| |
|

This overlay will guide you through the buttons:

व्यास उवाच ।
न हिंस्यात् सर्वभूतानिनानृतं वा वदेत् क्वचित् ।नाहितं नाप्रियं वाक्यं न स्तेनः स्याद् कदाचन ॥ १६.१
न हिंस्यात् वा वदेत् क्वचिद् ।न अहितम् न अप्रियम् वाक्यम् न स्तेनः स्यात् कदाचन ॥ १६।१
na hiṃsyāt vā vadet kvacid .na ahitam na apriyam vākyam na stenaḥ syāt kadācana .. 16.1
तृणं वा यदि वा शाकं मृदं वा जलमेव वा ।परस्यापहरञ्जन्तुर्नरकं प्रतिपद्यते ॥ १६.२
तृणम् वा यदि वा शाकम् मृदम् वा जलम् एव वा ।परस्य अपहरन् जन्तुः नरकम् प्रतिपद्यते ॥ १६।२
tṛṇam vā yadi vā śākam mṛdam vā jalam eva vā .parasya apaharan jantuḥ narakam pratipadyate .. 16.2
न राज्ञः प्रतिगृह्णीयान्न शूद्रात्पतितादपि ।न चान्यस्मादशक्तश्च निन्दितान् वर्जयेद् बुधः ॥ १६.३
न राज्ञः प्रतिगृह्णीयात् न शूद्रात् पतितात् अपि ।न च अन्यस्मात् अशक्तः च निन्दितान् वर्जयेत् बुधः ॥ १६।३
na rājñaḥ pratigṛhṇīyāt na śūdrāt patitāt api .na ca anyasmāt aśaktaḥ ca ninditān varjayet budhaḥ .. 16.3
नित्यं याचनको न स्यात् पुनस्तं नैव याचयेत् ।प्राणानपहरत्येष याचकस्तस्य दुर्मतिः ॥ १६.४
नित्यम् याचनकः न स्यात् पुनर् तम् न एव याचयेत् ।प्राणान् अपहरति एष याचकः तस्य दुर्मतिः ॥ १६।४
nityam yācanakaḥ na syāt punar tam na eva yācayet .prāṇān apaharati eṣa yācakaḥ tasya durmatiḥ .. 16.4
न देवद्रव्यहारी स्याद् विशेषेण द्विजोत्तमः ।ब्रह्मस्वं वा नापहरेदापद्यपि कदाचन ॥ १६.५
न देव-द्रव्य-हारी स्यात् विशेषेण द्विजोत्तमः ।ब्रह्म-स्वम् वा न अपहरेत् आपदि अपि कदाचन ॥ १६।५
na deva-dravya-hārī syāt viśeṣeṇa dvijottamaḥ .brahma-svam vā na apaharet āpadi api kadācana .. 16.5
न विषं विषमित्याहुर्ब्रह्मस्वं विषमुच्यते ।देवस्वं चापि यत्नेन सदा परिहरेत् ततः ॥ १६.६
न विषम् विषम् इति आहुः ब्रह्म-स्वम् विषम् उच्यते ।देव-स्वम् च अपि यत्नेन सदा परिहरेत् ततस् ॥ १६।६
na viṣam viṣam iti āhuḥ brahma-svam viṣam ucyate .deva-svam ca api yatnena sadā pariharet tatas .. 16.6
पुष्पे शाकोदके काष्ठे तथा मूले फले तृणे ।अदत्तादानमस्तेयं मनुः प्राह प्रजापतिः ॥ १६.७
पुष्पे शाक-उदके काष्ठे तथा मूले फले तृणे ।अदत्त-आदानम् अस्तेयम् मनुः प्राह प्रजापतिः ॥ १६।७
puṣpe śāka-udake kāṣṭhe tathā mūle phale tṛṇe .adatta-ādānam asteyam manuḥ prāha prajāpatiḥ .. 16.7
ग्रहीतव्यानि पुष्पाणि देवार्चनविधौ द्विजाः ।नैकस्मादेव नियतमननुज्ञाय केवलम् ॥ १६.८
ग्रहीतव्यानि पुष्पाणि देव-अर्चन-विधौ द्विजाः ।न एकस्मात् एव नियतम् अन् अनुज्ञाय केवलम् ॥ १६।८
grahītavyāni puṣpāṇi deva-arcana-vidhau dvijāḥ .na ekasmāt eva niyatam an anujñāya kevalam .. 16.8
तृणं काष्ठं फलं पुष्पं प्रकाशं वै हरेद् बुधः ।धर्मार्थं केवलं ग्राह्यं ह्यन्यथा पतितो भवेत् ॥ १६.९
तृणम् काष्ठम् फलम् पुष्पम् प्रकाशम् वै हरेत् बुधः ।धर्म-अर्थम् केवलम् ग्राह्यम् हि अन्यथा पतितः भवेत् ॥ १६।९
tṛṇam kāṣṭham phalam puṣpam prakāśam vai haret budhaḥ .dharma-artham kevalam grāhyam hi anyathā patitaḥ bhavet .. 16.9
तिलमुद्गयवादीनां मुष्टिर्ग्राह्या पथि स्थितैः ।क्षुधार्तैर्नान्यथा विप्रा धर्मविद्भिरिति स्थितिः ॥ १६.१०
तिल-मुद्ग-यव-आदीनाम् मुष्टिः ग्राह्या पथि स्थितैः ।क्षुधा-आर्तैः न अन्यथा विप्राः धर्म-विद्भिः इति स्थितिः ॥ १६।१०
tila-mudga-yava-ādīnām muṣṭiḥ grāhyā pathi sthitaiḥ .kṣudhā-ārtaiḥ na anyathā viprāḥ dharma-vidbhiḥ iti sthitiḥ .. 16.10
न धर्मस्यापदेशेन पापं कृत्वा व्रतं चरेत् ।व्रतेन पापं प्रच्छाद्य कुर्वन् स्त्रीशूद्रलम्भनम् ॥ १६.११
न धर्मस्य अपदेशेन पापम् कृत्वा व्रतम् चरेत् ।व्रतेन पापम् प्रच्छाद्य कुर्वन् स्त्री-शूद्र-लम्भनम् ॥ १६।११
na dharmasya apadeśena pāpam kṛtvā vratam caret .vratena pāpam pracchādya kurvan strī-śūdra-lambhanam .. 16.11
प्रेत्येह चेदृशो विप्रो गर्ह्यते ब्रह्मवादिभिः ।छद्मनाचरितं यच्च व्रतं रक्षांसि गच्छति ॥ १६.१२
प्रेत्य इह च ईदृशः विप्रः गर्ह्यते ब्रह्म-वादिभिः ।छद्मना आचरितम् यत् च व्रतम् रक्षांसि गच्छति ॥ १६।१२
pretya iha ca īdṛśaḥ vipraḥ garhyate brahma-vādibhiḥ .chadmanā ācaritam yat ca vratam rakṣāṃsi gacchati .. 16.12
अलिङ्गी लिङ्गिवेषेण यो वृत्तिमुपजीवति ।स लिङ्गिनां हरेदेनस्तिर्यग्योनौ च जायते ॥ १६.१३
अलिङ्गी लिङ्गि-वेषेण यः वृत्तिम् उपजीवति ।स लिङ्गिनाम् हरेत् एनः तिर्यग्योनौ च जायते ॥ १६।१३
aliṅgī liṅgi-veṣeṇa yaḥ vṛttim upajīvati .sa liṅginām haret enaḥ tiryagyonau ca jāyate .. 16.13
बैडालव्रतिनः पापा लोके धर्मविनाशकाः ।सद्यः पतन्ति पापेन कर्मणस्तस्य तत् फलम् ॥ १६.१४
बैडालव्रतिनः पापाः लोके धर्म-विनाशकाः ।सद्यस् पतन्ति पापेन कर्मणः तस्य तत् फलम् ॥ १६।१४
baiḍālavratinaḥ pāpāḥ loke dharma-vināśakāḥ .sadyas patanti pāpena karmaṇaḥ tasya tat phalam .. 16.14
पाखण्डिनो विकर्मस्थान् वामाचारांस्तथैव च ।पञ्चरात्रान् पाशुपतान् वाङ्मात्रेणापि नार्चयेत् ॥ १६.१५
पाखण्डिनः विकर्म-स्थान् वाम-आचारान् तथा एव च ।पञ्चरात्रान् पाशुपतान् वाच्-मात्रेण अपि न अर्चयेत् ॥ १६।१५
pākhaṇḍinaḥ vikarma-sthān vāma-ācārān tathā eva ca .pañcarātrān pāśupatān vāc-mātreṇa api na arcayet .. 16.15
वेदनिन्दारतान् मर्त्यान् देवनिन्दारतांस्तथा ।द्विजनिन्दारतांश्चैव मनसापि न चिन्तयेत् ॥ १६.१६
वेद-निन्दा-रतान् मर्त्यान् देव-निन्दा-रतान् तथा ।द्विज-निन्दा-रतान् च एव मनसा अपि न चिन्तयेत् ॥ १६।१६
veda-nindā-ratān martyān deva-nindā-ratān tathā .dvija-nindā-ratān ca eva manasā api na cintayet .. 16.16
याजनं योनिसंबन्धं सहवासं च भाषणम् ।कुर्वाणः पतते जन्तुस्तस्माद् यत्नेन वर्जयेत् ॥ १६.१७
याजनम् योनि-संबन्धम् सहवासम् च भाषणम् ।कुर्वाणः पतते जन्तुः तस्मात् यत्नेन वर्जयेत् ॥ १६।१७
yājanam yoni-saṃbandham sahavāsam ca bhāṣaṇam .kurvāṇaḥ patate jantuḥ tasmāt yatnena varjayet .. 16.17
देवद्रोहाद् गुरुद्रोहः कोटिकोटिगुणाधिकः ।ज्ञानापवादो नास्तिक्यं तस्मात् कोटिगुणाधिकम् ॥ १६.१८
।ज्ञान-अपवादः नास्तिक्यम् तस्मात् कोटि-गुण-अधिकम् ॥ १६।१८
.jñāna-apavādaḥ nāstikyam tasmāt koṭi-guṇa-adhikam .. 16.18
गोभिश्च दैवतैर्विप्रैः कृष्या राजोपसेवया ।कुलान्यकुलतां यान्ति यानि हीनानि धर्मतः ॥ १६.१९
गोभिः च दैवतैः विप्रैः कृष्या राज-उपसेवया ।कुलानि अकुल-ताम् यान्ति यानि हीनानि धर्मतः ॥ १६।१९
gobhiḥ ca daivataiḥ vipraiḥ kṛṣyā rāja-upasevayā .kulāni akula-tām yānti yāni hīnāni dharmataḥ .. 16.19
कुविवाहैः क्रियालोपैर्वेदानध्ययनेन च ।कुलान्यकुलतां यान्ति ब्राह्मणातिक्रमेण च ॥ १६.२०
कुविवाहैः क्रिया-लोपैः वेद-अनध्ययनेन च ।कुलानि अकुल-ताम् यान्ति ब्राह्मण-अतिक्रमेण च ॥ १६।२०
kuvivāhaiḥ kriyā-lopaiḥ veda-anadhyayanena ca .kulāni akula-tām yānti brāhmaṇa-atikrameṇa ca .. 16.20
अनृतात् पारदार्याच्च तथाऽभक्ष्यस्य भक्षणात् ।अश्रौतधर्माचरणात् क्षिप्रं नश्यति वै कुलम् ॥ १६.२१
अनृतात् पारदार्यात् च तथा अभक्ष्यस्य भक्षणात् ।अश्रौत-धर्म-आचरणात् क्षिप्रम् नश्यति वै कुलम् ॥ १६।२१
anṛtāt pāradāryāt ca tathā abhakṣyasya bhakṣaṇāt .aśrauta-dharma-ācaraṇāt kṣipram naśyati vai kulam .. 16.21
अश्रोत्रियेषु वै दानाद् वृषलेषु तथैव च ।विहिताचारहीनेषु क्षिप्रं नश्यति वै कुलम् ॥ १६.२२
अश्रोत्रियेषु वै दानात् वृषलेषु तथा एव च ।विहित-आचार-हीनेषु क्षिप्रम् नश्यति वै कुलम् ॥ १६।२२
aśrotriyeṣu vai dānāt vṛṣaleṣu tathā eva ca .vihita-ācāra-hīneṣu kṣipram naśyati vai kulam .. 16.22
नाधार्मिकैर्वृते ग्रामे न व्याधिबहुले भृशम् ।न शूद्रराज्ये निवसेन्न पाखण्डजनैर्वृते ॥ १६.२३
न अधार्मिकैः वृते ग्रामे न व्याधि-बहुले भृशम् ।न शूद्र-राज्ये निवसेत् न पाखण्ड-जनैः वृते ॥ १६।२३
na adhārmikaiḥ vṛte grāme na vyādhi-bahule bhṛśam .na śūdra-rājye nivaset na pākhaṇḍa-janaiḥ vṛte .. 16.23
हिमवद्विन्ध्ययोर्मध्ये पूर्वपश्चिमयोः शुभम् ।मुक्त्वा समुद्रयोर्देशं नान्यत्र निवसेद् द्विजः ॥ १६.२४
हिमवत्-विन्ध्ययोः मध्ये पूर्व-पश्चिमयोः शुभम् ।मुक्त्वा समुद्रयोः देशम् न अन्यत्र निवसेत् द्विजः ॥ १६।२४
himavat-vindhyayoḥ madhye pūrva-paścimayoḥ śubham .muktvā samudrayoḥ deśam na anyatra nivaset dvijaḥ .. 16.24
कृष्णो वा यत्र चरति मृगो नित्यं स्वभावतः ।पुण्याश्च विश्रुता नद्यस्तत्र वा निवसेद् द्विजः ॥ १६.२५
कृष्णः वा यत्र चरति मृगः नित्यम् स्वभावतः ।पुण्याः च विश्रुताः नद्यः तत्र वा निवसेत् द्विजः ॥ १६।२५
kṛṣṇaḥ vā yatra carati mṛgaḥ nityam svabhāvataḥ .puṇyāḥ ca viśrutāḥ nadyaḥ tatra vā nivaset dvijaḥ .. 16.25
अर्द्धक्रोशान्नदीकूलं वर्जयित्वा द्विजोत्तमः ।नान्यत्र निवसेत् पुण्यां नान्त्यजग्रामसन्निधौ ॥ १६.२६
अर्द्ध-क्रोशात् नदी-कूलम् वर्जयित्वा द्विजोत्तमः ।न अन्यत्र निवसेत् पुण्याम् न अन्त्यज-ग्राम-सन्निधौ ॥ १६।२६
arddha-krośāt nadī-kūlam varjayitvā dvijottamaḥ .na anyatra nivaset puṇyām na antyaja-grāma-sannidhau .. 16.26
न संवसेच्च पतितैर्न चण्डालैर्न पुक्कसैः ।न मूर्खैर्नावलिप्तैश्च नान्त्यैर्नान्त्यावसायिभिः ॥ १६.२७
न संवसेत् च पतितैः न चण्डालैः न पुक्कसैः ।न मूर्खैः न अवलिप्तैः च न अन्त्यैः न अन्त्यावसायिभिः ॥ १६।२७
na saṃvaset ca patitaiḥ na caṇḍālaiḥ na pukkasaiḥ .na mūrkhaiḥ na avaliptaiḥ ca na antyaiḥ na antyāvasāyibhiḥ .. 16.27
एकशय्यासनं पङ्क्तिर्भाण्डपक्वान्नमिश्रणम् ।याजनाध्यापनं योनिस्तथैव सहभोजनम् ॥ १६.२८
एक-शय्या-आसनम् पङ्क्तिः भाण्ड-पक्व-अन्न-मिश्रणम् ।याजन-अध्यापनम् योनिः तथा एव सहभोजनम् ॥ १६।२८
eka-śayyā-āsanam paṅktiḥ bhāṇḍa-pakva-anna-miśraṇam .yājana-adhyāpanam yoniḥ tathā eva sahabhojanam .. 16.28
सहाध्यायस्तु दशमः सहयाजनमेव च ।एकादश समुद्दिष्टा दोषाः साङ्कर्यसंज्ञिताः ॥ १६.२९
सहाध्यायः तु दशमः सह याजनम् एव च ।एकादश समुद्दिष्टाः दोषाः साङ्कर्य-संज्ञिताः ॥ १६।२९
sahādhyāyaḥ tu daśamaḥ saha yājanam eva ca .ekādaśa samuddiṣṭāḥ doṣāḥ sāṅkarya-saṃjñitāḥ .. 16.29
समीपे वा व्यवस्थानात् पापं संक्रमते नृणाम् ।तस्मात् सर्वप्रयत्नेन साङ्कर्यं परिवर्जयेत् ॥ १६.३०
समीपे वा व्यवस्थानात् पापम् संक्रमते नृणाम् ।तस्मात् सर्व-प्रयत्नेन साङ्कर्यम् परिवर्जयेत् ॥ १६।३०
samīpe vā vyavasthānāt pāpam saṃkramate nṛṇām .tasmāt sarva-prayatnena sāṅkaryam parivarjayet .. 16.30
एकपङ्क्त्युपविष्टा ये न स्पृशन्ति परस्परम् ।भस्मना कृतमर्यादा न तेषां संकरो भवेत् ॥ १६.३१
एक-पङ्क्ति-उपविष्टाः ये न स्पृशन्ति परस्परम् ।भस्मना कृत-मर्यादाः न तेषाम् संकरः भवेत् ॥ १६।३१
eka-paṅkti-upaviṣṭāḥ ye na spṛśanti parasparam .bhasmanā kṛta-maryādāḥ na teṣām saṃkaraḥ bhavet .. 16.31
अग्निना भस्मना चैव सलिलेन विशेषतः ।द्वारेण स्तम्भमार्गेण षड्भिः पङ्क्तिर्विभिद्यते ॥ १६.३२
अग्निना भस्मना च एव सलिलेन विशेषतः ।द्वारेण स्तम्भ-मार्गेण षड्भिः पङ्क्तिः विभिद्यते ॥ १६।३२
agninā bhasmanā ca eva salilena viśeṣataḥ .dvāreṇa stambha-mārgeṇa ṣaḍbhiḥ paṅktiḥ vibhidyate .. 16.32
न कुर्याच्छुष्कवैराणि विवादं च न पैशुनम् ।परक्षेत्रे गां चरन्तीं न चाचक्षति कस्यचित् ।१६.३३
न कुर्यात् शुष्क-वैराणि विवादम् च न पैशुनम् ।पर-क्षेत्रे गाम् चरन्तीम् न च आचक्षति कस्यचिद् ।१६।३३
na kuryāt śuṣka-vairāṇi vivādam ca na paiśunam .para-kṣetre gām carantīm na ca ācakṣati kasyacid .16.33
न संवसेत् सूतकिना न कञ्चिन्मर्मणि स्पृशेत् ।न सूर्यपरिवेषं वा नेन्द्रचापं शवाग्निकम् ।१६.३४
न संवसेत् सूतकिना न कञ्चिद् मर्मणि स्पृशेत् ।न सूर्य-परिवेषम् वा न इन्द्रचापम् शव-अग्निकम् ।१६।३४
na saṃvaset sūtakinā na kañcid marmaṇi spṛśet .na sūrya-pariveṣam vā na indracāpam śava-agnikam .16.34
परस्मै कथयेद् विद्वान् शशिनं वा कदाचन ।न कुर्याद् बहुभिः सार्द्धं विरोधं बन्धुभिस्तया ।१६.३५
परस्मै कथयेत् विद्वान् शशिनम् वा कदाचन ।न कुर्यात् बहुभिः सार्द्धम् विरोधम् बन्धुभिः तया ।१६।३५
parasmai kathayet vidvān śaśinam vā kadācana .na kuryāt bahubhiḥ sārddham virodham bandhubhiḥ tayā .16.35
आत्मनः प्रतिकूलानि परेषां न समाचरेत् ।तिथिं पक्षस्य न ब्रूयात् नक्षत्राणि विनिर्दिशेत् ।१६.३६
आत्मनः प्रतिकूलानि परेषाम् न समाचरेत् ।तिथिम् पक्षस्य न ब्रूयात् नक्षत्राणि विनिर्दिशेत् ।१६।३६
ātmanaḥ pratikūlāni pareṣām na samācaret .tithim pakṣasya na brūyāt nakṣatrāṇi vinirdiśet .16.36
नोदक्यामभिभाषेत नाशुचिं वा द्विजोत्तमः ।न देवगुरुविप्राणां दीयमानं तु वारयेत् ।१६.३७
न उदक्याम् अभिभाषेत न अशुचिम् वा द्विजोत्तमः ।न देव-गुरु-विप्राणाम् दीयमानम् तु वारयेत् ।१६।३७
na udakyām abhibhāṣeta na aśucim vā dvijottamaḥ .na deva-guru-viprāṇām dīyamānam tu vārayet .16.37
न चात्मानं प्रशंसेद् वा परनिन्दां च वर्जयेत् ।वेदनिन्दां देवनिन्दां प्रयत्नेन विवर्जयेत् ॥ १६.३८
न च आत्मानम् प्रशंसेत् वा पर-निन्दाम् च वर्जयेत् ।वेद-निन्दाम् देव-निन्दाम् प्रयत्नेन विवर्जयेत् ॥ १६।३८
na ca ātmānam praśaṃset vā para-nindām ca varjayet .veda-nindām deva-nindām prayatnena vivarjayet .. 16.38
यस्तु देवानृषीन् विप्रान्वेदान् वा निन्दति द्विजः ।न तस्य निष्कृतिर्दृष्टा शास्त्रेष्विह मुनीश्वराः ॥ १६.३९
यः तु देवान् ऋषीन् विप्रान् वेदान् वा निन्दति द्विजः ।न तस्य निष्कृतिः दृष्टा शास्त्रेषु इह मुनि-ईश्वराः ॥ १६।३९
yaḥ tu devān ṛṣīn viprān vedān vā nindati dvijaḥ .na tasya niṣkṛtiḥ dṛṣṭā śāstreṣu iha muni-īśvarāḥ .. 16.39
निन्दयेद् वै गुरुं देवं वेदं वा सोपबृंहणम् ।कल्पकोटिशतं साग्रं रौरवे पच्यते नरः ॥ १६.४०
वै गुरुम् देवम् वेदम् वा स उपबृंहणम् ।कल्प-कोटि-शतम् साग्रम् रौरवे पच्यते नरः ॥ १६।४०
vai gurum devam vedam vā sa upabṛṃhaṇam .kalpa-koṭi-śatam sāgram raurave pacyate naraḥ .. 16.40
तूष्णीमासीत निन्दायां न ब्रूयात् किंचिदुत्तरम् ।कर्णौ पिधाय गन्तव्यं न चैतानवलोकयेत् ॥ १६.४१
तूष्णीम् आसीत निन्दायाम् न ब्रूयात् किंचिद् उत्तरम् ।कर्णौ पिधाय गन्तव्यम् न च एतान् अवलोकयेत् ॥ १६।४१
tūṣṇīm āsīta nindāyām na brūyāt kiṃcid uttaram .karṇau pidhāya gantavyam na ca etān avalokayet .. 16.41
वर्जयेद् वै रहस्यञ्च परेषां गूहयेद् बुधः ।विवादं स्वजनैः सार्द्धं न कुर्याद् वै कदाचन ॥ १६.४२
वर्जयेत् वै रहस्यम् च परेषाम् गूहयेत् बुधः ।विवादम् स्व-जनैः सार्द्धम् न कुर्यात् वै कदाचन ॥ १६।४२
varjayet vai rahasyam ca pareṣām gūhayet budhaḥ .vivādam sva-janaiḥ sārddham na kuryāt vai kadācana .. 16.42
न पापं पापिनां ब्रूयादपापं वा द्विजोत्तमाः ।स तेन तुल्यदोषः स्यान्मिथ्या द्दोषवान् भवेत् ॥ १६.४३
न पापम् पापिनाम् ब्रूयात् अपापम् वा द्विजोत्तमाः ।स तेन तुल्य-दोषः स्यात् मिथ्या भवेत् ॥ १६।४३
na pāpam pāpinām brūyāt apāpam vā dvijottamāḥ .sa tena tulya-doṣaḥ syāt mithyā bhavet .. 16.43
यानि मिथ्याभिशस्तानां पतन्त्यश्रूणि रोदनात् ।तानिपुत्रान् पशून् घ्नन्ति तेषां मिथ्याभिशंसिनाम् ॥ १६.४४
यानि मिथ्या अभिशस्तानाम् पतन्ति अश्रूणि रोदनात् ।तानिपुत्रान् पशून् घ्नन्ति तेषाम् मिथ्या अभिशंसिनाम् ॥ १६।४४
yāni mithyā abhiśastānām patanti aśrūṇi rodanāt .tāniputrān paśūn ghnanti teṣām mithyā abhiśaṃsinām .. 16.44
ब्रिह्महत्यासुरापाने स्तेयगुर्वङ्गनागमे ।दृष्टं विशोधनं वृद्धैर्नास्ति मिथ्याभिशंसने ॥ १६.४५
स्तेय-गुरु-अङ्गना-आगमे ।दृष्टम् विशोधनम् वृद्धैः न अस्ति मिथ्या अभिशंसने ॥ १६।४५
steya-guru-aṅganā-āgame .dṛṣṭam viśodhanam vṛddhaiḥ na asti mithyā abhiśaṃsane .. 16.45
नेक्षेतोद्यन्तमादित्यं शशिनं चानिमित्ततः ।नास्तं यान्तं न वारिस्थं नोपसृष्टं न मघ्यगम् ।१६.४६
न ईक्षेत उद्यन्तम् आदित्यम् शशिनम् च अनिमित्ततस् ।न अस्तम् यान्तम् न वारि-स्थम् न उपसृष्टम् न ।१६।४६
na īkṣeta udyantam ādityam śaśinam ca animittatas .na astam yāntam na vāri-stham na upasṛṣṭam na .16.46
तिरोहितं वाससा वा नादर्शान्तरगामिनम् ।न नग्नां स्त्रियमीक्षेत पुरुषं वा कदाचन ।१६.४७
तिरोहितम् वाससा वा न आदर्श-अन्तर-गामिनम् ।न नग्नाम् स्त्रियम् ईक्षेत पुरुषम् वा कदाचन ।१६।४७
tirohitam vāsasā vā na ādarśa-antara-gāminam .na nagnām striyam īkṣeta puruṣam vā kadācana .16.47
न च मूत्रं पुरीषं वा न च संस्पृष्टमैथुनम् ।नाशुचिः सूर्यसोमादीन् ग्रहानालोकयेद् बुधः ॥ १६.४८
न च मूत्रम् पुरीषम् वा न च संस्पृष्ट-मैथुनम् ।न अशुचिः सूर्य-सोम-आदीन् ग्रहान् आलोकयेत् बुधः ॥ १६।४८
na ca mūtram purīṣam vā na ca saṃspṛṣṭa-maithunam .na aśuciḥ sūrya-soma-ādīn grahān ālokayet budhaḥ .. 16.48
पतितव्यङ्गचण्डालानुच्छिष्टान् नावलोकयेत् ।नाभिभाषेत च परमुच्छिष्टो वाऽवगुण्ठितः ॥ १६.४९
पतित-व्यङ्ग-चण्डालान् उच्छिष्टात् न अवलोकयेत् ।न अभिभाषेत च परम् उच्छिष्टः वा अवगुण्ठितः ॥ १६।४९
patita-vyaṅga-caṇḍālān ucchiṣṭāt na avalokayet .na abhibhāṣeta ca param ucchiṣṭaḥ vā avaguṇṭhitaḥ .. 16.49
न स्पृशेत् प्रेतसंस्पर्शं न क्रुद्धस्य गुरोर्मुखम् ।न तैलोदकयोश्छायां न पत्नीं भोजने सति ।नामुक्तबन्धनाङ्गां वा नोन्मत्तं मत्तमेव वा ॥ १६.५०
न स्पृशेत् प्रेत-संस्पर्शम् न क्रुद्धस्य गुरोः मुखम् ।न तैल-उदकयोः छायाम् न पत्नीम् भोजने सति ।न आमुक्त-बन्धन-अङ्गाम् वा न उन्मत्तम् मत्तम् एव वा ॥ १६।५०
na spṛśet preta-saṃsparśam na kruddhasya guroḥ mukham .na taila-udakayoḥ chāyām na patnīm bhojane sati .na āmukta-bandhana-aṅgām vā na unmattam mattam eva vā .. 16.50
नाश्नीयात् भार्यया सार्द्धंनैनामीक्षेत चाशुचिम् ।क्षुवन्तीं जृम्भमाणां वा नासनस्थां यथासुखम् ॥ १६.५१
न अश्नीयात् भार्यया सार्द्धम् न एनाम् ईक्षेत च अशुचिम् ।क्षुवन्तीम् जृम्भमाणाम् वा न आसन-स्थाम् यथासुखम् ॥ १६।५१
na aśnīyāt bhāryayā sārddham na enām īkṣeta ca aśucim .kṣuvantīm jṛmbhamāṇām vā na āsana-sthām yathāsukham .. 16.51
नोदके चात्मनो रूपं न कूलं श्वभ्रमेव वा ।न लङ्घयेच्च मूत्रं वा नाधितिष्ठेत् कदाचन ॥ १६.५२
न उदके च आत्मनः रूपम् न कूलम् श्वभ्रम् एव वा ।न लङ्घयेत् च मूत्रम् वा न अधितिष्ठेत् कदाचन ॥ १६।५२
na udake ca ātmanaḥ rūpam na kūlam śvabhram eva vā .na laṅghayet ca mūtram vā na adhitiṣṭhet kadācana .. 16.52
न शूद्राय मतिं दद्यात् कृशरं पायसं दधि ।नोच्छिष्टं वा मधु घृतं न च कृष्णाजिनं हविः ॥ १६.५३
न शूद्राय मतिम् दद्यात् कृशरम् पायसम् दधि ।न उच्छिष्टम् वा मधु घृतम् न च कृष्णाजिनम् हविः ॥ १६।५३
na śūdrāya matim dadyāt kṛśaram pāyasam dadhi .na ucchiṣṭam vā madhu ghṛtam na ca kṛṣṇājinam haviḥ .. 16.53
न चैवास्मै व्रतं दद्यान्न च धर्मं वदेद् बुधः ।न च क्रोधवशं गच्छेद् द्वेषं रागं च वर्जयेत् ॥ १६.५४
न च एव अस्मै व्रतम् दद्यात् न च धर्मम् वदेत् बुधः ।न च क्रोध-वशम् गच्छेत् द्वेषम् रागम् च वर्जयेत् ॥ १६।५४
na ca eva asmai vratam dadyāt na ca dharmam vadet budhaḥ .na ca krodha-vaśam gacchet dveṣam rāgam ca varjayet .. 16.54
लोभं दम्भं तथा यत्नादसूयां विज्ञानकुत्सनम् ।मानं मोहं तथा क्रोधं द्वेषञ्च परिवर्जयेत् ॥ १६.५५
लोभम् दम्भम् तथा यत्नात् असूयाम् विज्ञान-कुत्सनम् ।मानम् मोहम् तथा क्रोधम् द्वेषन् च परिवर्जयेत् ॥ १६।५५
lobham dambham tathā yatnāt asūyām vijñāna-kutsanam .mānam moham tathā krodham dveṣan ca parivarjayet .. 16.55
न कुर्यात् कस्यचित् पीडां सुतं शिष्यं च ताडयेत् ।न हीनानुपसेवेत न च तीक्ष्णमतीन् क्वचित् ॥ १६.५६
न कुर्यात् कस्यचिद् पीडाम् सुतम् शिष्यम् च ताडयेत् ।न हीनान् उपसेवेत न च तीक्ष्ण-मतीन् क्वचिद् ॥ १६।५६
na kuryāt kasyacid pīḍām sutam śiṣyam ca tāḍayet .na hīnān upaseveta na ca tīkṣṇa-matīn kvacid .. 16.56
नात्मानं चावमन्येत दैन्यं यत्नेन वर्जयेत् ।न विशिष्टानसत्कुर्य्यात् नात्मानं वा शंसयेद् बुधः ॥ १६.५७
न आत्मानम् च अवमन्येत दैन्यम् यत्नेन वर्जयेत् ।न विशिष्टान् असत्कुर्य्यात् न आत्मानम् वा शंसयेत् बुधः ॥ १६।५७
na ātmānam ca avamanyeta dainyam yatnena varjayet .na viśiṣṭān asatkuryyāt na ātmānam vā śaṃsayet budhaḥ .. 16.57
न नखैर्विलिखेद् भूमिं गां च संवेशयेन्न हि ।न नदीषु नदीं ब्रूयात् पर्वतेषु च पर्वतान् ॥ १६.५८
न नखैः विलिखेत् भूमिम् गाम् च संवेशयेत् न हि ।न नदीषु नदीम् ब्रूयात् पर्वतेषु च पर्वतान् ॥ १६।५८
na nakhaiḥ vilikhet bhūmim gām ca saṃveśayet na hi .na nadīṣu nadīm brūyāt parvateṣu ca parvatān .. 16.58
आवासे भोजने वाऽपि न त्यजेत् हसयायिनम् ।नावगाहेदपो नग्नो वह्निं नातिव्रजेत् पदा ॥ १६.५९
आवासे भोजने वा अपि न त्यजेत् ।न अवगाहेत् अपः नग्नः वह्निम् न अतिव्रजेत् पदा ॥ १६।५९
āvāse bhojane vā api na tyajet .na avagāhet apaḥ nagnaḥ vahnim na ativrajet padā .. 16.59
शिरोऽभ्यङ्गावशिष्टेन तैलेनाङ्गं न लेपयेत् ।न सर्पशस्त्रैः क्रीडेत स्वानि खानि न संस्पृशेत् ।१६.६०
शिरः-अभ्यङ्ग-अवशिष्टेन तैलेन अङ्गम् न लेपयेत् ।न सर्प-शस्त्रैः क्रीडेत स्वानि खानि न संस्पृशेत् ।१६।६०
śiraḥ-abhyaṅga-avaśiṣṭena tailena aṅgam na lepayet .na sarpa-śastraiḥ krīḍeta svāni khāni na saṃspṛśet .16.60
रोमाणि च रहस्यानि नाशिष्टेन सह व्रजेत् ।न पाणिपादावग्नौच चापलानि समाश्रयेत् ।१६.६१
रोमाणि च रहस्यानि न अ शिष्टेन सह व्रजेत् ।न पाणि-पादौ अग्नौ च चापलानि समाश्रयेत् ।१६।६१
romāṇi ca rahasyāni na a śiṣṭena saha vrajet .na pāṇi-pādau agnau ca cāpalāni samāśrayet .16.61
न शिश्नोदरचापल्यं न च श्रवणयोः क्वचित् ।न चाङ्गनखवादं वै कुर्यान्नाञ्जलिना पिबेत् ।१६.६२
न शिश्न-उदर-चापल्यम् न च श्रवणयोः क्वचिद् ।न च अङ्ग-नख-वादम् वै कुर्यात् न अञ्जलिना पिबेत् ।१६।६२
na śiśna-udara-cāpalyam na ca śravaṇayoḥ kvacid .na ca aṅga-nakha-vādam vai kuryāt na añjalinā pibet .16.62
नाभिहन्याज्जलं पद्भ्यां पाणिना वा कदाचन ।न शातयेदिष्टकाभिः फलानि सफलानि च ।१६.६३
न अभिहन्यात् जलम् पद्भ्याम् पाणिना वा कदाचन ।न शातयेत् इष्टकाभिः फलानि स फलानि च ।१६।६३
na abhihanyāt jalam padbhyām pāṇinā vā kadācana .na śātayet iṣṭakābhiḥ phalāni sa phalāni ca .16.63
न म्लेच्छभाषां शिक्षेत नाकर्षेच्च पदासनम् ।न भेदनमधिस्फोटं छेदनं वा विलेखनम् ।१६.६४
न म्लेच्छ-भाषाम् शिक्षेत न आकर्षेत् च पदासनम् ।न भेदनम् अधिस्फोटम् छेदनम् वा विलेखनम् ।१६।६४
na mleccha-bhāṣām śikṣeta na ākarṣet ca padāsanam .na bhedanam adhisphoṭam chedanam vā vilekhanam .16.64
कुर्याद् विमर्दनं धीमान् नाकस्मादेव निष्फलम् ।नोत्सङ्गेभक्षयेद् भक्ष्यान् वृथा चेष्टां च नाचरेत् ।१६.६५
कुर्यात् विमर्दनम् धीमान् न अकस्मात् एव निष्फलम् ।न उत्सङ्गे भक्षयेत् भक्ष्यान् वृथा चेष्टाम् च न आचरेत् ।१६।६५
kuryāt vimardanam dhīmān na akasmāt eva niṣphalam .na utsaṅge bhakṣayet bhakṣyān vṛthā ceṣṭām ca na ācaret .16.65
न नृत्येदथवा गायेन्न वादित्राणि वादयेत् ।न संहताभ्यां पाणिभ्यां कण्डूयेदात्मनः शिरः ।१६.६६
न नृत्येत् अथवा गायेत् न वादित्राणि वादयेत् ।न संहताभ्याम् पाणिभ्याम् कण्डूयेत् आत्मनः शिरः ।१६।६६
na nṛtyet athavā gāyet na vāditrāṇi vādayet .na saṃhatābhyām pāṇibhyām kaṇḍūyet ātmanaḥ śiraḥ .16.66
न लौकिकैः स्तवैर्देवांस्तोषयेद् बाह्यजैरपि ।नाक्षैः क्रीडेन्न धावेत नाप्सु विण्मूत्रमाचरेत् ।१६.६७
न लौकिकैः स्तवैः देवान् तोषयेत् बाह्य-जैः अपि ।न अक्षैः क्रीडेत् न धावेत न अप्सु विष्-मूत्रम् आचरेत् ।१६।६७
na laukikaiḥ stavaiḥ devān toṣayet bāhya-jaiḥ api .na akṣaiḥ krīḍet na dhāveta na apsu viṣ-mūtram ācaret .16.67
नोच्छिष्टः संविशेन्नित्यं न नग्नः स्नानमाचरेत् ।न गच्छेन्न पठेद् वाऽपि न चैव स्वशिरः स्पृशेत् ।१६.६८
न उच्छिष्टः संविशेत् नित्यम् न नग्नः स्नानम् आचरेत् ।न गच्छेत् न पठेत् वा अपि न च एव स्व-शिरः स्पृशेत् ।१६।६८
na ucchiṣṭaḥ saṃviśet nityam na nagnaḥ snānam ācaret .na gacchet na paṭhet vā api na ca eva sva-śiraḥ spṛśet .16.68
न दन्तैर्नखरोमाणि छिन्द्यात् सुप्तं न बोधयेत् ।न बालातपमासेवेत् प्रेतधूमं विवर्जयेत् ।१६.६९
न दन्तैः नख-रोमाणि छिन्द्यात् सुप्तम् न बोधयेत् ।न बाल-आतपम् आसेवेत् प्रेतधूमम् विवर्जयेत् ।१६।६९
na dantaiḥ nakha-romāṇi chindyāt suptam na bodhayet .na bāla-ātapam āsevet pretadhūmam vivarjayet .16.69
नैकः सुप्याच्छून्यगृहे स्वयं नोपानहौ हरेत् ।नाकारणाद् वा निष्ठीवेन्न बाहुभ्यां नदीं तरेत् ।१६.७०
न एकः सुप्यात् शून्य-गृहे स्वयम् न उपानहौ हरेत् ।न अकारणात् वा निष्ठीवेत् न बाहुभ्याम् नदीम् तरेत् ।१६।७०
na ekaḥ supyāt śūnya-gṛhe svayam na upānahau haret .na akāraṇāt vā niṣṭhīvet na bāhubhyām nadīm taret .16.70
न पादक्षालनं कुर्यात् पादेनैव कदाचन ।नाग्नौ प्रतापयेत् पादौ न कांस्ये धावयेद् बुधः ।१६.७१
न पाद-क्षालनम् कुर्यात् पादेन एव कदाचन ।न अग्नौ प्रतापयेत् पादौ न कांस्ये धावयेत् बुधः ।१६।७१
na pāda-kṣālanam kuryāt pādena eva kadācana .na agnau pratāpayet pādau na kāṃsye dhāvayet budhaḥ .16.71
नातिप्रसारयेद् देवं ब्राह्मणान् गामथापि वा ।वाय्वग्निगुरुविप्रान् वा सूर्यं वा शशिनं प्रति ॥ १६.७२
न अतिप्रसारयेत् देवम् ब्राह्मणान् गाम् अथ अपि वा ।वायु-अग्नि-गुरु-विप्रान् वा सूर्यम् वा शशिनम् प्रति ॥ १६।७२
na atiprasārayet devam brāhmaṇān gām atha api vā .vāyu-agni-guru-viprān vā sūryam vā śaśinam prati .. 16.72
अशुद्धः शयनं यानं स्वाध्यायं स्नानभोजनम् ।बहिर्निष्क्रमणं चैव न कुर्वीत कथञ्चन ॥ १६.७३
अशुद्धः शयनम् यानम् स्वाध्यायम् स्नान-भोजनम् ।बहिस् निष्क्रमणम् च एव न कुर्वीत कथञ्चन ॥ १६।७३
aśuddhaḥ śayanam yānam svādhyāyam snāna-bhojanam .bahis niṣkramaṇam ca eva na kurvīta kathañcana .. 16.73
स्वप्नमध्ययनं स्नानमुच्चारं भोजनं गतिम् ।उभयोः संध्ययोर्नित्यं मध्याह्ने चैव वर्जयेत् ॥ १६.७४
स्वप्नम् अध्ययनम् स्नानम् उच्चारम् भोजनम् गतिम् ।उभयोः संध्ययोः नित्यम् मध्याह्ने च एव वर्जयेत् ॥ १६।७४
svapnam adhyayanam snānam uccāram bhojanam gatim .ubhayoḥ saṃdhyayoḥ nityam madhyāhne ca eva varjayet .. 16.74
न स्पृशेत् पाणिनोच्छिष्टो विप्रोगोब्राह्मणानलान् ।न चैवान्नं पदा वाऽपि न देवप्रतिमां स्पृशेत् ॥ १६.७५
न स्पृशेत् पाणिना उच्छिष्टः विप्रः गो-ब्राह्मण-अनलान् ।न च एव अन्नम् पदा वा अपि न देव-प्रतिमाम् स्पृशेत् ॥ १६।७५
na spṛśet pāṇinā ucchiṣṭaḥ vipraḥ go-brāhmaṇa-analān .na ca eva annam padā vā api na deva-pratimām spṛśet .. 16.75
नाशुद्धोऽग्निं परिचरेन्न देवान् कीर्त्तयेदृषीन् ।नावगाहेदगाधाम्बु धारयेन्नाग्निमेकतः ॥ १६.७६
न अशुद्धः अग्निम् परिचरेत् न देवान् कीर्त्तयेत् ऋषीन् ।न अवगाहेत् अगाध-अम्बु धारयेत् ना अग्निम् एकतस् ॥ १६।७६
na aśuddhaḥ agnim paricaret na devān kīrttayet ṛṣīn .na avagāhet agādha-ambu dhārayet nā agnim ekatas .. 16.76
न वामहस्तेनोद्धत्य पिबेद् वक्त्रेण वा जलम् ।नोत्तरेदनुपस्पृश्य नाप्सु रेतः समुत्सृजेत् ॥ १६.७७
न वाम-हस्तेन उद्धत्य पिबेत् वक्त्रेण वा जलम् ।न उत्तरेत् अन् उपस्पृश्य न अप्सु रेतः समुत्सृजेत् ॥ १६।७७
na vāma-hastena uddhatya pibet vaktreṇa vā jalam .na uttaret an upaspṛśya na apsu retaḥ samutsṛjet .. 16.77
अमेध्यलिप्तमन्यद् वा लोहितं वा विषाणि वा ।व्यतिक्रमेन्न स्रवन्तीं नाप्सु मैथुनमाचरेत् ।१६.७८
अमेध्य-लिप्तम् अन्यत् वा लोहितम् वा विषाणि वा ।व्यतिक्रमेत् न स्रवन्तीम् न अप्सु मैथुनम् आचरेत् ।१६।७८
amedhya-liptam anyat vā lohitam vā viṣāṇi vā .vyatikramet na sravantīm na apsu maithunam ācaret .16.78
चैत्यं वृक्षं न वै छिन्द्यान्नाप्सु ष्ठीवनमाचरेत् ।नास्थिभस्मकपालानि न केशान्न च कण्टकान् ।ओषांङ्गारकरीषं वा नाधितिष्ठेत् कदाचन ॥१६.७९
चैत्यम् वृक्षम् न वै छिन्द्यात् न अप्सु ष्ठीवनम् आचरेत् ।न अस्थि-भस्म-कपालानि न केशान् न च कण्टकान् ।ओष अङ्गार-करीषम् वा न अधितिष्ठेत् कदाचन ॥१६।७९
caityam vṛkṣam na vai chindyāt na apsu ṣṭhīvanam ācaret .na asthi-bhasma-kapālāni na keśān na ca kaṇṭakān .oṣa aṅgāra-karīṣam vā na adhitiṣṭhet kadācana ..16.79
न चाग्निं लङ्घयेद् धीमान् नोपदध्यादधः क्वचित् ।न चैनं पादतः कुर्यान्मुखेन न धमेद् बुधः ।१६.८०
न च अग्निम् लङ्घयेत् धीमान् न उपदध्यात् अधस् क्वचिद् ।न च एनम् पादतः कुर्यात् मुखेन न धमेत् बुधः ।१६।८०
na ca agnim laṅghayet dhīmān na upadadhyāt adhas kvacid .na ca enam pādataḥ kuryāt mukhena na dhamet budhaḥ .16.80
न कूपमवरोहेत नावेक्षेताशुचिः क्वचित् ।अग्नौ न प्रक्षिपेदग्निं नाद्भिः प्रशमयेत् तथा ।१६.८१
न कूपम् अवरोहेत न अवेक्षेत अशुचिः क्वचिद् ।अग्नौ न प्रक्षिपेत् अग्निम् न अद्भिः प्रशमयेत् तथा ।१६।८१
na kūpam avaroheta na avekṣeta aśuciḥ kvacid .agnau na prakṣipet agnim na adbhiḥ praśamayet tathā .16.81
सुहृन्मरणमार्तिं वा न स्वयं श्रावयेत् परान् ।अपण्यं कूटपण्यं वा विक्रये न प्रयोजयेत्।१६.८२
सुहृद्-मरणम् आर्तिम् वा न स्वयम् श्रावयेत् परान् ।अपण्यम् कूट-पण्यम् वा विक्रये न प्रयोजयेत्।१६।८२
suhṛd-maraṇam ārtim vā na svayam śrāvayet parān .apaṇyam kūṭa-paṇyam vā vikraye na prayojayet.16.82
न वह्निं मुखनिश्वासैर्ज्वालयेन्नाशुचिर्बुधः ।पुण्यस्नानोदकस्थाने सीमान्तं वा कृषेन्न तु ।१६.८३
न वह्निम् मुख-निश्वासैः ज्वालयेत् न अशुचिः बुधः ।पुण्य-स्नान-उदक-स्थाने सीमान्तम् वा कृषेत् न तु ।१६।८३
na vahnim mukha-niśvāsaiḥ jvālayet na aśuciḥ budhaḥ .puṇya-snāna-udaka-sthāne sīmāntam vā kṛṣet na tu .16.83
न भिन्द्यात् पूर्वसमयमभ्युपेतं कदाचन ।परस्परं पशून् व्यालान् पक्षिणो नावबोधयेत् ।१६.८४
न भिन्द्यात् पूर्व-समयम् अभ्युपेतम् कदाचन ।परस्परम् पशून् व्यालान् पक्षिणः न अवबोधयेत् ।१६।८४
na bhindyāt pūrva-samayam abhyupetam kadācana .parasparam paśūn vyālān pakṣiṇaḥ na avabodhayet .16.84
परबाधां न कुर्वीत जलवातातपादिभिः ।कारयित्वा स्वकर्माणि कारून् पश्चान्न वर्जयेत् ।सायंप्रातर्गृहद्वारान् भिक्षार्थं नावघाटयेत् ॥ १६.८५
पर-बाधाम् न कुर्वीत जल-वात-आतप-आदिभिः ।कारयित्वा स्व-कर्माणि कारून् पश्चात् न वर्जयेत् ।सायम् प्रातर्गृह-द्वारान् भिक्षा-अर्थम् न अवघाटयेत् ॥ १६।८५
para-bādhām na kurvīta jala-vāta-ātapa-ādibhiḥ .kārayitvā sva-karmāṇi kārūn paścāt na varjayet .sāyam prātargṛha-dvārān bhikṣā-artham na avaghāṭayet .. 16.85
बहिर्माल्यं बहिर्गन्धं भार्यया सह भोजनम् ।विगृह्य वादं कुद्वारप्रवेशं च विवर्जयेत् ॥ १६.८६
बहिस् माल्यम् बहिस् गन्धम् भार्यया सह भोजनम् ।विगृह्य वादम् कुद्वार-प्रवेशम् च विवर्जयेत् ॥ १६।८६
bahis mālyam bahis gandham bhāryayā saha bhojanam .vigṛhya vādam kudvāra-praveśam ca vivarjayet .. 16.86
न खादन्ब्राह्मणस्तिष्ठेन्न जल्पेद् वा हसन् बुधः ।स्वमग्निं नैव हस्तेन स्पृशेन्नाप्सु चिरं वसेत् ॥ १६.८७
न खादन् ब्राह्मणः तिष्ठेत् न जल्पेत् वा हसन् बुधः ।स्वम् अग्निम् न एव हस्तेन स्पृशेत् न अप्सु चिरम् वसेत् ॥ १६।८७
na khādan brāhmaṇaḥ tiṣṭhet na jalpet vā hasan budhaḥ .svam agnim na eva hastena spṛśet na apsu ciram vaset .. 16.87
न पक्षकेणोपधमेन्न शूर्पेण न पाणिना ।मुखेनैव धमेदग्निं मुखादग्निरजायत ॥ १६.८८
न पक्षकेण उपधमेत् न शूर्पेण न पाणिना ।मुखेन एव धमेत् अग्निम् मुखात् अग्निः अजायत ॥ १६।८८
na pakṣakeṇa upadhamet na śūrpeṇa na pāṇinā .mukhena eva dhamet agnim mukhāt agniḥ ajāyata .. 16.88
परस्त्रियं न भाषेत नायाज्यं याजयेद् द्विजः ।नैकश्चरेत् सभां विप्रः समवायं च वर्जयेत् ।न देवायतनं गच्छेत् कदाचिद् वाऽप्रदक्षिणम् ।१६.८९
पर-स्त्रियम् न भाषेत न अयाज्यम् याजयेत् द्विजः ।न एकः चरेत् सभाम् विप्रः समवायम् च वर्जयेत् ।न देवायतनम् गच्छेत् कदाचिद् वा अ प्रदक्षिणम् ।१६।८९
para-striyam na bhāṣeta na ayājyam yājayet dvijaḥ .na ekaḥ caret sabhām vipraḥ samavāyam ca varjayet .na devāyatanam gacchet kadācid vā a pradakṣiṇam .16.89
न वीजयेद् वा वस्त्रेण न देवायतने स्वपेत् ।नैकोऽध्वानं प्रपद्येत नाधार्मिकजनैः सह ।१६.९०
न वीजयेत् वा वस्त्रेण न देवायतने स्वपेत् ।न एकः अध्वानम् प्रपद्येत न अधार्मिक-जनैः सह ।१६।९०
na vījayet vā vastreṇa na devāyatane svapet .na ekaḥ adhvānam prapadyeta na adhārmika-janaiḥ saha .16.90
न व्याधिदूषितैर्वापि न शूद्रैः पतितैर्न वा ।नोपानद्वर्ज्जितोऽध्वानं जलादिरहितस्तथा ।१६.९१
न व्याधि-दूषितैः वा अपि न शूद्रैः पतितैः न वा ।न उपानह् वर्जितः अध्वानम् जल-आदि-रहितः तथा ।१६।९१
na vyādhi-dūṣitaiḥ vā api na śūdraiḥ patitaiḥ na vā .na upānah varjitaḥ adhvānam jala-ādi-rahitaḥ tathā .16.91
न रात्रौ वारिणा सार्द्धं न विना च कमण्डलुम् ।नाग्निगोब्राह्मणादीनामन्तरेण व्रजेत् क्वचित् ॥ १६.९२
न रात्रौ वारिणा सार्द्धम् न विना च कमण्डलुम् ।न अग्नि-गो-ब्राह्मण-आदीनाम् अन्तरेण व्रजेत् क्वचिद् ॥ १६।९२
na rātrau vāriṇā sārddham na vinā ca kamaṇḍalum .na agni-go-brāhmaṇa-ādīnām antareṇa vrajet kvacid .. 16.92
निवत्स्यन्तीं न वनितामतिक्रामेत् क्वचिद् द्विजः ।न निन्देद् योगिनः सिद्धान् व्रतिनो वा यतींस्तथा ॥ १६.९३
निवत्स्यन्तीम् न वनिताम् अतिक्रामेत् क्वचिद् द्विजः ।न निन्देत् योगिनः सिद्धान् व्रतिनः वा यतीन् तथा ॥ १६।९३
nivatsyantīm na vanitām atikrāmet kvacid dvijaḥ .na nindet yoginaḥ siddhān vratinaḥ vā yatīn tathā .. 16.93
देवतायतनं प्राज्ञो देवानां चैव मन्त्रिणाम् ।नाक्रामेत् कामतश्छायां ब्राह्मणानां च गोरपि ॥ १६.९४
देवतायतनम् प्राज्ञः देवानाम् च एव मन्त्रिणाम् ।न आक्रामेत् कामतस् छायाम् ब्राह्मणानाम् च गोः अपि ॥ १६।९४
devatāyatanam prājñaḥ devānām ca eva mantriṇām .na ākrāmet kāmatas chāyām brāhmaṇānām ca goḥ api .. 16.94
स्वां तु नाक्रमयेच्छायां पतिताद्यैर्न रोगिभिः ।नाङ्गारभस्मकेशादिष्वधितिष्ठेत् कदाचन ॥ १६.९५
स्वाम् तु न आक्रमयेत् छायाम् पतित-आद्यैः न रोगिभिः ।न अङ्गार-भस्म-केश-आदिषु अधितिष्ठेत् कदाचन ॥ १६।९५
svām tu na ākramayet chāyām patita-ādyaiḥ na rogibhiḥ .na aṅgāra-bhasma-keśa-ādiṣu adhitiṣṭhet kadācana .. 16.95
वर्जयेन्मार्जनीरेणुं स्नानवस्त्रघटोदकम् ।न भक्षयेदभक्ष्याणि नापेयं चापिबेद् द्विजः ॥ १६.९६
वर्जयेत् मार्जनी-रेणुम् स्नान-वस्त्र-घट-उदकम् ।न भक्षयेत् अभक्ष्याणि न अपेयम् च अ पिबेत् द्विजः ॥ १६।९६
varjayet mārjanī-reṇum snāna-vastra-ghaṭa-udakam .na bhakṣayet abhakṣyāṇi na apeyam ca a pibet dvijaḥ .. 16.96
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे षोडशोऽध्यायः ॥
इति श्री-कूर्मपुराणे षट्साहस्त्र्याम् संहितायाम् उपरि विभागे षोडशः अध्यायः ॥
iti śrī-kūrmapurāṇe ṣaṭsāhastryām saṃhitāyām upari vibhāge ṣoḍaśaḥ adhyāyaḥ ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In