| |
|

This overlay will guide you through the buttons:

व्यास उवाच ।
नाद्याच्छूद्रस्य विप्रोऽन्नं मोहाद् वा यदि वाऽन्यतः ।स शूद्रयोनिं व्रजति यस्तु भुङ्क्ते ह्यनापदि ॥ १७.१
न अद्यात् शूद्रस्य विप्रः अन्नम् मोहात् वा यदि वा अन्यतस् ।स शूद्र-योनिम् व्रजति यः तु भुङ्क्ते हि अनापदि ॥ १७।१
na adyāt śūdrasya vipraḥ annam mohāt vā yadi vā anyatas .sa śūdra-yonim vrajati yaḥ tu bhuṅkte hi anāpadi .. 17.1
षण्मासान् यो द्विजो भुङ्क्ते शूद्रस्यान्नं विगर्हितम् ।जीवन्नेव भवेच्छूद्रो मृतः श्वा चाभिजायते ॥ १७.२
षष्-मासान् यः द्विजः भुङ्क्ते शूद्रस्य अन्नम् विगर्हितम् ।जीवन् एव भवेत् शूद्रः मृतः श्वा च अभिजायते ॥ १७।२
ṣaṣ-māsān yaḥ dvijaḥ bhuṅkte śūdrasya annam vigarhitam .jīvan eva bhavet śūdraḥ mṛtaḥ śvā ca abhijāyate .. 17.2
ब्राह्मणक्षत्रियविशां शूद्रस्य च मुनीश्वराः ।यस्यान्नेनोदरस्थेन मृतस्तद्योनिमाप्नुयात् ॥ १७.३
ब्राह्मण-क्षत्रिय-विशाम् शूद्रस्य च मुनि-ईश्वराः ।यस्य अन्नेन उदर-स्थेन मृतः तद्-योनिम् आप्नुयात् ॥ १७।३
brāhmaṇa-kṣatriya-viśām śūdrasya ca muni-īśvarāḥ .yasya annena udara-sthena mṛtaḥ tad-yonim āpnuyāt .. 17.3
राजान्नं नर्त्तकान्नं च तक्ष्णोऽन्नं कर्मकारिणः ।गणान्नं गणिकान्नं च षण्ढान्नं चैव वर्जयेत् ॥ १७.४
राज-अन्नम् नर्त्तक-अन्नम् च तक्ष्णः अन्नम् कर्म-कारिणः ।गण-अन्नम् गणिका-अन्नम् च षण्ढ-अन्नम् च एव वर्जयेत् ॥ १७।४
rāja-annam narttaka-annam ca takṣṇaḥ annam karma-kāriṇaḥ .gaṇa-annam gaṇikā-annam ca ṣaṇḍha-annam ca eva varjayet .. 17.4
चक्रोपजीविरजकतस्करध्वजिनां तथा ।गान्धर्वलोहकारान्नं सूतकान्नं च वर्जयेत् ॥ १७.५
चक्र-उपजीवि-रजक-तस्कर-ध्वजिनाम् तथा ।गान्धर्व-लोहकार-अन्नम् सूतक-अन्नम् च वर्जयेत् ॥ १७।५
cakra-upajīvi-rajaka-taskara-dhvajinām tathā .gāndharva-lohakāra-annam sūtaka-annam ca varjayet .. 17.5
कुलालचित्रकर्मान्नं वार्धुषेः पतितस्य च ।सुवर्णकारशैलूषव्याधबद्धातुरस्यच॥ १७.६
कुलाल-चित्रकर्म-अन्नम् वार्धुषेः पतितस्य च ।सुवर्णकार-शैलूष-व्याध-बद्ध-आतुरस्य च॥ १७।६
kulāla-citrakarma-annam vārdhuṣeḥ patitasya ca .suvarṇakāra-śailūṣa-vyādha-baddha-āturasya ca.. 17.6
सुवर्णकारशैलूषव्याधबद्धातुरस्य च ।चिकित्सकस्य चैवान्नं पुंश्चल्या दण्डिकस्य च ।स्तेननास्तिकयोरन्नं देवतानिन्दकस्य च ।१७.७
सुवर्णकार-शैलूष-व्याध-बद्ध-आतुरस्य च ।चिकित्सकस्य च एव अन्नम् पुंश्चल्याः दण्डिकस्य च ।स्तेन-नास्तिकयोः अन्नम् देवता-निन्दकस्य च ।१७।७
suvarṇakāra-śailūṣa-vyādha-baddha-āturasya ca .cikitsakasya ca eva annam puṃścalyāḥ daṇḍikasya ca .stena-nāstikayoḥ annam devatā-nindakasya ca .17.7
सोमविक्रयिणश्चान्नं श्वपाकस्य विशेषतः ॥भार्याजितस्य चैवान्नं यस्य चोपपतिर्गृहे ।१७.८
सोम-विक्रयिणः च अन्नम् श्वपाकस्य विशेषतः ॥भार्या-जितस्य च एव अन्नम् यस्य च उपपतिः गृहे ।१७।८
soma-vikrayiṇaḥ ca annam śvapākasya viśeṣataḥ ..bhāryā-jitasya ca eva annam yasya ca upapatiḥ gṛhe .17.8
उत्सृष्टस्य कदर्यस्य तथैवोच्छिष्टभोजिनः ।अपाङ्क्त्यान्नं च सङ्घान्नं शस्त्रजीवस्य चैव हि ।१७.९
उत्सृष्टस्य कदर्यस्य तथा एव उच्छिष्ट-भोजिनः ।अपाङ्क्त्य-अन्नम् च सङ्घ-अन्नम् शस्त्रजीवस्य च एव हि ।१७।९
utsṛṣṭasya kadaryasya tathā eva ucchiṣṭa-bhojinaḥ .apāṅktya-annam ca saṅgha-annam śastrajīvasya ca eva hi .17.9
क्लीबसंन्यासिनोश्चान्नं मत्तोन्मत्तस्य चैव हि ।भीतस्य रुदितस्यान्नमवक्रुष्टं परिक्षुतम् ॥ १७.१०
क्लीब-संन्यासिनोः च अन्नम् मत्त-उन्मत्तस्य च एव हि ।भीतस्य रुदितस्य अन्नम् अवक्रुष्टम् परिक्षुतम् ॥ १७।१०
klība-saṃnyāsinoḥ ca annam matta-unmattasya ca eva hi .bhītasya ruditasya annam avakruṣṭam parikṣutam .. 17.10
ब्रह्मद्विषः पापरुचेः श्राद्धान्नं सूतकस्य च ।वृथापाकस्य चैवान्नं शावान्नं श्वशुरस्य च ॥ १७.११
ब्रह्म-द्विषः पाप-रुचेः श्राद्ध-अन्नम् सूतकस्य च ।वृथा पाकस्य च एव अन्नम् शाव-अन्नम् श्वशुरस्य च ॥ १७।११
brahma-dviṣaḥ pāpa-ruceḥ śrāddha-annam sūtakasya ca .vṛthā pākasya ca eva annam śāva-annam śvaśurasya ca .. 17.11
अप्रजानां तु नारीणां भृतकस्य तथैव च ।कारुकान्नं विशेषेण शस्त्रविक्रयिणस्तथा ॥ १७.१२
अप्रजानाम् तु नारीणाम् भृतकस्य तथा एव च ।कारुका-अन्नम् विशेषेण शस्त्र-विक्रयिणः तथा ॥ १७।१२
aprajānām tu nārīṇām bhṛtakasya tathā eva ca .kārukā-annam viśeṣeṇa śastra-vikrayiṇaḥ tathā .. 17.12
शौण्डान्नं घाटिकान्नं च भिषजामन्नमेव च ।विद्धप्रजननस्यान्नं परिवेत्रन्नमेव च ॥ १७.१३
शौण्ड-अन्नम् घाटिक-अन्नम् च भिषजाम् अन्नम् एव च ।विद्धप्रजननस्य अन्नम् परिवेतृ-अन्नम् एव च ॥ १७।१३
śauṇḍa-annam ghāṭika-annam ca bhiṣajām annam eva ca .viddhaprajananasya annam parivetṛ-annam eva ca .. 17.13
पुनर्भुवो विशेषेण तथैव दिधिषूपतेः ।अवज्ञातं चावधूतं सरोषं विस्मयान्वितम् ।१७.१४
पुनर्भुवः विशेषेण तथा एव दिधिषू-पतेः ।अवज्ञातम् च अवधूतम् स रोषम् विस्मय-अन्वितम् ।१७।१४
punarbhuvaḥ viśeṣeṇa tathā eva didhiṣū-pateḥ .avajñātam ca avadhūtam sa roṣam vismaya-anvitam .17.14
गुरोरपि न भोक्तव्यमन्नं संस्कारवर्जितम् ।दुष्कृतं हि मनुष्यस्य सर्वमन्ने व्यवस्थितम् ।१७.१५
गुरोः अपि न भोक्तव्यम् अन्नम् संस्कार-वर्जितम् ।दुष्कृतम् हि मनुष्यस्य सर्वम् अन्ने व्यवस्थितम् ।१७।१५
guroḥ api na bhoktavyam annam saṃskāra-varjitam .duṣkṛtam hi manuṣyasya sarvam anne vyavasthitam .17.15
यो यस्यान्नं समश्नाति स तस्याश्नानि किल्बिषम् ।आर्द्धिकः कुलमित्रश्च स्वगोपालश्च नापितः ।१७.१६
यः यस्य अन्नम् समश्नाति स तस्य अश्नानि किल्बिषम् ।आर्द्धिकः कुल-मित्रः च स्व-गोपालः च नापितः ।१७।१६
yaḥ yasya annam samaśnāti sa tasya aśnāni kilbiṣam .ārddhikaḥ kula-mitraḥ ca sva-gopālaḥ ca nāpitaḥ .17.16
कुशीलवः कुम्बकारः क्षेत्रकर्मक एव चएते शूद्रेषु भोज्यान्नं दत्वा स्वल्पं पणं बुधैः।पायसं स्नेहपक्वं यद् गोरसं चैव सक्तवः ।१७.१७
कुशीलवः कुम्बकारः क्षेत्रकर्मकः एव च एते शूद्रेषु भोज्य-अन्नम् द-त्वा सु अल्पम् पणम् बुधैः।पायसम् स्नेह-पक्वम् यत् गोरसम् च एव सक्तवः ।१७।१७
kuśīlavaḥ kumbakāraḥ kṣetrakarmakaḥ eva ca ete śūdreṣu bhojya-annam da-tvā su alpam paṇam budhaiḥ.pāyasam sneha-pakvam yat gorasam ca eva saktavaḥ .17.17
पिण्याकं चैव तैलं च शूद्राद् ग्राह्यं द्विजातिभिः ।वृन्ताकं नालिकाशाकं कुसुम्भाश्मन्तकं तथा ।१७.१८
पिण्याकम् च एव तैलम् च शूद्रात् ग्राह्यम् द्विजातिभिः ।वृन्ताकम् नालिका-शाकम् कुसुम्भ-अश्मन्तकम् तथा ।१७।१८
piṇyākam ca eva tailam ca śūdrāt grāhyam dvijātibhiḥ .vṛntākam nālikā-śākam kusumbha-aśmantakam tathā .17.18
पलाण्डुं लसुनं शुक्तं निर्यासं चैव वर्जयेत् ।छत्राकं विड्वराहं च शेळं पीयूषमेव च ।१७.१९
पलाण्डुम् लसुनम् शुक्तम् निर्यासम् च एव वर्जयेत् ।छत्राकम् विड्वराहम् च पीयूषम् एव च ।१७।१९
palāṇḍum lasunam śuktam niryāsam ca eva varjayet .chatrākam viḍvarāham ca pīyūṣam eva ca .17.19
विलयं सुमुखं चैव कवकानि च वर्जयेत् ॥गृञ्जनं किंशुकं चैव ककुभञ्च तथैव च ।१७.२०
विलयम् सुमुखम् च एव कवकानि च वर्जयेत् ॥गृञ्जनम् किंशुकम् च एव ककुभम् च तथा एव च ।१७।२०
vilayam sumukham ca eva kavakāni ca varjayet ..gṛñjanam kiṃśukam ca eva kakubham ca tathā eva ca .17.20
उदुम्बरमलाबुं च जग्ध्वा पतति वै द्विजः ॥वृथा कृशरसंयावं पायसापूपमेव च ।१७.२१
उदुम्बरम् अलाबुम् च जग्ध्वा पतति वै द्विजः ॥वृथा कृसर-संयावम् पायस-अपूपम् एव च ।१७।२१
udumbaram alābum ca jagdhvā patati vai dvijaḥ ..vṛthā kṛsara-saṃyāvam pāyasa-apūpam eva ca .17.21
अनुपाकृतमांसं च देवान्नानि हवींषि च ।यवागूं मातुलिङ्गं च मत्स्यानप्यनुपाकृतान् ।१७.२२
अन् उपाकृत-मांसम् च देव-अन्नानि हवींषि च ।यवागूम् मातुलिङ्गम् च मत्स्यान् अपि अनुपाकृतान् ।१७।२२
an upākṛta-māṃsam ca deva-annāni havīṃṣi ca .yavāgūm mātuliṅgam ca matsyān api anupākṛtān .17.22
नीपं कपित्थं प्लक्षं च प्रयत्नेन विवर्जयेत् ॥पिण्याकं चोद्धृतस्नेहं देवधान्य तथैव च ।१७.२३
नीपम् कपित्थम् प्लक्षम् च प्रयत्नेन विवर्जयेत् ॥पिण्याकम् च उद्धृत-स्नेहम् देवधान्य तथा एव च ।१७।२३
nīpam kapittham plakṣam ca prayatnena vivarjayet ..piṇyākam ca uddhṛta-sneham devadhānya tathā eva ca .17.23
रात्रौ च तिलसंबद्धं प्रयत्नेन दधि त्यजेत् ॥नाश्नीयात् पयसा तक्रं न बीजान्युपजीवयेत् ।१७.२४
रात्रौ च तिल-संबद्धम् प्रयत्नेन दधि त्यजेत् ॥न अश्नीयात् पयसा तक्रम् न बीजानि उपजीवयेत् ।१७।२४
rātrau ca tila-saṃbaddham prayatnena dadhi tyajet ..na aśnīyāt payasā takram na bījāni upajīvayet .17.24
क्रियादुष्टं भावदुष्टमसत्संगं विवर्जयेत् ॥केशकीटावपन्नं च सुहृल्लेखं च नित्यशः ।१७.२५
क्रिया-दुष्टम् भाव-दुष्टम् असत्-संगम् विवर्जयेत् ॥केश-कीट-अवपन्नम् च सुहृद्-लेखम् च नित्यशस् ।१७।२५
kriyā-duṣṭam bhāva-duṣṭam asat-saṃgam vivarjayet ..keśa-kīṭa-avapannam ca suhṛd-lekham ca nityaśas .17.25
श्वाघ्रातं च पुनः सिद्धं चण्डालावेक्षितं तथा ।उदक्यया च पतितैर्गवा चाघ्रातमेव च ।१७.२६
श्व-आघ्रातम् च पुनर् सिद्धम् चण्डाल-अवेक्षितम् तथा ।उदक्यया च पतितैः गवा च आघ्रातम् एव च ।१७।२६
śva-āghrātam ca punar siddham caṇḍāla-avekṣitam tathā .udakyayā ca patitaiḥ gavā ca āghrātam eva ca .17.26
अनर्चितं पुर्युंषितं पर्याभ्रान्तं च नित्यशः ।काककुक्कुटसंस्पृष्टं कृमिभिश्चैव संयुतम् ।१७.२७
अनर्चितम् पुर्युंषितम् पर्याभ्रान्तम् च नित्यशस् ।काक-कुक्कुट-संस्पृष्टम् कृमिभिः च एव संयुतम् ।१७।२७
anarcitam puryuṃṣitam paryābhrāntam ca nityaśas .kāka-kukkuṭa-saṃspṛṣṭam kṛmibhiḥ ca eva saṃyutam .17.27
मनुष्यैरथवाघ्रातं कुष्ठिना स्पृष्टमेव च ।न रजस्वलया दत्तं न पुंश्चाल्या सरोषया ॥१७.२८
मनुष्यैः अथवा आघ्रातम् कुष्ठिना स्पृष्टम् एव च ।न रजस्वलया दत्तम् न पुंश्चाल्या स रोषया ॥१७।२८
manuṣyaiḥ athavā āghrātam kuṣṭhinā spṛṣṭam eva ca .na rajasvalayā dattam na puṃścālyā sa roṣayā ..17.28
मलबद्वाससा वापि परवासोऽथ वर्जयेत् ।विवत्सायाश्च गोः क्षीरमौष्ट्रं वानिर्दशं तथा ।१७.२९
मलबत्-वाससा वा अपि पर-वासः अथ वर्जयेत् ।विवत्सायाः च गोः क्षीरम् औष्ट्रम् वा अनिर्दशम् तथा ।१७।२९
malabat-vāsasā vā api para-vāsaḥ atha varjayet .vivatsāyāḥ ca goḥ kṣīram auṣṭram vā anirdaśam tathā .17.29
आविकं सन्धिनीक्षीरमपेयं मनुरब्रवीत् ।बलाकं हंसदात्यूहं कलविकं शुकं तथा ॥१७.३०
आविकम् सन्धिनी-क्षीरम् अपेयम् मनुः अब्रवीत् ।बलाकम् हंस-दात्यूहम् कलविकम् शुकम् तथा ॥१७।३०
āvikam sandhinī-kṣīram apeyam manuḥ abravīt .balākam haṃsa-dātyūham kalavikam śukam tathā ..17.30
कुररञ्चचकारञ्च जालपादं च कोकिलम् ।चाषांश्च खञ्जरीटांश्च श्येनं गृध्रं तथैव च ।१७.३१
कुररन् चचकारन् च जालपादम् च कोकिलम् ।चाषान् च खञ्जरीटान् च श्येनम् गृध्रम् तथा एव च ।१७।३१
kuraran cacakāran ca jālapādam ca kokilam .cāṣān ca khañjarīṭān ca śyenam gṛdhram tathā eva ca .17.31
उलूकं चक्रवाकं च भासं पारावतं तथा।कपोतं टिट्टिभं चैव ग्रामकुक्कुटमेव च ॥ १७.३२
उलूकम् चक्रवाकम् च भासम् पारावतम् तथा।कपोतम् टिट्टिभम् च एव ग्राम-कुक्कुटम् एव च ॥ १७।३२
ulūkam cakravākam ca bhāsam pārāvatam tathā.kapotam ṭiṭṭibham ca eva grāma-kukkuṭam eva ca .. 17.32
सिंहं व्याघ्रं च मार्जारं श्वानं कुक्कुरमेव च ।श्रृगालं मर्कटं चैव गर्दभं च न भक्षयेत् ।न भक्षयेत् सर्वमृगान् पक्षिणोऽन्यान् वनेचरान् ।१७.३३
सिंहम् व्याघ्रम् च मार्जारम् श्वानम् कुक्कुरम् एव च ।श्रृगालम् मर्कटम् च एव गर्दभम् च न भक्षयेत् ।न भक्षयेत् सर्व-मृगान् पक्षिणः अन्यान् वनेचरान् ।१७।३३
siṃham vyāghram ca mārjāram śvānam kukkuram eva ca .śrṛgālam markaṭam ca eva gardabham ca na bhakṣayet .na bhakṣayet sarva-mṛgān pakṣiṇaḥ anyān vanecarān .17.33
जलेचरान् स्थलचरान् प्राणिनश्चेति धारणा ।गोधा कूर्मः शशः श्वावित् सल्लकी चेति सत्तमाः ।१७.३४
जलेचरान् स्थल-चरान् प्राणिनः च इति धारणा ।गोधा कूर्मः शशः श्वाविध् सल्लकी च इति सत्तमाः ।१७।३४
jalecarān sthala-carān prāṇinaḥ ca iti dhāraṇā .godhā kūrmaḥ śaśaḥ śvāvidh sallakī ca iti sattamāḥ .17.34
भक्ष्याः पञ्चनखा नित्यं मनुराह प्रिजापतिः ।मत्स्यान् सशल्कान् भुञ्जीयान् मांसं रौरवमेवच ।१७.३५
भक्ष्याः पञ्चनखाः नित्यम् मनुः आह ।मत्स्यान् स शल्कान् भुञ्जीयात् मांसम् रौरवम् एव च ।१७।३५
bhakṣyāḥ pañcanakhāḥ nityam manuḥ āha .matsyān sa śalkān bhuñjīyāt māṃsam rauravam eva ca .17.35
निवेद्य देवताभ्यस्तु ब्राह्मणेभ्यस्तु नान्यथा ।मयूरं तित्तिरं चैव कपोतं च कपिञ्जलम् ।१७.३६
निवेद्य देवताभ्यः तु ब्राह्मणेभ्यः तु न अन्यथा ।मयूरम् तित्तिरम् च एव कपोतम् च कपिञ्जलम् ।१७।३६
nivedya devatābhyaḥ tu brāhmaṇebhyaḥ tu na anyathā .mayūram tittiram ca eva kapotam ca kapiñjalam .17.36
वाध्रीणसं द्वीपिनञ्च भक्ष्यानाह प्रजापतिः।शफरं सिंहतुण्डं च तथा पाठीनरोहितौ ॥१७.३७
वाध्रीणसम् द्वीपिनम् च भक्ष्यान् आह प्रजापतिः।शफरम् सिंहतुण्डम् च तथा पाठीन-रोहितौ ॥१७।३७
vādhrīṇasam dvīpinam ca bhakṣyān āha prajāpatiḥ.śapharam siṃhatuṇḍam ca tathā pāṭhīna-rohitau ..17.37
मत्स्येष्वेते समुद्दिष्टा भक्षणाया द्विजोत्तमाः ।प्रोक्षितं भक्षयेदेषां मांसं च द्विजकाम्यया ।१७.३८
मत्स्येषु एते समुद्दिष्टाः भक्षणायाः द्विजोत्तमाः ।प्रोक्षितम् भक्षयेत् एषाम् मांसम् च द्विज-काम्यया ।१७।३८
matsyeṣu ete samuddiṣṭāḥ bhakṣaṇāyāḥ dvijottamāḥ .prokṣitam bhakṣayet eṣām māṃsam ca dvija-kāmyayā .17.38
यथाविधि नियुक्तं च प्राणानामपि चात्यये ।भक्षयेदेव मांसानि शेषभोजी न लिप्यते ।१७.३९
यथाविधि नियुक्तम् च प्राणानाम् अपि च अत्यये ।भक्षयेत् एव मांसानि शेष-भोजी न लिप्यते ।१७।३९
yathāvidhi niyuktam ca prāṇānām api ca atyaye .bhakṣayet eva māṃsāni śeṣa-bhojī na lipyate .17.39
औषधार्थमशक्तौ वा नियोगाद्यं न कारयेत् ।आमन्त्रितस्तु यः श्राद्धे दैवे वा मांसमुत्सृजेत् ।यावन्ति पशुरोमाणि तावतो नरकान् व्रजेत् ॥ १७.४०
औषध-अर्थम् अशक्तौ वा नियोग-आद्यम् न कारयेत् ।आमन्त्रितः तु यः श्राद्धे दैवे वा मांसम् उत्सृजेत् ।यावन्ति पशु-रोमाणि तावतः नरकान् व्रजेत् ॥ १७।४०
auṣadha-artham aśaktau vā niyoga-ādyam na kārayet .āmantritaḥ tu yaḥ śrāddhe daive vā māṃsam utsṛjet .yāvanti paśu-romāṇi tāvataḥ narakān vrajet .. 17.40
अपेयं चाप्यपेयं च तथैवास्पृश्यमेव च ।द्विजातीनामनालोक्यं नित्यं मद्यमिति स्थितिः ॥ १७.४१
अपेयम् च अपि अपेयम् च तथा एव अस्पृश्यम् एव च ।द्विजातीनाम् अनालोक्यम् नित्यम् मद्यम् इति स्थितिः ॥ १७।४१
apeyam ca api apeyam ca tathā eva aspṛśyam eva ca .dvijātīnām anālokyam nityam madyam iti sthitiḥ .. 17.41
तस्मात् सर्वप्रकारेण मद्यं नित्यं विवर्जयेत् ।पीत्वा पतति कर्मभ्यस्त्वसंभाष्यो भवेद् द्विजैः ॥ १७.४२
तस्मात् सर्व-प्रकारेण मद्यम् नित्यम् विवर्जयेत् ।पीत्वा पतति कर्मभ्यः तु अ संभाष्यः भवेत् द्विजैः ॥ १७।४२
tasmāt sarva-prakāreṇa madyam nityam vivarjayet .pītvā patati karmabhyaḥ tu a saṃbhāṣyaḥ bhavet dvijaiḥ .. 17.42
भक्षयित्वा ह्यभक्ष्याणि पीत्वाऽपेयान्यपि द्विजः ।नाधिकारी भवेत् तावद् यावद् तन्न व्रजत्यधः ॥ १७.४३
भक्षयित्वा हि अभक्ष्याणि पीत्वा अपेयानि अपि द्विजः ।न अधिकारी भवेत् तावत् यावत् तत् न व्रजति अधस् ॥ १७।४३
bhakṣayitvā hi abhakṣyāṇi pītvā apeyāni api dvijaḥ .na adhikārī bhavet tāvat yāvat tat na vrajati adhas .. 17.43
तस्मात् परिहरेन्नित्यमभक्ष्याणि प्रयत्नतः ।अपेयानि च विप्रो वै तथा चेद् याति रौरवम् ॥ १७.४४
तस्मात् परिहरेत् नित्यम् अभक्ष्याणि प्रयत्नतः ।अपेयानि च विप्रः वै तथा चेद् याति रौरवम् ॥ १७।४४
tasmāt pariharet nityam abhakṣyāṇi prayatnataḥ .apeyāni ca vipraḥ vai tathā ced yāti rauravam .. 17.44
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे सप्तदशोऽध्यायः ॥ १७ ॥
इति श्री-कूर्मपुराणे षट्साहस्त्र्याम् संहितायाम् उपरि विभागे सप्तदशः अध्यायः ॥ १७ ॥
iti śrī-kūrmapurāṇe ṣaṭsāhastryām saṃhitāyām upari vibhāge saptadaśaḥ adhyāyaḥ .. 17 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In