| |
|

This overlay will guide you through the buttons:

ईश्वर उवाच ।
अवाच्यमेतद् विज्ञानमात्मगुह्यं सनातनम् ।यन्न देवा विजानन्ति यतन्तोऽपि द्विजातयः ॥ २.१
अवाच्यम् एतत् विज्ञानम् आत्म-गुह्यम् सनातनम् ।यत् न देवाः विजानन्ति यतन्तः अपि द्विजातयः ॥ २।१
avācyam etat vijñānam ātma-guhyam sanātanam .yat na devāḥ vijānanti yatantaḥ api dvijātayaḥ .. 2.1
इदं ज्ञानं समाश्रित्य ब्रह्मभूता द्विजोत्तमाः ।न संसारं प्रपद्यन्ते पूर्वेऽपि ब्रह्मवादिनः ॥ २.२
इदम् ज्ञानम् समाश्रित्य ब्रह्म-भूताः द्विजोत्तमाः ।न संसारम् प्रपद्यन्ते पूर्वे अपि ब्रह्म-वादिनः ॥ २।२
idam jñānam samāśritya brahma-bhūtāḥ dvijottamāḥ .na saṃsāram prapadyante pūrve api brahma-vādinaḥ .. 2.2
गुह्याद् गुह्यतमं साक्षाद् गोपनीयं प्रयत्नतः ।वक्ष्ये भक्तिमतामद्य युष्माकं ब्रह्मवादिनाम् ॥ २.३
गुह्यात् गुह्यतमम् साक्षात् गोपनीयम् प्रयत्नतः ।वक्ष्ये भक्तिमताम् अद्य युष्माकम् ब्रह्म-वादिनाम् ॥ २।३
guhyāt guhyatamam sākṣāt gopanīyam prayatnataḥ .vakṣye bhaktimatām adya yuṣmākam brahma-vādinām .. 2.3
आत्मायः केवलः स्वच्छः शुद्धः सूक्ष्मः सनातनः ।अस्ति सर्वान्तरः साक्षाच्चिन्मात्रस्तमसः परः ॥ २.४
केवलः स्वच्छः शुद्धः सूक्ष्मः सनातनः ।अस्ति सर्व-अन्तरः साक्षात् चित्-मात्रः तमसः परः ॥ २।४
kevalaḥ svacchaḥ śuddhaḥ sūkṣmaḥ sanātanaḥ .asti sarva-antaraḥ sākṣāt cit-mātraḥ tamasaḥ paraḥ .. 2.4
सोऽन्तर्यामी स पुरुषः स प्राणः स महेश्वरः ।स कालोऽत्रस्तदव्यक्तं स एवेदमिति श्रुतिः ॥ २.५
सः अन्तर्यामी स पुरुषः स प्राणः स महेश्वरः ।स कालः अत्र स्तत् अव्यक्तम् सः एव इदम् इति श्रुतिः ॥ २।५
saḥ antaryāmī sa puruṣaḥ sa prāṇaḥ sa maheśvaraḥ .sa kālaḥ atra stat avyaktam saḥ eva idam iti śrutiḥ .. 2.5
अस्माद् विजायते विश्वमत्रैव प्रविलीयते ।स मायी मायया बद्धः करोति विविधास्तनूः ॥ २.६
अस्मात् विजायते विश्वम् अत्र एव प्रविलीयते ।स मायी मायया बद्धः करोति विविधाः तनूः ॥ २।६
asmāt vijāyate viśvam atra eva pravilīyate .sa māyī māyayā baddhaḥ karoti vividhāḥ tanūḥ .. 2.6
न चाप्ययं संसरति न च संसारमयः प्रभुः ।नायं पृथ्वी न सलिलं न तेजः पवनो नभः ॥ २.७
न च अपि अयम् संसरति न च संसार-मयः प्रभुः ।न अयम् पृथ्वी न सलिलम् न तेजः पवनः नभः ॥ २।७
na ca api ayam saṃsarati na ca saṃsāra-mayaḥ prabhuḥ .na ayam pṛthvī na salilam na tejaḥ pavanaḥ nabhaḥ .. 2.7
न प्राणे न मनोऽव्यक्तं न शब्दः स्पर्श एव च ।न रूपरसगन्धाश्च नाहं कर्त्ता न वागपि ॥ २.८
न प्राणे न मनः अव्यक्तम् न शब्दः स्पर्शः एव च ।न रूप-रस-गन्धाः च न अहम् कर्त्ता न वाच् अपि ॥ २।८
na prāṇe na manaḥ avyaktam na śabdaḥ sparśaḥ eva ca .na rūpa-rasa-gandhāḥ ca na aham karttā na vāc api .. 2.8
न पाणिपादौ नो पायुर्न चोपस्थं द्विजोत्तमाः ।न कर्त्ता न च भोक्ता वा न च प्रकृतिपूरुषौ ।२.९
न पाणि-पादौ नो पायुः न च उपस्थम् द्विजोत्तमाः ।न कर्त्ता न च भोक्ता वा न च प्रकृति-पूरुषौ ।२।९
na pāṇi-pādau no pāyuḥ na ca upastham dvijottamāḥ .na karttā na ca bhoktā vā na ca prakṛti-pūruṣau .2.9
न माया नैव च प्राणा चैतन्यं परमार्थतः।यथा प्रकाशतमसोः सम्बन्धो नोपपद्यते ।२.१०
न माया ना एव च चैतन्यम् परमार्थतः।यथा प्रकाश-तमसोः सम्बन्धः न उपपद्यते ।२।१०
na māyā nā eva ca caitanyam paramārthataḥ.yathā prakāśa-tamasoḥ sambandhaḥ na upapadyate .2.10
तद्वदैक्यं न संबन्धः प्रपञ्चपरमात्मनोःछायातपौ यथा लोके परस्परविलक्षणौ ।२.११
तद्वत् ऐक्यम् न संबन्धः प्रपञ्च-परमात्मनोः छाया-आतपौ यथा लोके परस्पर-विलक्षणौ ।२।११
tadvat aikyam na saṃbandhaḥ prapañca-paramātmanoḥ chāyā-ātapau yathā loke paraspara-vilakṣaṇau .2.11
तद्वत् प्रपञ्चपुरुषौ विभिन्नौ परमार्थतः ।तथात्मा मलिनोऽसृष्टो विकारी स्यात् स्वभावतः ।२.१२
तद्वत् प्रपञ्च-पुरुषौ विभिन्नौ परमार्थतः ।तथा आत्मा मलिनः असृष्टः विकारी स्यात् स्वभावतः ।२।१२
tadvat prapañca-puruṣau vibhinnau paramārthataḥ .tathā ātmā malinaḥ asṛṣṭaḥ vikārī syāt svabhāvataḥ .2.12
नहि तस्य भवेन्मुक्तिर्जन्मान्तरशतैरपि ।पश्यन्ति मुनयो युक्ताः स्वात्मानं परमार्थतः ।२.१३
नहि तस्य भवेत् मुक्तिः जन्मान्तर-शतैः अपि ।पश्यन्ति मुनयः युक्ताः स्व-आत्मानम् परमार्थतः ।२।१३
nahi tasya bhavet muktiḥ janmāntara-śataiḥ api .paśyanti munayaḥ yuktāḥ sva-ātmānam paramārthataḥ .2.13
विकारहीनं निर्दुः खमानन्दात्मानमव्ययम् ।अह कर्त्ता सुखी दुःखी कृशः स्थूलेति या मतिः २.१४
विकार-हीनम् निर्दुः आनन्द-आत्मानम् अव्ययम् ।अह कर्त्ता सुखी दुःखी कृशः स्थूल-इति या मतिः।१४
vikāra-hīnam nirduḥ ānanda-ātmānam avyayam .aha karttā sukhī duḥkhī kṛśaḥ sthūla-iti yā matiḥ.14
सा चाहंकारकर्तृत्वादात्मन्यारोप्यते जनैः ।वदन्ति वेदविद्वांसः साक्षिणं प्रकृतेः परम् ।२.१५
सा च अहंकार-कर्तृ-त्वात् आत्मनि आरोप्यते जनैः ।वदन्ति वेद-विद्वांसः साक्षिणम् प्रकृतेः परम् ।२।१५
sā ca ahaṃkāra-kartṛ-tvāt ātmani āropyate janaiḥ .vadanti veda-vidvāṃsaḥ sākṣiṇam prakṛteḥ param .2.15
भोक्तारमक्षरं शुद्धं सर्वत्र समवस्थितम् ।तस्मादज्ञानमूलो हि संसारः सर्वदेहिनाम् ।२.१६
भोक्तारम् अक्षरम् शुद्धम् सर्वत्र समवस्थितम् ।तस्मात् अज्ञान-मूलः हि संसारः सर्व-देहिनाम् ।२।१६
bhoktāram akṣaram śuddham sarvatra samavasthitam .tasmāt ajñāna-mūlaḥ hi saṃsāraḥ sarva-dehinām .2.16
अज्ञानादन्यथा ज्ञानात् तत्वं प्रकृतिसंगतम् ।नित्योदितं स्वयं ज्योतिः सर्वगः पुरुषः परः ।२.१७
अज्ञानात् अन्यथा ज्ञानात् प्रकृति-संगतम् ।नित्य-उदितम् स्वयम् ज्योतिः सर्व-गः पुरुषः परः ।२।१७
ajñānāt anyathā jñānāt prakṛti-saṃgatam .nitya-uditam svayam jyotiḥ sarva-gaḥ puruṣaḥ paraḥ .2.17
अहंकाराविवेकेन कर्त्ताहमिति मन्यते ।पश्यन्ति ऋषयोऽव्यक्तं नित्यं सदसदात्मकम् ।२.१८
अहंकार-अविवेकेन कर्त्ताहम् इति मन्यते ।पश्यन्ति ऋषयः अव्यक्तम् नित्यम् सत्-असत्-आत्मकम् ।२।१८
ahaṃkāra-avivekena karttāham iti manyate .paśyanti ṛṣayaḥ avyaktam nityam sat-asat-ātmakam .2.18
प्रधानं प्रकृतिं बुद्ध्वा कारणं ब्रह्मवादिनः ।तेनायं संगतो ह्यात्मा कूटस्थोऽपि निरञ्जनः ।२.१९
प्रधानम् प्रकृतिम् बुद्ध्वा कारणम् ब्रह्म-वादिनः ।तेन अयम् संगतः हि आत्मा कूटस्थः अपि निरञ्जनः ।२।१९
pradhānam prakṛtim buddhvā kāraṇam brahma-vādinaḥ .tena ayam saṃgataḥ hi ātmā kūṭasthaḥ api nirañjanaḥ .2.19
स्वात्मानमक्षरं ब्रह्म नावबुद्ध्येत तत्त्वतः ।अनात्मन्यात्मविज्ञानं तस्माद् दुःखं तथेतरत् ।२.२०
स्व-आत्मानम् अक्षरम् ब्रह्म न अवबुद्ध्येत तत्त्वतः ।अनात्मनि आत्म-विज्ञानम् तस्मात् दुःखम् तथा इतरत् ।२।२०
sva-ātmānam akṣaram brahma na avabuddhyeta tattvataḥ .anātmani ātma-vijñānam tasmāt duḥkham tathā itarat .2.20
रगद्वेषादयो दोषाः सर्वे भ्रान्तिनिबन्धनाः ।कर्माण्यस्य भवेद् दोषः पुण्यापुण्यमिति स्थितिः ।२.२१
रग-द्वेष-आदयः दोषाः सर्वे भ्रान्ति-निबन्धनाः ।कर्माणि अस्य भवेत् दोषः पुण्य-अपुण्यम् इति स्थितिः ।२।२१
raga-dveṣa-ādayaḥ doṣāḥ sarve bhrānti-nibandhanāḥ .karmāṇi asya bhavet doṣaḥ puṇya-apuṇyam iti sthitiḥ .2.21
तद्वशादेव सर्वेषां सर्वदेहसमुद्भवः ।नित्यः सर्वत्रगो ह्यात्मा कूटस्थो दोषवर्जितः ।२.२२
तद्-वशात् एव सर्वेषाम् सर्व-देह-समुद्भवः ।नित्यः सर्वत्रगः हि आत्मा कूटस्थः दोष-वर्जितः ।२।२२
tad-vaśāt eva sarveṣām sarva-deha-samudbhavaḥ .nityaḥ sarvatragaḥ hi ātmā kūṭasthaḥ doṣa-varjitaḥ .2.22
एकः स भिद्यते शक्त्या मायया न स्वभावतः ।तस्मादद्वैतमेवाहुर्मुनयः परमार्थतः ।२.२३
एकः स भिद्यते शक्त्या मायया न स्वभावतः ।तस्मात् अद्वैतम् एव आहुः मुनयः परमार्थतः ।२।२३
ekaḥ sa bhidyate śaktyā māyayā na svabhāvataḥ .tasmāt advaitam eva āhuḥ munayaḥ paramārthataḥ .2.23
भेदो व्यक्तस्वभावेन सा च मायात्मसंश्रया ।यथा हि धूमसंपर्कान्नाकाशो मलिनो भवेत् ।२.२४
भेदः व्यक्त-स्वभावेन सा च माया आत्म-संश्रया ।यथा हि धूम-संपर्कात् न आकाशः मलिनः भवेत् ।२।२४
bhedaḥ vyakta-svabhāvena sā ca māyā ātma-saṃśrayā .yathā hi dhūma-saṃparkāt na ākāśaḥ malinaḥ bhavet .2.24
अन्तः करणजैर्भावैरात्मा तद्वन्न लिप्यते ।यथा स्वप्रभया भाति केवलः स्फटिकोऽमलः ।२.२५
अन्तर् करण-जैः भावैः आत्मा तद्वत् न लिप्यते ।यथा स्व-प्रभया भाति केवलः स्फटिकः अमलः ।२।२५
antar karaṇa-jaiḥ bhāvaiḥ ātmā tadvat na lipyate .yathā sva-prabhayā bhāti kevalaḥ sphaṭikaḥ amalaḥ .2.25
उपाधिहीनो विमलस्तथैवात्मा प्रकाशते ।ज्ञानस्वूपमेवाहुर्जगदेतद् विचक्षणाः ।२.२६
उपाधि-हीनः विमलः तथा एव आत्मा प्रकाशते ।विचक्षणाः ।२।२६
upādhi-hīnaḥ vimalaḥ tathā eva ātmā prakāśate .vicakṣaṇāḥ .2.26
अर्थस्वरूपमेवान्ये पश्यन्त्यन्ये कुदृष्टयः ।कूटस्थो निर्गुणो व्यापी चैतन्यात्मा स्वभावतः ।२.२७
अर्थ-स्वरूपम् एव अन्ये पश्यन्ति अन्ये कुदृष्टयः ।कूटस्थः निर्गुणः व्यापी चैतन्य-आत्मा स्वभावतः ।२।२७
artha-svarūpam eva anye paśyanti anye kudṛṣṭayaḥ .kūṭasthaḥ nirguṇaḥ vyāpī caitanya-ātmā svabhāvataḥ .2.27
दृश्यते ह्यर्थरूपेण पुरुषैर्ज्ञानदृष्टिभिः ।यथा स लक्ष्यते रक्तः केवलः स्फटिको जनैः ।२.२८
दृश्यते हि अर्थ-रूपेण पुरुषैः ज्ञान-दृष्टिभिः ।यथा स लक्ष्यते रक्तः केवलः स्फटिकः जनैः ।२।२८
dṛśyate hi artha-rūpeṇa puruṣaiḥ jñāna-dṛṣṭibhiḥ .yathā sa lakṣyate raktaḥ kevalaḥ sphaṭikaḥ janaiḥ .2.28
रक्तिकाद्युपधानेन तद्वत् परमपूरुषः ।तस्मादात्माऽक्षरः शुद्धो नित्यः सर्वगतोऽव्ययः ।२.२९
रक्तिका-आदि-उपधानेन तद्वत् परम-पूरुषः ।तस्मात् आत्मा अक्षरः शुद्धः नित्यः सर्व-गतः अव्ययः ।२।२९
raktikā-ādi-upadhānena tadvat parama-pūruṣaḥ .tasmāt ātmā akṣaraḥ śuddhaḥ nityaḥ sarva-gataḥ avyayaḥ .2.29
उपासितव्यो मन्तव्यः श्रोतव्यश्च मुमुक्षुभिः ।यदा मनसि चैतन्यं भाति सर्वत्रगं सदा ।२.३०
उपासितव्यः मन्तव्यः श्रोतव्यः च मुमुक्षुभिः ।यदा मनसि चैतन्यम् भाति सर्वत्रगम् सदा ।२।३०
upāsitavyaḥ mantavyaḥ śrotavyaḥ ca mumukṣubhiḥ .yadā manasi caitanyam bhāti sarvatragam sadā .2.30
योगिनोऽव्यवधानेन तदा संपद्यते स्वयम् ।यदा सर्वाणि भूतानि स्वात्मन्येवाभिपश्यति ।२.३१
योगिनः अव्यवधानेन तदा संपद्यते स्वयम् ।यदा सर्वाणि भूतानि स्व-आत्मनि एव अभिपश्यति ।२।३१
yoginaḥ avyavadhānena tadā saṃpadyate svayam .yadā sarvāṇi bhūtāni sva-ātmani eva abhipaśyati .2.31
सर्वभूतेषु चात्मानं ब्रह्म संपद्यते तदा ।यदा सर्वाणि भूतानि समाधिस्थो न पश्यति ।२.३२
सर्व-भूतेषु च आत्मानम् ब्रह्म संपद्यते तदा ।यदा सर्वाणि भूतानि समाधि-स्थः न पश्यति ।२।३२
sarva-bhūteṣu ca ātmānam brahma saṃpadyate tadā .yadā sarvāṇi bhūtāni samādhi-sthaḥ na paśyati .2.32
एकीभूतः परेणासौ तदा भवति केवलम् ।यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि स्थिताः ।२.३३
एकीभूतः परेण असौ तदा भवति केवलम् ।यदा सर्वे प्रमुच्यन्ते कामाः ये अस्य हृदि स्थिताः ।२।३३
ekībhūtaḥ pareṇa asau tadā bhavati kevalam .yadā sarve pramucyante kāmāḥ ye asya hṛdi sthitāḥ .2.33
तदाऽसावमृतीभूतः क्षेमं गच्छति पण्डितः ।यदा भूतपृथग्भावमेकस्थमनुपश्यति ।२.३४
तदा असौ अमृतीभूतः क्षेमम् गच्छति पण्डितः ।यदा भूत-पृथग्भावम् एकस्थम् अनुपश्यति ।२।३४
tadā asau amṛtībhūtaḥ kṣemam gacchati paṇḍitaḥ .yadā bhūta-pṛthagbhāvam ekastham anupaśyati .2.34
तत एव च विस्तारं ब्रह्म संपद्यते तदा ।यदा पश्यति चात्मानं केवलं परमार्थतः ।२.३५
ततस् एव च विस्तारम् ब्रह्म संपद्यते तदा ।यदा पश्यति च आत्मानम् केवलम् परमार्थतः ।२।३५
tatas eva ca vistāram brahma saṃpadyate tadā .yadā paśyati ca ātmānam kevalam paramārthataḥ .2.35
मायामात्रं जगत् कृत्स्नं तदा भवति निर्वृतः ॥ २.३६
माया-मात्रम् जगत् कृत्स्नम् तदा भवति निर्वृतः ॥ २।३६
māyā-mātram jagat kṛtsnam tadā bhavati nirvṛtaḥ .. 2.36
यदा जन्मजरादुःखव्याधीनामेकभेषजम् ।केवलं ब्रह्मविज्ञानं जायतेऽसौ तदा शिवः ॥ २.३७
यदा जन्म-जरा-दुःख-व्याधीनाम् एक-भेषजम् ।केवलम् ब्रह्म-विज्ञानम् जायते असौ तदा शिवः ॥ २।३७
yadā janma-jarā-duḥkha-vyādhīnām eka-bheṣajam .kevalam brahma-vijñānam jāyate asau tadā śivaḥ .. 2.37
यथा नदीनदा लोके सागरेणैकतां ययुः ।तद्वदात्माऽक्षरेणासौ निष्कलेनैकतां व्रजेत् ॥ २.३८
यथा नदीनदाः लोके सागरेण एक-ताम् ययुः ।तद्वत् आत्मा अक्षरेण असौ निष्कलेन एक-ताम् व्रजेत् ॥ २।३८
yathā nadīnadāḥ loke sāgareṇa eka-tām yayuḥ .tadvat ātmā akṣareṇa asau niṣkalena eka-tām vrajet .. 2.38
तस्माद् विज्ञानमेवास्ति न प्रपञ्चो न संसृतिः ।अज्ञानेनावृतं लोको विज्ञानं तेन मुह्यति ॥ २.३९
तस्मात् विज्ञानम् एव अस्ति न प्रपञ्चः न संसृतिः ।अज्ञानेन आवृतम् लोकः विज्ञानम् तेन मुह्यति ॥ २।३९
tasmāt vijñānam eva asti na prapañcaḥ na saṃsṛtiḥ .ajñānena āvṛtam lokaḥ vijñānam tena muhyati .. 2.39
तज्ज्ञानं निर्मलं सूक्ष्मं निर्विकल्पं तदव्ययम् ।अज्ञानमितरत् सर्वं विज्ञानमिति तन्मतम् ॥ २.४०
तत् ज्ञानम् निर्मलम् सूक्ष्मम् निर्विकल्पम् तत् अव्ययम् ।अज्ञानम् इतरत् सर्वम् विज्ञानम् इति तत् मतम् ॥ २।४०
tat jñānam nirmalam sūkṣmam nirvikalpam tat avyayam .ajñānam itarat sarvam vijñānam iti tat matam .. 2.40
एतद्वः कथितं सांख्यं भाषितं ज्ञानमुत्तमम् ।सर्ववेदान्तसारं हि योगस्तत्रैकचित्तता ॥ २.४१
एतत् वः कथितम् सांख्यम् भाषितम् ज्ञानम् उत्तमम् ।सर्व-वेदान्त-सारम् हि योगः तत्र एकचित्त-ता ॥ २।४१
etat vaḥ kathitam sāṃkhyam bhāṣitam jñānam uttamam .sarva-vedānta-sāram hi yogaḥ tatra ekacitta-tā .. 2.41
योगात् संजायते ज्ञानं ज्ञानाद् योगः प्रवर्त्तते ।योगज्ञानाभियुक्तस्य नावाप्यं विद्यते क्वचित् ॥ २.४२
योगात् संजायते ज्ञानम् ज्ञानात् योगः प्रवर्त्तते ।योग-ज्ञान-अभियुक्तस्य न अवाप्यम् विद्यते क्वचिद् ॥ २।४२
yogāt saṃjāyate jñānam jñānāt yogaḥ pravarttate .yoga-jñāna-abhiyuktasya na avāpyam vidyate kvacid .. 2.42
यदेव योगिनो यान्ति सांख्यैस्तदधिगम्यते ।एकं सांख्यं च योगं च यः पश्यति स तत्त्ववित् ॥ २.४३
यत् एव योगिनः यान्ति सांख्यैः तत् अधिगम्यते ।एकम् सांख्यम् च योगम् च यः पश्यति स तत्त्व-विद् ॥ २।४३
yat eva yoginaḥ yānti sāṃkhyaiḥ tat adhigamyate .ekam sāṃkhyam ca yogam ca yaḥ paśyati sa tattva-vid .. 2.43
अन्ये च योगिनो विप्रा ऐश्वर्यासक्तचेतसः ।मज्जन्ति तत्र तत्रैव ये चान्येकुण्टबुद्धयः ॥ २.४४
अन्ये च योगिनः विप्राः ऐश्वर्य-आसक्त-चेतसः ।मज्जन्ति तत्र तत्र एव ये च अन्येकुण्ट-बुद्धयः ॥ २।४४
anye ca yoginaḥ viprāḥ aiśvarya-āsakta-cetasaḥ .majjanti tatra tatra eva ye ca anyekuṇṭa-buddhayaḥ .. 2.44
यत्तत् सर्वगतं दिव्यमैश्वर्यमचलं महत् ।ज्ञानयोगाभियुक्तस्तु देहान्ते तदवाप्नुयात् ॥ २.४५
यत् तत् सर्वगतम् दिव्यम् ऐश्वर्यम् अचलम् महत् ।ज्ञान-योग-अभियुक्तः तु देहान्ते तत् अवाप्नुयात् ॥ २।४५
yat tat sarvagatam divyam aiśvaryam acalam mahat .jñāna-yoga-abhiyuktaḥ tu dehānte tat avāpnuyāt .. 2.45
एष आत्माऽहमव्यक्तो मायावी परमेश्वरः ।कीर्तितः सर्ववेदेषु सर्वात्मा सर्वतोमुखः ॥ २.४६
एषः आत्मा अहम् अव्यक्तः मायावी परमेश्वरः ।कीर्तितः सर्व-वेदेषु सर्व-आत्मा सर्वतोमुखः ॥ २।४६
eṣaḥ ātmā aham avyaktaḥ māyāvī parameśvaraḥ .kīrtitaḥ sarva-vedeṣu sarva-ātmā sarvatomukhaḥ .. 2.46
सर्वकामः सर्वरसः सर्वगन्धोऽजरोऽमरः ।सर्वतः पाणिपादोऽहमन्तर्यामी सनातनः ॥ २.४७
सर्व सर्व ।सर्वतस् पाणि-पादः अहम् अन्तर्यामी सनातनः ॥ २।४७
sarva sarva .sarvatas pāṇi-pādaḥ aham antaryāmī sanātanaḥ .. 2.47
अपाणिपादो जवनो ग्रहीता हृदि संस्थितः ।अचक्षुरपि पश्यामि तथाऽकर्णः श्रृणोम्यहम् ॥ २.४८
अपाणि-पादः जवनः ग्रहीता हृदि संस्थितः ।अचक्षुः अपि पश्यामि तथा अकर्णः श्रृणोमि अहम् ॥ २।४८
apāṇi-pādaḥ javanaḥ grahītā hṛdi saṃsthitaḥ .acakṣuḥ api paśyāmi tathā akarṇaḥ śrṛṇomi aham .. 2.48
वेदाहं सर्वमेवेदं न मां जानाति कश्चन ।प्राहुर्महान्तं पुरुषं मामेकं तत्त्वदर्शिनः ॥ २.४९
वेद अहम् सर्वम् एव इदम् न माम् जानाति कश्चन ।प्राहुः महान्तम् पुरुषम् माम् एकम् तत्त्व-दर्शिनः ॥ २।४९
veda aham sarvam eva idam na mām jānāti kaścana .prāhuḥ mahāntam puruṣam mām ekam tattva-darśinaḥ .. 2.49
पश्यन्ति ऋषयो हेतुमात्मनः सूक्ष्मदर्शिनः ।निर्गुणामलरूपस्य यत्तदैश्वर्यमुत्तमम् ॥ २.५०
पश्यन्ति ऋषयः हेतुम् आत्मनः सूक्ष्म-दर्शिनः ।निर्गुण-अमल-रूपस्य यत् तत् ऐश्वर्यम् उत्तमम् ॥ २।५०
paśyanti ṛṣayaḥ hetum ātmanaḥ sūkṣma-darśinaḥ .nirguṇa-amala-rūpasya yat tat aiśvaryam uttamam .. 2.50
यन्न देवा विजानन्ति मोहिता मम मायया ।वक्ष्ये समाहिता यूयं श्रृणुध्वं ब्रह्मवादिनः ॥ २.५१
यत् न देवाः विजानन्ति मोहिताः मम मायया ।वक्ष्ये समाहिताः यूयम् श्रृणुध्वम् ब्रह्म-वादिनः ॥ २।५१
yat na devāḥ vijānanti mohitāḥ mama māyayā .vakṣye samāhitāḥ yūyam śrṛṇudhvam brahma-vādinaḥ .. 2.51
नाहं प्रशास्ता सर्वस्य मायातीतः स्वभावतः ।प्रेरयामि तथापीदं कारणं सूरयो विदुः ॥ २.५२
न अहम् प्रशास्ता सर्वस्य माया-अतीतः स्वभावतः ।प्रेरयामि तथा अपि इदम् कारणम् सूरयः विदुः ॥ २।५२
na aham praśāstā sarvasya māyā-atītaḥ svabhāvataḥ .prerayāmi tathā api idam kāraṇam sūrayaḥ viduḥ .. 2.52
यन्मे गुह्यतमं देहं सर्वगं तत्त्वदर्शिनः ।प्रविष्टा मम सायुज्यं लभन्ते योगिनोऽव्ययम् ॥ २.५३
यत् मे गुह्यतमम् देहम् सर्वगम् तत्त्व-दर्शिनः ।प्रविष्टाः मम सायुज्यम् लभन्ते योगिनः अव्ययम् ॥ २।५३
yat me guhyatamam deham sarvagam tattva-darśinaḥ .praviṣṭāḥ mama sāyujyam labhante yoginaḥ avyayam .. 2.53
तेषां हि वशमापन्ना माया मे विश्वरूपिणी ।लभन्ते परमं शुद्धं निर्वाणं ते मया सह ॥ २.५४
तेषाम् हि वशम् आपन्ना माया मे विश्व-रूपिणी ।लभन्ते परमम् शुद्धम् निर्वाणम् ते मया सह ॥ २।५४
teṣām hi vaśam āpannā māyā me viśva-rūpiṇī .labhante paramam śuddham nirvāṇam te mayā saha .. 2.54
न तेषां पुनरावृत्तिः कल्पकोटिशतैरपि ।प्रसादान्मम योगीन्द्रा एतद् वेदानुसासनम् ॥ २.५५
न तेषाम् पुनरावृत्तिः कल्प-कोटि-शतैः अपि ।प्रसादात् मम योगि-इन्द्राः एतत् वेद-अनुसासनम् ॥ २।५५
na teṣām punarāvṛttiḥ kalpa-koṭi-śataiḥ api .prasādāt mama yogi-indrāḥ etat veda-anusāsanam .. 2.55
तत्पुत्रशिष्ययोगिभ्यो दातव्यं ब्रह्मवादिभिः ।मदुक्तमेतद् विज्ञानं सांख्यं योगसमाश्रयम् ॥ २.५६
तत् पुत्र-शिष्य-योगिभ्यः दातव्यम् ब्रह्म-वादिभिः ।मद्-उक्तम् एतत् विज्ञानम् सांख्यम् योग-समाश्रयम् ॥ २।५६
tat putra-śiṣya-yogibhyaḥ dātavyam brahma-vādibhiḥ .mad-uktam etat vijñānam sāṃkhyam yoga-samāśrayam .. 2.56
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे (ईश्वरगीतासु) द्वितीयोऽध्यायः ॥ २ ॥
इति श्री-कूर्मपुराणे षट्साहस्त्र्याम् संहितायाम् उपरि विभागे (ईश्वरगीतासु द्वितीयः अध्यायः ॥ २ ॥
iti śrī-kūrmapurāṇe ṣaṭsāhastryām saṃhitāyām upari vibhāge (īśvaragītāsu dvitīyaḥ adhyāyaḥ .. 2 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In