| |
|

This overlay will guide you through the buttons:

ऋषय ऊचुः ।
अहन्यहनि कर्त्तव्यं ब्राह्मणानां महामुने ।तदाचक्ष्वाखिलं कर्म येन मुच्येत बन्धनात् ॥ १८.१
अहनि अहनि कर्त्तव्यम् ब्राह्मणानाम् महा-मुने ।तत् आचक्ष्व अखिलम् कर्म येन मुच्येत बन्धनात् ॥ १८।१
ahani ahani karttavyam brāhmaṇānām mahā-mune .tat ācakṣva akhilam karma yena mucyeta bandhanāt .. 18.1
व्यास उवाच ।
वक्ष्ये समाहिता यूयं श्रृणुध्वं गदतो मम ।अहन्यहनि कर्तव्यं ब्राह्मणानां क्रमाद् विधिम् ॥ १८.२
वक्ष्ये समाहिताः यूयम् श्रृणुध्वम् गदतः मम ।अहनि अहनि कर्तव्यम् ब्राह्मणानाम् क्रमात् विधिम् ॥ १८।२
vakṣye samāhitāḥ yūyam śrṛṇudhvam gadataḥ mama .ahani ahani kartavyam brāhmaṇānām kramāt vidhim .. 18.2
ब्राह्मे मुहूर्ते तूत्थाय धर्ममर्थं च चिन्तयेत् ।कायक्लेशं तदुद्भूतं ध्यायेत मनसेश्वरम् ॥ १८.३
ब्राह्मे मुहूर्ते तु उत्थाय धर्मम् अर्थम् च चिन्तयेत् ।काय-क्लेशम् तद्-उद्भूतम् ध्यायेत मनसा ईश्वरम् ॥ १८।३
brāhme muhūrte tu utthāya dharmam artham ca cintayet .kāya-kleśam tad-udbhūtam dhyāyeta manasā īśvaram .. 18.3
उषः कालेऽच संप्राप्ते कृत्वा चावश्यकं बुधः ।स्नायान्नदीषु सुद्धासु शौचं कृत्वा यथाविधि ॥ १८.४
उषः काले अ च संप्राप्ते कृत्वा च आवश्यकम् बुधः ।स्नायात् नदीषु सुद्धासु शौचम् कृत्वा यथाविधि ॥ १८।४
uṣaḥ kāle a ca saṃprāpte kṛtvā ca āvaśyakam budhaḥ .snāyāt nadīṣu suddhāsu śaucam kṛtvā yathāvidhi .. 18.4
प्रातः स्नानेन पूयन्ते येऽपि पापकृतो जनाः ।तस्मात् सर्वप्रयत्नेन प्रातः स्नानं समाचरेत् ॥ १८.५
प्रातर् स्नानेन पूयन्ते ये अपि पाप-कृतः जनाः ।तस्मात् सर्व-प्रयत्नेन प्रातर् स्नानम् समाचरेत् ॥ १८।५
prātar snānena pūyante ye api pāpa-kṛtaḥ janāḥ .tasmāt sarva-prayatnena prātar snānam samācaret .. 18.5
प्रातः स्नानं प्रशंसन्ति दृष्टादृष्टकरं शुभम् ।ऋषीणामृषिता नित्यं प्रातः स्नानान्न संशयः ॥ १८.६
प्रातर् स्नानम् प्रशंसन्ति दृष्ट-अदृष्ट-करम् शुभम् ।ऋषीणाम् ऋषिता नित्यम् प्रातर् स्नानात् न संशयः ॥ १८।६
prātar snānam praśaṃsanti dṛṣṭa-adṛṣṭa-karam śubham .ṛṣīṇām ṛṣitā nityam prātar snānāt na saṃśayaḥ .. 18.6
मुखे सुप्तस्य सततं लाला याः संस्त्रवन्ति हि ।ततो नैवाचरेत् कर्म अकृत्वा स्नानमादितः ॥ १८.७
मुखे सुप्तस्य सततम् लालाः याः संस्त्रवन्ति हि ।ततस् ना एव आचरेत् कर्म अ कृत्वा स्नानम् आदितस् ॥ १८।७
mukhe suptasya satatam lālāḥ yāḥ saṃstravanti hi .tatas nā eva ācaret karma a kṛtvā snānam āditas .. 18.7
अलक्ष्मीः कालकर्णी च दुःस्वप्नं दुर्विचिन्तितम् ।प्रातः स्नानेन पापानि पूयन्ते नात्र संशयः ॥ १८.८
अलक्ष्मीः कालकर्णी च दुःस्वप्नम् दुर्विचिन्तितम् ।प्रातर् स्नानेन पापानि पूयन्ते न अत्र संशयः ॥ १८।८
alakṣmīḥ kālakarṇī ca duḥsvapnam durvicintitam .prātar snānena pāpāni pūyante na atra saṃśayaḥ .. 18.8
अतः स्नानं विना पुंसां पावनं कर्म संस्मृतम् ।होमे जप्ये विशेषेण तस्मात् स्नानं समाचरेत् ॥ १८.९
अतस् स्नानम् विना पुंसाम् पावनम् कर्म संस्मृतम् ।होमे जप्ये विशेषेण तस्मात् स्नानम् समाचरेत् ॥ १८।९
atas snānam vinā puṃsām pāvanam karma saṃsmṛtam .home japye viśeṣeṇa tasmāt snānam samācaret .. 18.9
अशक्तावशिरस्कं वा स्नानमस्य विधीयते ।आर्द्रेण वाससा वाऽथ मार्जनं कापिलं स्मृतम् ॥ १८.१०
अशक्तौ अशिरस्कम् वा स्नानम् अस्य विधीयते ।आर्द्रेण वाससा वा अथ मार्जनम् कापिलम् स्मृतम् ॥ १८।१०
aśaktau aśiraskam vā snānam asya vidhīyate .ārdreṇa vāsasā vā atha mārjanam kāpilam smṛtam .. 18.10
असामर्थ्ये समुत्पन्ने स्नानमेवं समाचरेत् ।ब्राह्मादीनामथाशक्तौ स्नानान्याहुर्मनीषिणः ॥ १८.११
असामर्थ्ये समुत्पन्ने स्नानम् एवम् समाचरेत् ।ब्राह्म-आदीनाम् अथ अशक्तौ स्नानानि आहुः मनीषिणः ॥ १८।११
asāmarthye samutpanne snānam evam samācaret .brāhma-ādīnām atha aśaktau snānāni āhuḥ manīṣiṇaḥ .. 18.11
ब्राह्ममाग्नेयमुद्दिष्टं वायव्यं दिव्यमेव च ।वारुणं यौगिकं तद्वत् षोढा स्नानं प्रकीर्तितम् ॥ १८.१२
ब्राह्मम् आग्नेयम् उद्दिष्टम् वायव्यम् दिव्यम् एव च ।वारुणम् यौगिकम् तद्वत् षोढा स्नानम् प्रकीर्तितम् ॥ १८।१२
brāhmam āgneyam uddiṣṭam vāyavyam divyam eva ca .vāruṇam yaugikam tadvat ṣoḍhā snānam prakīrtitam .. 18.12
ब्राह्मं तु मार्जनं मन्त्रैः कुशैः सोदकबिन्दुभिः ।आग्नेयं भस्मना पादमस्तकाद्देहधूलनम् ॥ १८.१३
ब्राह्मम् तु मार्जनम् मन्त्रैः कुशैः स उदक-बिन्दुभिः ।आग्नेयम् भस्मना पाद-मस्तकात् देह-धूलनम् ॥ १८।१३
brāhmam tu mārjanam mantraiḥ kuśaiḥ sa udaka-bindubhiḥ .āgneyam bhasmanā pāda-mastakāt deha-dhūlanam .. 18.13
गवां हि रजसा प्रोक्तं वायव्यं स्नानमुत्तमम् ।यत्तु सातपवर्षेण स्नानं तद् दिव्यमुच्यते ॥ १८.१४
गवाम् हि रजसा प्रोक्तम् वायव्यम् स्नानम् उत्तमम् ।यत् तु स आतप-वर्षेण स्नानम् तत् दिव्यम् उच्यते ॥ १८।१४
gavām hi rajasā proktam vāyavyam snānam uttamam .yat tu sa ātapa-varṣeṇa snānam tat divyam ucyate .. 18.14
वारुणं चावगाहस्तु मानसं स्वात्मवेदनम् ।यौगिनां स्नानमाख्यातं योगात्विष्णुंविचिन्तनम् ॥ १८.१५
वारुणम् च अवगाहः तु मानसम् स्व-आत्म-वेदनम् ।यौगिनाम् स्नानम् आख्यातम् ॥ १८।१५
vāruṇam ca avagāhaḥ tu mānasam sva-ātma-vedanam .yauginām snānam ākhyātam .. 18.15
आत्मतीर्थमिति ख्यातं सेवितं ब्रह्मवादिभिः ।मनः शुचिकरं पुंसां नित्यं तत् स्नानमाचरेत् ॥ १८.१६
आत्मतीर्थम् इति ख्यातम् सेवितम् ब्रह्म-वादिभिः ।मनः शुचि-करम् पुंसाम् नित्यम् तत् स्नानम् आचरेत् ॥ १८।१६
ātmatīrtham iti khyātam sevitam brahma-vādibhiḥ .manaḥ śuci-karam puṃsām nityam tat snānam ācaret .. 18.16
शक्तश्चेद् वारुणं विद्वान् प्रायश्चित्ते तथैव च ।प्रक्षाल्य दन्तकाष्ठं वै भक्षयित्वा विधानतः ॥ १८.१७
शक्तः चेद् वारुणम् विद्वान् प्रायश्चित्ते तथा एव च ।प्रक्षाल्य दन्तकाष्ठम् वै भक्षयित्वा विधानतः ॥ १८।१७
śaktaḥ ced vāruṇam vidvān prāyaścitte tathā eva ca .prakṣālya dantakāṣṭham vai bhakṣayitvā vidhānataḥ .. 18.17
आचम्य प्रयतो नित्यं स्नानं प्रातः समाचरेत् ।मध्याङ्गुलिसमस्थौल्यं द्वादशाङ्गुलसम्मितम् ॥ १८.१८
आचम्य प्रयतः नित्यम् स्नानम् प्रातर् समाचरेत् ।मध्या-अङ्गुलि-सम-स्थौल्यम् द्वादश-अङ्गुल-सम्मितम् ॥ १८।१८
ācamya prayataḥ nityam snānam prātar samācaret .madhyā-aṅguli-sama-sthaulyam dvādaśa-aṅgula-sammitam .. 18.18
सत्वचं दन्तकाष्ठं स्यात् तदग्रेण तु धावयेत् ।क्षीरवृक्षसमुद्भूतं मालतीसंभवं शुभम् ।अपामार्गं च बिल्वं च करवीरं विशेषतः ॥ १८.१९
स त्वचम् दन्तकाष्ठम् स्यात् तद्-अग्रेण तु धावयेत् ।क्षीरवृक्ष-समुद्भूतम् मालती-संभवम् शुभम् ।अपामार्गम् च बिल्वम् च करवीरम् विशेषतः ॥ १८।१९
sa tvacam dantakāṣṭham syāt tad-agreṇa tu dhāvayet .kṣīravṛkṣa-samudbhūtam mālatī-saṃbhavam śubham .apāmārgam ca bilvam ca karavīram viśeṣataḥ .. 18.19
वर्जयित्वा निन्दितानि गृहीत्वैकं यथोदितम् ।परिहृत्य दिनं पापं भक्षयेद् वै विधानवित् ॥ १८.२०
वर्जयित्वा निन्दितानि गृहीत्वा एकम् यथा उदितम् ।परिहृत्य दिनम् पापम् भक्षयेत् वै विधान-विद् ॥ १८।२०
varjayitvā ninditāni gṛhītvā ekam yathā uditam .parihṛtya dinam pāpam bhakṣayet vai vidhāna-vid .. 18.20
नोत्पाटयेद्दन्तकाष्टंनाङ्गुल्या धारयेत् क्वचित् ।प्रक्षाल्य भङ्क्त्वा तज्जह्याच्छुचौदेशे समाहितः ॥ १८.२१
न उत्पाटयेत् दन्तकाष्टम् न अङ्गुल्या धारयेत् क्वचिद् ।प्रक्षाल्य भङ्क्त्वा तत् जह्यात् शुचौ देशे समाहितः ॥ १८।२१
na utpāṭayet dantakāṣṭam na aṅgulyā dhārayet kvacid .prakṣālya bhaṅktvā tat jahyāt śucau deśe samāhitaḥ .. 18.21
स्नात्वा संतर्पयेद् देवानृषीन् पितृगणांस्तथा ।आचम्य मन्त्रविन्नित्यं पुनराचम्य वाग्यतः ॥ १८.२२
स्नात्वा संतर्पयेत् देवान् ऋषीन् पितृ-गणान् तथा ।आचम्य मन्त्र-विद् नित्यम् पुनर् आचम्य वाग्यतः ॥ १८।२२
snātvā saṃtarpayet devān ṛṣīn pitṛ-gaṇān tathā .ācamya mantra-vid nityam punar ācamya vāgyataḥ .. 18.22
संमार्ज्य मन्त्रैरात्मानं कुशैः सोदकबिन्दुभिः ।आपो हिष्ठा व्याहृतिभिः सावित्र्या वारुणैः शुभैः ॥ १८.२३
संमार्ज्य मन्त्रैः आत्मानम् कुशैः स उदक-बिन्दुभिः ।आपः हिष्ठाः व्याहृतिभिः सावित्र्या वारुणैः शुभैः ॥ १८।२३
saṃmārjya mantraiḥ ātmānam kuśaiḥ sa udaka-bindubhiḥ .āpaḥ hiṣṭhāḥ vyāhṛtibhiḥ sāvitryā vāruṇaiḥ śubhaiḥ .. 18.23
ओङ्कारव्याहृतियुतां गायत्रीं वेदमातरम् ।जप्त्वा जलाञ्जलिं दद्याद् भास्करं प्रति तन्मनाः ॥ १८.२४
ओङ्कार-व्याहृति-युताम् गायत्रीम् वेदमातरम् ।जप्त्वा जल-अञ्जलिम् दद्यात् भास्करम् प्रति तद्-मनाः ॥ १८।२४
oṅkāra-vyāhṛti-yutām gāyatrīm vedamātaram .japtvā jala-añjalim dadyāt bhāskaram prati tad-manāḥ .. 18.24
प्राक्कूलेषु समासीनो दर्भेषु सुसमाहितः ।प्राणायामत्रयं कृत्वा ध्यायेत् संध्यामिति श्रुतिः ॥ १८.२५
प्राच्-कूलेषु समासीनः दर्भेषु सु समाहितः ।प्राणायाम-त्रयम् कृत्वा ध्यायेत् संध्याम् इति श्रुतिः ॥ १८।२५
prāc-kūleṣu samāsīnaḥ darbheṣu su samāhitaḥ .prāṇāyāma-trayam kṛtvā dhyāyet saṃdhyām iti śrutiḥ .. 18.25
या संध्या सा जगत्सूतिर्मायातीता हि निष्कला ।ऐश्वरी तु पराशक्तिस्तत्त्वत्रयसमुद्भवा ॥ १८.२६
या संध्या सा जगत्-सूतिः माया-अतीता हि निष्कला ।ऐश्वरी तु पराशक्तिः तत्त्व-त्रय-समुद्भवा ॥ १८।२६
yā saṃdhyā sā jagat-sūtiḥ māyā-atītā hi niṣkalā .aiśvarī tu parāśaktiḥ tattva-traya-samudbhavā .. 18.26
ध्यात्वाऽर्कमण्डलगतां सावित्रीं वै जपन् बुधः ।प्राङ्मुखः सततं विप्रः संध्योपासनमाचरेत् ॥ १८.२७
ध्यात्वा अर्क-मण्डल-गताम् सावित्रीम् वै जपन् बुधः ।प्राच्-मुखः सततम् विप्रः संध्या-उपासनम् आचरेत् ॥ १८।२७
dhyātvā arka-maṇḍala-gatām sāvitrīm vai japan budhaḥ .prāc-mukhaḥ satatam vipraḥ saṃdhyā-upāsanam ācaret .. 18.27
संध्याहीनोऽशुचिर्नित्यमनर्हः सर्वकर्मसु ।यदन्यत् कुरुते किञ्चिन्न तस्य फलमाप्नुयात् ॥ १८.२८
संध्या-हीनः अशुचिः नित्यम् अनर्हः सर्व-कर्मसु ।यत् अन्यत् कुरुते किञ्चिद् न तस्य फलम् आप्नुयात् ॥ १८।२८
saṃdhyā-hīnaḥ aśuciḥ nityam anarhaḥ sarva-karmasu .yat anyat kurute kiñcid na tasya phalam āpnuyāt .. 18.28
अनन्यचेतसः शान्ता ब्राह्मणा वेदपारगाः ।उपास्य विधिवत् संध्यां प्राप्ताः पूर्वेऽपरां गतिम् ॥ १८.२९
अन् अन्य-चेतसः शान्ताः ब्राह्मणाः वेदपारगाः ।उपास्य विधिवत् संध्याम् प्राप्ताः पूर्वे अपराम् गतिम् ॥ १८।२९
an anya-cetasaḥ śāntāḥ brāhmaṇāḥ vedapāragāḥ .upāsya vidhivat saṃdhyām prāptāḥ pūrve aparām gatim .. 18.29
योऽन्यत्र कुरुते यत्नं धर्मकार्ये द्विजोत्तमः ।विहाय संध्याप्रणतिं स याति नरकायुतम् ॥ १८.३०
यः अन्यत्र कुरुते यत्नम् धर्म-कार्ये द्विजोत्तमः ।विहाय संध्या-प्रणतिम् स याति नरक-अयुतम् ॥ १८।३०
yaḥ anyatra kurute yatnam dharma-kārye dvijottamaḥ .vihāya saṃdhyā-praṇatim sa yāti naraka-ayutam .. 18.30
तस्मात् सर्वप्रयत्नेन संध्योपासनमाचरेत् ।उपासितो भवेत् तेन देवो योगतनुः परः ॥ १८.३१
तस्मात् सर्व-प्रयत्नेन संध्या-उपासनम् आचरेत् ।उपासितः भवेत् तेन देवः योग-तनुः परः ॥ १८।३१
tasmāt sarva-prayatnena saṃdhyā-upāsanam ācaret .upāsitaḥ bhavet tena devaḥ yoga-tanuḥ paraḥ .. 18.31
सहस्रपरमां नित्यं शतमध्यां दशावराम् ।सावित्रीं वै जपेद् विद्वान् प्राङ्मुखः प्रयतः स्थितः ॥ १८.३२
सहस्र-परमाम् नित्यम् शत-मध्याम् दश-अवराम् ।सावित्रीम् वै जपेत् विद्वान् प्राच्-मुखः प्रयतः स्थितः ॥ १८।३२
sahasra-paramām nityam śata-madhyām daśa-avarām .sāvitrīm vai japet vidvān prāc-mukhaḥ prayataḥ sthitaḥ .. 18.32
अथोपतिष्ठेदादित्यमुदयन्तं समाहितः ।मन्त्रैस्तु विविधैः सौरै ऋग्यजुः सामसंभवैः ॥ १८.३३
अथ उपतिष्ठेत् आदित्यम् उदयन्तम् समाहितः ।मन्त्रैः तु विविधैः सौरैः ऋक्-यजुः-साम-संभवैः ॥ १८।३३
atha upatiṣṭhet ādityam udayantam samāhitaḥ .mantraiḥ tu vividhaiḥ sauraiḥ ṛk-yajuḥ-sāma-saṃbhavaiḥ .. 18.33
उपस्थाय महायोगं देवदेवं दिवाकरम् ।कुर्वीत प्रणतिं भूमौ मूर्ध्ना तेनैव मन्त्रतः ॥ १८.३४
उपस्थाय महा-योगम् देवदेवम् दिवाकरम् ।कुर्वीत प्रणतिम् भूमौ मूर्ध्ना तेन एव मन्त्रतः ॥ १८।३४
upasthāya mahā-yogam devadevam divākaram .kurvīta praṇatim bhūmau mūrdhnā tena eva mantrataḥ .. 18.34
ओं ङ्खद्योताय च शान्ताय कारणत्रयहेतवे ।निवेदयामि चात्मानं नमस्ते ज्ञानरूपिणे ।१८.३५
ओम् ङ्खद्योताय च शान्ताय कारण-त्रय-हेतवे ।निवेदयामि च आत्मानम् नमः ते ज्ञान-रूपिणे ।१८।३५
om ṅkhadyotāya ca śāntāya kāraṇa-traya-hetave .nivedayāmi ca ātmānam namaḥ te jñāna-rūpiṇe .18.35
नमस्ते घृणिने तुभ्यं सूर्याय ब्रह्मरूपिणे ।त्वमेव ब्रह्म परममापो ज्योती रसोऽमृतम् ।भूर्भुवः स्वस्त्वमोङ्कारः शर्व रुद्रः सनातनः ।१८.३६
नमः ते घृणिने तुभ्यम् सूर्याय ब्रह्म-रूपिणे ।त्वम् एव ब्रह्म परमम् आपः ज्योतिः रसः अमृतम् ।भूः भुवः स्वर् त्वम् ओङ्कारः शर्व रुद्रः सनातनः ।१८।३६
namaḥ te ghṛṇine tubhyam sūryāya brahma-rūpiṇe .tvam eva brahma paramam āpaḥ jyotiḥ rasaḥ amṛtam .bhūḥ bhuvaḥ svar tvam oṅkāraḥ śarva rudraḥ sanātanaḥ .18.36
पुरुषः सन्महोऽन्तस्थं प्रणमामि कपर्दिनम् ।त्वमेव विश्वं बहुधा जात यज्जायते च यत् ।नमो रुद्राय सूर्याय त्वामहं शरणं गतः ॥ १८.३७
पुरुषः सन् महः-अन्तस्थम् प्रणमामि कपर्दिनम् ।त्वम् एव विश्वम् बहुधा जात यत् जायते च यत् ।नमः रुद्राय सूर्याय त्वाम् अहम् शरणम् गतः ॥ १८।३७
puruṣaḥ san mahaḥ-antastham praṇamāmi kapardinam .tvam eva viśvam bahudhā jāta yat jāyate ca yat .namaḥ rudrāya sūryāya tvām aham śaraṇam gataḥ .. 18.37
प्रचेतसे नमस्तुभ्यं नमो मीढुष्टमाय ते ।नमो नमस्ते रुद्राय त्वामहं शरणं गतः ।हिरण्यबाहवे तुभ्यं हिरण्यपतये नमः।१८.३८
प्रचेतसे नमः तुभ्यम् नमः मीढुष्टमाय ते ।नमः नमः ते रुद्राय त्वाम् अहम् शरणम् गतः ।हिरण्यबाहवे तुभ्यम् हिरण्यपतये नमः।१८।३८
pracetase namaḥ tubhyam namaḥ mīḍhuṣṭamāya te .namaḥ namaḥ te rudrāya tvām aham śaraṇam gataḥ .hiraṇyabāhave tubhyam hiraṇyapataye namaḥ.18.38
अम्बिकापतये तुभ्यमुमायाः पतये नमः ।नमोऽस्तु नीलग्रीवाय नमस्तुभ्यं पिनाकिने ।१८.३९
अम्बिका-पतये तुभ्यम् उमायाः पतये नमः ।नमः अस्तु नीलग्रीवाय नमः तुभ्यम् पिनाकिने ।१८।३९
ambikā-pataye tubhyam umāyāḥ pataye namaḥ .namaḥ astu nīlagrīvāya namaḥ tubhyam pinākine .18.39
विलोहिताय भर्गाय सहस्राक्षाय ते नमः ।नमो हंसाय ते नित्यमादित्याय नमोऽस्तु ते ।१८.४०
विलोहिताय भर्गाय सहस्राक्षाय ते नमः ।नमः हंसाय ते नित्यम् आदित्याय नमः अस्तु ते ।१८।४०
vilohitāya bhargāya sahasrākṣāya te namaḥ .namaḥ haṃsāya te nityam ādityāya namaḥ astu te .18.40
नमस्ते वज्रहस्ताय त्र्यम्बकाय नमो नमः।प्रपद्ये त्वां विरूपाक्षं महान्तं परमेश्वरम् ।१८.४१
नमः ते वज्रहस्ताय त्र्यम्बकाय नमः नमः।प्रपद्ये त्वाम् विरूपाक्षम् महान्तम् परमेश्वरम् ।१८।४१
namaḥ te vajrahastāya tryambakāya namaḥ namaḥ.prapadye tvām virūpākṣam mahāntam parameśvaram .18.41
हिरण्मये गृहे गुप्तमात्मानं सर्वदेहिनाम् ।नमस्यामि परं ज्योतिर्ब्रह्माणं त्वां परां गतिम् ।१८.४२
हिरण्मये गृहे गुप्तम् आत्मानम् सर्व-देहिनाम् ।नमस्यामि परम् ज्योतिः ब्रह्माणम् त्वाम् पराम् गतिम् ।१८।४२
hiraṇmaye gṛhe guptam ātmānam sarva-dehinām .namasyāmi param jyotiḥ brahmāṇam tvām parām gatim .18.42
विश्वं पशुपतिं भीमं नरनारीशरीरिणम् ॥नमः सूर्याय रुद्राय भास्वते परमेष्ठिने ।१८.४३
विश्वम् पशुपतिम् भीमम् नर-नारी-शरीरिणम् ॥नमः सूर्याय रुद्राय भास्वते परमेष्ठिने ।१८।४३
viśvam paśupatim bhīmam nara-nārī-śarīriṇam ..namaḥ sūryāya rudrāya bhāsvate parameṣṭhine .18.43
उग्राय सर्वभक्षाय त्वां प्रपद्ये सदैव हि ।एतद् वै सूर्यहृदयं जप्त्वा स्तवमनुत्तमम् ।१८.४४
उग्राय सर्व-भक्षाय त्वाम् प्रपद्ये सदा एव हि ।एतत् वै सूर्यहृदयम् जप्त्वा स्तवम् अनुत्तमम् ।१८।४४
ugrāya sarva-bhakṣāya tvām prapadye sadā eva hi .etat vai sūryahṛdayam japtvā stavam anuttamam .18.44
प्रातः कालेऽथ मध्याह्ने नमस्कुर्याद् दिवाकरम् ।इदं पुत्राय शिष्याय धार्मिकाय द्विजातये ।१८.४५
प्रातर् काले अथ मध्याह्ने नमस्कुर्यात् दिवाकरम् ।इदम् पुत्राय शिष्याय धार्मिकाय द्विजातये ।१८।४५
prātar kāle atha madhyāhne namaskuryāt divākaram .idam putrāya śiṣyāya dhārmikāya dvijātaye .18.45
प्रदेयं सूर्यहृदयं ब्रह्मणा तु प्रदर्शितम् ।सर्वपापप्रशमनं वेदसारसमुद्भवम् ।ब्राह्मणानां हितं पुण्यमृषिसङ्घैर्निषेवितम् ॥ १८.४६
प्रदेयम् सूर्यहृदयम् ब्रह्मणा तु प्रदर्शितम् । ।ब्राह्मणानाम् हितम् पुण्यम् ऋषि-सङ्घैः निषेवितम् ॥ १८।४६
pradeyam sūryahṛdayam brahmaṇā tu pradarśitam . .brāhmaṇānām hitam puṇyam ṛṣi-saṅghaiḥ niṣevitam .. 18.46
अथागम्य गृहं विप्रः समाचम्य यथाविधि ।प्रज्वाल्य विह्निं विधिवज्जुहुयाज्जातवेदसम् ॥ १८.४७
अथा आगम्य गृहम् विप्रः समाचम्य यथाविधि ।प्रज्वाल्य विह्निम् विधिवत् जुहुयात् जातवेदसम् ॥ १८।४७
athā āgamya gṛham vipraḥ samācamya yathāvidhi .prajvālya vihnim vidhivat juhuyāt jātavedasam .. 18.47
ऋत्विक्पुत्रोऽथ पत्नी वा शिष्यो वाऽपि सहोदरः ।प्राप्यानुज्ञां विशेषेण जुहुयुर्वा यताविधि ॥ १८.४८
ऋत्विज् पुत्रः अथ पत्नी वा शिष्यः वा अपि सहोदरः ।प्राप्य अनुज्ञाम् विशेषेण जुहुयुः वा यत-अविधि ॥ १८।४८
ṛtvij putraḥ atha patnī vā śiṣyaḥ vā api sahodaraḥ .prāpya anujñām viśeṣeṇa juhuyuḥ vā yata-avidhi .. 18.48
पवित्रपाणिः पूतात्मा शुक्लाम्बरधरः शुचिः ।अनन्यमानसो वह्निं जुहुयात् संयतेन्द्रियः ॥ १८.४९
पवित्र-पाणिः पूत-आत्मा शुक्ल-अम्बर-धरः शुचिः ।अन् अन्य-मानसः वह्निम् जुहुयात् संयत-इन्द्रियः ॥ १८।४९
pavitra-pāṇiḥ pūta-ātmā śukla-ambara-dharaḥ śuciḥ .an anya-mānasaḥ vahnim juhuyāt saṃyata-indriyaḥ .. 18.49
विना दर्भेण यत्कर्म विना सूत्रेण वा पुनः ।राक्षसं तद्भवेत् सर्वं नामुत्रेह फलप्रदम् ॥ १८.५०
विना दर्भेण यत् कर्म विना सूत्रेण वा पुनर् ।राक्षसम् तत् भवेत् सर्वम् न अमुत्र इह फल-प्रदम् ॥ १८।५०
vinā darbheṇa yat karma vinā sūtreṇa vā punar .rākṣasam tat bhavet sarvam na amutra iha phala-pradam .. 18.50
दैवतानि नमस्कुर्याद् देयसारान्निवेदयेत् ।दद्यात् पुष्पादिकं तेषां वृद्धांश्चैवाभिवादयेत् ॥ १८.५१
दैवतानि नमस्कुर्यात् देय-सारान् निवेदयेत् ।दद्यात् पुष्प-आदिकम् तेषाम् वृद्धान् च एव अभिवादयेत् ॥ १८।५१
daivatāni namaskuryāt deya-sārān nivedayet .dadyāt puṣpa-ādikam teṣām vṛddhān ca eva abhivādayet .. 18.51
गुरुं चैवाप्युपासीत हितं चास्य समाचरेत् ।वेदाभ्यासं ततः कुर्यात् प्रयत्नाच्छक्तितो द्विजः ॥ १८.५२
गुरुम् च एव अपि उपासीत हितम् च अस्य समाचरेत् ।वेद-अभ्यासम् ततस् कुर्यात् प्रयत्नात् शक्तितः द्विजः ॥ १८।५२
gurum ca eva api upāsīta hitam ca asya samācaret .veda-abhyāsam tatas kuryāt prayatnāt śaktitaḥ dvijaḥ .. 18.52
जपेदध्यापयेच्छिष्यान् धारयेच्च विचारयेत् ।अवेक्ष्य तच्च शास्त्राणि धर्मादीनि द्विजोत्तमः ।१८.५३
जपेत् अध्यापयेत् शिष्यान् धारयेत् च विचारयेत् ।अवेक्ष्य तत् च शास्त्राणि धर्म-आदीनि द्विजोत्तमः ।१८।५३
japet adhyāpayet śiṣyān dhārayet ca vicārayet .avekṣya tat ca śāstrāṇi dharma-ādīni dvijottamaḥ .18.53
वैदिकांश्चैव निगमान् वेदाङ्गानि वेशिषतः ।उपेयादीश्वरं चाथ योगक्षेमप्रसिद्धये ।१८.५४
वैदिकान् च एव निगमान् वेदाङ्गानि ।उपेयात् ईश्वरम् च अथ योगक्षेम-प्रसिद्धये ।१८।५४
vaidikān ca eva nigamān vedāṅgāni .upeyāt īśvaram ca atha yogakṣema-prasiddhaye .18.54
साधयेद् विविधानर्थान् कुटुम्बार्थे ततो द्विजःततो मध्याह्नसमये स्नानार्थं मृदमाहरेत् ।१८.५५
साधयेत् विविधान् अर्थान् कुटुम्ब-अर्थे ततस् द्विजः ततस् मध्याह्न-समये स्नान-अर्थम् मृदम् आहरेत् ।१८।५५
sādhayet vividhān arthān kuṭumba-arthe tatas dvijaḥ tatas madhyāhna-samaye snāna-artham mṛdam āharet .18.55
पुष्पाक्षतान् कुशतिलान् गोमयं शुद्धमेव च ।नदीषु देवखातेषु तडागेषु सरस्सु च ।स्नानं समाचरेन्नित्यं गर्तप्रस्रवणेषु च ॥ १८.५६
पुष्प-अक्षतान् कुश-तिलान् गोमयम् शुद्धम् एव च ।नदीषु देवखातेषु तडागेषु सरस्सु च ।स्नानम् समाचरेत् नित्यम् गर्त-प्रस्रवणेषु च ॥ १८।५६
puṣpa-akṣatān kuśa-tilān gomayam śuddham eva ca .nadīṣu devakhāteṣu taḍāgeṣu sarassu ca .snānam samācaret nityam garta-prasravaṇeṣu ca .. 18.56
परकीयनिपानेषु न स्नायाद् वै कदाचन ।पञ्चपिण्डान् समुद्धृत्य स्नायाद् वाऽसंभवे पुनः ॥ १८.५७
परकीय-निपानेषु न स्नायात् वै कदाचन ।पञ्च-पिण्डान् समुद्धृत्य स्नायात् वा असंभवे पुनर् ॥ १८।५७
parakīya-nipāneṣu na snāyāt vai kadācana .pañca-piṇḍān samuddhṛtya snāyāt vā asaṃbhave punar .. 18.57
मृदैकया शिरः क्षाल्यं द्वाभ्यां नाभेस्तथोपरि ।अधश्च तिसृभिः कार्यः पादौ षड्भिस्तथैव च ॥ १८.५८
मृदा एकया शिरः क्षाल्यम् द्वाभ्याम् नाभेः तथा उपरि ।अधस् च तिसृभिः कार्यः पादौ षड्भिः तथा एव च ॥ १८।५८
mṛdā ekayā śiraḥ kṣālyam dvābhyām nābheḥ tathā upari .adhas ca tisṛbhiḥ kāryaḥ pādau ṣaḍbhiḥ tathā eva ca .. 18.58
मृत्तिका च समुद्दिष्टा सार्द्रामलकमात्रिका ।गोमयस्य प्रमाणं तत् तेनाङ्गं लेपयेत् ततः ॥ १८.५९
मृत्तिका च समुद्दिष्टा सार्द्रा आमलक-मात्रिका ।गोमयस्य प्रमाणम् तत् तेन अङ्गम् लेपयेत् ततस् ॥ १८।५९
mṛttikā ca samuddiṣṭā sārdrā āmalaka-mātrikā .gomayasya pramāṇam tat tena aṅgam lepayet tatas .. 18.59
लेपयित्वा तु तीरस्थस्तल्लिङ्गैरेव मन्त्रतः ।प्रक्षाल्याचम्य विधिवत् ततः स्नायात् समाहितः ॥ १८.६०
लेपयित्वा तु तीर-स्थः तद्-लिङ्गैः एव मन्त्रतः ।प्रक्षाल्य आचम्य विधिवत् ततस् स्नायात् समाहितः ॥ १८।६०
lepayitvā tu tīra-sthaḥ tad-liṅgaiḥ eva mantrataḥ .prakṣālya ācamya vidhivat tatas snāyāt samāhitaḥ .. 18.60
अभिमन्त्र्य जलं मन्त्रैस्तल्लिङ्गैर्वारुणैः शुभैः ।भावपूतस्तदव्यक्तं ध्यायन् वै विष्णुमव्ययम् ॥ १८.६१
जलम् मन्त्रैः तद्-लिङ्गैः वारुणैः शुभैः ।भाव-पूतः तत् अव्यक्तम् ध्यायन् वै विष्णुम् अव्ययम् ॥ १८।६१
jalam mantraiḥ tad-liṅgaiḥ vāruṇaiḥ śubhaiḥ .bhāva-pūtaḥ tat avyaktam dhyāyan vai viṣṇum avyayam .. 18.61
आपो नारायणोद्भूतास्ता एवास्यायनं पुनः ।तस्मान्नारायणं देवं स्नानकाले स्मरेद् बुधः ॥ १८.६२
आपः नारायण-उद्भूताः ताः एव अस्य अयनम् पुनर् ।तस्मात् नारायणम् देवम् स्नान-काले स्मरेत् बुधः ॥ १८।६२
āpaḥ nārāyaṇa-udbhūtāḥ tāḥ eva asya ayanam punar .tasmāt nārāyaṇam devam snāna-kāle smaret budhaḥ .. 18.62
प्रेक्ष्य सोङ्कारमादित्यं त्रिर्निमज्जेज्जलाशये ।१८.६३
प्रेक्ष्य स ओङ्कारम् आदित्यम् त्रिस् निमज्जेत् जलाशये ।१८।६३
prekṣya sa oṅkāram ādityam tris nimajjet jalāśaye .18.63
आचान्तः पुनराचामेन्मन्त्रेणानेन मन्त्रवित् ॥ १८.६४
आचान्तः पुनर् आचामेत् मन्त्रेण अनेन मन्त्र-विद् ॥ १८।६४
ācāntaḥ punar ācāmet mantreṇa anena mantra-vid .. 18.64
अन्तश्चरसि भूतेषु गुहायां विश्वतो मुखः ।त्वं यज्ञस्त्वं वषट्कार आपो ज्योती रसोऽमृतम् ॥ १८.६५
अन्तर् चरसि भूतेषु गुहायाम् विश्वतस् मुखः ।त्वम् यज्ञः त्वम् वषट्कारः आपः ज्योतिः रसः अमृतम् ॥ १८।६५
antar carasi bhūteṣu guhāyām viśvatas mukhaḥ .tvam yajñaḥ tvam vaṣaṭkāraḥ āpaḥ jyotiḥ rasaḥ amṛtam .. 18.65
द्रुपदां वा त्रिरभ्यस्येद् व्याहृतिंप्रणवान्विताम् ।सावित्रीं वा जपेद् विद्वान् तथा चैवाघमर्षणम् ॥ १८.६६
द्रुपदाम् वा त्रिस् अभ्यस्येत् व्याहृतिम् प्रणव-अन्विताम् ।सावित्रीम् वा जपेत् विद्वान् तथा च एव अघमर्षणम् ॥ १८।६६
drupadām vā tris abhyasyet vyāhṛtim praṇava-anvitām .sāvitrīm vā japet vidvān tathā ca eva aghamarṣaṇam .. 18.66
ततः संमार्जनं कुर्यादापोहिष्ठा मयोभुवः ।इदमापः प्रवहत व्याहृतिभिस्तथैव च ॥ १८.६७
ततस् संमार्जनम् कुर्यात् आपोहिष्ठाः मयोभुवः ।इदम् आपः प्रवहत व्याहृतिभिः तथा एव च ॥ १८।६७
tatas saṃmārjanam kuryāt āpohiṣṭhāḥ mayobhuvaḥ .idam āpaḥ pravahata vyāhṛtibhiḥ tathā eva ca .. 18.67
ततोऽभिमन्त्र्य तत् तोयं मापो हिष्ठादिमन्त्रकैः ।अन्तर्जलगतो मग्नो जपेत् त्रिरघमर्षणम् ॥ १८.६८
ततस् तत् तोयम् तत् तोयम् मा अपः हिष्ठा-आदि-मन्त्रकैः ।अन्तर् जल-गतः मग्नः जपेत् त्रिस् अघमर्षणम् ॥ १८।६८
tatas tat toyam tat toyam mā apaḥ hiṣṭhā-ādi-mantrakaiḥ .antar jala-gataḥ magnaḥ japet tris aghamarṣaṇam .. 18.68
त्रिपदां वाऽथ सावित्रीं तद्विष्णोः परमं पदम् ।आवर्त्तयेद् वा प्रणवं देवं वा संस्मरेद्धरिम् ॥ १८.६९
त्रिपदाम् वा अथ सावित्रीम् तत् विष्णोः परमम् पदम् ।आवर्त्तयेत् वा प्रणवम् देवम् वा संस्मरेत् हरिम् ॥ १८।६९
tripadām vā atha sāvitrīm tat viṣṇoḥ paramam padam .āvarttayet vā praṇavam devam vā saṃsmaret harim .. 18.69
द्रुपदादिव यो मन्त्रो यजुर्वेदे प्रतिष्ठितः ।अन्तर्जले त्रिरावर्त्य सर्वपापैः प्रमुच्यते ॥ १८.७०
द्रुपदात् इव यः मन्त्रः यजुर्वेदे प्रतिष्ठितः ।अन्तर् जले त्रिस् आवर्त्य सर्व-पापैः प्रमुच्यते ॥ १८।७०
drupadāt iva yaḥ mantraḥ yajurvede pratiṣṭhitaḥ .antar jale tris āvartya sarva-pāpaiḥ pramucyate .. 18.70
अपः पाणौ समादाय जप्त्वा वै मार्जने कृते ।विन्यस्य मूर्ध्नि तत् तोयं मुच्यते सर्वपातकैः ॥ १८.७१
अपः पाणौ समादाय जप्त्वा वै मार्जने कृते ।विन्यस्य मूर्ध्नि तत् तोयम् मुच्यते सर्व-पातकैः ॥ १८।७१
apaḥ pāṇau samādāya japtvā vai mārjane kṛte .vinyasya mūrdhni tat toyam mucyate sarva-pātakaiḥ .. 18.71
यथाऽश्वमेधः क्रतुराट् सर्वपापापनोदनः ।तथाऽघमर्षणं सूक्तं सर्वपापापनोदनम् ॥ १८.७२
यथा अश्वमेधः क्रतु-राज् सर्व-पाप-अपनोदनः ।तथा अघमर्षणम् सूक्तम् सर्व-पाप-अपनोदनम् ॥ १८।७२
yathā aśvamedhaḥ kratu-rāj sarva-pāpa-apanodanaḥ .tathā aghamarṣaṇam sūktam sarva-pāpa-apanodanam .. 18.72
अथोपतिष्ठेदादित्यं मूर्ध्नि पुष्पान्विताञ्जलिम् ।प्रक्षिप्यालोकयेद् देवमुद्वयं तमसस्परि ॥ १८.७३
अथ उपतिष्ठेत् आदित्यम् मूर्ध्नि पुष्प-अन्वित-अञ्जलिम् ।प्रक्षिप्य आलोकयेत् ॥ १८।७३
atha upatiṣṭhet ādityam mūrdhni puṣpa-anvita-añjalim .prakṣipya ālokayet .. 18.73
उदुत्यं चित्रमित्येते तच्चक्षुरिति मन्त्रतः ।हंसः शुचिषदन्तेन सावित्र्या सविशेषतः ॥ १८.७४
उदुत्यम् चित्रम् इति एते तत् चक्षुः इति मन्त्रतः ।हंसः शुचिषद्-अन्तेन सावित्र्या स विशेषतः ॥ १८।७४
udutyam citram iti ete tat cakṣuḥ iti mantrataḥ .haṃsaḥ śuciṣad-antena sāvitryā sa viśeṣataḥ .. 18.74
अन्यैश्च वैदिकैर्मन्त्रैः सौरैः पापप्रणाशनैः ।सावित्रीं वै जपेत् पश्चाज्जपयज्ञः स वै स्मृतः ॥ १८.७५
अन्यैः च वैदिकैः मन्त्रैः सौरैः पाप-प्रणाशनैः ।सावित्रीम् वै जपेत् पश्चात् जप-यज्ञः स वै स्मृतः ॥ १८।७५
anyaiḥ ca vaidikaiḥ mantraiḥ sauraiḥ pāpa-praṇāśanaiḥ .sāvitrīm vai japet paścāt japa-yajñaḥ sa vai smṛtaḥ .. 18.75
विविधानि पवित्राणि गुह्यविद्यास्तथैव च ।शतरुद्रीयमथर्वशिरः सौरान् मन्त्रांश्च सर्वतः ॥ १८.७६
विविधानि पवित्राणि गुह्य-विद्याः तथा एव च ।शतरुद्रीयम् अथर्वशिरः सौरान् मन्त्रान् च सर्वतस् ॥ १८।७६
vividhāni pavitrāṇi guhya-vidyāḥ tathā eva ca .śatarudrīyam atharvaśiraḥ saurān mantrān ca sarvatas .. 18.76
प्राक्कूलेषु समासीनः कुशेषु प्राङ्मुखः शुचिः ।तिष्ठंश्चेदीक्षमाणोऽर्कं जप्यं कुर्यात् समाहितः ॥ १८.७७
प्राच्-कूलेषु समासीनः कुशेषु प्राच्-मुखः शुचिः ।तिष्ठन् चेद् ईक्षमाणः अर्कम् जप्यम् कुर्यात् समाहितः ॥ १८।७७
prāc-kūleṣu samāsīnaḥ kuśeṣu prāc-mukhaḥ śuciḥ .tiṣṭhan ced īkṣamāṇaḥ arkam japyam kuryāt samāhitaḥ .. 18.77
स्फाटिकेन्द्राक्षरुद्राक्षैः पुत्रजीवसमुद्भवैः ।कर्तव्या त्वक्षमाला स्यादुत्तरादुत्तमा स्मृता ॥ १८.७८
स्फाटिक-इन्द्राक्ष-रुद्राक्षैः पुत्रजीव-समुद्भवैः ।कर्तव्या तु अक्षमाला स्यात् उत्तरात् उत्तमा स्मृता ॥ १८।७८
sphāṭika-indrākṣa-rudrākṣaiḥ putrajīva-samudbhavaiḥ .kartavyā tu akṣamālā syāt uttarāt uttamā smṛtā .. 18.78
जपकाले न भाषेत नान्यानि प्रेक्षयेद् बुधः ।न कम्पयेच्छिरोग्रीवां दन्तान्नैव प्रकाशयेत् ॥ १८.७९
जप-काले न भाषेत न अन्यानि प्रेक्षयेत् बुधः ।न कम्पयेत् शिरः-ग्रीवाम् दन्तान् न एव प्रकाशयेत् ॥ १८।७९
japa-kāle na bhāṣeta na anyāni prekṣayet budhaḥ .na kampayet śiraḥ-grīvām dantān na eva prakāśayet .. 18.79
गुह्यका राक्षसा सिद्धा हरन्ति प्रसभं यतः ।एकान्ते सुशुभे देशे तस्माज्जप्यं समाचरेत् ॥ १८.८०
गुह्यकाः राक्षसा सिद्धाः हरन्ति प्रसभम् यतस् ।एकान्ते सु शुभे देशे तस्मात् जप्यम् समाचरेत् ॥ १८।८०
guhyakāḥ rākṣasā siddhāḥ haranti prasabham yatas .ekānte su śubhe deśe tasmāt japyam samācaret .. 18.80
चण्डालाशौचपतितान् दृष्ट्वाचैव पुनर्जपेत् ।तैरेव भाषणं कृत्वा स्नात्वा चैव जपेत् पुनः ॥ १८.८१
चण्डाल-आशौच-पतितान् पुनर् जपेत् ।तैः एव भाषणम् कृत्वा स्नात्वा च एव जपेत् पुनर् ॥ १८।८१
caṇḍāla-āśauca-patitān punar japet .taiḥ eva bhāṣaṇam kṛtvā snātvā ca eva japet punar .. 18.81
आचम्य प्रयतो नित्यं जपेदशुचिदर्शने ।सौरान् मन्त्रान् शक्तितो वै पावमानीस्तु कामतः ॥ १८.८२
आचम्य प्रयतः नित्यम् जपेत् अशुचि-दर्शने ।सौरान् मन्त्रान् शक्तितस् वै पावमानीः तु कामतः ॥ १८।८२
ācamya prayataḥ nityam japet aśuci-darśane .saurān mantrān śaktitas vai pāvamānīḥ tu kāmataḥ .. 18.82
यदि स्यात् क्लिन्नवासा वै वारिमध्यगतो जपेत् ।अन्यथा तु शुचौ भूम्यां दर्भेषु सुसमाहितः ॥ १८.८३
यदि स्यात् क्लिन्न-वासाः वै वारि-मध्य-गतः जपेत् ।अन्यथा तु शुचौ भूम्याम् दर्भेषु सु समाहितः ॥ १८।८३
yadi syāt klinna-vāsāḥ vai vāri-madhya-gataḥ japet .anyathā tu śucau bhūmyām darbheṣu su samāhitaḥ .. 18.83
प्रदक्षिणं समावृत्य नमस्कृत्य ततः क्षितौ ।आचम्य च यथाशास्त्रं शक्त्या स्वाध्यायमाचरेत् ॥ १८.८४
प्रदक्षिणम् समावृत्य नमस्कृत्य ततस् क्षितौ ।आचम्य च यथाशास्त्रम् शक्त्या स्वाध्यायम् आचरेत् ॥ १८।८४
pradakṣiṇam samāvṛtya namaskṛtya tatas kṣitau .ācamya ca yathāśāstram śaktyā svādhyāyam ācaret .. 18.84
ततः संतर्पयेद् देवानृषीन् पितृगणांस्तथा ।अदावोङ्कारमुच्चार्य नामान्ते तर्पयामि वः ॥ १८.८५
ततस् संतर्पयेत् देवान् ऋषीन् पितृ-गणान् तथा ।अदौ ओङ्कारम् उच्चार्य नाम-अन्ते तर्पयामि वः ॥ १८।८५
tatas saṃtarpayet devān ṛṣīn pitṛ-gaṇān tathā .adau oṅkāram uccārya nāma-ante tarpayāmi vaḥ .. 18.85
देवान् ब्रह्मऋषींश्चैव तर्पयेदक्षतोदकैः ।तिलोदकैः पितॄन् भक्त्या स्वसूत्रोक्तविधानतः ॥ १८.८६
देवान् ब्रह्म-ऋषीन् च एव तर्पयेत् अक्षत-उदकैः ।तिल-उदकैः पितॄन् भक्त्या स्व-सूत्र-उक्त-विधानतः ॥ १८।८६
devān brahma-ṛṣīn ca eva tarpayet akṣata-udakaiḥ .tila-udakaiḥ pitṝn bhaktyā sva-sūtra-ukta-vidhānataḥ .. 18.86
अन्वारब्धेन सव्येन पाणिना दक्षिणेन तु ।देवर्षीस्तर्पयेद् धीमानुदकाञ्जलिभिः पितन् ।
अन्वारब्धेन सव्येन पाणिना दक्षिणेन तु ।देवर्षीः तर्पयेत् धीमान् उदक-अञ्जलिभिः पितन् ।
anvārabdhena savyena pāṇinā dakṣiṇena tu .devarṣīḥ tarpayet dhīmān udaka-añjalibhiḥ pitan .
यज्ञोपवीती देवानां निवीती ऋषीतर्पणे ।१८.८७प्राचीनावीती पित्र्ये तु स्वेन तीर्थेन भावितः ।
यज्ञ-उपवीती देवानाम् निवीती ऋषी-तर्पणे ।१८।८७प्राचीनावीती पित्र्ये तु स्वेन तीर्थेन भावितः ।
yajña-upavītī devānām nivītī ṛṣī-tarpaṇe .18.87prācīnāvītī pitrye tu svena tīrthena bhāvitaḥ .
निष्पीड्य स्नानवस्त्रं तु समाचम्य च वाग्यतः ।स्वैर्मन्त्रैरर्चयेद् देवान् पुष्पैः पत्रैरथाम्बुभिः ॥ १८.८८
निष्पीड्य स्नान-वस्त्रम् तु समाचम्य च वाग्यतः ।स्वैः मन्त्रैः अर्चयेत् देवान् पुष्पैः पत्रैः अथ अम्बुभिः ॥ १८।८८
niṣpīḍya snāna-vastram tu samācamya ca vāgyataḥ .svaiḥ mantraiḥ arcayet devān puṣpaiḥ patraiḥ atha ambubhiḥ .. 18.88
ब्रह्माणं शंकरं सूर्यं तथैव मधुसूदनम् ।अन्यांश्चाभिमतान् देवान् भक्त्याचारो नरोत्तमः॥ १८.८९
ब्रह्माणम् शंकरम् सूर्यम् तथा एव मधुसूदनम् ।अन्यान् च अभिमतान् देवान् भक्ति-आचारः नर-उत्तमः॥ १८।८९
brahmāṇam śaṃkaram sūryam tathā eva madhusūdanam .anyān ca abhimatān devān bhakti-ācāraḥ nara-uttamaḥ.. 18.89
प्रदद्याद् वाऽथ पुष्पाणि सूक्तेन पौरुषेण तु ।आपो वा देवताः सर्वास्तेन सम्यक् समर्चिताः ॥ १८.९०
प्रदद्यात् वा अथ पुष्पाणि सूक्तेन पौरुषेण तु ।आपः वा देवताः सर्वाः तेन सम्यक् समर्चिताः ॥ १८।९०
pradadyāt vā atha puṣpāṇi sūktena pauruṣeṇa tu .āpaḥ vā devatāḥ sarvāḥ tena samyak samarcitāḥ .. 18.90
ध्यात्वा प्रणवपूर्वं वै दैवतानि समाहितः ।नमस्कारेण पुष्पाणि विन्यसेद् वै पृथक् पृथक् ॥ १८.९१
ध्यात्वा प्रणव-पूर्वम् वै दैवतानि समाहितः ।नमस्कारेण पुष्पाणि विन्यसेत् वै पृथक् पृथक् ॥ १८।९१
dhyātvā praṇava-pūrvam vai daivatāni samāhitaḥ .namaskāreṇa puṣpāṇi vinyaset vai pṛthak pṛthak .. 18.91
विष्ण्वाराधनात् पुण्यं विद्यते कर्म वैदिकम् ।तस्मादनादिमध्यान्तं नित्यमाराधयेद्धरिम् ॥ १८.९२
विष्णु-आराधनात् पुण्यम् विद्यते कर्म वैदिकम् ।तस्मात् अनादि-मध्य-अन्तम् नित्यम् आराधयेत् हरिम् ॥ १८।९२
viṣṇu-ārādhanāt puṇyam vidyate karma vaidikam .tasmāt anādi-madhya-antam nityam ārādhayet harim .. 18.92
तद्विष्णोरिति मन्त्रेण सूक्तेन पुरुषेण तु ।न ताभ्यां सदृशो मन्त्रो वेदेषूक्तश्चतुर्ष्वपि ।तदात्मा तन्मनाः शान्तस्तद्विष्णोरिति मन्त्रतः ॥ १८.९३
तत् विष्णोः इति मन्त्रेण सूक्तेन पुरुषेण तु ।न ताभ्याम् सदृशः मन्त्रः वेदेषु उक्तः चतुर्षु अपि ।तद्-आत्मा तद्-मनाः शान्तः तत् विष्णोः इति मन्त्रतः ॥ १८।९३
tat viṣṇoḥ iti mantreṇa sūktena puruṣeṇa tu .na tābhyām sadṛśaḥ mantraḥ vedeṣu uktaḥ caturṣu api .tad-ātmā tad-manāḥ śāntaḥ tat viṣṇoḥ iti mantrataḥ .. 18.93
अथवा देवमीशानं भगवन्तं सनातनम् ।आराधयेन्महादेवं भावपूतो महेश्वरम् ॥ १८.९४
अथवा देवम् ईशानम् भगवन्तम् सनातनम् ।आराधयेत् महादेवम् भाव-पूतः महेश्वरम् ॥ १८।९४
athavā devam īśānam bhagavantam sanātanam .ārādhayet mahādevam bhāva-pūtaḥ maheśvaram .. 18.94
मन्त्रेण रुद्रागायत्र्या प्रणवेनाथ वा पुनः ।ईशानेनाथ वा रुद्रैस्त्र्यम्बकेन समाहितः ॥ १८.९७
मन्त्रेण रुद्रा-गायत्र्या प्रणवेन अथ वा पुनर् ।ईशानेन अथ वा रुद्रैः त्र्यम्बकेन समाहितः ॥ १८।९७
mantreṇa rudrā-gāyatryā praṇavena atha vā punar .īśānena atha vā rudraiḥ tryambakena samāhitaḥ .. 18.97
पुष्पैः पत्रैरथाद्भिर्वा चन्दनाद्यैर्महेश्वरम् ।उक्त्वा नमः शिवायेति मन्त्रेणानेन वा जपेत् ॥ १८.९६
पुष्पैः पत्रैः अथ अद्भिः वा चन्दन-आद्यैः महेश्वरम् ।उक्त्वा नमः शिवाय इति मन्त्रेण अनेन वा जपेत् ॥ १८।९६
puṣpaiḥ patraiḥ atha adbhiḥ vā candana-ādyaiḥ maheśvaram .uktvā namaḥ śivāya iti mantreṇa anena vā japet .. 18.96
नमस्कुर्यान्महादेवं ऋतं सत्यमितिश्वरम् ।निवेदयीत स्वात्मानं यो ब्रह्माणमितीश्वरम् ॥ १८.९७
नमस्कुर्यात् महादेवम् ऋतम् सत्यम् इतिश्वरम् ।निवेदयीत स्व-आत्मानम् यः ब्रह्माणम् इति ईश्वरम् ॥ १८।९७
namaskuryāt mahādevam ṛtam satyam itiśvaram .nivedayīta sva-ātmānam yaḥ brahmāṇam iti īśvaram .. 18.97
प्रदक्षिणं द्विजः कुर्यात् पञ्च वर्षाणि वै बुधः ।ध्यायीत देवमीशानं व्योममध्यगतं शिवम् ॥ १८.९८
प्रदक्षिणम् द्विजः कुर्यात् पञ्च वर्षाणि वै बुधः ।ध्यायीत देवम् ईशानम् व्योम-मध्य-गतम् शिवम् ॥ १८।९८
pradakṣiṇam dvijaḥ kuryāt pañca varṣāṇi vai budhaḥ .dhyāyīta devam īśānam vyoma-madhya-gatam śivam .. 18.98
अथावलोकयेदर्कं हंसः सुचिषदित्यृचा ।कुर्यात् पञ्च महायज्ञान् गृहं गत्वा समाहितः ॥ १८.९९
अथ अवलोकयेत् अर्कम् हंसः सुचिषत् इति ऋचा ।कुर्यात् पञ्च महायज्ञान् गृहम् गत्वा समाहितः ॥ १८।९९
atha avalokayet arkam haṃsaḥ suciṣat iti ṛcā .kuryāt pañca mahāyajñān gṛham gatvā samāhitaḥ .. 18.99
देवयज्ञं पितृयज्ञं भूतयज्ञं तथैव च ।मानुष्यं ब्रह्मयज्ञं च पञ्च यज्ञान् प्रचक्षते ॥ १८.१००
देवयज्ञम् पितृयज्ञम् भूतयज्ञम् तथा एव च ।मानुष्यम् ब्रह्मयज्ञम् च पञ्च यज्ञान् प्रचक्षते ॥ १८।१००
devayajñam pitṛyajñam bhūtayajñam tathā eva ca .mānuṣyam brahmayajñam ca pañca yajñān pracakṣate .. 18.100
यदि स्यात् तर्पणादर्वाक् ब्रह्मयज्ञः कृतो न हि ।कृत्वा मनुष्ययज्ञं वै ततः स्वाध्यायमाचरेत् ॥ १८.१०१
यदि स्यात् तर्पणात् अर्वाक् ब्रह्मयज्ञः कृतः न हि ।कृत्वा मनुष्ययज्ञम् वै ततस् स्वाध्यायम् आचरेत् ॥ १८।१०१
yadi syāt tarpaṇāt arvāk brahmayajñaḥ kṛtaḥ na hi .kṛtvā manuṣyayajñam vai tatas svādhyāyam ācaret .. 18.101

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In