| |
|

This overlay will guide you through the buttons:

व्यास उवाच ।
एवं दण्डादिभिर्युक्तः शौचाचारसमन्वितः ।आहूतोऽध्ययनं कुर्याद् वीक्षमाणो गुरोर्मुखम् ॥ १४.१
एवम् दण्ड-आदिभिः युक्तः शौच-आचार-समन्वितः ।आहूतः अध्ययनम् कुर्यात् वीक्षमाणः गुरोः मुखम् ॥ १४।१
evam daṇḍa-ādibhiḥ yuktaḥ śauca-ācāra-samanvitaḥ .āhūtaḥ adhyayanam kuryāt vīkṣamāṇaḥ guroḥ mukham .. 14.1
नित्यमुद्यतपाणिः स्यात् सन्ध्याचारः समन्वितः ।आस्यतामिति चोक्तः सन्नासीताभिमुखं गुरोः ॥ १४.२
नित्यम् उद्यत-पाणिः स्यात् सन्ध्या-आचारः समन्वितः ।आस्यताम् इति च उक्तः सन् आसीत अभिमुखम् गुरोः ॥ १४।२
nityam udyata-pāṇiḥ syāt sandhyā-ācāraḥ samanvitaḥ .āsyatām iti ca uktaḥ san āsīta abhimukham guroḥ .. 14.2
प्रतिश्रवणसंभाषे शयानो न समाचरेत् ।नासीनो न च भुञ्जानो न तिष्ठन्न पराङ्मुखः ॥ १४.३
प्रतिश्रवण-संभाषे शयानः न समाचरेत् ।न आसीनः न च भुञ्जानः न तिष्ठन् न पराङ्मुखः ॥ १४।३
pratiśravaṇa-saṃbhāṣe śayānaḥ na samācaret .na āsīnaḥ na ca bhuñjānaḥ na tiṣṭhan na parāṅmukhaḥ .. 14.3
नच शय्यासनं चास्य सर्वदा गुरुसन्निधौ ।गुरोस्तु चक्षुर्विषये न यथेष्टासनो भवेत् ॥ १४.४
न च शय्या-आसनम् च अस्य सर्वदा गुरु-सन्निधौ ।गुरोः तु चक्षुः-विषये न यथा इष्ट-आसनः भवेत् ॥ १४।४
na ca śayyā-āsanam ca asya sarvadā guru-sannidhau .guroḥ tu cakṣuḥ-viṣaye na yathā iṣṭa-āsanaḥ bhavet .. 14.4
नोदाहरेदस्य नाम परोक्षमपि केवलम् ।न चैवास्यानुकुर्वीत गतिभाषितचेष्टितम् ॥ १४.५
न उदाहरेत् अस्य नाम परोक्षम् अपि केवलम् ।न च एव अस्य अनुकुर्वीत गति-भाषित-चेष्टितम् ॥ १४।५
na udāharet asya nāma parokṣam api kevalam .na ca eva asya anukurvīta gati-bhāṣita-ceṣṭitam .. 14.5
गुरोर्यत्र प्रतीवादो निन्दा चापि प्रवर्त्तते ।कर्णौं तत्र पिधातव्यौ गन्तव्यं वा ततोऽन्यतः ॥ १४.६
गुरोः यत्र प्रतीवादः निन्दा च अपि प्रवर्त्तते ।कर्णौम् तत्र पिधातव्यौ गन्तव्यम् वा ततस् अन्यतस् ॥ १४।६
guroḥ yatra pratīvādaḥ nindā ca api pravarttate .karṇaum tatra pidhātavyau gantavyam vā tatas anyatas .. 14.6
दूरस्थो नार्चयेदेनं न क्रुद्धो नान्तिके स्त्रियाः ।न चैवास्योत्तरं ब्रूयात् स्थिते नासीत सन्निधौ ॥ १४.७
दूर-स्थः न अर्चयेत् एनम् न क्रुद्धः न अन्तिके स्त्रियाः ।न च एव अस्य उत्तरम् ब्रूयात् स्थिते न आसीत सन्निधौ ॥ १४।७
dūra-sthaḥ na arcayet enam na kruddhaḥ na antike striyāḥ .na ca eva asya uttaram brūyāt sthite na āsīta sannidhau .. 14.7
उदकुम्भं कुशान् पुष्पं समिधोऽस्याहरेत् सदा ।मार्जनं लेपनं नित्यमङ्गानां वै समाचरेत् ॥ १४.८
उद-कुम्भम् कुशान् पुष्पम् समिधः अस्य आहरेत् सदा ।मार्जनम् लेपनम् नित्यम् अङ्गानाम् वै समाचरेत् ॥ १४।८
uda-kumbham kuśān puṣpam samidhaḥ asya āharet sadā .mārjanam lepanam nityam aṅgānām vai samācaret .. 14.8
नास्य निर्माल्यशयनं पादुकोपानहावपि ।आक्रमेदासनं चास्य छायादीन् वा कदाचन ॥ १४.९
न अस्य निर्माल्य-शयनम् पादुका-उपानहौ अपि ।आक्रमेत् आसनम् च अस्य छाया-आदीन् वा कदाचन ॥ १४।९
na asya nirmālya-śayanam pādukā-upānahau api .ākramet āsanam ca asya chāyā-ādīn vā kadācana .. 14.9
साधयेद् दन्तकाष्ठादीन् लब्धं चास्मै निवेदयेत् ।अनापृच्छ्य न गन्तव्यं भवेत् प्रियहिते रतः ॥ १४.१०
साधयेत् दन्तकाष्ठ-आदीन् लब्धम् च अस्मै निवेदयेत् ।अन् आपृच्छ्य न गन्तव्यम् भवेत् प्रिय-हिते रतः ॥ १४।१०
sādhayet dantakāṣṭha-ādīn labdham ca asmai nivedayet .an āpṛcchya na gantavyam bhavet priya-hite rataḥ .. 14.10
न पादौ सारयेदस्य संनिधाने कदाचन ।जृम्भाहारस्यादिकञ्चैव कण्ठप्रावरणं तथा ।१४.११
न पादौ सारयेत् अस्य संनिधाने कदाचन ।जृम्भा-आहारस्य आदिकञ्च च एव कण्ठ-प्रावरणम् तथा ।१४।११
na pādau sārayet asya saṃnidhāne kadācana .jṛmbhā-āhārasya ādikañca ca eva kaṇṭha-prāvaraṇam tathā .14.11
वर्जयेत् सन्निधौ नित्यमवस्फोचनमेव च ।यथाकालमधीयीत यावन्न विमना गुरुः ।१४.१२
वर्जयेत् सन्निधौ नित्यम् अवस्फोचनम् एव च ।यथाकालम् अधीयीत यावत् न विमनाः गुरुः ।१४।१२
varjayet sannidhau nityam avasphocanam eva ca .yathākālam adhīyīta yāvat na vimanāḥ guruḥ .14.12
आसीताधो गुरोर्गच्छेत् फलके वा समाहितः ।आसने शयने याने नैव तिष्ठेत् कदाचन ।१४.१३
आसीत अधस् गुरोः गच्छेत् फलके वा समाहितः ।आसने शयने याने न एव तिष्ठेत् कदाचन ।१४।१३
āsīta adhas guroḥ gacchet phalake vā samāhitaḥ .āsane śayane yāne na eva tiṣṭhet kadācana .14.13
धावन्तमनुधावेत्तं गच्छन्तमनुगच्छति ।गोऽश्वोष्ट्रयानप्रासादप्रस्तरेषु कटेषु च ।१४.१४
धावन्तम् अनुधावेत् तम् गच्छन्तम् अनुगच्छति ।गो-अश्व-उष्ट्र-यान-प्रासाद-प्रस्तरेषु कटेषु च ।१४।१४
dhāvantam anudhāvet tam gacchantam anugacchati .go-aśva-uṣṭra-yāna-prāsāda-prastareṣu kaṭeṣu ca .14.14
नासीत गुरुणा सार्द्धं शिलाफलकनौषु च ।जितेन्द्रियः स्यात् सततं वश्यात्माऽक्रोधनः शुचिः ।१४.१५
न आसीत गुरुणा सार्द्धम् शिला-फलक-नौषु च ।जित-इन्द्रियः स्यात् सततम् वश्य-आत्मा अक्रोधनः शुचिः ।१४।१५
na āsīta guruṇā sārddham śilā-phalaka-nauṣu ca .jita-indriyaḥ syāt satatam vaśya-ātmā akrodhanaḥ śuciḥ .14.15
प्रयुञ्जीत सदा वाचं मधुरां हितभाषिणीम् ।गन्धमाल्यं रसं भव्यं शुक्लं प्राणिविहिंसनम् ।१४.१६
प्रयुञ्जीत सदा वाचम् मधुराम् हित-भाषिणीम् ।गन्ध-माल्यम् रसम् भव्यम् शुक्लम् प्राणि-विहिंसनम् ।१४।१६
prayuñjīta sadā vācam madhurām hita-bhāṣiṇīm .gandha-mālyam rasam bhavyam śuklam prāṇi-vihiṃsanam .14.16
अभ्यङ्गं चाञ्जनोपानच्छत्रधारणमेव च ।कामं लोभं भयं निद्रां गीतवादित्रनर्त्तनम् ।१४.१७
अभ्यङ्गम् च अञ्जन-उपानह् छत्र-धारणम् एव च ।कामम् लोभम् भयम् निद्राम् गीत-वादित्र-नर्त्तनम् ।१४।१७
abhyaṅgam ca añjana-upānah chatra-dhāraṇam eva ca .kāmam lobham bhayam nidrām gīta-vāditra-narttanam .14.17
आतज्र्जनं परीवादं स्त्रीप्रेक्षालम्भनं तथा ।परोपघातं पैशुन्यं प्रयत्नेन विवर्जयेत् ॥ १४.१८
आतज्र्जनम् परीवादम् स्त्री-प्रेक्षा-आलम्भनम् तथा ।पर-उपघातम् पैशुन्यम् प्रयत्नेन विवर्जयेत् ॥ १४।१८
ātajrjanam parīvādam strī-prekṣā-ālambhanam tathā .para-upaghātam paiśunyam prayatnena vivarjayet .. 14.18
उदकुम्भं सुमनसो गोशकृन्मृत्तिकां कुशान् ।आहरेद् यावदर्थानि भैक्ष्यं चाहरहश्चरेत् ॥ १४.१९
उद-कुम्भम् सुमनसः गो-शकृत् मृत्तिकाम् कुशान् ।आहरेत् यावदर्थानि भैक्ष्यम् च अहरहर् चरेत् ॥ १४।१९
uda-kumbham sumanasaḥ go-śakṛt mṛttikām kuśān .āharet yāvadarthāni bhaikṣyam ca aharahar caret .. 14.19
कृतं च लवणं सर्वं वर्ज्यं पर्युषितं च यत्।अनृत्यदर्शी सततं भवेद् गीतादिनिःस्पृहः ॥ १४.२०
कृतम् च लवणम् सर्वम् वर्ज्यम् पर्युषितम् च यत्।भवेत् ॥ १४।२०
kṛtam ca lavaṇam sarvam varjyam paryuṣitam ca yat.bhavet .. 14.20
नादित्यं वै समीक्षेत न चरेद् दन्तधावनम् ।एकान्तमशुचिस्त्रीभिः शूद्रान्त्यैरभिभाषणम् ॥ १४.२१
न आदित्यम् वै समीक्षेत न चरेत् दन्तधावनम् ।एकान्तम् अशुचि-स्त्रीभिः शूद्र-अन्त्यैः अभिभाषणम् ॥ १४।२१
na ādityam vai samīkṣeta na caret dantadhāvanam .ekāntam aśuci-strībhiḥ śūdra-antyaiḥ abhibhāṣaṇam .. 14.21
गुरूच्छिष्टं भेषजार्थं प्रयुञ्जीत न कामतः ।कलापकर्षणस्नानं आचरेद्धि कदाचन ॥ १४.२२
गुरु-उच्छिष्टम् भेषज-अर्थम् प्रयुञ्जीत न कामतः ।कला-अपकर्षण-स्नानम् आचरेत् हि कदाचन ॥ १४।२२
guru-ucchiṣṭam bheṣaja-artham prayuñjīta na kāmataḥ .kalā-apakarṣaṇa-snānam ācaret hi kadācana .. 14.22
न कुर्यान्मानसं विप्रो गुरोस्त्यागं कदाचन ।मोहाद्वा यदि वा लोभात् त्यक्तेन पतितो भवेत् ॥ १४.२३
न कुर्यात् मानसम् विप्रः गुरोः त्यागम् कदाचन ।मोहात् वा यदि वा लोभात् त्यक्तेन पतितः भवेत् ॥ १४।२३
na kuryāt mānasam vipraḥ guroḥ tyāgam kadācana .mohāt vā yadi vā lobhāt tyaktena patitaḥ bhavet .. 14.23
लौकिकं वैदिकं चापि तथाध्यात्मिकमेव च ।आददीत यतो ज्ञानं न तं द्रुह्येत् कदाचन ॥ १४.२४
लौकिकम् वैदिकम् च अपि तथा आध्यात्मिकम् एव च ।आददीत यतस् ज्ञानम् न तम् द्रुह्येत् कदाचन ॥ १४।२४
laukikam vaidikam ca api tathā ādhyātmikam eva ca .ādadīta yatas jñānam na tam druhyet kadācana .. 14.24
गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः ।उत्पथंप्रतिपन्नस्य मनुस्त्यागं समब्रवीत् ॥ १४.२५
गुरोः अपि अवलिप्तस्य कार्य-अकार्यम् अ जानतः ।उत्पथम् प्रतिपन्नस्य मनुः त्यागम् समब्रवीत् ॥ १४।२५
guroḥ api avaliptasya kārya-akāryam a jānataḥ .utpatham pratipannasya manuḥ tyāgam samabravīt .. 14.25
गुरोर्गुरौ सन्निहिते गुरुवद् भक्तिमाचरेत् ।न चातिसृष्टो गुरुणा स्वान् गुरूनभिवादयेत् ॥ १४.२६
गुरोः गुरौ सन्निहिते गुरु-वत् भक्तिम् आचरेत् ।न च अतिसृष्टः गुरुणा स्वान् गुरून् अभिवादयेत् ॥ १४।२६
guroḥ gurau sannihite guru-vat bhaktim ācaret .na ca atisṛṣṭaḥ guruṇā svān gurūn abhivādayet .. 14.26
विद्यागुरुष्वेतदेव नित्या वृत्तिः स्वयोनिषु ।प्रतिषेधत्सु चाधर्माद्धितं चोपदिशत्स्वपि ॥ १४.२७
विद्या-गुरुषु एतत् एव नित्या वृत्तिः स्व-योनिषु ।प्रतिषेधत्सु च अधर्मात् हितम् च उपदिशत्सु अपि ॥ १४।२७
vidyā-guruṣu etat eva nityā vṛttiḥ sva-yoniṣu .pratiṣedhatsu ca adharmāt hitam ca upadiśatsu api .. 14.27
श्रेयत्सु गुरुवद् वृत्तिं नित्यमेव समाचरेत् ।गुरुपुत्रेषु दारेषु गुरोश्चैव स्वबन्धुषु ॥ १४.२८
श्रेयत्सु गुरु-वत् वृत्तिम् नित्यम् एव समाचरेत् ।गुरु-पुत्रेषु दारेषु गुरोः च एव स्व-बन्धुषु ॥ १४।२८
śreyatsu guru-vat vṛttim nityam eva samācaret .guru-putreṣu dāreṣu guroḥ ca eva sva-bandhuṣu .. 14.28
बालः संमानयन्मान्यान् वा शिष्यो वा यज्ञकर्मणि ।अध्यापयन् गुरुसुतो गुरुवन्मानमर्हति ॥ १४.२९
बालः संमानयन् मान्यान् वा शिष्यः वा यज्ञ-कर्मणि ।अध्यापयन् गुरु-सुतः गुरु-वत् मानम् अर्हति ॥ १४।२९
bālaḥ saṃmānayan mānyān vā śiṣyaḥ vā yajña-karmaṇi .adhyāpayan guru-sutaḥ guru-vat mānam arhati .. 14.29
उत्सादनं वै गात्राणां स्नापनोच्छिष्टभोजने ।न कुर्याद् गुरुपुत्रस्य पादयोः शौचमेव च ॥ १४.३०
उत्सादनम् वै गात्राणाम् स्नापन-उच्छिष्ट-भोजने ।न कुर्यात् गुरु-पुत्रस्य पादयोः शौचम् एव च ॥ १४।३०
utsādanam vai gātrāṇām snāpana-ucchiṣṭa-bhojane .na kuryāt guru-putrasya pādayoḥ śaucam eva ca .. 14.30
गुरुवत् परिपूज्यास्तु सवर्णा गुरुयोषितः ।असवर्णास्तु संपूज्याः प्रत्युत्थानाभिवादनैः ॥ १४.३१
गुरु-वत् परिपूज्याः तु सवर्णाः गुरु-योषितः ।असवर्णाः तु संपूज्याः प्रत्युत्थान-अभिवादनैः ॥ १४।३१
guru-vat paripūjyāḥ tu savarṇāḥ guru-yoṣitaḥ .asavarṇāḥ tu saṃpūjyāḥ pratyutthāna-abhivādanaiḥ .. 14.31
अभ्यञ्जनं स्नापनं च गात्रोत्सादनमेव च ।गुरुपत्न्या न कार्याणि केशानां च प्रसाधनम् ॥ १४.३२
अभ्यञ्जनम् स्नापनम् च गात्र-उत्सादनम् एव च ।गुरु-पत्न्याः न कार्याणि केशानाम् च प्रसाधनम् ॥ १४।३२
abhyañjanam snāpanam ca gātra-utsādanam eva ca .guru-patnyāḥ na kāryāṇi keśānām ca prasādhanam .. 14.32
गुरुपत्नी तु युवती नाभिवाद्येह पादयोः ।कुर्वीत वन्दनं भूम्यामसावहमिति ब्रुवन् ॥ १४.३३
गुरु-पत्नी तु युवती न अभिवाद्या इह पादयोः ।कुर्वीत वन्दनम् भूम्याम् असौ अहम् इति ब्रुवन् ॥ १४।३३
guru-patnī tu yuvatī na abhivādyā iha pādayoḥ .kurvīta vandanam bhūmyām asau aham iti bruvan .. 14.33
विप्रोष्य पादग्रहणमन्वहं चाभिवादनम् ।गुरुदारेषु कुर्वोत सतां धर्ममनुस्मरन् ॥ १४.३४
विप्रोष्य पाद-ग्रहणम् अन्वहम् च अभिवादनम् ।गुरु-दारेषु कुर्व उत सताम् धर्मम् अनुस्मरन् ॥ १४।३४
viproṣya pāda-grahaṇam anvaham ca abhivādanam .guru-dāreṣu kurva uta satām dharmam anusmaran .. 14.34
मातृष्वसा मातुलानी श्वश्रूश्चाथ पितृष्वसा ।संपूज्या गुरुपत्नीच समस्ता गुरुभार्यया ॥ १४.३५
मातृष्वसा मातुलानी श्वश्रूः च अथ पितृष्वसा ।संपूज्याः गुरु-पत्नी च समस्ताः गुरु-भार्यया ॥ १४।३५
mātṛṣvasā mātulānī śvaśrūḥ ca atha pitṛṣvasā .saṃpūjyāḥ guru-patnī ca samastāḥ guru-bhāryayā .. 14.35
भ्रातुर्भार्याचसंग्रृह्या सवर्णाऽहन्यहन्यपि ।विप्रोष्य तूपसंग्राह्या ज्ञातिसंबन्धियोषितः ॥ १४.३६
भ्रातुः भार्या अ च संग्रृह्या सवर्णा अहनि अहनि अपि ।विप्रोष्य तु उपसंग्राह्याः ज्ञाति-संबन्धि-योषितः ॥ १४।३६
bhrātuḥ bhāryā a ca saṃgrṛhyā savarṇā ahani ahani api .viproṣya tu upasaṃgrāhyāḥ jñāti-saṃbandhi-yoṣitaḥ .. 14.36
पितुर्भगिन्या मातुश्च ज्यायस्यां च स्वसर्यपि ।मातृवद् वृत्तिमातिष्ठेन्मात् ताभ्यो गरीयसी ॥ १४.३७
पितुः भगिन्याः मातुः च ज्यायस्याम् च स्वसरि अपि ।मातृ-वत् वृत्तिम् आतिष्ठेत् मात् ताभ्यः गरीयसी ॥ १४।३७
pituḥ bhaginyāḥ mātuḥ ca jyāyasyām ca svasari api .mātṛ-vat vṛttim ātiṣṭhet māt tābhyaḥ garīyasī .. 14.37
एवमाचारसंपन्नमात्मवन्तमदाम्भिकम् ।वेदमध्यापयेद् धर्मं पुराणाङ्गानि नित्यशः ॥ १४.३८
एवम् आचार-संपन्नम् आत्मवन्तम् अ दाम्भिकम् ।वेदम् अध्यापयेत् धर्मम् पुराण-अङ्गानि नित्यशस् ॥ १४।३८
evam ācāra-saṃpannam ātmavantam a dāmbhikam .vedam adhyāpayet dharmam purāṇa-aṅgāni nityaśas .. 14.38
संवत्सरोषिते शिष्ये गुरुर्ज्ञानमनिर्दिशन् ।हरते दुष्कृतं तस्य शिष्यस्य वसतो गुरुः ॥ १४.३९
संवत्सर-उषिते शिष्ये गुरुः ज्ञानम् अ निर्दिशन् ।हरते दुष्कृतम् तस्य शिष्यस्य वसतः गुरुः ॥ १४।३९
saṃvatsara-uṣite śiṣye guruḥ jñānam a nirdiśan .harate duṣkṛtam tasya śiṣyasya vasataḥ guruḥ .. 14.39
आचार्यपुत्रः शुश्रूषुर्ज्ञानदो धार्मिकः शुचिः ।शक्तोऽन्नदोऽर्थदो साधुः स्वाध्याय्या देश धर्मतः ॥ १४.४०
आचार्य-पुत्रः शुश्रूषुः ज्ञान-दः धार्मिकः शुचिः ।शक्तः अन्न-दः अर्थ-दः साधुः स्वाध्यायी आः धर्मतः ॥ १४।४०
ācārya-putraḥ śuśrūṣuḥ jñāna-daḥ dhārmikaḥ śuciḥ .śaktaḥ anna-daḥ artha-daḥ sādhuḥ svādhyāyī āḥ dharmataḥ .. 14.40
कृतज्ञश्च तथाऽद्रोही मेधावी शुभकृन्नरः ।आप्तः प्रियोऽथ विधिवत् षडध्याप्या द्विजातयः ।१४.४१
कृतज्ञः च तथा अ द्रोही मेधावी शुभ-कृत् नरः ।आप्तः प्रियः अथ विधिवत् षट् अध्याप्याः द्विजातयः ।१४।४१
kṛtajñaḥ ca tathā a drohī medhāvī śubha-kṛt naraḥ .āptaḥ priyaḥ atha vidhivat ṣaṭ adhyāpyāḥ dvijātayaḥ .14.41
एतेषु ब्रह्मणो दानमन्यत्र तु यथोदितान् ।आचम्य संयतो नित्यमधीयीत उदङ्मुखः।१४.४२
एतेषु ब्रह्मणः दानम् अन्यत्र तु यथा उदितान् ।आचम्य संयतः नित्यम् अधीयीत उदक्-मुखः।१४।४२
eteṣu brahmaṇaḥ dānam anyatra tu yathā uditān .ācamya saṃyataḥ nityam adhīyīta udak-mukhaḥ.14.42
उपसंगृह्य तत्पादौ वीक्षमाणो गुरोर्मुखम् ।अधीष्व भो इति ब्रूयाद् विरामोऽस्त्विति नारभेत् ॥ १४.४३
उपसंगृह्य तद्-पादौ वीक्षमाणः गुरोः मुखम् ।अधीष्व भो इति ब्रूयात् विरामः अस्तु इति न आरभेत् ॥ १४।४३
upasaṃgṛhya tad-pādau vīkṣamāṇaḥ guroḥ mukham .adhīṣva bho iti brūyāt virāmaḥ astu iti na ārabhet .. 14.43
प्राक्कूलान् पर्युपासीनः पवित्रैश्चैव पावितः ।प्राणायामैस्त्रिभिः पूतस्तत ओङ्कारमर्हति ॥ १४.४४
प्राच्-कूलान् पर्युपासीनः पवित्रैः च एव पावितः ।प्राणायामैः त्रिभिः पूतः ततस् ओङ्कारम् अर्हति ॥ १४।४४
prāc-kūlān paryupāsīnaḥ pavitraiḥ ca eva pāvitaḥ .prāṇāyāmaiḥ tribhiḥ pūtaḥ tatas oṅkāram arhati .. 14.44
ब्राह्मणः प्रणवं कुर्यादन्ते च विधिवद् द्विजः ।कुर्यादध्ययनं नित्यं ब्रह्माञ्जलिकरस्थितः ॥ १४.४५
ब्राह्मणः प्रणवम् कुर्यात् अन्ते च विधिवत् द्विजः ।कुर्यात् अध्ययनम् नित्यम् ब्रह्माञ्जलि-कर-स्थितः ॥ १४।४५
brāhmaṇaḥ praṇavam kuryāt ante ca vidhivat dvijaḥ .kuryāt adhyayanam nityam brahmāñjali-kara-sthitaḥ .. 14.45
सर्वेषामेव भूतानां वेदश्चक्षुः सनातनम् ।अधीयीताप्ययं नित्यं ब्राह्मण्याच्च्यवतेऽन्यथा ॥ १४.४६
सर्वेषाम् एव भूतानाम् वेदः चक्षुः सनातनम् ।अधीयीत अपि अयम् नित्यम् ब्राह्मण्यात् च्यवते अन्यथा ॥ १४।४६
sarveṣām eva bhūtānām vedaḥ cakṣuḥ sanātanam .adhīyīta api ayam nityam brāhmaṇyāt cyavate anyathā .. 14.46
योऽधीयीत ऋचो नित्यं क्षीराहुत्या स देवताः ।प्रीणाति तर्पयन्त्येनं कामैस्तृप्ताः सदैव हि ॥ १४.४७
यः अधीयीत ऋचः नित्यम् क्षीर-आहुत्या स देवताः ।प्रीणाति तर्पयन्ति एनम् कामैः तृप्ताः सदा एव हि ॥ १४।४७
yaḥ adhīyīta ṛcaḥ nityam kṣīra-āhutyā sa devatāḥ .prīṇāti tarpayanti enam kāmaiḥ tṛptāḥ sadā eva hi .. 14.47
यजूंष्यधीते नियतं दध्ना प्रीणाति देवताः ।सामान्यधीते प्रीणाति घृताहुतिभिरन्वहम् ॥ १४.४८
यजूंषि अधीते नियतम् दध्ना प्रीणाति देवताः ।सामानि अधीते प्रीणाति घृत-आहुतिभिः अन्वहम् ॥ १४।४८
yajūṃṣi adhīte niyatam dadhnā prīṇāti devatāḥ .sāmāni adhīte prīṇāti ghṛta-āhutibhiḥ anvaham .. 14.48
अथर्वाङ्गिरसो नित्यं मध्वा प्रीणाति देवताः ।धर्माङ्गानि पुराणानि मांसैस्तर्पयेत्सुरान् ॥ १४.३९
अथर्व-अङ्गिरसः नित्यम् मध्वा प्रीणाति देवताः ।धर्म-अङ्गानि पुराणानि मांसैः तर्पयेत् सुरान् ॥ १४।३९
atharva-aṅgirasaḥ nityam madhvā prīṇāti devatāḥ .dharma-aṅgāni purāṇāni māṃsaiḥ tarpayet surān .. 14.39
अपां समीपे नियतो नैत्यिकं विधिमाश्रितः ।गायत्रीमप्यधीयीत गत्वाऽरण्यं समाहितः ॥ १४.५०
अपाम् समीपे नियतः नैत्यिकम् विधिम् आश्रितः ।गायत्रीम् अपि अधीयीत गत्वा अरण्यम् समाहितः ॥ १४।५०
apām samīpe niyataḥ naityikam vidhim āśritaḥ .gāyatrīm api adhīyīta gatvā araṇyam samāhitaḥ .. 14.50
सहस्रपरमां देवीं शतमध्यां दशावराम् ।गायत्रीं वै जपेन्नित्यं जपयज्ञः प्रकीर्त्तितः ॥ १४.५१
सहस्र-परमाम् देवीम् शत-मध्याम् दश-अवराम् ।गायत्रीम् वै जपेत् नित्यम् जप-यज्ञः प्रकीर्त्तितः ॥ १४।५१
sahasra-paramām devīm śata-madhyām daśa-avarām .gāyatrīm vai japet nityam japa-yajñaḥ prakīrttitaḥ .. 14.51
गायत्रीं चैव वेदांस्तु तुलयाऽतोलयत् प्रभुः ।एकतश्चतुरो वेदान् गायत्रीं च तथैकतः ॥ १४.५२
गायत्रीम् च एव वेदान् तु तुलया अतोलयत् प्रभुः ।एकतस् चतुरः वेदान् गायत्रीम् च तथा एकतस् ॥ १४।५२
gāyatrīm ca eva vedān tu tulayā atolayat prabhuḥ .ekatas caturaḥ vedān gāyatrīm ca tathā ekatas .. 14.52
ओंकारमादितः कृत्वा व्याहृतीस्तदनन्तरम्।ततोऽधीयीत सावित्रीमेकाग्रः श्रद्धयान्वितः ।१४.५३
ओंकारम् आदितस् कृत्वा व्याहृतीः तद्-अनन्तरम्।ततस् अधीयीत सावित्रीम् एकाग्रः श्रद्धया अन्वितः ।१४।५३
oṃkāram āditas kṛtvā vyāhṛtīḥ tad-anantaram.tatas adhīyīta sāvitrīm ekāgraḥ śraddhayā anvitaḥ .14.53
पुराकल्पे समुत्पन्ना भूर्भुवःस्वः सनातनाः ।१४.५४महाव्याहृतयस्तिस्त्रः सर्वाशुभनिबर्हणाः ॥ १४.५५
पुराकल्पे समुत्पन्नाः भूः भुवः स्वर् सनातनाः ।१४।५४महाव्याहृतयः तिस्त्रः सर्व-अशुभ-निबर्हणाः ॥ १४।५५
purākalpe samutpannāḥ bhūḥ bhuvaḥ svar sanātanāḥ .14.54mahāvyāhṛtayaḥ tistraḥ sarva-aśubha-nibarhaṇāḥ .. 14.55
प्रधानं पुरुषः कालो विष्णुर्ब्रह्मा महेश्वरः ।सत्त्वं रजस्तमस्तिस्त्रः क्रमाद् व्याहृतयः स्मृताः ॥ १४.५६
प्रधानम् पुरुषः कालः विष्णुः ब्रह्मा महेश्वरः ।सत्त्वम् रजः तमः तिस्त्रः क्रमात् व्याहृतयः स्मृताः ॥ १४।५६
pradhānam puruṣaḥ kālaḥ viṣṇuḥ brahmā maheśvaraḥ .sattvam rajaḥ tamaḥ tistraḥ kramāt vyāhṛtayaḥ smṛtāḥ .. 14.56
ओंकारस्तत् परं ब्रह्म सावित्री स्यात् तदक्षरम् ।एष मन्त्रो महायोगः सारात् सार उदाहृतः ॥ १४.५७
ओंकारः तत् परम् ब्रह्म सावित्री स्यात् तत् अक्षरम् ।एष मन्त्रः महा-योगः सारात् सारः उदाहृतः ॥ १४।५७
oṃkāraḥ tat param brahma sāvitrī syāt tat akṣaram .eṣa mantraḥ mahā-yogaḥ sārāt sāraḥ udāhṛtaḥ .. 14.57
योऽधीतेऽहन्यहन्येतां गायत्रीं वेदमातरम् ।विज्ञायार्थं ब्रह्मचारी स याति परमां गतिम् ॥ १४.५८
यः अधीते अहनि अहनि एताम् गायत्रीम् वेदमातरम् ।विज्ञाय अर्थम् ब्रह्मचारी स याति परमाम् गतिम् ॥ १४।५८
yaḥ adhīte ahani ahani etām gāyatrīm vedamātaram .vijñāya artham brahmacārī sa yāti paramām gatim .. 14.58
गायत्री वेदजननी गायत्री लोकपावनी ।न गायत्र्याः परं जप्यमेतद् विज्ञाय मुच्यते ॥ १४.५९
गायत्री वेद-जननी गायत्री लोक-पावनी ।न गायत्र्याः परम् जप्यम् एतत् विज्ञाय मुच्यते ॥ १४।५९
gāyatrī veda-jananī gāyatrī loka-pāvanī .na gāyatryāḥ param japyam etat vijñāya mucyate .. 14.59
श्रावणस्य तु मासस्य पौर्णमास्यां द्विजोत्तमाः ।आषाढ्यां प्रोष्ठपद्यां वा वेदोपाकरणं स्मृतम् ॥ १४.६०
श्रावणस्य तु मासस्य पौर्णमास्याम् द्विजोत्तमाः ।आषाढ्याम् प्रोष्ठपद्याम् वा वेद-उपाकरणम् स्मृतम् ॥ १४।६०
śrāvaṇasya tu māsasya paurṇamāsyām dvijottamāḥ .āṣāḍhyām proṣṭhapadyām vā veda-upākaraṇam smṛtam .. 14.60
उत्सृज्य ग्रामनगरं मासान् विप्रोऽर्द्धपञ्चमान् ।अधीयीत शुचौ देशे ब्रह्मचारी समाहितः ॥ १४.६१
उत्सृज्य ग्राम-नगरम् मासान् विप्रः अर्द्धपञ्चमान् ।अधीयीत शुचौ देशे ब्रह्मचारी समाहितः ॥ १४।६१
utsṛjya grāma-nagaram māsān vipraḥ arddhapañcamān .adhīyīta śucau deśe brahmacārī samāhitaḥ .. 14.61
पुष्ये तु छन्दसां कुर्याद् बहिरुत्सर्जनं द्विजाः ।माघशुक्लस्य वा प्राप्ते पूर्वाह्णे प्रथमेऽहनि ॥ १४.६२
पुष्ये तु छन्दसाम् कुर्यात् बहिस् उत्सर्जनम् द्विजाः ।माघ-शुक्लस्य वा प्राप्ते पूर्वाह्णे प्रथमे अहनि ॥ १४।६२
puṣye tu chandasām kuryāt bahis utsarjanam dvijāḥ .māgha-śuklasya vā prāpte pūrvāhṇe prathame ahani .. 14.62
छन्दांस्यूर्ध्वमथोभ्यस्येच्छुक्लपक्षेषु वै द्विजः ।वेदाङ्गानि पुराणानि कृष्णपक्षे च मानवः ॥ १४.६३
छन्दांसि ऊर्ध्वम् अथ उभ्यस्येत् शुक्लपक्षेषु वै द्विजः ।वेदाङ्गानि पुराणानि कृष्ण-पक्षे च मानवः ॥ १४।६३
chandāṃsi ūrdhvam atha ubhyasyet śuklapakṣeṣu vai dvijaḥ .vedāṅgāni purāṇāni kṛṣṇa-pakṣe ca mānavaḥ .. 14.63
इमान् नित्यमनध्यायानदीयानो विवर्जयेत् ।अध्यापनं च कुर्वाणो ह्यनध्यायन्विवर्जयेत् ॥ १४.६४
इमान् नित्यम् अनध्यायान् अदीयानः विवर्जयेत् ।अध्यापनम् च कुर्वाणः हि अन् अध्यायन् विवर्जयेत् ॥ १४।६४
imān nityam anadhyāyān adīyānaḥ vivarjayet .adhyāpanam ca kurvāṇaḥ hi an adhyāyan vivarjayet .. 14.64
कर्णश्रवेऽनिले रात्रौ दिवा पांशुसमूहने ।विद्युत्स्तनितवर्षेषु महोल्कानां च संप्लवे ।१४.६५
कर्ण-श्रवे अनिले रात्रौ दिवा पांशु-समूहने ।विद्युत्-स्तनित-वर्षेषु महा-उल्कानाम् च संप्लवे ।१४।६५
karṇa-śrave anile rātrau divā pāṃśu-samūhane .vidyut-stanita-varṣeṣu mahā-ulkānām ca saṃplave .14.65
आकालिकमनध्यायमेतेष्वाह प्रजापतिः ।एतानभ्युदितान् विद्याद् यदा प्रादुष्कृताग्निषु ।तदा विद्यादनध्यायमनृतौ चाभ्रदर्शने ।निर्घाते भूमिचलने ज्योतिषां चोपसर्जने ।१४.६६
आकालिकम् अनध्यायम् एतेषु आह प्रजापतिः ।एतान् अभ्युदितान् विद्यात् यदा प्रादुष्कृत-अग्निषु ।तदा विद्यात् अनध्यायम् अनृतौ च अभ्र-दर्शने ।निर्घाते भूमिचलने ज्योतिषाम् च उपसर्जने ।१४।६६
ākālikam anadhyāyam eteṣu āha prajāpatiḥ .etān abhyuditān vidyāt yadā prāduṣkṛta-agniṣu .tadā vidyāt anadhyāyam anṛtau ca abhra-darśane .nirghāte bhūmicalane jyotiṣām ca upasarjane .14.66
एतानाकालिकान् विद्यादनध्यायानृतावपि ।प्रादुष्कृतेष्वग्निषु तु विद्युत्स्तनितनिस्वने ।१४.६७
एतान् आकालिकान् विद्यात् अनध्याय-अनृतौ अपि ।प्रादुष्कृतेषु अग्निषु तु विद्युत्-स्तनित-निस्वने ।१४।६७
etān ākālikān vidyāt anadhyāya-anṛtau api .prāduṣkṛteṣu agniṣu tu vidyut-stanita-nisvane .14.67
सज्योतिः स्यादनध्यायमनृतौ चात्रदर्शने।नित्यानध्याय एव स्याद् ग्रामेषु नगरेषु च ।१४.६८
स ज्योतिः स्यात् अनध्यायम् अनृतौ च अत्र दर्शने।नित्यानध्यायः एव स्यात् ग्रामेषु नगरेषु च ।१४।६८
sa jyotiḥ syāt anadhyāyam anṛtau ca atra darśane.nityānadhyāyaḥ eva syāt grāmeṣu nagareṣu ca .14.68
धर्मनैपुण्यकामानां पूतिगन्धे च नित्यशः ।अन्तः शवगते ग्रामे वृषलस्य च सन्निधौ ।१४.६९
धर्म-नैपुण्य-कामानाम् पूति-गन्धे च नित्यशस् ।अन्तर् शव-गते ग्रामे वृषलस्य च सन्निधौ ।१४।६९
dharma-naipuṇya-kāmānām pūti-gandhe ca nityaśas .antar śava-gate grāme vṛṣalasya ca sannidhau .14.69
अनध्यायो रुद्यमाने समवाये जनस्य च ।उदके मध्यरात्रे च विण्मूत्रे च विसर्जने ।१४.७०
अनध्यायः रुद्यमाने समवाये जनस्य च ।उदके मध्यरात्रे च विष्-मूत्रे च विसर्जने ।१४।७०
anadhyāyaḥ rudyamāne samavāye janasya ca .udake madhyarātre ca viṣ-mūtre ca visarjane .14.70
उच्छिष्टः श्राद्धबुक् चैव मनसाऽपि न चिन्तयेत् ।प्रतिगृह्य द्विजो विद्वानेकोदिष्टस्य केतनम् ।१४.७१
उच्छिष्टः श्राद्ध-बुध् च एव मनसा अपि न चिन्तयेत् ।प्रतिगृह्य द्विजः विद्वान् एकोदिष्टस्य केतनम् ।१४।७१
ucchiṣṭaḥ śrāddha-budh ca eva manasā api na cintayet .pratigṛhya dvijaḥ vidvān ekodiṣṭasya ketanam .14.71
त्र्यहं न कीर्त्तयेद् ब्रह्म राज्ञो राहोश्च सूतके ।यावदेकोऽनुदिष्टस्य स्नेहो गन्धश्च तिष्ठति ।१४.७२
त्रि-अहम् न कीर्त्तयेत् ब्रह्म राज्ञः राहोः च सूतके ।यावत् एकः अनुदिष्टस्य स्नेहः गन्धः च तिष्ठति ।१४।७२
tri-aham na kīrttayet brahma rājñaḥ rāhoḥ ca sūtake .yāvat ekaḥ anudiṣṭasya snehaḥ gandhaḥ ca tiṣṭhati .14.72
विप्रस्य विदुषो देहे तावद् ब्रह्म न कीर्त्तयेत् ।शयानः प्रौढपादश्च कृत्वा चैचावसिक्थकाम् ।१४.७३
विप्रस्य विदुषः देहे तावत् ब्रह्म न कीर्त्तयेत् ।शयानः प्रौढ-पादः च कृत्वा ।१४।७३
viprasya viduṣaḥ dehe tāvat brahma na kīrttayet .śayānaḥ prauḍha-pādaḥ ca kṛtvā .14.73
नाधीयीतामिषं जग्ध्वा सूतकाद्यन्नमेव च ।नीहारे बाणपाते च संध्ययोरुभयोरपि ।१४.७४
न अधीयीत आमिषम् जग्ध्वा सूतक-आदि-अन्नम् एव च ।नीहारे बाण-पाते च संध्ययोः उभयोः अपि ।१४।७४
na adhīyīta āmiṣam jagdhvā sūtaka-ādi-annam eva ca .nīhāre bāṇa-pāte ca saṃdhyayoḥ ubhayoḥ api .14.74
अमावास्यां चतुर्दश्यां पौर्णमास्यष्टमीषु च ।उपाकर्मणि चोत्सर्गे त्रिरात्रं क्षपणं स्मृतम् ।१४.७५
अमावास्याम् चतुर्दश्याम् पौर्णमासी-अष्टमीषु च ।उपाकर्मणि च उत्सर्गे त्रि-रात्रम् क्षपणम् स्मृतम् ।१४।७५
amāvāsyām caturdaśyām paurṇamāsī-aṣṭamīṣu ca .upākarmaṇi ca utsarge tri-rātram kṣapaṇam smṛtam .14.75
अष्टकासु त्र्यहोरात्रं ऋत्वन्तासु च रात्रिषु ।मार्गशीर्षे तथा पौषे माघमासे तथैव च ।१४.७६
अष्टकासु त्रि-अहोरात्रम् ऋतु-अन्तासु च रात्रिषु ।मार्गशीर्षे तथा पौषे माघ-मासे तथा एव च ।१४।७६
aṣṭakāsu tri-ahorātram ṛtu-antāsu ca rātriṣu .mārgaśīrṣe tathā pauṣe māgha-māse tathā eva ca .14.76
तिस्रोऽष्टकाः समाख्याता कृष्णपक्षेतु सूरिभिः ।श्लेष्मातकस्य छायायां शाल्मलेर्मधुकस्य च ।१४.७७
तिस्रः अष्टकाः समाख्याता कृष्ण-पक्षे तु सूरिभिः ।श्लेष्मातकस्य छायायाम् शाल्मलेः मधुकस्य च ।१४।७७
tisraḥ aṣṭakāḥ samākhyātā kṛṣṇa-pakṣe tu sūribhiḥ .śleṣmātakasya chāyāyām śālmaleḥ madhukasya ca .14.77
कदाचिदपि नाध्येयं कोविदारकपित्थयोः ।समानविद्ये च मृते तथा सब्रह्मचारिणि ।१४.७८
कदाचिद् अपि न अध्येयम् कोविदार-कपित्थयोः ।समान-विद्ये च मृते तथा सब्रह्मचारिणि ।१४।७८
kadācid api na adhyeyam kovidāra-kapitthayoḥ .samāna-vidye ca mṛte tathā sabrahmacāriṇi .14.78
आचार्ये संस्थिते वाऽपि त्रिरात्रं क्षपणं स्मृतम् ।छिद्राण्येतानि विप्राणांयेऽनध्यायाः प्रकीर्तिताः ।१४.७९
आचार्ये संस्थिते वा अपि त्रि-रात्रम् क्षपणम् स्मृतम् ।छिद्राणि एतानि विप्राणाम् ये अनध्यायाः प्रकीर्तिताः ।१४।७९
ācārye saṃsthite vā api tri-rātram kṣapaṇam smṛtam .chidrāṇi etāni viprāṇām ye anadhyāyāḥ prakīrtitāḥ .14.79
हिंसन्ति राक्षसास्तेषु तस्मादेतान् विवर्जयेत् ।नैत्यके नास्त्यनध्यायः संध्योपासन एव च ।१४.८०
हिंसन्ति राक्षसाः तेषु तस्मात् एतान् विवर्जयेत् ।नैत्यके न अस्ति अनध्यायः संध्या-उपासने एव च ।१४।८०
hiṃsanti rākṣasāḥ teṣu tasmāt etān vivarjayet .naityake na asti anadhyāyaḥ saṃdhyā-upāsane eva ca .14.80
उपाकर्मणि कर्मान्ते होममन्त्रेषु चैव हि ।एकामृचमथैकं वा यजुः सामाथवा पुनः ।१४.८१
उपाकर्मणि कर्मान्ते होम-मन्त्रेषु च एव हि ।एकाम् ऋचम् अथ एकम् वा यजुः साम अथवा पुनर् ।१४।८१
upākarmaṇi karmānte homa-mantreṣu ca eva hi .ekām ṛcam atha ekam vā yajuḥ sāma athavā punar .14.81
अष्टकाद्यास्वधीयीत मारुते चातिवायति ।अनध्यायस्तु नाङ्गेषु नेतिहासपुराणयोः ।१४.८२
अष्टका-आद्यासु अधीयीत मारुते ।अनध्यायः तु न अङ्गेषु न इतिहास-पुराणयोः ।१४।८२
aṣṭakā-ādyāsu adhīyīta mārute .anadhyāyaḥ tu na aṅgeṣu na itihāsa-purāṇayoḥ .14.82
न धर्मशास्त्रेष्वन्येषु पर्वाण्येतानि वर्जयेत् ।एष धर्मः समासेन कीर्त्तितो ब्रह्मचारिणाम् ।१४.८३
न धर्म-शास्त्रेषु अन्येषु पर्वाणि एतानि वर्जयेत् ।एष धर्मः समासेन कीर्त्तितः ब्रह्मचारिणाम् ।१४।८३
na dharma-śāstreṣu anyeṣu parvāṇi etāni varjayet .eṣa dharmaḥ samāsena kīrttitaḥ brahmacāriṇām .14.83
ब्रह्मणाऽभिहितः पूर्वमृषीणां भावितात्मनाम् ।योऽन्यत्र कुरुते यत्नमनधीत्य श्रुतिं द्विजाः ।१४.८४
ब्रह्मणा अभिहितः पूर्वम् ऋषीणाम् भावितात्मनाम् ।यः अन्यत्र कुरुते यत्नम् अन् अधीत्य श्रुतिम् द्विजाः ।१४।८४
brahmaṇā abhihitaḥ pūrvam ṛṣīṇām bhāvitātmanām .yaḥ anyatra kurute yatnam an adhītya śrutim dvijāḥ .14.84
स संमूढो न संभाष्यो वेदबाह्यो द्विजातिभिः ।न वेदपाठमात्रेण संतुष्टो वै भवेद् द्विजः ।१४.८५
स संमूढः न संभाष्यः वेद-बाह्यः द्विजातिभिः ।न वेद-पाठ-मात्रेण संतुष्टः वै भवेत् द्विजः ।१४।८५
sa saṃmūḍhaḥ na saṃbhāṣyaḥ veda-bāhyaḥ dvijātibhiḥ .na veda-pāṭha-mātreṇa saṃtuṣṭaḥ vai bhavet dvijaḥ .14.85
पाठमात्रावसन्नस्तु पङ्के गौरिव सीदति ।योऽधीत्य विधिवद् वेदं वेदार्थं न विचारयेत् ।१४.८६
पाठ-मात्र-अवसन्नः तु पङ्के गौः इव सीदति ।यः अधीत्य विधिवत् वेदम् वेद-अर्थम् न विचारयेत् ।१४।८६
pāṭha-mātra-avasannaḥ tu paṅke gauḥ iva sīdati .yaḥ adhītya vidhivat vedam veda-artham na vicārayet .14.86
स चान्धः शूद्रकल्पस्तु पदार्थं न प्रपद्यते ।यदि त्वात्यन्तिकं वासं कर्त्तुमिच्छति वै गुरौ ।१४.८७
स च अन्धः शूद्र-कल्पः तु पदार्थम् न प्रपद्यते ।यदि तु आत्यन्तिकम् वासम् कर्त्तुम् इच्छति वै गुरौ ।१४।८७
sa ca andhaḥ śūdra-kalpaḥ tu padārtham na prapadyate .yadi tu ātyantikam vāsam karttum icchati vai gurau .14.87
युक्तः परिचरेदेनमाशरीरविमोक्षणात् ।गत्वा वनं वा विधिवज्जुहुयाज्जातवेदसम् ।१४.८८
युक्तः परिचरेत् एनम् आ शरीरविमोक्षणात् ।गत्वा वनम् वा विधिवत् जुहुयात् जातवेदसम् ।१४।८८
yuktaḥ paricaret enam ā śarīravimokṣaṇāt .gatvā vanam vā vidhivat juhuyāt jātavedasam .14.88
अभ्यसेत्स तदा नित्यं ब्रह्मनिष्ठः समाहितःसावित्रीं शतरुद्रीयं वेदान्तांश्च विशेषतः ।अभ्यसेत् सततं युक्ते भस्मस्नानपरायणः ॥ १४.८९
अभ्यसेत् स तदा नित्यम् ब्रह्म-निष्ठः समाहितः सावित्रीम् शतरुद्रीयम् वेदान्तान् च विशेषतः ।अभ्यसेत् सततम् युक्ते भस्म-स्नान-परायणः ॥ १४।८९
abhyaset sa tadā nityam brahma-niṣṭhaḥ samāhitaḥ sāvitrīm śatarudrīyam vedāntān ca viśeṣataḥ .abhyaset satatam yukte bhasma-snāna-parāyaṇaḥ .. 14.89
एतद् विधानं परमं पुराणं वेदागमे सम्यगिहेरितञ्च ।पुरा महर्षिप्रवरानुपृष्टः स्वायंभुवो यन्मनुराह देवः ॥ १४.९०
एतत् विधानम् परमम् पुराणम् वेद-आगमे सम्यक् इह ईरितम् च ।पुरा महा-ऋषि-प्रवर-अनुपृष्टः स्वायंभुवः यत् मनुः आह देवः ॥ १४।९०
etat vidhānam paramam purāṇam veda-āgame samyak iha īritam ca .purā mahā-ṛṣi-pravara-anupṛṣṭaḥ svāyaṃbhuvaḥ yat manuḥ āha devaḥ .. 14.90
एवमीश्वरसमर्पितान्तरो योऽनुतिष्ठति विधिं विधानवित् ।मोहजालमपहाय सोऽमृतो याति तत् पदमनामयं शिवम् ॥ १४.९१
एवम् ईश्वर-समर्पित-अन्तरः यः अनुतिष्ठति विधिम् विधान-विद् ।मोह-जालम् अपहाय सः अमृतः याति तत् पदम् अनामयम् शिवम् ॥ १४।९१
evam īśvara-samarpita-antaraḥ yaḥ anutiṣṭhati vidhim vidhāna-vid .moha-jālam apahāya saḥ amṛtaḥ yāti tat padam anāmayam śivam .. 14.91
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे चतुर्दशोऽध्यायः ॥
इति श्री-कूर्मपुराणे षट्साहस्त्र्याम् संहितायाम् उपरि विभागे चतुर्दशः अध्यायः ॥
iti śrī-kūrmapurāṇe ṣaṭsāhastryām saṃhitāyām upari vibhāge caturdaśaḥ adhyāyaḥ ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In