| |
|

This overlay will guide you through the buttons:

अव्यक्तादभवत् कालः प्रधानं पुरुषः परः ।तेभ्यः सर्वमिदं जातं तस्माद् ब्रह्ममयं जगत् ॥ ३.१
अव्यक्तात् अभवत् कालः प्रधानम् पुरुषः परः ।तेभ्यः सर्वम् इदम् जातम् तस्मात् ब्रह्म-मयम् जगत् ॥ ३।१
avyaktāt abhavat kālaḥ pradhānam puruṣaḥ paraḥ .tebhyaḥ sarvam idam jātam tasmāt brahma-mayam jagat .. 3.1
सर्वतः पाणिपादान्तं सर्वतोऽक्षिशिरोमुखम् ।सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति ॥ ३.२
सर्वतस् पाणि-पाद-अन्तम् सर्वतस् अक्षि-शिरः-मुखम् ।सर्वतस् श्रुतिमत् लोके सर्वम् आवृत्य तिष्ठति ॥ ३।२
sarvatas pāṇi-pāda-antam sarvatas akṣi-śiraḥ-mukham .sarvatas śrutimat loke sarvam āvṛtya tiṣṭhati .. 3.2
सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम् ।सर्वाधारं सदानन्दमव्यक्तं द्वैतवर्जितम् ॥ ३.३
सर्व-इन्द्रिय-गुण-आभासम् सर्व-इन्द्रिय-विवर्जितम् ।सर्व-आधारम् सत्-आनन्दम् अव्यक्तम् द्वैत-वर्जितम् ॥ ३।३
sarva-indriya-guṇa-ābhāsam sarva-indriya-vivarjitam .sarva-ādhāram sat-ānandam avyaktam dvaita-varjitam .. 3.3
सर्वोपमानरहितं प्रमाणातीतगोचरम् ।निर्वकल्पं निराभासं सर्वावासं परामृतम् ॥ ३.४
सर्व-उपमान-रहितम् प्रमाण-अतीत-गोचरम् ।निर्व-कल्पम् निराभासम् सर्व-आवासम् पर-अमृतम् ॥ ३।४
sarva-upamāna-rahitam pramāṇa-atīta-gocaram .nirva-kalpam nirābhāsam sarva-āvāsam para-amṛtam .. 3.4
अभिन्नं भिन्नसंस्थानं शाश्वतं ध्रुवमव्ययम् ।निर्गुणं परमं व्योम तज्ज्ञानं सूरयो विदुः ॥ ३.५
अभिन्नम् भिन्न-संस्थानम् शाश्वतम् ध्रुवम् अव्ययम् ।निर्गुणम् परमम् व्योम तत् ज्ञानम् सूरयः विदुः ॥ ३।५
abhinnam bhinna-saṃsthānam śāśvatam dhruvam avyayam .nirguṇam paramam vyoma tat jñānam sūrayaḥ viduḥ .. 3.5
स आत्मा सर्वभूतानां स बाह्याभ्यन्तरः परः ।सोऽहं सर्वत्रगः शान्तो ज्ञानात्मा परमेश्वरः ॥ ३.६
सः आत्मा सर्व-भूतानाम् स बाह्य-अभ्यन्तरः परः ।सः अहम् सर्वत्रगः शान्तः ज्ञान-आत्मा परमेश्वरः ॥ ३।६
saḥ ātmā sarva-bhūtānām sa bāhya-abhyantaraḥ paraḥ .saḥ aham sarvatragaḥ śāntaḥ jñāna-ātmā parameśvaraḥ .. 3.6
मया ततमिदं विश्वं जगदव्यक्तमूर्तिना ।मत्स्थानि सर्वभूतानि यस्तं वेद स वेदवित् ॥ ३.७
मया ततम् इदम् विश्वम् जगत् अव्यक्त-मूर्तिना ।मद्-स्थानि सर्व-भूतानि यः तम् वेद स वेद-विद् ॥ ३।७
mayā tatam idam viśvam jagat avyakta-mūrtinā .mad-sthāni sarva-bhūtāni yaḥ tam veda sa veda-vid .. 3.7
प्रधानं पुरुषं चैव तद्वस्तु समुदाहृतम् ।तयोरनादिरुद्दिष्टः कालः संयोगजः परः ॥ ३.८
प्रधानम् पुरुषम् च एव तत् वस्तु समुदाहृतम् ।तयोः अनादिः उद्दिष्टः कालः संयोग-जः परः ॥ ३।८
pradhānam puruṣam ca eva tat vastu samudāhṛtam .tayoḥ anādiḥ uddiṣṭaḥ kālaḥ saṃyoga-jaḥ paraḥ .. 3.8
त्रयमेतदनाद्यन्तमव्यक्ते समवस्थितम् ।तदात्मकं तदन्यत् स्यात् तद्रूपं मामकं विदुः ॥ ३.९
त्रयम् एतत् अनादि-अन्तम् अव्यक्ते समवस्थितम् ।तद्-आत्मकम् तद्-अन्यत् स्यात् तत् रूपम् मामकम् विदुः ॥ ३।९
trayam etat anādi-antam avyakte samavasthitam .tad-ātmakam tad-anyat syāt tat rūpam māmakam viduḥ .. 3.9
महदाद्यं विशेषान्तं संप्रसूतेऽखिलं जगत् ।या सा प्रकृतिरुद्दिष्टा मोहिनी सर्वदेहिनाम् ॥ ३.१०
महत्-आद्यम् विशेष-अन्तम् संप्रसूते अखिलम् जगत् ।या सा प्रकृतिः उद्दिष्टा मोहिनी सर्व-देहिनाम् ॥ ३।१०
mahat-ādyam viśeṣa-antam saṃprasūte akhilam jagat .yā sā prakṛtiḥ uddiṣṭā mohinī sarva-dehinām .. 3.10
पुरुषः प्रकृतिस्थो हि भुङ्क्तेयः प्राकृतान् गुणान् ।अहंकारविमुक्तत्वात् प्रोच्यते पञ्चविंशकः ॥ ३.११
पुरुषः प्रकृति-स्थः हि भुङ्क्तेयः प्राकृतान् गुणान् ।अहंकार-विमुक्त-त्वात् प्रोच्यते पञ्चविंशकः ॥ ३।११
puruṣaḥ prakṛti-sthaḥ hi bhuṅkteyaḥ prākṛtān guṇān .ahaṃkāra-vimukta-tvāt procyate pañcaviṃśakaḥ .. 3.11
आद्यो विकारः प्रकृतेर्महानिति च कथ्यते ।विज्ञातृशक्तिर्विज्ञानात् ह्यहंकारस्तदुत्थितः ॥ ३.१२
आद्यः विकारः प्रकृतेः महान् इति च कथ्यते ।विज्ञातृ-शक्तिः विज्ञानात् हि अहंकारः तद्-उत्थितः ॥ ३।१२
ādyaḥ vikāraḥ prakṛteḥ mahān iti ca kathyate .vijñātṛ-śaktiḥ vijñānāt hi ahaṃkāraḥ tad-utthitaḥ .. 3.12
एक एव महानात्मा सोऽहंकारोऽभिधीयते ।स जीवः सोऽन्तरात्मेति गीयते तत्त्वचिन्तकैः ॥ ३.१३
एकः एव महान् आत्मा सः अहंकारः अभिधीयते ।स जीवः सः अन्तरात्मा इति गीयते तत्त्व-चिन्तकैः ॥ ३।१३
ekaḥ eva mahān ātmā saḥ ahaṃkāraḥ abhidhīyate .sa jīvaḥ saḥ antarātmā iti gīyate tattva-cintakaiḥ .. 3.13
तेन वेदयते सर्वं सुखं दुः खं च जन्मसु ।स विज्ञानात्मकस्तस्य मनः स्यादुपकारकम् ॥ ३.१४
तेन वेदयते सर्वम् सुखम् दुः खम् च जन्मसु ।स विज्ञान-आत्मकः तस्य मनः स्यात् उपकारकम् ॥ ३।१४
tena vedayate sarvam sukham duḥ kham ca janmasu .sa vijñāna-ātmakaḥ tasya manaḥ syāt upakārakam .. 3.14
तेनापि तन्मयस्तस्मात् संसारः पुरुषस्य तु ।स चाविवेकः प्रकृतौ सङ्गात् कालेन सोऽभवत् ॥ ३.१५
तेन अपि तन्मयः तस्मात् संसारः पुरुषस्य तु ।स च अविवेकः प्रकृतौ सङ्गात् कालेन सः अभवत् ॥ ३।१५
tena api tanmayaḥ tasmāt saṃsāraḥ puruṣasya tu .sa ca avivekaḥ prakṛtau saṅgāt kālena saḥ abhavat .. 3.15
कालः सृजति भूतानि कालः संहरति प्रजाः ।सर्वे कालस्य वशगा न कालः कस्यचिद् वशे ॥ ३.१६
कालः सृजति भूतानि कालः संहरति प्रजाः ।सर्वे कालस्य वश-गाः न कालः कस्यचिद् वशे ॥ ३।१६
kālaḥ sṛjati bhūtāni kālaḥ saṃharati prajāḥ .sarve kālasya vaśa-gāḥ na kālaḥ kasyacid vaśe .. 3.16
सोऽन्तरा सर्वमेवेदं नियच्छति सनातनः ।प्रोच्यते भगवान् प्राणः सर्वज्ञः पुरुषोत्तमः ॥ ३.१७
सः अन्तरा सर्वम् एव इदम् नियच्छति सनातनः ।प्रोच्यते भगवान् प्राणः सर्वज्ञः पुरुषोत्तमः ॥ ३।१७
saḥ antarā sarvam eva idam niyacchati sanātanaḥ .procyate bhagavān prāṇaḥ sarvajñaḥ puruṣottamaḥ .. 3.17
सर्वेन्द्रियेभ्यः परमं मन आहुर्मनीषिणः ।मनसश्चाप्यहंकारमहंकारान्महान् परः ॥ ३.१८
सर्व-इन्द्रियेभ्यः परमम् मनः आहुः मनीषिणः ।मनसः च अपि अहंकारम् अहंकारात् महान् परः ॥ ३।१८
sarva-indriyebhyaḥ paramam manaḥ āhuḥ manīṣiṇaḥ .manasaḥ ca api ahaṃkāram ahaṃkārāt mahān paraḥ .. 3.18
महतः परमव्यक्तमव्यक्तात् पुरुषः परः ।पुरुषाद् भगवान् प्राणस्तस्य सर्वमिदं जगत् ॥ ३.१९
महतः परम् अव्यक्तम् अव्यक्तात् पुरुषः परः ।पुरुषात् भगवान् प्राणः तस्य सर्वम् इदम् जगत् ॥ ३।१९
mahataḥ param avyaktam avyaktāt puruṣaḥ paraḥ .puruṣāt bhagavān prāṇaḥ tasya sarvam idam jagat .. 3.19
प्राणात् परतरं व्योम व्योमातीतोऽग्निरीश्वरः ।सोऽहं ब्रह्माव्ययः शान्तो ज्ञानात्मा परमेश्वरः ।नास्ति मत्तः परं भूतं मां विज्ञाय मुच्यते ॥ ३.२०
प्राणात् परतरम् व्योम व्योम-अतीतः अग्निः ईश्वरः ।सः अहम् ब्रह्म अव्ययः शान्तः ज्ञान-आत्मा परमेश्वरः ।न अस्ति मत्तः परम् भूतम् माम् विज्ञाय मुच्यते ॥ ३।२०
prāṇāt parataram vyoma vyoma-atītaḥ agniḥ īśvaraḥ .saḥ aham brahma avyayaḥ śāntaḥ jñāna-ātmā parameśvaraḥ .na asti mattaḥ param bhūtam mām vijñāya mucyate .. 3.20
नित्यं हि नास्ति जगति भूतं स्थावरजङ्गमम् ।ऋते मामेकमव्यक्तं व्योमरूपं महेश्वरम् ॥ ३.२१
नित्यम् हि ना अस्ति जगति भूतम् स्थावर-जङ्गमम् ।ऋते माम् एकम् अव्यक्तम् व्योम-रूपम् महेश्वरम् ॥ ३।२१
nityam hi nā asti jagati bhūtam sthāvara-jaṅgamam .ṛte mām ekam avyaktam vyoma-rūpam maheśvaram .. 3.21
सोऽहं सृजामि सकलं संहरामि सदा जगत् ।मायी मायामयो देवः कालेन सह सङ्गतः ॥ ३.२२
सः अहम् सृजामि सकलम् संहरामि सदा जगत् ।मायी माया-मयः देवः कालेन सह सङ्गतः ॥ ३।२२
saḥ aham sṛjāmi sakalam saṃharāmi sadā jagat .māyī māyā-mayaḥ devaḥ kālena saha saṅgataḥ .. 3.22
मत्सन्निधावेष कालः करोति सकलं जगत् ।नियोजयत्यनन्तात्मा ह्येतद् वेदानुशासनम् ॥ ३.२३
मद्-सन्निधौ एष कालः करोति सकलम् जगत् ।नियोजयति अनन्त-आत्मा हि एतत् वेद-अनुशासनम् ॥ ३।२३
mad-sannidhau eṣa kālaḥ karoti sakalam jagat .niyojayati ananta-ātmā hi etat veda-anuśāsanam .. 3.23
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे (ईश्वरगीतासु) तृतीयोऽध्यायः ॥ ३ ॥
इति श्री-कूर्मपुराणे षट्साहस्त्र्याम् संहितायाम् उपरि विभागे (ईश्वरगीतासु तृतीयः अध्यायः ॥ ३ ॥
iti śrī-kūrmapurāṇe ṣaṭsāhastryām saṃhitāyām upari vibhāge (īśvaragītāsu tṛtīyaḥ adhyāyaḥ .. 3 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In