| |
|

This overlay will guide you through the buttons:

ईश्वर उवाच ।
वक्ष्ये समाहिता यूयं श्रृणुध्वं ब्रह्मवादिनः ।माहात्म्यं देवदेवस्य येने सर्वं प्रवर्त्तते ॥ ४.१
वक्ष्ये समाहिताः यूयम् श्रृणुध्वम् ब्रह्म-वादिनः ।माहात्म्यम् देवदेवस्य येन सर्वम् प्रवर्त्तते ॥ ४।१
vakṣye samāhitāḥ yūyam śrṛṇudhvam brahma-vādinaḥ .māhātmyam devadevasya yena sarvam pravarttate .. 4.1
नाहं तपोभिर्विविधैर्न दानेन न चेज्यया ।शक्यो हि पुरुषैर्ज्ञातुमृते भक्तिमनुत्तमाम् ॥ ४.२
न अहम् तपोभिः विविधैः न दानेन न च इज्यया ।शक्यः हि पुरुषैः ज्ञातुम् ऋते भक्तिम् अनुत्तमाम् ॥ ४।२
na aham tapobhiḥ vividhaiḥ na dānena na ca ijyayā .śakyaḥ hi puruṣaiḥ jñātum ṛte bhaktim anuttamām .. 4.2
अहं हि सर्वभावानामन्तस्तिष्ठामि सर्वगः ।मां सर्वसाक्षिणं लोको न जानाति मुनीश्वराः ॥ ४.३
अहम् हि सर्व-भावानाम् अन्तर् तिष्ठामि सर्वगः ।माम् सर्व-साक्षिणम् लोकः न जानाति मुनि-ईश्वराः ॥ ४।३
aham hi sarva-bhāvānām antar tiṣṭhāmi sarvagaḥ .mām sarva-sākṣiṇam lokaḥ na jānāti muni-īśvarāḥ .. 4.3
यस्यान्तरा सर्वमिदं यो हि सर्वान्तकः परः ।सोऽहंधाता विधाता च कालोऽग्निर्विश्वतोमुखः ॥ ४.४
यस्य अन्तरा सर्वम् इदम् यः हि सर्व-अन्तकः परः ।सः अहम् धाता विधाता च कालः अग्निः विश्वतोमुखः ॥ ४।४
yasya antarā sarvam idam yaḥ hi sarva-antakaḥ paraḥ .saḥ aham dhātā vidhātā ca kālaḥ agniḥ viśvatomukhaḥ .. 4.4
न मां पश्यन्ति मुनयः सर्वे पितृदिवौकसः ।ब्रह्मा च मनवः शक्रो ये चान्ये प्रथितौजसः ॥ ४.५
न माम् पश्यन्ति मुनयः सर्वे पितृ-दिवौकसः ।ब्रह्मा च मनवः शक्रः ये च अन्ये प्रथित-ओजसः ॥ ४।५
na mām paśyanti munayaḥ sarve pitṛ-divaukasaḥ .brahmā ca manavaḥ śakraḥ ye ca anye prathita-ojasaḥ .. 4.5
गृणन्ति सततं वेदा मामेकं परमेश्वरम् ।यजन्ति विविधैरग्निं ब्राह्मणा वैदिकैर्मखैः ॥ ४.६
गृणन्ति सततम् वेदाः माम् एकम् परमेश्वरम् ।यजन्ति विविधैः अग्निम् ब्राह्मणाः वैदिकैः मखैः ॥ ४।६
gṛṇanti satatam vedāḥ mām ekam parameśvaram .yajanti vividhaiḥ agnim brāhmaṇāḥ vaidikaiḥ makhaiḥ .. 4.6
सर्वे लोका नमस्यन्ति ब्रह्मा लोकपितामहः ।ध्यायन्ति योगिनो देवं भूताधिपतिमीश्वरम् ॥ ४.७
सर्वे लोकाः नमस्यन्ति ब्रह्मा लोकपितामहः ।ध्यायन्ति योगिनः देवम् भूत-अधिपतिम् ईश्वरम् ॥ ४।७
sarve lokāḥ namasyanti brahmā lokapitāmahaḥ .dhyāyanti yoginaḥ devam bhūta-adhipatim īśvaram .. 4.7
अहं हि सर्वहविषां भोक्ता चैव फलप्रदः ।सर्वदेवतनुर्भूत्वा सर्वात्मा सर्वसंप्लुतः ॥ ४.८
अहम् हि सर्व-हविषाम् भोक्ता च एव फल-प्रदः ।सर्व-देव-तनुः भूत्वा सर्व-आत्मा सर्व-संप्लुतः ॥ ४।८
aham hi sarva-haviṣām bhoktā ca eva phala-pradaḥ .sarva-deva-tanuḥ bhūtvā sarva-ātmā sarva-saṃplutaḥ .. 4.8
मां पश्यन्तीह विद्वांशो धार्मिका वेदवादिनः ।तेषां सन्निहितो नित्यं ये भक्त्या मामुपासते ॥ ४.९
माम् पश्यन्ति इह विद्वांशः धार्मिकाः वेद-वादिनः ।तेषाम् सन्निहितः नित्यम् ये भक्त्या माम् उपासते ॥ ४।९
mām paśyanti iha vidvāṃśaḥ dhārmikāḥ veda-vādinaḥ .teṣām sannihitaḥ nityam ye bhaktyā mām upāsate .. 4.9
ब्राह्मणाः क्षत्रिया वैश्या धार्मिका मामुपासते ।तेषां ददामि तत् स्थानमानन्दं परमं पदम् ॥ ४.१०
ब्राह्मणाः क्षत्रियाः वैश्याः धार्मिकाः माम् उपासते ।तेषाम् ददामि तत् स्थानम् आनन्दम् परमम् पदम् ॥ ४।१०
brāhmaṇāḥ kṣatriyāḥ vaiśyāḥ dhārmikāḥ mām upāsate .teṣām dadāmi tat sthānam ānandam paramam padam .. 4.10
अन्येऽपि ये स्वधर्मस्थाः शूद्राद्या नीचजातयः ।भक्तिमन्तः प्रमुच्यन्ते कालेन मयि संगताः ॥ ४.११
अन्ये अपि ये स्वधर्म-स्थाः शूद्र-आद्याः नीच-जातयः ।भक्तिमन्तः प्रमुच्यन्ते कालेन मयि संगताः ॥ ४।११
anye api ye svadharma-sthāḥ śūdra-ādyāḥ nīca-jātayaḥ .bhaktimantaḥ pramucyante kālena mayi saṃgatāḥ .. 4.11
न मद्भक्ता विनश्यन्ति मद्भक्ता वीतकल्मषाः ।आदावेव प्रतिज्ञातं न मे भक्तः प्रणश्यति ॥ ४.१२
न मद्-भक्ताः विनश्यन्ति मद्-भक्ताः वीत-कल्मषाः ।आदौ एव प्रतिज्ञातम् न मे भक्तः प्रणश्यति ॥ ४।१२
na mad-bhaktāḥ vinaśyanti mad-bhaktāḥ vīta-kalmaṣāḥ .ādau eva pratijñātam na me bhaktaḥ praṇaśyati .. 4.12
यो वै निन्दति तं मूढो देवदेवं स निन्दति ।यो हि पूजयते भक्त्या स पूजयति मां सदा ॥ ४.१३
यः वै निन्दति तम् मूढः देवदेवम् स निन्दति ।यः हि पूजयते भक्त्या स पूजयति माम् सदा ॥ ४।१३
yaḥ vai nindati tam mūḍhaḥ devadevam sa nindati .yaḥ hi pūjayate bhaktyā sa pūjayati mām sadā .. 4.13
पत्रं पुष्पं फलं तोयं मदाराधनकारणात् ।यो मे ददाति नियतं स मे भक्तः प्रियो मतः ॥ ४.१४
पत्रम् पुष्पम् फलम् तोयम् मद्-आराधन-कारणात् ।यः मे ददाति नियतम् स मे भक्तः प्रियः मतः ॥ ४।१४
patram puṣpam phalam toyam mad-ārādhana-kāraṇāt .yaḥ me dadāti niyatam sa me bhaktaḥ priyaḥ mataḥ .. 4.14
अहं हि जगतामादौ ब्रह्माणं परमेष्ठिनम् ।विदधौ दत्तवान् वेदानशेषानात्मनिः सृतान् ॥ ४.१५
अहम् हि जगताम् आदौ ब्रह्माणम् परमेष्ठिनम् ।विदधौ दत्तवान् वेदान् अशेषान् आत्म-निः सृतान् ॥ ४।१५
aham hi jagatām ādau brahmāṇam parameṣṭhinam .vidadhau dattavān vedān aśeṣān ātma-niḥ sṛtān .. 4.15
अहमेव हि सर्वेषां योगिनां गुरुरव्ययः ।धार्मिकाणां च गोप्ताऽहं निहन्ता वेदविद्विषाम् ॥ ४.१६
अहम् एव हि सर्वेषाम् योगिनाम् गुरुः अव्ययः ।धार्मिकाणाम् च गोप्ता अहम् निहन्ता वेद-विद्विषाम् ॥ ४।१६
aham eva hi sarveṣām yoginām guruḥ avyayaḥ .dhārmikāṇām ca goptā aham nihantā veda-vidviṣām .. 4.16
अहं वै सर्वसंसारान्मोचको योगिनामिह ।संसारहेतुरेवाहं सर्वसंसारवर्जितः ॥ ४.१७
अहम् वै सर्व-संसारात् मोचकः योगिनाम् इह ।संसार-हेतुः एव अहम् सर्व-संसार-वर्जितः ॥ ४।१७
aham vai sarva-saṃsārāt mocakaḥ yoginām iha .saṃsāra-hetuḥ eva aham sarva-saṃsāra-varjitaḥ .. 4.17
अहमेव हि संहर्त्ता संस्रष्टा परिपालकः ।मायावी मामीका शक्तिर्माया लोकविमोहिनी ॥ ४.१८
अहम् एव हि संहर्त्ता संस्रष्टा परिपालकः ।मायावी शक्तिः माया लोक-विमोहिनी ॥ ४।१८
aham eva hi saṃharttā saṃsraṣṭā paripālakaḥ .māyāvī śaktiḥ māyā loka-vimohinī .. 4.18
ममैव च परा शक्तिर्या सा विद्यते गीयते ।नाशयामि च तां मायां योगिनां हृदि संस्थितः ॥ ४.१९
मम एव च परा शक्तिः या सा विद्यते गीयते ।नाशयामि च ताम् मायाम् योगिनाम् हृदि संस्थितः ॥ ४।१९
mama eva ca parā śaktiḥ yā sā vidyate gīyate .nāśayāmi ca tām māyām yoginām hṛdi saṃsthitaḥ .. 4.19
अहं हि सर्वशक्तीनां प्रवर्त्तकनिवर्त्तकः ।आधारभूतः सर्वासां निधानममृतस्य च ॥ ४.२०
अहम् हि सर्व-शक्तीनाम् प्रवर्त्तक-निवर्त्तकः ।आधार-भूतः सर्वासाम् निधानम् अमृतस्य च ॥ ४।२०
aham hi sarva-śaktīnām pravarttaka-nivarttakaḥ .ādhāra-bhūtaḥ sarvāsām nidhānam amṛtasya ca .. 4.20
एका सर्वान्तरा शक्तिः करोति विविधं जगत् ।आस्थाय ब्रह्माणो रूपं मन्मयी मदधिष्ठिता ॥ ४.२१
एका सर्व-अन्तरा शक्तिः करोति विविधम् जगत् ।आस्थाय ब्रह्माणः रूपम् मद्-मयी मद्-अधिष्ठिता ॥ ४।२१
ekā sarva-antarā śaktiḥ karoti vividham jagat .āsthāya brahmāṇaḥ rūpam mad-mayī mad-adhiṣṭhitā .. 4.21
अन्या च शक्तिर्विपुला संस्थापयति मे जगत् ।भूत्वा नारायणोऽनन्तो जगन्नाथो जगन्मयः ॥ ४.२२
अन्या च शक्तिः विपुला संस्थापयति मे जगत् ।भूत्वा नारायणः अनन्तः जगन्नाथः जगत्-मयः ॥ ४।२२
anyā ca śaktiḥ vipulā saṃsthāpayati me jagat .bhūtvā nārāyaṇaḥ anantaḥ jagannāthaḥ jagat-mayaḥ .. 4.22
तृतीया महती शक्तिर्निहन्ति सकलं जगत् ।तामसी मे समाख्याता कालाख्या रुद्ररूपिणी ॥ ४.२३
तृतीया महती शक्तिः निहन्ति सकलम् जगत् ।तामसी मे समाख्याता काल-आख्या रुद्र-रूपिणी ॥ ४।२३
tṛtīyā mahatī śaktiḥ nihanti sakalam jagat .tāmasī me samākhyātā kāla-ākhyā rudra-rūpiṇī .. 4.23
ध्यानेन मां प्रपश्यन्ति केचिज्ज्ञानेन चापरे ।अपरे भक्तियोगेन कर्मयोगेन चापरे ॥ ४.२४
ध्यानेन माम् प्रपश्यन्ति केचिद् ज्ञानेन च अपरे ।अपरे भक्ति-योगेन कर्म-योगेन च अपरे ॥ ४।२४
dhyānena mām prapaśyanti kecid jñānena ca apare .apare bhakti-yogena karma-yogena ca apare .. 4.24
सर्वेषामेव भक्तानामिष्टः प्रियतमो मम ।यो हि ज्ञानेन मां नित्यमाराधयति नान्यथा ॥ ४.२५
सर्वेषाम् एव भक्तानाम् इष्टः प्रियतमः मम ।यः हि ज्ञानेन माम् नित्यम् आराधयति न अन्यथा ॥ ४।२५
sarveṣām eva bhaktānām iṣṭaḥ priyatamaḥ mama .yaḥ hi jñānena mām nityam ārādhayati na anyathā .. 4.25
अन्ये च हरये भक्ता मदाराधनकाङ्क्षिणः ।तेऽपि मां प्राप्नुवन्त्येव नावर्त्तन्ते च वै पुनः ॥ ४.२६
अन्ये च हरये भक्ताः मद्-आराधन-काङ्क्षिणः ।ते अपि माम् प्राप्नुवन्ति एव न आवर्त्तन्ते च वै पुनर् ॥ ४।२६
anye ca haraye bhaktāḥ mad-ārādhana-kāṅkṣiṇaḥ .te api mām prāpnuvanti eva na āvarttante ca vai punar .. 4.26
मया ततमिदं कृत्सनं प्रधानपुरुषात्मकम् ।मय्येव संस्थितं चित्तं मया संप्रेर्यते जगत् ॥ ४.२७
मया ततम् इदम् कृत्सनम् प्रधान-पुरुष-आत्मकम् ।मयि एव संस्थितम् चित्तम् मया संप्रेर्यते जगत् ॥ ४।२७
mayā tatam idam kṛtsanam pradhāna-puruṣa-ātmakam .mayi eva saṃsthitam cittam mayā saṃpreryate jagat .. 4.27
नाहं प्रेरयिता विप्राः परमं योगमाश्रितः ।प्रेरयामि जगत्कृत्स्नमेतद्यो वेद सोऽमृतः ॥ ४.२८
न अहम् प्रेरयिता विप्राः परमम् योगम् आश्रितः ।प्रेरयामि जगत् कृत्स्नम् एतत् यः वेद सः अमृतः ॥ ४।२८
na aham prerayitā viprāḥ paramam yogam āśritaḥ .prerayāmi jagat kṛtsnam etat yaḥ veda saḥ amṛtaḥ .. 4.28
पश्याम्यशेषमेवेदं वर्त्तमानं स्वभावतः ।करोति कालो भगवान् महायोगेश्वरः स्वयम् ॥ ४.२९
पश्यामि अशेषम् एवा इदम् वर्त्तमानम् स्वभावतः ।करोति कालः भगवान् महा-योग-ईश्वरः स्वयम् ॥ ४।२९
paśyāmi aśeṣam evā idam varttamānam svabhāvataḥ .karoti kālaḥ bhagavān mahā-yoga-īśvaraḥ svayam .. 4.29
योगः संप्रोच्यते योगी मायी शास्त्रेषु सूरिभिः ।योगेश्वरोऽसौ भगवान् महादेवो महान् प्रभुः ॥ ४.३०
योगः संप्रोच्यते योगी मायी शास्त्रेषु सूरिभिः ।योगेश्वरः असौ भगवान् महादेवः महान् प्रभुः ॥ ४।३०
yogaḥ saṃprocyate yogī māyī śāstreṣu sūribhiḥ .yogeśvaraḥ asau bhagavān mahādevaḥ mahān prabhuḥ .. 4.30
महत्त्वं सर्वतत्त्वानां वरत्वात् परमेष्ठिनः ।प्रोच्यते भगवान् ब्रह्मा महान् ब्रह्मयोऽमलः ॥ ४.३१
महा-त्वम् सर्व-तत्त्वानाम् वर-त्वात् परमेष्ठिनः ।प्रोच्यते भगवान् ब्रह्मा महान् ॥ ४।३१
mahā-tvam sarva-tattvānām vara-tvāt parameṣṭhinaḥ .procyate bhagavān brahmā mahān .. 4.31
यो मामेवं विजानाति महायोगेश्वरेश्वरम् ।सोऽविकल्पेन योगेन युज्यते नात्र संशयः ॥ ४.३२
यः माम् एवम् विजानाति महा-योग-ईश्वर-ईश्वरम् ।सः अविकल्पेन योगेन युज्यते न अत्र संशयः ॥ ४।३२
yaḥ mām evam vijānāti mahā-yoga-īśvara-īśvaram .saḥ avikalpena yogena yujyate na atra saṃśayaḥ .. 4.32
सोऽहं प्रेरयिता देवः परमानन्दमाश्रितः ।नृत्यामि योगी सततं यस्तद् वेद स वेदवित् ॥ ४.३३
सः अहम् प्रेरयिता देवः परम-आनन्दम् आश्रितः ।नृत्यामि योगी सततम् यः तत् वेद स वेद-विद् ॥ ४।३३
saḥ aham prerayitā devaḥ parama-ānandam āśritaḥ .nṛtyāmi yogī satatam yaḥ tat veda sa veda-vid .. 4.33
इति गुह्यतमं ज्ञानं सर्ववेदेषु निष्ठितम् ।प्रसन्नचेतसे देयं धार्मिकायाहिताग्नये ॥ ४.३४
इति गुह्यतमम् ज्ञानम् सर्व-वेदेषु निष्ठितम् ।प्रसन्न-चेतसे देयम् धार्मिकाय आहिताग्नये ॥ ४।३४
iti guhyatamam jñānam sarva-vedeṣu niṣṭhitam .prasanna-cetase deyam dhārmikāya āhitāgnaye .. 4.34
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे (ईश्वरगीतासु) चतुर्थोऽध्यायः ॥ ४ ॥
इति श्री-कूर्मपुराणे षट्साहस्त्र्याम् संहितायाम् उपरि विभागे (ईश्वरगीतासु चतुर्थः अध्यायः ॥ ४ ॥
iti śrī-kūrmapurāṇe ṣaṭsāhastryām saṃhitāyām upari vibhāge (īśvaragītāsu caturthaḥ adhyāyaḥ .. 4 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In