मा मन्मना भस्म गृहीत्वा तु अग्निहोत्र-जम् ।तेन उद्धृत्य तु सर्व-अङ्गम् अग्निः इत्यादि-मन्त्रतः ।११।६६
mad-ātmā manmanā bhasma gṛhītvā tu agnihotra-jam .tena uddhṛtya tu sarva-aṅgam agniḥ ityādi-mantrataḥ .11.66
चिन्तयेत् स्वात्मनीशानं परं ज्योतिः स्वरूपिणम् ।एष पाशुपतो योगः पशुपाशविमुक्तये ।११.६७
चिन्तयेत् स्व-आत्मनि ईशानम् परम् ज्योतिः स्वरूपिणम् ।एष पाशुपतः योगः पशु-पाश-विमुक्तये ।११।६७
cintayet sva-ātmani īśānam param jyotiḥ svarūpiṇam .eṣa pāśupataḥ yogaḥ paśu-pāśa-vimuktaye .11.67
सर्ववेदान्तसारोऽयमत्याश्रममिति श्रुतिः ।एतत् परतरं गुह्यं मत्सायुज्य प्रदायकम् ।११.६८
सर्व-वेदान्त-सारः अयम् अति आश्रमम् इति श्रुतिः ।एतत् परतरम् गुह्यम् मद्-सायुज्य-प्रदायकम् ।११।६८
sarva-vedānta-sāraḥ ayam ati āśramam iti śrutiḥ .etat parataram guhyam mad-sāyujya-pradāyakam .11.68
द्विजातीनां तु कथितं भक्तानां ब्रह्मचारिणाम् ।ब्रह्मचर्यमहिंसा च क्षमा शौचं तपो दमः ।११.६९
द्विजातीनाम् तु कथितम् भक्तानाम् ब्रह्मचारिणाम् ।ब्रह्मचर्यम् अहिंसा च क्षमा शौचम् तपः दमः ।११।६९
dvijātīnām tu kathitam bhaktānām brahmacāriṇām .brahmacaryam ahiṃsā ca kṣamā śaucam tapaḥ damaḥ .11.69
संतोषः सत्यमास्तिक्यं व्रताङ्गानि विशेषतः ।एकेनाप्यथ हीनेन व्रतमस्य तु लुप्यते ।११.७०
संतोषः सत्यम् आस्तिक्यम् व्रत-अङ्गानि विशेषतः ।एकेन अपि अथ हीनेन व्रतम् अस्य तु लुप्यते ।११।७०
saṃtoṣaḥ satyam āstikyam vrata-aṅgāni viśeṣataḥ .ekena api atha hīnena vratam asya tu lupyate .11.70
तस्मादात्मुगुणोपेतो मद्व्रतं वोढुमर्हति ।वीतरागभयक्रोधा मन्मया मामुपाश्रिताः ।११.७१
तस्मात् आत्मु-गुण-उपेतः मद्-व्रतम् वोढुम् अर्हति ।वीत-राग-भय-क्रोधाः मद्-मयाः माम् उपाश्रिताः ।११।७१
tasmāt ātmu-guṇa-upetaḥ mad-vratam voḍhum arhati .vīta-rāga-bhaya-krodhāḥ mad-mayāḥ mām upāśritāḥ .11.71
बहवोऽनेन योगेन पूता मद्भावमागताः ।ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम् ।११.७२
बहवः अनेन योगेन पूताः मद्-भावम् आगताः ।ये यथा माम् प्रपद्यन्ते तान् तथा एव भजामि अहम् ।११।७२
bahavaḥ anena yogena pūtāḥ mad-bhāvam āgatāḥ .ye yathā mām prapadyante tān tathā eva bhajāmi aham .11.72
ज्ञानयोगेन मां तस्माद् यजेत परमेश्वरम् ।अथवा भक्तियोगेन वैराग्येण परेण तु ।११.७३
ज्ञान-योगेन माम् तस्मात् यजेत परमेश्वरम् ।अथवा भक्ति-योगेन वैराग्येण परेण तु ।११।७३
jñāna-yogena mām tasmāt yajeta parameśvaram .athavā bhakti-yogena vairāgyeṇa pareṇa tu .11.73
चेतसा बोधयुक्तेन पूजयेन्मां सदा शुचिः ।सर्वकर्माणि संन्यस्य भिक्षाशी निष्परिग्रहः ।११.७४
चेतसा बोध-युक्तेन पूजयेत् माम् सदा शुचिः ।सर्व-कर्माणि संन्यस्य भिक्षा-आशी निष्परिग्रहः ।११।७४
cetasā bodha-yuktena pūjayet mām sadā śuciḥ .sarva-karmāṇi saṃnyasya bhikṣā-āśī niṣparigrahaḥ .11.74
प्राप्नोति मम सायुज्यं गुह्यमेतन्मयोदितम् ।अद्वेष्टा सर्वभूतानां मैत्रः करुण एव च ।११.७५
प्राप्नोति मम सायुज्यम् गुह्यम् एतत् मया उदितम् ।अ द्वेष्टा सर्व-भूतानाम् मैत्रः करुणः एव च ।११।७५
prāpnoti mama sāyujyam guhyam etat mayā uditam .a dveṣṭā sarva-bhūtānām maitraḥ karuṇaḥ eva ca .11.75
निर्ममो निरहंकारो यो मद्भक्तः स मे प्रियः ।संतुष्टः सततं योगी यतात्मा दृढनिश्चयः ।११.७६
निर्ममः निरहंकारः यः मद्-भक्तः स मे प्रियः ।संतुष्टः सततम् योगी यत-आत्मा दृढ-निश्चयः ।११।७६
nirmamaḥ nirahaṃkāraḥ yaḥ mad-bhaktaḥ sa me priyaḥ .saṃtuṣṭaḥ satatam yogī yata-ātmā dṛḍha-niścayaḥ .11.76
मय्यर्पितमनो बुद्धिर्यो मद्भक्तः स मे प्रियः ।यस्मान्नोद्विजते लोको लोकान्नोद्विजते च यः ।११.७७
मयि अर्पित-मनः बुद्धिः यः मद्-भक्तः स मे प्रियः ।यस्मात् न उद्विजते लोकः लोकात् न उद्विजते च यः ।११।७७
mayi arpita-manaḥ buddhiḥ yaḥ mad-bhaktaḥ sa me priyaḥ .yasmāt na udvijate lokaḥ lokāt na udvijate ca yaḥ .11.77
हर्षामर्षभयोद्वेगैर्मुक्तो यः स हि मे प्रियः ।अनपेक्षः शुचिर्दक्ष उदासीनो गतव्यथः ।११.७८
हर्ष-अमर्ष-भय-उद्वेगैः मुक्तः यः स हि मे प्रियः ।अनपेक्षः शुचिः दक्षः उदासीनः गत-व्यथः ।११।७८
harṣa-amarṣa-bhaya-udvegaiḥ muktaḥ yaḥ sa hi me priyaḥ .anapekṣaḥ śuciḥ dakṣaḥ udāsīnaḥ gata-vyathaḥ .11.78
सर्वारम्भपरित्यागी भक्तिमान् यः स मे प्रियः ।तुल्यनिन्दास्तुतिर्मौनी संतुष्टो येन केनचित् ।११.७९
सर्व-आरम्भ-परित्यागी भक्तिमान् यः स मे प्रियः ।तुल्य-निन्दा-स्तुतिः मौनी संतुष्टः येन केनचिद् ।११।७९
sarva-ārambha-parityāgī bhaktimān yaḥ sa me priyaḥ .tulya-nindā-stutiḥ maunī saṃtuṣṭaḥ yena kenacid .11.79
अनिकेतः स्थिरमतिर्मद्भक्तो मामुपैष्यति ।सर्वकर्माण्यपि सदा कुर्वाणो मत्परायणः ।११.८०
अनिकेतः स्थिर-मतिः मद्-भक्तः माम् उपैष्यति ।सर्व-कर्माणि अपि सदा कुर्वाणः मद्-परायणः ।११।८०
aniketaḥ sthira-matiḥ mad-bhaktaḥ mām upaiṣyati .sarva-karmāṇi api sadā kurvāṇaḥ mad-parāyaṇaḥ .11.80
मत्प्रसादादवाप्नोति शाश्वतं परमं पदम् ।चेतसा सर्वकर्माणि मयि संन्यस्य मत्परः ।११.८१
मद्-प्रसादात् अवाप्नोति शाश्वतम् परमम् पदम् ।चेतसा सर्व-कर्माणि मयि संन्यस्य मद्-परः ।११।८१
mad-prasādāt avāpnoti śāśvatam paramam padam .cetasā sarva-karmāṇi mayi saṃnyasya mad-paraḥ .11.81
निराशीर्निर्ममो भूत्वा मामेकं शरणं व्रजेत् ।त्यक्त्वा कर्मफलासङ्गं नित्यतृप्तो निराश्रयः ।११.८२
निराशीः निर्ममः भूत्वा माम् एकम् शरणम् व्रजेत् ।त्यक्त्वा कर्म-फल-आसङ्गम् नित्य-तृप्तः निराश्रयः ।११।८२
nirāśīḥ nirmamaḥ bhūtvā mām ekam śaraṇam vrajet .tyaktvā karma-phala-āsaṅgam nitya-tṛptaḥ nirāśrayaḥ .11.82
कर्मण्यपिप्रवृत्तोऽपि नैव तेन निबध्यते ।निराशीर्यतचित्तात्मा त्यक्तसर्वपरिग्रहः ।११.८३
कर्मणि अपिप्रवृत्तः अपि ना एव तेन निबध्यते ।निराशीः यत-चित्त-आत्मा त्यक्त-सर्व-परिग्रहः ।११।८३
karmaṇi apipravṛttaḥ api nā eva tena nibadhyate .nirāśīḥ yata-citta-ātmā tyakta-sarva-parigrahaḥ .11.83
शारीरं केवलं कर्म कुर्वन्नाप्नोति तत्पदम् ।यदृच्छालाभतुष्टस्य द्वन्द्वातीतस्य चैव हि ।११.८४
शारीरम् केवलम् कर्म कुर्वन् आप्नोति तत् पदम् ।यदृच्छा-लाभ-तुष्टस्य द्वन्द्व-अतीतस्य च एव हि ।११।८४
śārīram kevalam karma kurvan āpnoti tat padam .yadṛcchā-lābha-tuṣṭasya dvandva-atītasya ca eva hi .11.84
कुर्वतो मत्प्रसादार्थं कर्म संसारनाशनम् ।मन्मना मन्नमस्कारो मद्याजी मत्परायणः ।११.८५
कुर्वतः मद्-प्रसाद-अर्थम् कर्म संसार-नाशनम् ।मद्-मनाः मद्-नमस्कारः मद्-याजी मद्-परायणः ।११।८५
kurvataḥ mad-prasāda-artham karma saṃsāra-nāśanam .mad-manāḥ mad-namaskāraḥ mad-yājī mad-parāyaṇaḥ .11.85
मामुपास्ते योगीशं ज्ञात्वा मां परमेश्वरम् ।मद्बुद्धयो मां सततं बोधयन्तः परस्परम् ।११.८६
माम् उपास्ते योगि-ईशम् ज्ञात्वा माम् परमेश्वरम् ।मद्-बुद्धयः माम् सततम् बोधयन्तः परस्परम् ।११।८६
mām upāste yogi-īśam jñātvā mām parameśvaram .mad-buddhayaḥ mām satatam bodhayantaḥ parasparam .11.86
कथयन्तश्च मां नित्यं मम सायुज्यमाप्नुयुः ।एवं नित्याभियुक्तानां मायेयं कर्मसान्वगम् ।११.८७
कथयन्तः च माम् नित्यम् मम सायुज्यम् आप्नुयुः ।एवम् नित्य-अभियुक्तानाम् माया इयम् ।११।८७
kathayantaḥ ca mām nityam mama sāyujyam āpnuyuḥ .evam nitya-abhiyuktānām māyā iyam .11.87
नाशयामि तमः कृत्स्नं ज्ञानदीपेन भास्वता ।मद्बुद्धयो मां सततं पूजयन्तीह ये जनाः ।११.८८
नाशयामि तमः कृत्स्नम् ज्ञान-दीपेन भास्वता ।मद्-बुद्धयः माम् सततम् पूजयन्ति इह ये जनाः ।११।८८
nāśayāmi tamaḥ kṛtsnam jñāna-dīpena bhāsvatā .mad-buddhayaḥ mām satatam pūjayanti iha ye janāḥ .11.88
तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ।येऽन्ये च कामभोगार्थं यजन्ते ह्यन्यदेवताः ।११.८९
तेषाम् नित्य-अभियुक्तानाम् योगक्षेमम् वहामि अहम् ।ये अन्ये च काम-भोग-अर्थम् यजन्ते हि अन्य-देवताः ।११।८९
teṣām nitya-abhiyuktānām yogakṣemam vahāmi aham .ye anye ca kāma-bhoga-artham yajante hi anya-devatāḥ .11.89
तेषां तदन्तं विज्ञेयं देवतानुगतं फलम् ।ये चान्यदेवताभक्ताः पूजयन्तीह देवताः ।११.९०
तेषाम् तत् अन्तम् विज्ञेयम् देवता-अनुगतम् फलम् ।ये च अन्य-देवता-भक्ताः पूजयन्ति इह देवताः ।११।९०
teṣām tat antam vijñeyam devatā-anugatam phalam .ye ca anya-devatā-bhaktāḥ pūjayanti iha devatāḥ .11.90
मद्भावनासमायुक्ता मुच्यन्ते तेऽपि मानवाः ।तस्माद्विनश्वरानन्यांस्त्यक्त्वा देवानशेषतः ।११.९१
मद्-भावना-समायुक्ताः मुच्यन्ते ते अपि मानवाः ।तस्मात् विनश्वरान् अन्यान् त्यक्त्वा देवान् अशेषतस् ।११।९१
mad-bhāvanā-samāyuktāḥ mucyante te api mānavāḥ .tasmāt vinaśvarān anyān tyaktvā devān aśeṣatas .11.91
मामेव संश्रयेदीशं स याति परमं पदम् ।त्यक्त्वा पुत्रादिषु स्नेहं निः शोको निष्परिग्रहः ।११.९२
माम् एव संश्रयेत् ईशम् स याति परमम् पदम् ।त्यक्त्वा पुत्र-आदिषु स्नेहम् निः शोकः निष्परिग्रहः ।११।९२
mām eva saṃśrayet īśam sa yāti paramam padam .tyaktvā putra-ādiṣu sneham niḥ śokaḥ niṣparigrahaḥ .11.92
यजेच्चामरणाल्लिङ्गं विरक्तः परमेश्वरम् ।येऽर्चयन्ति सदा लिङ्गं त्यक्त्वा भोगानशेषतः ।११.९३
यजेत् च आमरणात् लिङ्गम् विरक्तः परमेश्वरम् ।ये अर्चयन्ति सदा लिङ्गम् त्यक्त्वा भोगान् अशेषतस् ।११।९३
yajet ca āmaraṇāt liṅgam viraktaḥ parameśvaram .ye arcayanti sadā liṅgam tyaktvā bhogān aśeṣatas .11.93
एकेन जन्मना तेषां ददामि परमैश्वरम् ।परात्मनः सदा लिङ्गं केवलं सन्निरञ्जनम् ।११.९४
एकेन जन्मना तेषाम् ददामि परम-ऐश्वरम् ।परात्मनः सदा लिङ्गम् केवलम् सत् निरञ्जनम् ।११।९४
ekena janmanā teṣām dadāmi parama-aiśvaram .parātmanaḥ sadā liṅgam kevalam sat nirañjanam .11.94
ज्ञानात्मकं सर्वगतं योगिनां हृदि संस्थितम् ।ये चान्ये नियता भक्ता भावयित्वा विधानतः ।११.९५
ज्ञान-आत्मकम् सर्व-गतम् योगिनाम् हृदि संस्थितम् ।ये च अन्ये नियताः भक्ताः भावयित्वा विधानतः ।११।९५
jñāna-ātmakam sarva-gatam yoginām hṛdi saṃsthitam .ye ca anye niyatāḥ bhaktāḥ bhāvayitvā vidhānataḥ .11.95
यत्र क्वचन तल्लिङ्गमर्चयन्ति महेश्वरम् ।जले वा वह्निमध्ये वा व्योम्नि सूर्येऽथवाऽन्यतः ।११.९६
यत्र क्वचन तत् लिङ्गम् अर्चयन्ति महेश्वरम् ।जले वा वह्नि-मध्ये वा व्योम्नि सूर्ये अथवा अन्यतस् ।११।९६
yatra kvacana tat liṅgam arcayanti maheśvaram .jale vā vahni-madhye vā vyomni sūrye athavā anyatas .11.96
रत्नादौ भावयित्वेशमर्चयेल्लिङ्गमैश्वरम् ।सर्वं लिङ्गमयं ह्येतत् सर्वं लिङ्गे प्रतिष्ठितम् ।११.९७
रत्न-आदौ भावयित्वा ईशम् अर्चयेत् लिङ्गम् ऐश्वरम् ।सर्वम् लिङ्ग-मयम् हि एतत् सर्वम् लिङ्गे प्रतिष्ठितम् ।११।९७
ratna-ādau bhāvayitvā īśam arcayet liṅgam aiśvaram .sarvam liṅga-mayam hi etat sarvam liṅge pratiṣṭhitam .11.97
तस्माल्लिङ्गेऽर्चयेदीशं यत्र क्वचन शाश्वतम् ।अग्नौ क्रियावतामप्सु व्योम्नि सूर्ये मनीषिणाम् ।११.९८
तस्मात् लिङ्गे अर्चयेत् ईशम् यत्र क्वचन शाश्वतम् ।अग्नौ क्रियावताम् अप्सु व्योम्नि सूर्ये मनीषिणाम् ।११।९८
tasmāt liṅge arcayet īśam yatra kvacana śāśvatam .agnau kriyāvatām apsu vyomni sūrye manīṣiṇām .11.98
काष्ठादिष्वेव मूर्खाणां हृदि लिङ्गंतुयोगिनाम् ।यद्यनुत्पन्निविज्ञानो विरक्तः प्रीतिसंयुतः ।११.९९
काष्ठ-आदिषु एव मूर्खाणाम् हृदि ।यदि अनुत्पन्नि-विज्ञानः विरक्तः प्रीति-संयुतः ।११।९९
kāṣṭha-ādiṣu eva mūrkhāṇām hṛdi .yadi anutpanni-vijñānaḥ viraktaḥ prīti-saṃyutaḥ .11.99
यावज्जीवं जपेद् युक्तः प्रणवं ब्रह्मणो वपुः ।अथवा शतरुद्रीयं जपेदामरणाद् द्विजः ।११.१००
यावज्जीवम् जपेत् युक्तः प्रणवम् ब्रह्मणः वपुः ।अथवा शतरुद्रीयम् जपेत् आमरणात् द्विजः ।११।१००
yāvajjīvam japet yuktaḥ praṇavam brahmaṇaḥ vapuḥ .athavā śatarudrīyam japet āmaraṇāt dvijaḥ .11.100
एकाकी यतचित्तात्मा स याति परमं पदम् ।वसेच्चामरणाद् विप्रो वाराणस्यां समाहितः ।११.१०१
एकाकी यत-चित्त-आत्मा स याति परमम् पदम् ।वसेत् च आमरणात् विप्रः वाराणस्याम् समाहितः ।११।१०१
ekākī yata-citta-ātmā sa yāti paramam padam .vaset ca āmaraṇāt vipraḥ vārāṇasyām samāhitaḥ .11.101
सोऽपीश्वरप्रसादेन याति तत् परमं पदम् ।तत्रोत्क्रमणकाले हि सर्वेषामेव देहिनाम् ।११.१०२
सः अपि ईश्वर-प्रसादेन याति तत् परमम् पदम् ।तत्र उत्क्रमण-काले हि सर्वेषाम् एव देहिनाम् ।११।१०२
saḥ api īśvara-prasādena yāti tat paramam padam .tatra utkramaṇa-kāle hi sarveṣām eva dehinām .11.102
ददाति तत् परं ज्ञानं येन मुच्यते बन्धनात् ।वर्णाश्रमविधिं कृत्स्नं कुर्वाणो मत्परायणः ।११.१०३
ददाति तत् परम् ज्ञानम् येन मुच्यते बन्धनात् ।वर्ण-आश्रम-विधिम् कृत्स्नम् कुर्वाणः मद्-परायणः ।११।१०३
dadāti tat param jñānam yena mucyate bandhanāt .varṇa-āśrama-vidhim kṛtsnam kurvāṇaḥ mad-parāyaṇaḥ .11.103
तेनैव जन्मना ज्ञानं लब्ध्वा याति शिवं पदम् ।येऽपि तत्र वसन्तीह नीचा वा पापयोनयः ।११.१०४
तेन एव जन्मना ज्ञानम् लब्ध्वा याति शिवम् पदम् ।ये अपि तत्र वसन्ति इह नीचाः वा पाप-योनयः ।११।१०४
tena eva janmanā jñānam labdhvā yāti śivam padam .ye api tatra vasanti iha nīcāḥ vā pāpa-yonayaḥ .11.104
सर्वे तरन्ति संसारमीश्वरानुग्रहाद् द्विजाः ।किन्तु विघ्ना भविष्यन्ति पापोपहतचेतसाम् ।११.१०५
सर्वे तरन्ति संसारम् ईश्वर-अनुग्रहात् द्विजाः ।किन्तु विघ्नाः भविष्यन्ति पाप-उपहत-चेतसाम् ।११।१०५
sarve taranti saṃsāram īśvara-anugrahāt dvijāḥ .kintu vighnāḥ bhaviṣyanti pāpa-upahata-cetasām .11.105
धर्मन् समाश्रयेत् तस्मान्मुक्तये नियतं द्विजाः ।एतद् रहस्यं वेदानां न देयं यस्य कस्य चित् ।११.१०६
धर्मन् समाश्रयेत् तस्मात् मुक्तये नियतम् द्विजाः ।एतत् रहस्यम् वेदानाम् न देयम् यस्य कस्य चित् ।११।१०६
dharman samāśrayet tasmāt muktaye niyatam dvijāḥ .etat rahasyam vedānām na deyam yasya kasya cit .11.106
धार्मिकायैव दातव्यं भक्ताय ब्रह्मचारिणे ।
धार्मिकाय एव दातव्यम् भक्ताय ब्रह्मचारिणे ।
dhārmikāya eva dātavyam bhaktāya brahmacāriṇe .
व्यास उवाच ।
इत्येतदुक्त्वा भगवानात्मयोगमनुत्तमम् ।११.१०७
इति एतत् उक्त्वा भगवान् आत्म-योगम् अनुत्तमम् ।११।१०७
iti etat uktvā bhagavān ātma-yogam anuttamam .11.107
व्याजहार समासीनं नारायणमनामयम् ।मयैतद् भाषितं ज्ञानं हितार्थं ब्रह्मवादिनाम् ।११.१०८
व्याजहार समासीनम् नारायणम् अनामयम् ।मया एतत् भाषितम् ज्ञानम् हित-अर्थम् ब्रह्म-वादिनाम् ।११।१०८
vyājahāra samāsīnam nārāyaṇam anāmayam .mayā etat bhāṣitam jñānam hita-artham brahma-vādinām .11.108
दातव्यं शान्तचित्तेभ्यः शिष्येभ्यो भवता शिवम् ।उक्त्वैवमर्थं योगीन्द्रानब्रवीद् भगवानजः ।११.१०९
दातव्यम् शान्त-चित्तेभ्यः शिष्येभ्यः भवता शिवम् ।उक्त्वा एवम् अर्थम् योगि-इन्द्रान् अब्रवीत् भगवान् अजः ।११।१०९
dātavyam śānta-cittebhyaḥ śiṣyebhyaḥ bhavatā śivam .uktvā evam artham yogi-indrān abravīt bhagavān ajaḥ .11.109
हिताय सर्वभक्तानां द्विजातीनां द्विजोत्तमाः ।भवन्तोऽपि हि मज्ज्ञानं शिष्याणां विधिपूर्वकम् ।११.११०
हिताय सर्व-भक्तानाम् द्विजातीनाम् द्विजोत्तमाः ।भवन्तः अपि हि मद्-ज्ञानम् शिष्याणाम् विधि-पूर्वकम् ।११।११०
hitāya sarva-bhaktānām dvijātīnām dvijottamāḥ .bhavantaḥ api hi mad-jñānam śiṣyāṇām vidhi-pūrvakam .11.110
उपदेक्ष्यन्ति भक्तानां सर्वेषां वचनान्मम ।अयं नारायणो योऽहमीश्वरो नात्र संशयः ।११.१११
उपदेक्ष्यन्ति भक्तानाम् सर्वेषाम् वचनात् मम ।अयम् नारायणः यः अहम् ईश्वरः न अत्र संशयः ।११।१११
upadekṣyanti bhaktānām sarveṣām vacanāt mama .ayam nārāyaṇaḥ yaḥ aham īśvaraḥ na atra saṃśayaḥ .11.111
नान्तरं ये प्रपश्यन्ति तेषां देयमिदं परम् ।ममैषा परमा मूर्त्तिर्नारायणसमाह्वया ।११.११२
न अन्तरम् ये प्रपश्यन्ति तेषाम् देयम् इदम् परम् ।मम एषा परमा मूर्त्तिः नारायण-समाह्वया ।११।११२
na antaram ye prapaśyanti teṣām deyam idam param .mama eṣā paramā mūrttiḥ nārāyaṇa-samāhvayā .11.112
सर्वभूतात्मभूतस्था शान्ता चाक्षरसंज्ञिता ।ये त्वन्यथा प्रपश्यन्ति लोके भेददृशो जनाः ।११.११३
सर्व-भूत-आत्म-भूत-स्था शान्ता च अक्षर-संज्ञिता ।ये तु अन्यथा प्रपश्यन्ति लोके भेद-दृशः जनाः ।११।११३
sarva-bhūta-ātma-bhūta-sthā śāntā ca akṣara-saṃjñitā .ye tu anyathā prapaśyanti loke bheda-dṛśaḥ janāḥ .11.113
ते मुक्तिं प्रपश्यन्ति जायन्ते च पुनः पुनः ।ये त्वेनं विष्णुमव्यक्तं माञ्च देवं महेश्वरम् ।११.११४
ते मुक्तिम् प्रपश्यन्ति जायन्ते च पुनर् पुनर् ।ये तु एनम् विष्णुम् अव्यक्तम् देवम् महेश्वरम् ।११।११४
te muktim prapaśyanti jāyante ca punar punar .ye tu enam viṣṇum avyaktam devam maheśvaram .11.114
एकीभावेन पश्यन्ति न तेषां पुनरुद्भवः ।तस्मादनादिनिधनं विष्णुमात्मानमव्ययम् ।११.११५
एकीभावेन पश्यन्ति न तेषाम् पुनर् उद्भवः ।तस्मात् अनादिनिधनम् विष्णुम् आत्मानम् अव्ययम् ।११।११५
ekībhāvena paśyanti na teṣām punar udbhavaḥ .tasmāt anādinidhanam viṣṇum ātmānam avyayam .11.115
मामेव संप्रपश्यध्वं पूजयध्वं तथैव हि ।येऽन्यथा मां प्रपश्यन्ति मत्वेवं देवतान्तरम् ।११.११६
माम् एव संप्रपश्यध्वम् पूजयध्वम् तथा एव हि ।ये अन्यथा माम् प्रपश्यन्ति मत्वा एवम् देवता-अन्तरम् ।११।११६
mām eva saṃprapaśyadhvam pūjayadhvam tathā eva hi .ye anyathā mām prapaśyanti matvā evam devatā-antaram .11.116
ते यान्ति नरकान् घोरान् नाहं तेषु व्यवस्थितः ।मूर्खं वा पण्डितं वापि ब्राह्मणं वा मदाश्रयम् ।११.११७
ते यान्ति नरकान् घोरान् न अहम् तेषु व्यवस्थितः ।मूर्खम् वा पण्डितम् वा अपि ब्राह्मणम् वा मद्-आश्रयम् ।११।११७
te yānti narakān ghorān na aham teṣu vyavasthitaḥ .mūrkham vā paṇḍitam vā api brāhmaṇam vā mad-āśrayam .11.117
मोचयामि श्वपाकं वा न नारायणनिन्दकम् ।तस्मादेष महायोगी मद्भक्तैः पुरुषोत्तमः ।११.११८
मोचयामि श्वपाकम् वा न नारायण-निन्दकम् ।तस्मात् एष महा-योगी मद्-भक्तैः पुरुषोत्तमः ।११।११८
mocayāmi śvapākam vā na nārāyaṇa-nindakam .tasmāt eṣa mahā-yogī mad-bhaktaiḥ puruṣottamaḥ .11.118
अर्चनीयो नमस्कार्यो मत्प्रीतिजननाय हि ।एवमुक्त्वा समालिङ्ग्य वासुदेवं पिनाकधृक् ।११.११९
अर्चनीयः नमस्कार्यः मद्-प्रीति-जननाय हि ।एवम् उक्त्वा समालिङ्ग्य वासुदेवम् पिनाकधृक् ।११।११९
arcanīyaḥ namaskāryaḥ mad-prīti-jananāya hi .evam uktvā samāliṅgya vāsudevam pinākadhṛk .11.119
अन्तर्हितोऽभवत् तेषां सर्वेषामेव पश्यताम् ।नारायणोऽपि भगवांस्तापसं वेषमुत्तमम् ।११.१२०
अन्तर्हितः अभवत् तेषाम् सर्वेषाम् एव पश्यताम् ।नारायणः अपि भगवान् तापसम् वेषम् उत्तमम् ।११।१२०
antarhitaḥ abhavat teṣām sarveṣām eva paśyatām .nārāyaṇaḥ api bhagavān tāpasam veṣam uttamam .11.120
जग्राह योगिनः सर्वांस्त्यक्त्वा वै परमं वपुः ।ज्ञानं भवद्भिरमलं प्रसादात् परमेष्ठिनः ।११.१२१
जग्राह योगिनः सर्वान् त्यक्त्वा वै परमम् वपुः ।ज्ञानम् भवद्भिः अमलम् प्रसादात् परमेष्ठिनः ।११।१२१
jagrāha yoginaḥ sarvān tyaktvā vai paramam vapuḥ .jñānam bhavadbhiḥ amalam prasādāt parameṣṭhinaḥ .11.121
साक्षाद्देव महेशस्य ज्ञानं संसारनाशनम् ।गच्छध्वं विज्वराः सर्वे विज्ञानं परमेष्ठिनः ।११.१२२
साक्षात् देव महेशस्य ज्ञानम् संसार-नाशनम् ।गच्छध्वम् विज्वराः सर्वे विज्ञानम् परमेष्ठिनः ।११।१२२
sākṣāt deva maheśasya jñānam saṃsāra-nāśanam .gacchadhvam vijvarāḥ sarve vijñānam parameṣṭhinaḥ .11.122
प्रवर्त्तयध्वं शिष्येभ्यो धार्मिकेभ्यो मुनीश्वराः ।इदं भक्ताय शान्ताय धार्मिकायाहिताग्नये ।११.१२३
प्रवर्त्तयध्वम् शिष्येभ्यः धार्मिकेभ्यः मुनि-ईश्वराः ।इदम् भक्ताय शान्ताय धार्मिकाय आहिताग्नये ।११।१२३
pravarttayadhvam śiṣyebhyaḥ dhārmikebhyaḥ muni-īśvarāḥ .idam bhaktāya śāntāya dhārmikāya āhitāgnaye .11.123
विज्ञानमैश्वरं देयं ब्राह्मणाय विशेषतः ।एवमुक्त्वा स विश्वात्मा योगिनां योगवित्तमः ।११.१२४
विज्ञानम् ऐश्वरम् देयम् ब्राह्मणाय विशेषतः ।एवम् उक्त्वा स विश्वात्मा योगिनाम् योग-वित्तमः ।११।१२४
vijñānam aiśvaram deyam brāhmaṇāya viśeṣataḥ .evam uktvā sa viśvātmā yoginām yoga-vittamaḥ .11.124
नारायणो महायोगी जगामादर्शनं स्वयम् ।तेऽपि देवादिदेवेशं नमस्कृत्य महेश्वरम् ।११.१२५
नारायणः महा-योगी जगाम अदर्शनम् स्वयम् ।ते अपि देव-आदिदेव-ईशम् नमस्कृत्य महेश्वरम् ।११।१२५
nārāyaṇaḥ mahā-yogī jagāma adarśanam svayam .te api deva-ādideva-īśam namaskṛtya maheśvaram .11.125
नारायणं च भूतादिं स्वानि स्थानानि लेभिरे।सनत्कुमारो भगवान् संवर्त्ताय महामुनिः ।११.१२६
नारायणम् च भूतादिम् स्वानि स्थानानि लेभिरे।सनत्कुमारः भगवान् संवर्त्ताय महा-मुनिः ।११।१२६
nārāyaṇam ca bhūtādim svāni sthānāni lebhire.sanatkumāraḥ bhagavān saṃvarttāya mahā-muniḥ .11.126
दत्तवानैश्वरं ज्ञानं सोऽपि सत्यव्रताय तु ।सनन्दनोऽपि योगीन्द्रः पुलहाय महर्षये ।११.१२७
दत्तवान् ऐश्वरम् ज्ञानम् सः अपि सत्यव्रताय तु ।सनन्दनः अपि योगि-इन्द्रः पुलहाय महा-ऋषये ।११।१२७
dattavān aiśvaram jñānam saḥ api satyavratāya tu .sanandanaḥ api yogi-indraḥ pulahāya mahā-ṛṣaye .11.127
प्रददौ गौतमायाथ पुलहोऽपि प्रजापतिः ।अङ्गिरा वेदविदुषे भरद्वाजाय दत्तवान् ।११.१२८
प्रददौ गौतमाय अथ पुलहः अपि प्रजापतिः ।अङ्गिराः वेद-विदुषे भरद्वाजाय दत्तवान् ।११।१२८
pradadau gautamāya atha pulahaḥ api prajāpatiḥ .aṅgirāḥ veda-viduṣe bharadvājāya dattavān .11.128
जैगीषव्याय कपिलस्तथा पञ्चशिखाय च ।पराशरोऽपि सनकात् पिता मे सर्वतत्त्वदृक् ।११.१२९
जैगीषव्याय कपिलः तथा पञ्चशिखाय च ।पराशरः अपि सनकात् पिता मे सर्व-तत्त्व-दृश् ।११।१२९
jaigīṣavyāya kapilaḥ tathā pañcaśikhāya ca .parāśaraḥ api sanakāt pitā me sarva-tattva-dṛś .11.129
लेभेतत्परमं ज्ञानं तस्माद् वाल्मीकिराप्तवान् ।ममोवाच पुरा देवः सतीदेहभवाङ्गजः ।११.१३०
लेभे तत् परमम् ज्ञानम् तस्मात् वाल्मीकिः आप्तवान् ।मम उवाच पुरा देवः सती-देह-भव-अङ्ग-जः ।११।१३०
lebhe tat paramam jñānam tasmāt vālmīkiḥ āptavān .mama uvāca purā devaḥ satī-deha-bhava-aṅga-jaḥ .11.130
वामदेवो महायोगी रुद्रः किल पिनाकधृक् ।नारायणोऽपि भगवान् देवकीतनयो हरिः ।११.१३१
वामदेवः महा-योगी रुद्रः किल पिनाकधृक् ।नारायणः अपि भगवान् देवकी-तनयः हरिः ।११।१३१
vāmadevaḥ mahā-yogī rudraḥ kila pinākadhṛk .nārāyaṇaḥ api bhagavān devakī-tanayaḥ hariḥ .11.131
अर्जुनाय स्वयं साक्षात् दत्तवानिदमुत्तमम् ।यदाहं लब्धवान् रुद्राद् वामदेवादनुत्तमम् ।११.१३२
अर्जुनाय स्वयम् साक्षात् दत्तवान् इदम् उत्तमम् ।यदा अहम् लब्धवान् रुद्रात् वामदेवात् अनुत्तमम् ।११।१३२
arjunāya svayam sākṣāt dattavān idam uttamam .yadā aham labdhavān rudrāt vāmadevāt anuttamam .11.132
विशेषाद् गिरिशे भक्तिस्तस्मादारभ्य मेऽभवत् ।शरण्यं शरणं रुद्रं प्रपन्नोऽहं विशेषतः ।११.१३३
विशेषात् गिरिशे भक्तिः तस्मात् आरभ्य मे अभवत् ।शरण्यम् शरणम् रुद्रम् प्रपन्नः अहम् विशेषतः ।११।१३३
viśeṣāt giriśe bhaktiḥ tasmāt ārabhya me abhavat .śaraṇyam śaraṇam rudram prapannaḥ aham viśeṣataḥ .11.133
भूतेशं गिरशं स्थाणुं देवदेवं त्रिशूलिनम् ।भवन्तोऽपि हि तं देवं शंभुं गोवृषवाहनम् ।११.१३४
भूतेशम् गिरशम् स्थाणुम् देवदेवम् त्रिशूलिनम् ।भवन्तः अपि हि तम् देवम् शंभुम् गो-वृष-वाहनम् ।११।१३४
bhūteśam giraśam sthāṇum devadevam triśūlinam .bhavantaḥ api hi tam devam śaṃbhum go-vṛṣa-vāhanam .11.134
प्रपद्यन्तां सपत्नीकाः सपुत्राः शरणं शिवम् ।वर्त्तध्वं तत्प्रसादेन कर्मयोगेन शंकरम् ।११.१३५
प्रपद्यन्ताम् स पत्नीकाः स पुत्राः शरणम् शिवम् ।वर्त्तध्वम् तद्-प्रसादेन कर्म-योगेन शंकरम् ।११।१३५
prapadyantām sa patnīkāḥ sa putrāḥ śaraṇam śivam .varttadhvam tad-prasādena karma-yogena śaṃkaram .11.135
पूजयध्वं महादेव गोपतिं व्यालभूषणम् ।एवमुक्ते पुनस्ते तु शौनकाद्या महेश्वरम् ।११.१३६
पूजयध्वम् महादेव गोपतिम् व्यालभूषणम् ।एवम् उक्ते पुनर् ते तु शौनक-आद्याः महेश्वरम् ।११।१३६
pūjayadhvam mahādeva gopatim vyālabhūṣaṇam .evam ukte punar te tu śaunaka-ādyāḥ maheśvaram .11.136
प्रणेमुः शाश्वतं स्थाणुं व्यासं सत्यवतीसुतम् ।अब्रुवन् हृष्टमनसः कृष्णद्वैपायनं प्रभुम् ।११.१३७
प्रणेमुः शाश्वतम् स्थाणुम् व्यासम् सत्यवती-सुतम् ।अब्रुवन् हृष्ट-मनसः कृष्णद्वैपायनम् प्रभुम् ।११।१३७
praṇemuḥ śāśvatam sthāṇum vyāsam satyavatī-sutam .abruvan hṛṣṭa-manasaḥ kṛṣṇadvaipāyanam prabhum .11.137
साक्षाद्देवं हृषीकेशं सर्वलोकमहेश्वरम् ।भवत्प्रसादादचला शरण्ये गोवृषध्वजे ।११.१३८
साक्षात् देवम् हृषीकेशम् सर्व-लोक-महेश्वरम् ।भवत्-प्रसादात् अचला शरण्ये गो-वृष-ध्वजे ।११।१३८
sākṣāt devam hṛṣīkeśam sarva-loka-maheśvaram .bhavat-prasādāt acalā śaraṇye go-vṛṣa-dhvaje .11.138
इदानीं जायते भक्तिर्या देवैरपि दुर्लभा ।कथयस्व मुनिश्रेष्ठ कर्मयोगमनुत्तमम् ।११.१३९
इदानीम् जायते भक्तिः या देवैः अपि दुर्लभा ।कथयस्व मुनि-श्रेष्ठ कर्म-योगम् अनुत्तमम् ।११।१३९
idānīm jāyate bhaktiḥ yā devaiḥ api durlabhā .kathayasva muni-śreṣṭha karma-yogam anuttamam .11.139
येनासौ भगवानीशः समाराध्यो मुमुक्षुभिः ।त्वत्संनिधावेव सूतः श्रृणोतु भगवद्वचः ।११.१४०
येन असौ भगवान् ईशः समाराध्यः मुमुक्षुभिः ।त्वद्-संनिधौ एव सूतः श्रृणोतु भगवत्-वचः ।११।१४०
yena asau bhagavān īśaḥ samārādhyaḥ mumukṣubhiḥ .tvad-saṃnidhau eva sūtaḥ śrṛṇotu bhagavat-vacaḥ .11.140
तद्वच्चाखिललोकानां रक्षणं धर्मसंग्रहम् ।यदुक्तं देवदेवेन विष्णुना कूर्मरूपिणा ।११.१४१
तद्वत् च अखिल-लोकानाम् रक्षणम् धर्म-संग्रहम् ।यत् उक्तम् देवदेवेन विष्णुना कूर्म-रूपिणा ।११।१४१
tadvat ca akhila-lokānām rakṣaṇam dharma-saṃgraham .yat uktam devadevena viṣṇunā kūrma-rūpiṇā .11.141
पृष्टेन मुनिभिः पूर्वं शक्रेणामृतमन्थने ।श्रुत्वा सत्यवतीसूनुः कर्मयोगं सनातनम् ।११.१४२
पृष्टेन मुनिभिः पूर्वम् शक्रेण अमृत-मन्थने ।श्रुत्वा सत्यवती-सूनुः कर्म-योगम् सनातनम् ।११।१४२
pṛṣṭena munibhiḥ pūrvam śakreṇa amṛta-manthane .śrutvā satyavatī-sūnuḥ karma-yogam sanātanam .11.142
मुनीनां भाषितं कृत्स्नं प्रोवाच सुसमाहितः ।य इमं पठते नित्यं संवादं कृत्तिवाससः ।११.१४३
मुनीनाम् भाषितम् कृत्स्नम् प्रोवाच सु समाहितः ।यः इमम् पठते नित्यम् संवादम् कृत्तिवाससः ।११।१४३
munīnām bhāṣitam kṛtsnam provāca su samāhitaḥ .yaḥ imam paṭhate nityam saṃvādam kṛttivāsasaḥ .11.143
सनत्कुमारप्रमुखैः सर्वपापैः प्रमुच्यते ।श्रावयेद् वा द्विजान् शुद्धान् ब्रह्मचर्यपरायणान् ।११.१४४
सनत्कुमार-प्रमुखैः सर्व-पापैः प्रमुच्यते ।श्रावयेत् वा द्विजान् शुद्धान् ब्रह्मचर्य-परायणान् ।११।१४४
sanatkumāra-pramukhaiḥ sarva-pāpaiḥ pramucyate .śrāvayet vā dvijān śuddhān brahmacarya-parāyaṇān .11.144
यो वा विचारयेदर्थं स याति परमां गतिम् ।यश्चैतच्छृणुयान्नित्यं भक्तियुक्तो दृढव्रतः ।११.१४५
यः वा विचारयेत् अर्थम् स याति परमाम् गतिम् ।यः च एतत् शृणुयात् नित्यम् भक्ति-युक्तः दृढ-व्रतः ।११।१४५
yaḥ vā vicārayet artham sa yāti paramām gatim .yaḥ ca etat śṛṇuyāt nityam bhakti-yuktaḥ dṛḍha-vrataḥ .11.145
सर्वपापविनिर्मुक्तो ब्रह्मलोके महीयते ।तस्मात् सर्वप्रयत्नेन पठितव्यो मनीषिभिः ।११.१४६
सर्व-पाप-विनिर्मुक्तः ब्रह्म-लोके महीयते ।तस्मात् सर्व-प्रयत्नेन पठितव्यः मनीषिभिः ।११।१४६
sarva-pāpa-vinirmuktaḥ brahma-loke mahīyate .tasmāt sarva-prayatnena paṭhitavyaḥ manīṣibhiḥ .11.146
श्रोतव्यश्चाथ मन्तव्यो विशेषाद् ब्राह्मणैः सदा ॥ ११.१४७
श्रोतव्यः च अथ मन्तव्यः विशेषात् ब्राह्मणैः सदा ॥ ११।१४७
śrotavyaḥ ca atha mantavyaḥ viśeṣāt brāhmaṇaiḥ sadā .. 11.147
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे (ईश्वरगीतासु) एकादशोऽध्यायः ॥
इति श्री-कूर्मपुराणे षट्साहस्त्र्याम् संहितायाम् उपरि विभागे (ईश्वरगीतासु एकादशः अध्यायः ॥
iti śrī-kūrmapurāṇe ṣaṭsāhastryām saṃhitāyām upari vibhāge (īśvaragītāsu ekādaśaḥ adhyāyaḥ ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In