| |
|

This overlay will guide you through the buttons:

व्यास उवाच ।
वेदं वेदौ तथा वेदान् विन्द्याद्वा चतुरो द्विजाः ।अधीत्य चाभिगम्यार्थं ततः स्नायाद् द्विजोत्तमाः ॥ १५.१
वेदम् वेदौ तथा वेदान् विन्द्यात् वा चतुरः द्विजाः ।अधीत्य च अभिगम्य अर्थम् ततस् स्नायात् द्विजोत्तमाः ॥ १५।१
vedam vedau tathā vedān vindyāt vā caturaḥ dvijāḥ .adhītya ca abhigamya artham tatas snāyāt dvijottamāḥ .. 15.1
गुरवे तु धनं दत्त्वा स्नायीत तदनुज्ञया ।चीर्णव्रतोऽथ युक्तात्मा सशक्तः स्नातुमर्हति ॥ १५.२
गुरवे तु धनम् दत्त्वा स्नायीत तद्-अनुज्ञया ।चीर्ण-व्रतः अथ युक्त-आत्मा स शक्तः स्नातुम् अर्हति ॥ १५।२
gurave tu dhanam dattvā snāyīta tad-anujñayā .cīrṇa-vrataḥ atha yukta-ātmā sa śaktaḥ snātum arhati .. 15.2
वैणवीं धारयेद् यष्टिमन्तर्वासस्तथोत्तरम् ।यज्ञोपवीतद्वितयं सोदकं च कमण्डलुम् ॥ १५.३
वैणवीम् धारयेत् यष्टिम् अन्तर्वासः तथा उत्तरम् ।यज्ञोपवीत-द्वितयम् स उदकम् च कमण्डलुम् ॥ १५।३
vaiṇavīm dhārayet yaṣṭim antarvāsaḥ tathā uttaram .yajñopavīta-dvitayam sa udakam ca kamaṇḍalum .. 15.3
छत्रं चोष्णीषममलं पादुके चाप्युपानहौ ।रौक्मे च कुण्डले वेदं कृत्तकेशनखः शुचिः ॥ १५.४
छत्रम् च उष्णीषम् अमलम् पादुके च अपि उपानहौ ।रौक्मे च कुण्डले वेदम् कृत्त-केश-नखः शुचिः ॥ १५।४
chatram ca uṣṇīṣam amalam pāduke ca api upānahau .raukme ca kuṇḍale vedam kṛtta-keśa-nakhaḥ śuciḥ .. 15.4
स्वाध्याये नित्ययुक्तः स्याद् बहिर्माल्यं न धारयेत् ।अन्यत्रकाञ्चनाद् विप्रः नरक्तां बिभृयात् स्त्रजम् ॥ १५.५
स्वाध्याये नित्य-युक्तः स्यात् बहिस् माल्यम् न धारयेत् ।अन्यत्र काञ्चनात् विप्रः न रक्ताम् बिभृयात् स्त्रजम् ॥ १५।५
svādhyāye nitya-yuktaḥ syāt bahis mālyam na dhārayet .anyatra kāñcanāt vipraḥ na raktām bibhṛyāt strajam .. 15.5
शुक्लाम्बरधरो नित्यं सुगन्धः प्रियदर्शनः ।न जीर्णमलवद्वासा भवेद् वै वैभवे सति ॥ १५.६
शुक्ल-अम्बर-धरः नित्यम् सुगन्धः प्रिय-दर्शनः ।न जीर्ण-मलवत्-वासाः भवेत् वै वैभवे सति ॥ १५।६
śukla-ambara-dharaḥ nityam sugandhaḥ priya-darśanaḥ .na jīrṇa-malavat-vāsāḥ bhavet vai vaibhave sati .. 15.6
न रक्तमुल्बणं चान्यधृतं वासो न कुण्डिकाम् ।नोपानहौ स्त्रजं चाथ पादुके न प्रयोजयेत् ॥ १५.७
न रक्तम् उल्बणम् च अन्य-धृतम् वासः न कुण्डिकाम् ।न उपानहौ स्त्र-जम् च अथ पादुके न प्रयोजयेत् ॥ १५।७
na raktam ulbaṇam ca anya-dhṛtam vāsaḥ na kuṇḍikām .na upānahau stra-jam ca atha pāduke na prayojayet .. 15.7
उपवीतकरान् दर्भान् तथा कृष्णाजिनानि च ।नापसव्यं परीदध्याद् वासो न विकृतंञ्च यत् ॥ १५.८
उपवीत-करान् दर्भान् तथा कृष्णाजिनानि च ।न अपसव्यम् वासः न विकृतन् च यत् ॥ १५।८
upavīta-karān darbhān tathā kṛṣṇājināni ca .na apasavyam vāsaḥ na vikṛtan ca yat .. 15.8
आहरेद् विधिवद् दारान् सदृशानात्मनः शुभान् ।रूपलक्षणसंयुक्तान् योनिदोषविवर्जितान् ॥ १५.९
आहरेत् विधिवत् दारान् सदृशान् आत्मनः शुभान् ।रूप-लक्षण-संयुक्तान् योनि-दोष-विवर्जितान् ॥ १५।९
āharet vidhivat dārān sadṛśān ātmanaḥ śubhān .rūpa-lakṣaṇa-saṃyuktān yoni-doṣa-vivarjitān .. 15.9
अमातृगोत्रप्रभवामसमानर्षिगोत्रजाम् ।आहरेद् ब्राह्मणो भार्यां शीलशौचसमन्विताम् ॥ १५.१०
अ मातृ-गोत्र-प्रभवाम् असमान-ऋषि-गोत्र-जाम् ।आहरेत् ब्राह्मणः भार्याम् शील-शौच-समन्विताम् ॥ १५।१०
a mātṛ-gotra-prabhavām asamāna-ṛṣi-gotra-jām .āharet brāhmaṇaḥ bhāryām śīla-śauca-samanvitām .. 15.10
ऋतुकालाभिगामी स्याद् यावत् पुत्रोऽभिजायते ।वर्जयेत् प्रतिषिद्धानि प्रयत्नेन दिनानि तु ॥ १५.११
ऋतु-काल-अभिगामी स्यात् यावत् पुत्रः अभिजायते ।वर्जयेत् प्रतिषिद्धानि प्रयत्नेन दिनानि तु ॥ १५।११
ṛtu-kāla-abhigāmī syāt yāvat putraḥ abhijāyate .varjayet pratiṣiddhāni prayatnena dināni tu .. 15.11
षष्ट्यष्टमीं पञ्चदशीं द्वादशीं च चतुर्दशीम् ।ब्रह्मचारी भवेन्नित्यं तद्वज्जन्मत्रयाहनि ॥ १५.१२
षष्टि-अष्टमीम् पञ्चदशीम् द्वादशीम् च चतुर्दशीम् ।ब्रह्मचारी भवेत् नित्यम् तद्वत् जन्म-त्रय-अहनि ॥ १५।१२
ṣaṣṭi-aṣṭamīm pañcadaśīm dvādaśīm ca caturdaśīm .brahmacārī bhavet nityam tadvat janma-traya-ahani .. 15.12
आदधीतावसथ्याग्निं जुहुयाज्जातवेदसम् ।व्रतानि स्नातको नित्यं पावनानि च पालयेत् ॥ १५.१३
आदधीत आवसथ्य-अग्निम् जुहुयात् जातवेदसम् ।व्रतानि स्नातकः नित्यम् पावनानि च पालयेत् ॥ १५।१३
ādadhīta āvasathya-agnim juhuyāt jātavedasam .vratāni snātakaḥ nityam pāvanāni ca pālayet .. 15.13
वेदोदितं स्वकं कर्म नित्यं कुर्यादतन्द्रितः ।अकुर्वाणः पतत्याशु नरकानतिभीषणान् ॥ १५.१४
वेद-उदितम् स्वकम् कर्म नित्यम् कुर्यात् अतन्द्रितः ।अकुर्वाणः पतति आशु नरकान् अति भीषणान् ॥ १५।१४
veda-uditam svakam karma nityam kuryāt atandritaḥ .akurvāṇaḥ patati āśu narakān ati bhīṣaṇān .. 15.14
अभ्यसेत् प्रयतो वेदं महायज्ञांश्च भावयेत् ।कुर्याद् गृह्याणि कर्माणि संध्योपासनमेव च ॥ १५.१५
अभ्यसेत् प्रयतः वेदम् महा-यज्ञान् च भावयेत् ।कुर्यात् गृह्याणि कर्माणि संध्या-उपासनम् एव च ॥ १५।१५
abhyaset prayataḥ vedam mahā-yajñān ca bhāvayet .kuryāt gṛhyāṇi karmāṇi saṃdhyā-upāsanam eva ca .. 15.15
सख्यं समाधिकैः कुर्यादुपेयादीश्वरं सदा ।दैवतान्यपि गच्छेत कुर्याद् भार्याभिपोषणम् ॥ १५.१६
सख्यम् समाधिकैः कुर्यात् उपेयात् ईश्वरम् सदा ।दैवतानि अपि गच्छेत कुर्यात् भार्या-अभिपोषणम् ॥ १५।१६
sakhyam samādhikaiḥ kuryāt upeyāt īśvaram sadā .daivatāni api gaccheta kuryāt bhāryā-abhipoṣaṇam .. 15.16
न धर्मं ख्यापयेद् विद्वान् न पापं गूहयेदपि ।कुर्वीतात्महितं नित्यं सर्वभूतानुकम्पनम् ॥ १५.१७
न धर्मम् ख्यापयेत् विद्वान् न पापम् गूहयेत् अपि ।कुर्वीत आत्म-हितम् नित्यम् सर्व-भूत-अनुकम्पनम् ॥ १५।१७
na dharmam khyāpayet vidvān na pāpam gūhayet api .kurvīta ātma-hitam nityam sarva-bhūta-anukampanam .. 15.17
वयसः कर्मणोऽर्थस्य श्रुतस्याभिजनस्य च ।वेषवाग्बुद्धिसारूप्यमाचरन् विचरेत् सदा ॥ १५.१८
वयसः कर्मणः अर्थस्य श्रुतस्य अभिजनस्य च ।वेष-वाच्-बुद्धि-सारूप्यम् आचरन् विचरेत् सदा ॥ १५।१८
vayasaḥ karmaṇaḥ arthasya śrutasya abhijanasya ca .veṣa-vāc-buddhi-sārūpyam ācaran vicaret sadā .. 15.18
श्रुतिस्मृत्युदितः सम्यक् साधुभिर्यश्च सेवितः ।तमाचारं निषेवेत नेहेतान्यत्र कर्हिचित् ॥ १५.१९
श्रुति-स्मृति-उदितः सम्यक् साधुभिः यः च सेवितः ।तम् आचारम् निषेवेत न ईहेत अन्यत्र कर्हिचित् ॥ १५।१९
śruti-smṛti-uditaḥ samyak sādhubhiḥ yaḥ ca sevitaḥ .tam ācāram niṣeveta na īheta anyatra karhicit .. 15.19
येनास्य पितरो याता येन याताः पितामहाः ।तेन यायात् सतां मार्गं तेन गच्छन् तरिष्यति ॥ १५.२०
येन अस्य पितरः याताः येन याताः पितामहाः ।तेन यायात् सताम् मार्गम् तेन गच्छन् तरिष्यति ॥ १५।२०
yena asya pitaraḥ yātāḥ yena yātāḥ pitāmahāḥ .tena yāyāt satām mārgam tena gacchan tariṣyati .. 15.20
नित्यं स्वाध्यायशीलः स्यान्नित्यं यज्ञोपवीतवान् ।सत्यवादी जितक्रोधो ब्रह्मभूयाय कल्पते ॥ १५.२१
नित्यम् स्वाध्याय-शीलः स्यात् नित्यम् यज्ञोपवीतवान् ।सत्य-वादी जित-क्रोधः ब्रह्म-भूयाय कल्पते ॥ १५।२१
nityam svādhyāya-śīlaḥ syāt nityam yajñopavītavān .satya-vādī jita-krodhaḥ brahma-bhūyāya kalpate .. 15.21
संध्यास्नानपरो नित्यं ब्रह्मयज्ञुपरायणः ।अनसूयी मृदुर्दान्तो गृहस्थः प्रेत्य वर्द्धते ॥ १५.२२
संध्या-स्नान-परः नित्यम् ।अनसूयी मृदुः दान्तः गृहस्थः प्रेत्य वर्द्धते ॥ १५।२२
saṃdhyā-snāna-paraḥ nityam .anasūyī mṛduḥ dāntaḥ gṛhasthaḥ pretya varddhate .. 15.22
वीतरागभयक्रोधो लोभमोहविवर्जितः ।सावित्रीजापनिरतः श्राद्धकृन्मुच्यते गृही ॥ १५.२३
वीत-राग-भय-क्रोधः लोभ-मोह-विवर्जितः ।सावित्री-जाप-निरतः श्राद्ध-कृत् मुच्यते गृही ॥ १५।२३
vīta-rāga-bhaya-krodhaḥ lobha-moha-vivarjitaḥ .sāvitrī-jāpa-nirataḥ śrāddha-kṛt mucyate gṛhī .. 15.23
मातापित्रोर्हिते युक्तो गोब्राह्मणहिते रतः ।दान्तो यज्वा देवभक्तो ब्रह्मलोके महीयते ॥ १५.२४
माता-पित्रोः हिते युक्तः गो-ब्राह्मण-हिते रतः ।दान्तः यज्वा देव-भक्तः ब्रह्म-लोके महीयते ॥ १५।२४
mātā-pitroḥ hite yuktaḥ go-brāhmaṇa-hite rataḥ .dāntaḥ yajvā deva-bhaktaḥ brahma-loke mahīyate .. 15.24
त्रिवर्गसेवी सततं देवतानां च पूजनम् ।कुर्यादहरहर्नित्यं नमस्येत् प्रयतः सुरान् ॥ १५.२५
त्रिवर्ग-सेवी सततम् देवतानाम् च पूजनम् ।कुर्यात् अहरहर् नित्यम् नमस्येत् प्रयतः सुरान् ॥ १५।२५
trivarga-sevī satatam devatānām ca pūjanam .kuryāt aharahar nityam namasyet prayataḥ surān .. 15.25
विभागशीलः सततं क्षमायुक्तो दयालुकः ।गृहस्थस्तु समाख्यातो न गृहेण गृही भवेत् ॥ १५.२६
विभाग-शीलः सततम् क्षमा-युक्तः दयालुकः ।गृहस्थः तु समाख्यातः न गृहेण गृही भवेत् ॥ १५।२६
vibhāga-śīlaḥ satatam kṣamā-yuktaḥ dayālukaḥ .gṛhasthaḥ tu samākhyātaḥ na gṛheṇa gṛhī bhavet .. 15.26
क्षमा दया च विज्ञानं सत्यं चैव दमः शमः ।अध्यात्मनिरत ज्ञानमेतद् ब्राह्मणलक्षणम् ॥ १५.२७
क्षमा दया च विज्ञानम् सत्यम् च एव दमः शमः ।अध्यात्म-निरत ज्ञानम् एतत् ब्राह्मण-लक्षणम् ॥ १५।२७
kṣamā dayā ca vijñānam satyam ca eva damaḥ śamaḥ .adhyātma-nirata jñānam etat brāhmaṇa-lakṣaṇam .. 15.27
एतस्मान्न प्रमाद्येत विशेषेण द्विजोत्तमः ।यथाशक्ति चरेत् कर्म निन्दितानि विवर्जयेत् ॥ १५.२८
एतस्मात् न प्रमाद्येत विशेषेण द्विजोत्तमः ।यथाशक्ति चरेत् कर्म निन्दितानि विवर्जयेत् ॥ १५।२८
etasmāt na pramādyeta viśeṣeṇa dvijottamaḥ .yathāśakti caret karma ninditāni vivarjayet .. 15.28
विधूय मोहकलिलं लब्ध्वा योगमनुत्तमम् ।गृहस्थो मुच्यते बन्धात् नात्र कार्या विचारणा ॥ १५.२९
विधूय मोह-कलिलम् लब्ध्वा योगम् अनुत्तमम् ।गृहस्थः मुच्यते बन्धात् न अत्र कार्या विचारणा ॥ १५।२९
vidhūya moha-kalilam labdhvā yogam anuttamam .gṛhasthaḥ mucyate bandhāt na atra kāryā vicāraṇā .. 15.29
विगर्हातिक्रमाक्षेपहिंसाबन्धवधात्मनाम् ।अन्यमन्युसमुत्थानां दोषाणां मर्षणं क्षमा ॥ १५.३०
विगर्ह-अतिक्रम-आक्षेप-हिंसा-बन्ध-वध-आत्मनाम् ।अन्य-मन्यु-समुत्थानाम् दोषाणाम् मर्षणम् क्षमा ॥ १५।३०
vigarha-atikrama-ākṣepa-hiṃsā-bandha-vadha-ātmanām .anya-manyu-samutthānām doṣāṇām marṣaṇam kṣamā .. 15.30
स्वदुःखेष्विव कारुण्यं परदुः खेषु सौहृदात् ।दयेति मुनयः प्राहुः साक्षाद् धर्मस्य साधनम् ॥ १५.३१
स्व-दुःखेषु इव कारुण्यम् पर-दुः खेषु सौहृदात् ।दया इति मुनयः प्राहुः साक्षात् धर्मस्य साधनम् ॥ १५।३१
sva-duḥkheṣu iva kāruṇyam para-duḥ kheṣu sauhṛdāt .dayā iti munayaḥ prāhuḥ sākṣāt dharmasya sādhanam .. 15.31
चतुर्दशानां विद्यानां धारणं हि यथार्थतः ।विज्ञानमिति तद् विद्याद् यत्र धर्मो विवर्द्धते ॥ १५.३२
चतुर्दशानाम् विद्यानाम् धारणम् हि यथार्थतः ।विज्ञानम् इति तत् विद्यात् यत्र धर्मः विवर्द्धते ॥ १५।३२
caturdaśānām vidyānām dhāraṇam hi yathārthataḥ .vijñānam iti tat vidyāt yatra dharmaḥ vivarddhate .. 15.32
अधीत्य विधिवद् विद्यामर्थं चैवोपलभ्य तु ।धर्मकार्यान्निवृत्तश्चेन्न तद् विज्ञानमिष्यते ॥ १५.३३
अधीत्य विधिवत् विद्याम् अर्थम् च एवा उपलभ्य तु ।धर्म-कार्यात् निवृत्तः चेद् न तत् विज्ञानम् इष्यते ॥ १५।३३
adhītya vidhivat vidyām artham ca evā upalabhya tu .dharma-kāryāt nivṛttaḥ ced na tat vijñānam iṣyate .. 15.33
सत्येन लोकाञ्जयति सत्यं तत्परमं पदम् ।यथाभूतप्रवादं तु सत्यमाहुर्मनीषिणः ॥ १५.३४
सत्येन लोकान् जयति सत्यम् तत् परमम् पदम् ।यथा भूत-प्रवादम् तु सत्यम् आहुः मनीषिणः ॥ १५।३४
satyena lokān jayati satyam tat paramam padam .yathā bhūta-pravādam tu satyam āhuḥ manīṣiṇaḥ .. 15.34
दमः शरीरोपरमः शमः प्रज्ञाप्रसादजः ।अध्यात्ममक्षरं विद्याद् यत्र गत्वा न शोचति ॥ १५.३५
दमः शरीर-उपरमः शमः प्रज्ञा-प्रसाद-जः ।अध्यात्मम् अक्षरम् विद्यात् यत्र गत्वा न शोचति ॥ १५।३५
damaḥ śarīra-uparamaḥ śamaḥ prajñā-prasāda-jaḥ .adhyātmam akṣaram vidyāt yatra gatvā na śocati .. 15.35
यया स देवो भगवान् विद्यया वेद्यते परः ।साक्षाद् देवो महादेवस्तज्ज्ञानमिति कीर्तितम् ॥ १५.३६
यया स देवः भगवान् विद्यया वेद्यते परः ।साक्षात् देवः महादेवः तत् ज्ञानम् इति कीर्तितम् ॥ १५।३६
yayā sa devaḥ bhagavān vidyayā vedyate paraḥ .sākṣāt devaḥ mahādevaḥ tat jñānam iti kīrtitam .. 15.36
तन्निष्ठस्तत्परो विद्वान्नित्यमक्रोधनः शुचिः ।महायज्ञपरो विप्रो भवेत्तदनुत्तमम् ॥ १५.३७
तद्-निष्ठः तद्-परः विद्वान् नित्यम् अक्रोधनः शुचिः ।महा-यज्ञ-परः विप्रः भवेत् तत् अनुत्तमम् ॥ १५।३७
tad-niṣṭhaḥ tad-paraḥ vidvān nityam akrodhanaḥ śuciḥ .mahā-yajña-paraḥ vipraḥ bhavet tat anuttamam .. 15.37
धर्मस्यायतनं यत्नाच्छरीरं परिपालयेत् ।न हि देहं विना रुद्रः पुरुषैर्विद्यते परः ॥ १५.३८
धर्मस्य आयतनम् यत्नात् शरीरम् परिपालयेत् ।न हि देहम् विना रुद्रः पुरुषैः विद्यते परः ॥ १५।३८
dharmasya āyatanam yatnāt śarīram paripālayet .na hi deham vinā rudraḥ puruṣaiḥ vidyate paraḥ .. 15.38
नित्यधर्मार्थकामेषु युज्येत नियतो द्विजः ।न धर्मवर्जितं काममर्थं वा मनसा स्मरेत् ॥ १५.३९
नित्य-धर्म-अर्थ-कामेषु युज्येत नियतः द्विजः ।न धर्म-वर्जितम् कामम् अर्थम् वा मनसा स्मरेत् ॥ १५।३९
nitya-dharma-artha-kāmeṣu yujyeta niyataḥ dvijaḥ .na dharma-varjitam kāmam artham vā manasā smaret .. 15.39
सीदन्नपि हि धर्मेण न त्वधर्मं समाचरेत् ।धर्मो हि भगवान् देवो गतिः सर्वेषु जन्तुषु ॥ १५.४०
सीदन् अपि हि धर्मेण न तु अधर्मम् समाचरेत् ।धर्मः हि भगवान् देवः गतिः सर्वेषु जन्तुषु ॥ १५।४०
sīdan api hi dharmeṇa na tu adharmam samācaret .dharmaḥ hi bhagavān devaḥ gatiḥ sarveṣu jantuṣu .. 15.40
भूतानां प्रियकारी स्यात् न परद्रोहकर्मधीः ।न वेददेवतानिन्दां कुर्यात् तैश्च न संवदेत् ॥ १५.४१
भूतानाम् प्रिय-कारी स्यात् न पर-द्रोह-कर्म-धीः ।न वेद-देवता-निन्दाम् कुर्यात् तैः च न संवदेत् ॥ १५।४१
bhūtānām priya-kārī syāt na para-droha-karma-dhīḥ .na veda-devatā-nindām kuryāt taiḥ ca na saṃvadet .. 15.41
यस्त्विमं नियतं विप्रो धर्माध्यायं पठेच्छुचिः ।अध्यापयेत् श्रावयेद् वा ब्रह्मलोके महीयते ॥ १५.४२
यः तु इमम् नियतम् विप्रः धर्म-अध्यायम् पठेत् शुचिः ।अध्यापयेत् श्रावयेत् वा ब्रह्म-लोके महीयते ॥ १५।४२
yaḥ tu imam niyatam vipraḥ dharma-adhyāyam paṭhet śuciḥ .adhyāpayet śrāvayet vā brahma-loke mahīyate .. 15.42
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे पञ्चदशोऽध्यायः ॥
इति श्री-कूर्मपुराणे षट्साहस्त्र्याम् संहितायाम् उपरि विभागे पञ्चदशः अध्यायः ॥
iti śrī-kūrmapurāṇe ṣaṭsāhastryām saṃhitāyām upari vibhāge pañcadaśaḥ adhyāyaḥ ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In