| |
|

This overlay will guide you through the buttons:

व्यास उवाच ।
भुक्त्वा पीत्वा च सुप्त्वा च स्नात्वा रथ्योपसर्पणे ।ओष्ठावलोमोकौ स्पृष्ट्वा वासो विपरिधाय च ॥ १३.१
भुक्त्वा पीत्वा च सुप्त्वा च स्नात्वा रथ्या-उपसर्पणे ।ओष्ठ-अवलोम-उकौ स्पृष्ट्वा वासः विपरिधाय च ॥ १३।१
bhuktvā pītvā ca suptvā ca snātvā rathyā-upasarpaṇe .oṣṭha-avaloma-ukau spṛṣṭvā vāsaḥ viparidhāya ca .. 13.1
रेतोमूत्रपुरीषाणामुत्सर्गेऽयुक्तभाषणे ।ष्ठीवित्वाऽध्ययनारम्भे कासश्वासागमे तथा ॥ १३.२
रेतः-मूत्र-पुरीषाणाम् उत्सर्गे अयुक्त-भाषणे ।ष्ठीवित्वा अध्ययन-आरम्भे कास-श्वास-आगमे तथा ॥ १३।२
retaḥ-mūtra-purīṣāṇām utsarge ayukta-bhāṣaṇe .ṣṭhīvitvā adhyayana-ārambhe kāsa-śvāsa-āgame tathā .. 13.2
चत्वरं वा श्मशानं वा समागम्य द्विजोत्तमः ।संध्ययोरुभयोस्तद्वदाचान्तोऽप्याचमेत् पुनः ॥ १३.३
चत्वरम् वा श्मशानम् वा समागम्य द्विजोत्तमः ।संध्ययोः उभयोः तद्वत् आचान्तः अपि आचमेत् पुनर् ॥ १३।३
catvaram vā śmaśānam vā samāgamya dvijottamaḥ .saṃdhyayoḥ ubhayoḥ tadvat ācāntaḥ api ācamet punar .. 13.3
चण्डालम्लेच्छसंभाषे स्त्रीशूद्रोच्छिष्टभाषणे ।उच्छिष्टं पुरुषं स्पृष्ट्वा भोज्यं चापि तथाविधम् ।१३.४
चण्डाल-म्लेच्छ-संभाषे स्त्री-शूद्र-उच्छिष्ट-भाषणे ।उच्छिष्टम् पुरुषम् स्पृष्ट्वा भोज्यम् च अपि तथाविधम् ।१३।४
caṇḍāla-mleccha-saṃbhāṣe strī-śūdra-ucchiṣṭa-bhāṣaṇe .ucchiṣṭam puruṣam spṛṣṭvā bhojyam ca api tathāvidham .13.4
आचामेदश्रुपाते वा लोहितस्य तथैव च ।भोजने संध्ययोः स्नात्वा पीत्वा मूत्रपुरीषयोः ।१३.५
आचामेत् अश्रु-पाते वा लोहितस्य तथा एव च ।भोजने संध्ययोः स्नात्वा पीत्वा मूत्र-पुरीषयोः ।१३।५
ācāmet aśru-pāte vā lohitasya tathā eva ca .bhojane saṃdhyayoḥ snātvā pītvā mūtra-purīṣayoḥ .13.5
आचान्तोऽप्याचमेत् सुप्त्वा सकृत्सकृदथान्यतः ।अग्नेर्गवामथालम्भे स्पृष्ट्वा प्रयतमेव वा ।१३.६
आचान्तः अपि आचमेत् सुप्त्वा सकृत् सकृत् अथ अन्यतस् ।अग्नेः गवाम् अथ आलम्भे स्पृष्ट्वा प्रयतम् एव वा ।१३।६
ācāntaḥ api ācamet suptvā sakṛt sakṛt atha anyatas .agneḥ gavām atha ālambhe spṛṣṭvā prayatam eva vā .13.6
स्त्रीणामथात्मनः स्पर्शे नीवीं वा परिधाय चउपस्पृशेज्जलं वार्द्रं तृणं वा भूमिमेव वा ।१३.७
स्त्रीणाम् अथ आत्मनः स्पर्शे नीवीम् वा परिधाय च उपस्पृशेत् जलम् वा आर्द्रम् तृणम् वा भूमिम् एव वा ।१३।७
strīṇām atha ātmanaḥ sparśe nīvīm vā paridhāya ca upaspṛśet jalam vā ārdram tṛṇam vā bhūmim eva vā .13.7
केशानां चात्मनः स्पर्शे वाससोऽक्षालितस्य च ।अनुष्णाभिरफेनाभिः विशुद्धाद्भिश्च धर्मतः ।१३.८
केशानाम् च आत्मनः स्पर्शे वाससः अक्षालितस्य च ।अन् उष्णाभिः अ फेनाभिः विशुद्ध-अद्भिः च धर्मतः ।१३।८
keśānām ca ātmanaḥ sparśe vāsasaḥ akṣālitasya ca .an uṣṇābhiḥ a phenābhiḥ viśuddha-adbhiḥ ca dharmataḥ .13.8
शौचेप्सुः सर्वदाचामेदासीनः प्रागुदङ्मुखः ।शिरः प्रावृत्य कण्ठं वा मुक्तकच्छशिखोऽपि वा ।१३.९
शौच-ईप्सुः सर्वदा आचामेत् आसीनः प्राच्-उदक्-मुखः ।शिरः प्रावृत्य कण्ठम् वा मुक्त-कच्छ-शिखः अपि वा ।१३।९
śauca-īpsuḥ sarvadā ācāmet āsīnaḥ prāc-udak-mukhaḥ .śiraḥ prāvṛtya kaṇṭham vā mukta-kaccha-śikhaḥ api vā .13.9
अकृत्वा पादयोः शौचमाचान्तोऽप्यशुचिर्भवेत् ।सोपानत्को जलस्थो वा नोष्णीषी चाचमेद् बुधः ।१३.१०
अ कृत्वा पादयोः शौचम् आचान्तः अपि अशुचिः भवेत् ।स उपानत्कः जल-स्थः वा न उष्णीषी च आचमेत् बुधः ।१३।१०
a kṛtvā pādayoḥ śaucam ācāntaḥ api aśuciḥ bhavet .sa upānatkaḥ jala-sthaḥ vā na uṣṇīṣī ca ācamet budhaḥ .13.10
न चैव वर्षधाराभिर्न तिष्ठन् नोद्धृतोदकैः ।नैकहस्तार्पितजलैर्विना सूत्रेण वा पुनः ।१३.११
न च एव वर्ष-धाराभिः न तिष्ठन् न उद्धृत-उदकैः ।न एक-हस्त-अर्पित-जलैः विना सूत्रेण वा पुनर् ।१३।११
na ca eva varṣa-dhārābhiḥ na tiṣṭhan na uddhṛta-udakaiḥ .na eka-hasta-arpita-jalaiḥ vinā sūtreṇa vā punar .13.11
न पादुकासनस्थो वा बहिर्जानुरथापि वा ।न जल्पन् न हसन् प्रेक्षन् शयानः प्रह्व एव च नावीक्षिताभिः फेनाद्यैरुपेताभिरथापि वा ।शूद्राशुचिकरोन्मुक्तैर्न क्षाराभिस्तथैव च ।१३.१२
न पादुका-आसन-स्थः वा बहिस् जानुः अथ अपि वा ।न जल्पन् न हसन् प्रेक्षन् शयानः प्रह्वः एव च न अवीक्षिताभिः फेन-आद्यैः उपेताभिः अथ अपि वा ।शूद्र-अशुचि-कर-उन्मुक्तैः न क्षाराभिः तथा एव च ।१३।१२
na pādukā-āsana-sthaḥ vā bahis jānuḥ atha api vā .na jalpan na hasan prekṣan śayānaḥ prahvaḥ eva ca na avīkṣitābhiḥ phena-ādyaiḥ upetābhiḥ atha api vā .śūdra-aśuci-kara-unmuktaiḥ na kṣārābhiḥ tathā eva ca .13.12
न चैवाङ्गुलिभिः शस्तं न कुर्वन् नान्यमानसः ।न वर्णरसदुष्टाभिर्न चैव प्रदरोदकैः ।१३.१३
न च एव अङ्गुलिभिः शस्तम् न कुर्वन् न अन्य-मानसः ।न वर्ण-रस-दुष्टाभिः न च एव प्रदर-उदकैः ।१३।१३
na ca eva aṅgulibhiḥ śastam na kurvan na anya-mānasaḥ .na varṇa-rasa-duṣṭābhiḥ na ca eva pradara-udakaiḥ .13.13
न पाणिक्षुभिताभिर्वा न बहिष्कक्ष एव वा ।हृद्गाभिः पूयते विप्रः कण्ठ्याभिः क्षत्रियः शुचिः ।१३.१४
न पाणि-क्षुभिताभिः वा न बहिष्कक्षः एव वा ।हृद्-गाभिः पूयते विप्रः कण्ठ्याभिः क्षत्रियः शुचिः ।१३।१४
na pāṇi-kṣubhitābhiḥ vā na bahiṣkakṣaḥ eva vā .hṛd-gābhiḥ pūyate vipraḥ kaṇṭhyābhiḥ kṣatriyaḥ śuciḥ .13.14
प्राशिताभिस्तथावैश्यः स्त्रीशूद्रौ स्पर्शतोऽन्ततः ॥अङ्गुष्ठमूलान्तरतो रेखायां ब्राह्ममुच्यते ।१३.१५
प्राशिताभिः तथा वैश्यः स्त्री-शूद्रौ स्पर्शतः अन्ततस् ॥अङ्गुष्ठ-मूल-अन्तरतः रेखायाम् ब्राह्मम् उच्यते ।१३।१५
prāśitābhiḥ tathā vaiśyaḥ strī-śūdrau sparśataḥ antatas ..aṅguṣṭha-mūla-antarataḥ rekhāyām brāhmam ucyate .13.15
अन्तराङ्गुष्ठदेशिन्यो पितॄणां तीर्थमुत्तमम् ॥कनिष्ठामूलतः पश्चात् प्राजापत्यं प्रचक्षते ।१३.१६
अन्तर-अङ्गुष्ठ-देशिन्यः पितॄणाम् तीर्थम् उत्तमम् ॥कनिष्ठा-मूलतः पश्चात् प्राजापत्यम् प्रचक्षते ।१३।१६
antara-aṅguṣṭha-deśinyaḥ pitṝṇām tīrtham uttamam ..kaniṣṭhā-mūlataḥ paścāt prājāpatyam pracakṣate .13.16
अङ्गुल्यग्रे स्मृतं दैवं तद्देवार्थं प्रकीर्त्तितः।मूले वा दैवमादिष्टम् ग्नेयं मध्यतः स्मृतं ।१३.१७
अङ्गुलि-अग्रे स्मृतम् दैवम् तत् देव-अर्थम् प्रकीर्त्तितः।मूले वा दैवम् आदिष्टम् ग्नेयम् मध्यतस् स्मृतम् ।१३।१७
aṅguli-agre smṛtam daivam tat deva-artham prakīrttitaḥ.mūle vā daivam ādiṣṭam gneyam madhyatas smṛtam .13.17
तदेव सौमिकं तीर्थमेतज्ज्ञात्वा न मुह्यति ।ब्राह्मेणैव तु तीर्थेन द्विजो नित्यमुपस्पृशेत् ।१३.१८
तत् एव सौमिकम् तीर्थम् एतत् ज्ञात्वा न मुह्यति ।ब्राह्मेण एव तु तीर्थेन द्विजः नित्यम् उपस्पृशेत् ।१३।१८
tat eva saumikam tīrtham etat jñātvā na muhyati .brāhmeṇa eva tu tīrthena dvijaḥ nityam upaspṛśet .13.18
कायेन वाऽथ दैवेन पैत्रेण न तु वै द्विजाः ।त्रिः प्राश्नीयादपः पूर्वं ब्राह्मणः प्रयतस्ततः ।१३.१९
कायेन वा अथ दैवेन पैत्रेण न तु वै द्विजाः ।त्रिस् प्राश्नीयात् अपः पूर्वम् ब्राह्मणः प्रयतः ततस् ।१३।१९
kāyena vā atha daivena paitreṇa na tu vai dvijāḥ .tris prāśnīyāt apaḥ pūrvam brāhmaṇaḥ prayataḥ tatas .13.19
संमृज्याङ्गुष्ठमूलेन मुखं वै समुपस्पृशेत् ॥अङ्गुष्ठानामिकाभ्यां तु स्पृशेन्नेत्रद्वयं ततः ।१३.२०
संमृज्य अङ्गुष्ठ-मूलेन मुखम् वै समुपस्पृशेत् ॥अङ्गुष्ठ-अनामिकाभ्याम् तु स्पृशेत् नेत्र-द्वयम् ततस् ।१३।२०
saṃmṛjya aṅguṣṭha-mūlena mukham vai samupaspṛśet ..aṅguṣṭha-anāmikābhyām tu spṛśet netra-dvayam tatas .13.20
तर्जन्यङ्गुष्ठयोगेन स्पृशेन्नासापृटद्वयम् ॥कनिष्ठाङ्गुष्ठयोगेन श्रवणे समुपस्पृशेत् ।१३.२१
तर्जनी-अङ्गुष्ठ-योगेन स्पृशेत् नासा-पृट-द्वयम् ॥कनिष्ठा-अङ्गुष्ठ-योगेन श्रवणे समुपस्पृशेत् ।१३।२१
tarjanī-aṅguṣṭha-yogena spṛśet nāsā-pṛṭa-dvayam ..kaniṣṭhā-aṅguṣṭha-yogena śravaṇe samupaspṛśet .13.21
सर्वासामथ योगेन हृदयं तु तलेन वा ।स्पृशेद्वै शिरसस्तद्वदङ्गुष्ठेनाथवा द्वयम् ॥ १३.२२
सर्वासाम् अथ योगेन हृदयम् तु तलेन वा ।स्पृशेत् वै शिरसः तद्वत् अङ्गुष्ठेन अथवा द्वयम् ॥ १३।२२
sarvāsām atha yogena hṛdayam tu talena vā .spṛśet vai śirasaḥ tadvat aṅguṣṭhena athavā dvayam .. 13.22
त्रिः प्राश्नीयाद् यदम्भस्तु सुप्रीतास्तेन देवताः ।ब्रह्मा विष्णुर्महेशश्च भवन्तीत्यनुशुश्रुमः ॥ १३.२३
त्रिस् प्राश्नीयात् यत् अम्भः तु सु प्रीताः तेन देवताः ।ब्रह्मा विष्णुः महेशः च भवन्ति इति अनुशुश्रुमः ॥ १३।२३
tris prāśnīyāt yat ambhaḥ tu su prītāḥ tena devatāḥ .brahmā viṣṇuḥ maheśaḥ ca bhavanti iti anuśuśrumaḥ .. 13.23
गङ्गा च यमुना चैव प्रीयेते परिमार्जनात् ।संस्पृष्टयोर्लोचनयोः प्रीयेते शशिभास्करौ ॥ १३.२४
गङ्गा च यमुना च एव प्रीयेते परिमार्जनात् ।संस्पृष्टयोः लोचनयोः प्रीयेते शशि-भास्करौ ॥ १३।२४
gaṅgā ca yamunā ca eva prīyete parimārjanāt .saṃspṛṣṭayoḥ locanayoḥ prīyete śaśi-bhāskarau .. 13.24
नासत्यदस्रौ प्रीयेते स्पृष्टे नासापुटद्वये ।श्रोत्रयोः स्पृष्टयोस्तद्वत् प्रीयेते चानिलानलौ ॥ १३.२५
नासत्य-दस्रौ प्रीयेते स्पृष्टे नासा-पुट-द्वये ।श्रोत्रयोः स्पृष्टयोः तद्वत् प्रीयेते च अनिल-अनलौ ॥ १३।२५
nāsatya-dasrau prīyete spṛṣṭe nāsā-puṭa-dvaye .śrotrayoḥ spṛṣṭayoḥ tadvat prīyete ca anila-analau .. 13.25
संस्पृष्टे हृदये चास्य प्रीयन्ते सर्वदेवताः ।मूर्ध्नि संस्पर्शनादेव प्रीतः स पुरुषो भवेत् ॥ १३.२६
संस्पृष्टे हृदये च अस्य प्रीयन्ते सर्व-देवताः ।मूर्ध्नि संस्पर्शनात् एव प्रीतः स पुरुषः भवेत् ॥ १३।२६
saṃspṛṣṭe hṛdaye ca asya prīyante sarva-devatāḥ .mūrdhni saṃsparśanāt eva prītaḥ sa puruṣaḥ bhavet .. 13.26
नोच्छिष्टं कुर्वते नित्यं विप्रुषोऽङ्गं नयन्ति याः ।दन्तान्तर्दन्तलग्नेषु जिह्वोष्टैऱशुचिर्भवेत् ॥ १३.२७
न उच्छिष्टम् कुर्वते नित्यम् विप्रुषः अङ्गम् नयन्ति याः ।दन्त-अन्तर् दन्त-लग्नेषु जिह्वा-उष्टैः अशुचिः भवेत् ॥ १३।२७
na ucchiṣṭam kurvate nityam vipruṣaḥ aṅgam nayanti yāḥ .danta-antar danta-lagneṣu jihvā-uṣṭaiḥ aśuciḥ bhavet .. 13.27
स्पृशान्ति बिन्दवः पादौ य आचामयतः परान् ।भूमिकास्ते समा ज्ञेया न तैरप्रयतो भवेत् ॥ १३.२८
स्पृशान्ति बिन्दवः पादौ ये आचामयतः परान् ।भूमिकाः ते समाः ज्ञेयाः न तैः अप्रयतः भवेत् ॥ १३।२८
spṛśānti bindavaḥ pādau ye ācāmayataḥ parān .bhūmikāḥ te samāḥ jñeyāḥ na taiḥ aprayataḥ bhavet .. 13.28
मदुपर्के च सोमे च ताम्बूलस्य च भक्षणे ।फलमूलेक्षुदण्डे न दोषं प्राह वे मनुः ॥ १३.२९
मद्-उपर्के च सोमे च ताम्बूलस्य च भक्षणे ।फल-मूल-इक्षु-दण्डे न दोषम् प्राह मनुः ॥ १३।२९
mad-uparke ca some ca tāmbūlasya ca bhakṣaṇe .phala-mūla-ikṣu-daṇḍe na doṣam prāha manuḥ .. 13.29
प्रचरान्नोदपानेषु द्रव्यहस्तो भवेन्नरः ।भूमौ निक्षिप्य तद् द्रव्यमाचम्याभ्युक्षयेत् तु तत् ॥ १३.३०
प्रचर-अन्न-उदपानेषु द्रव्य-हस्तः भवेत् नरः ।भूमौ निक्षिप्य तत् द्रव्यम् आचम्य अभ्युक्षयेत् तु तत् ॥ १३।३०
pracara-anna-udapāneṣu dravya-hastaḥ bhavet naraḥ .bhūmau nikṣipya tat dravyam ācamya abhyukṣayet tu tat .. 13.30
तैजसं वै समादाय यद्युच्छिष्टो भवेद् द्विजः ।भूमौ निक्षिप्य तद् द्रव्यमाचम्याभ्युक्षयेत् तु तत् ॥ १३.३१
तैजसम् वै समादाय यदि उच्छिष्टः भवेत् द्विजः ।भूमौ निक्षिप्य तत् द्रव्यम् आचम्य अभ्युक्षयेत् तु तत् ॥ १३।३१
taijasam vai samādāya yadi ucchiṣṭaḥ bhavet dvijaḥ .bhūmau nikṣipya tat dravyam ācamya abhyukṣayet tu tat .. 13.31
यद्यमन्त्रं समादाय भवेदुच्छेषणान्वितः ।अनिधायैव तद् द्रव्यमाचान्तः शुचितामियात् ॥१३.३२
यदि अमन्त्रम् समादाय भवेत् उच्छेषण-अन्वितः ।अ निधाय एव तत् द्रव्यम् आचान्तः शुचि-ताम् इयात् ॥१३।३२
yadi amantram samādāya bhavet uccheṣaṇa-anvitaḥ .a nidhāya eva tat dravyam ācāntaḥ śuci-tām iyāt ..13.32
वस्रादिषु विकल्पः स्यात् तत्संस्पृष्ट्वाचमेदिह ।अरण्येऽनुदके रात्रौ चौरव्याघ्राकुले पथि ।१३.३३
वस्र-आदिषु विकल्पः स्यात् तत् संस्पृष्ट्वा आचमेत् इह ।अरण्ये अनुदके रात्रौ चौर-व्याघ्र-आकुले पथि ।१३।३३
vasra-ādiṣu vikalpaḥ syāt tat saṃspṛṣṭvā ācamet iha .araṇye anudake rātrau caura-vyāghra-ākule pathi .13.33
कृत्वा मूत्रं पुरीषं वा द्रव्यहस्तो न दुष्यति ।निधाय दक्षिणे कर्णे ब्रह्मसूत्रमुदङ्मुखः ।१३.३४
कृत्वा मूत्रम् पुरीषम् वा द्रव्य-हस्तः न दुष्यति ।निधाय दक्षिणे कर्णे ब्रह्मसूत्रम् उदक्-मुखः ।१३।३४
kṛtvā mūtram purīṣam vā dravya-hastaḥ na duṣyati .nidhāya dakṣiṇe karṇe brahmasūtram udak-mukhaḥ .13.34
अह्नि कुर्याच्छकृन्मूत्रं रात्रौ चेद् दक्षिणामुखः ॥अन्तर्धाय महीं काष्ठैः पत्रैर्लोष्ठतृणेन वा ।१३.३५
अह्नि कुर्यात् शकृत्-मूत्रम् रात्रौ चेद् दक्षिणा-मुखः ॥अन्तर्धाय महीम् काष्ठैः पत्रैः लोष्ठ-तृणेन वा ।१३।३५
ahni kuryāt śakṛt-mūtram rātrau ced dakṣiṇā-mukhaḥ ..antardhāya mahīm kāṣṭhaiḥ patraiḥ loṣṭha-tṛṇena vā .13.35
प्रावृत्य च शिरः कुर्याद् विण्मूत्रस्य विसर्जनम् ।छायाकूपनदीगोष्ठचैत्याम्भः पथि भस्मसु ।१३.३६
प्रावृत्य च शिरः कुर्यात् विष्-मूत्रस्य विसर्जनम् ।छाया-कूप-नदी-गोष्ठ-चैत्य-अम्भः पथि भस्मसु ।१३।३६
prāvṛtya ca śiraḥ kuryāt viṣ-mūtrasya visarjanam .chāyā-kūpa-nadī-goṣṭha-caitya-ambhaḥ pathi bhasmasu .13.36
अग्नौ चैव श्मशाने च विण्मूत्रे न समाचरेत् ॥न गोमये न कृष्टे वा महावृक्षे न शाड्वले ।१३.३७
अग्नौ च एव श्मशाने च विष्-मूत्रे न समाचरेत् ॥न गोमये न कृष्टे वा महा-वृक्षे न शाड्वले ।१३।३७
agnau ca eva śmaśāne ca viṣ-mūtre na samācaret ..na gomaye na kṛṣṭe vā mahā-vṛkṣe na śāḍvale .13.37
न तिष्ठन् वा न निर्वासा न च पर्वतमस्तके ।न जीर्णदेवायतने न वल्मीके कदाचन ।१३,३८
न तिष्ठन् वा न निर्वासाः न च पर्वत-मस्तके ।न जीर्ण-देवायतने न वल्मीके कदाचन ।१३,३८
na tiṣṭhan vā na nirvāsāḥ na ca parvata-mastake .na jīrṇa-devāyatane na valmīke kadācana .13,38
न ससत्त्वेषु गर्तेषु न गच्छन् वा समाचरेत् ॥तुषाङ्गारकपालेषु राजमार्गे तथैव च ।१३.३९
न स सत्त्वेषु गर्तेषु न गच्छन् वा समाचरेत् ॥तुष-अङ्गार-कपालेषु राजमार्गे तथा एव च ।१३।३९
na sa sattveṣu garteṣu na gacchan vā samācaret ..tuṣa-aṅgāra-kapāleṣu rājamārge tathā eva ca .13.39
न क्षेत्रे न विमले वाऽपि न तीर्थे न चतुष्पथे ।नोद्याने न समीपे वा नोषरे न पराशुचौ ।१३.४०
न क्षेत्रे न विमले वा अपि न तीर्थे न चतुष्पथे ।न उद्याने न समीपे वा न ऊषरे न पर-अशुचौ ।१३।४०
na kṣetre na vimale vā api na tīrthe na catuṣpathe .na udyāne na samīpe vā na ūṣare na para-aśucau .13.40
न सोपानत्पादुको वा छत्री वा नान्तरिक्षके ॥न चैवाभिमुखे स्त्रीणां गुरुब्राह्मणयोर्गवाम् ।१३.४१
न स उपानह् पादुकः वा छत्री वा न अन्तरिक्षके ॥न च एव अभिमुखे स्त्रीणाम् गुरु-ब्राह्मणयोः गवाम् ।१३।४१
na sa upānah pādukaḥ vā chatrī vā na antarikṣake ..na ca eva abhimukhe strīṇām guru-brāhmaṇayoḥ gavām .13.41
न देवदेवालययोरपामपि कदाचन ॥नदीं ज्योतींषि वीक्षित्वा न वार्यभिमुखोऽथवा ।१३.४२
न देव-देवालययोः अपाम् अपि कदाचन ॥नदीम् ज्योतींषि वीक्षित्वा न वारि-अभिमुखः अथवा ।१३।४२
na deva-devālayayoḥ apām api kadācana ..nadīm jyotīṃṣi vīkṣitvā na vāri-abhimukhaḥ athavā .13.42
प्रत्यादित्यं प्रत्यनलं प्रतिसोमं तथैव च ॥आहृत्य मृत्तिकां कूलाल्लेपगन्धापकर्षणात्।१३.४३
प्रति आदित्यम् प्रति अनलम् प्रति सोमम् तथा एव च ॥आहृत्य मृत्तिकाम् कूलात् लेप-गन्ध-अपकर्षणात्।१३।४३
prati ādityam prati analam prati somam tathā eva ca ..āhṛtya mṛttikām kūlāt lepa-gandha-apakarṣaṇāt.13.43
कुर्यादतन्द्रितः शौचं विशुद्धैरुद्धृतोदकैः ॥नाहरेन्मृत्तिकां विप्रः पांशुलान्न च कर्दमान् ।१३.४४
कुर्यात् अतन्द्रितः शौचम् विशुद्धैः उद्धृत-उदकैः ॥न आहरेत् मृत्तिकाम् विप्रः न च कर्दमान् ।१३।४४
kuryāt atandritaḥ śaucam viśuddhaiḥ uddhṛta-udakaiḥ ..na āharet mṛttikām vipraḥ na ca kardamān .13.44
न मार्गान्नोषराद् देशाच्छौचोच्छिष्टात्तथैव च।न देवायतनात् कूपाद् ग्रामान्न च जलात् तथा ।१३.४५
न मार्गात् न ऊषरात् देशात् शौच-उच्छिष्टात् तथा एव च।न देवायतनात् कूपात् ग्रामात् न च जलात् तथा ।१३।४५
na mārgāt na ūṣarāt deśāt śauca-ucchiṣṭāt tathā eva ca.na devāyatanāt kūpāt grāmāt na ca jalāt tathā .13.45
उपस्पृशेत् ततो नित्यं पूर्वोक्तेन विधानतः ॥
उपस्पृशेत् ततस् नित्यम् पूर्व-उक्तेन विधानतः ॥
upaspṛśet tatas nityam pūrva-uktena vidhānataḥ ..
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे त्रयोदशोऽध्यायः ॥
इति श्री-कूर्मपुराणे षट्साहस्त्र्याम् संहितायाम् उपरि विभागे त्रयोदशः अध्यायः ॥
iti śrī-kūrmapurāṇe ṣaṭsāhastryām saṃhitāyām upari vibhāge trayodaśaḥ adhyāyaḥ ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In