| |
|

This overlay will guide you through the buttons:

व्यास उवाच ।
एतावदुक्त्वा भगवान् योगिनां परमेश्वरः ।ननर्त्त परमं भावमैश्वरं संप्रदर्शयन् ॥ ५.१
एतावत् उक्त्वा भगवान् योगिनाम् परम-ईश्वरः ।ननर्त्त परमम् भावम् ऐश्वरम् संप्रदर्शयन् ॥ ५।१
etāvat uktvā bhagavān yoginām parama-īśvaraḥ .nanartta paramam bhāvam aiśvaram saṃpradarśayan .. 5.1
तं ते ददृशुरीशानं तेजसां परमं निधिम् ।नृत्यमानं महादेवं विष्णुना गगनेऽमले ॥ ५.२
तम् ते ददृशुः ईशानम् तेजसाम् परमम् निधिम् ।नृत्यमानम् महादेवम् विष्णुना गगने अमले ॥ ५।२
tam te dadṛśuḥ īśānam tejasām paramam nidhim .nṛtyamānam mahādevam viṣṇunā gagane amale .. 5.2
यं विदुर्योगतत्त्वज्ञा योगिनो यतमानसाः ।तमीशं सर्वभूतानामाकशे ददृशुः किल ॥ ५.३
यम् विदुः योग-तत्त्व-ज्ञाः योगिनः यत-मानसाः ।तम् ईशम् सर्व-भूतानाम् आकशे ददृशुः किल ॥ ५।३
yam viduḥ yoga-tattva-jñāḥ yoginaḥ yata-mānasāḥ .tam īśam sarva-bhūtānām ākaśe dadṛśuḥ kila .. 5.3
यस्य मायामयं सर्वं येनेदं प्रेर्यते जगत् ।नृत्यमानः स्वयं विप्रैर्विश्वेशः खलु दृश्यते ॥ ५.४
यस्य माया-मयम् सर्वम् येन इदम् प्रेर्यते जगत् ।नृत्यमानः स्वयम् विप्रैः विश्वेशः खलु दृश्यते ॥ ५।४
yasya māyā-mayam sarvam yena idam preryate jagat .nṛtyamānaḥ svayam vipraiḥ viśveśaḥ khalu dṛśyate .. 5.4
यत् पादपङ्कजं स्मृत्वा पुरुषोऽज्ञानजं भयम् ।जहति नृत्यमानं तं भूतेशं ददृशुः किल ॥ ५.५
यत् पाद-पङ्कजम् स्मृत्वा पुरुषः अज्ञान-जम् भयम् ।जहति नृत्यमानम् तम् भूतेशम् ददृशुः किल ॥ ५।५
yat pāda-paṅkajam smṛtvā puruṣaḥ ajñāna-jam bhayam .jahati nṛtyamānam tam bhūteśam dadṛśuḥ kila .. 5.5
यं विनिद्रा जितश्वासाः शान्ता भक्तिसमन्विताः ।ज्योतिर्मयं प्रपश्यन्ति स योगी दृश्यते किल ॥ ५.६
यम् विनिद्राः जित-श्वासाः शान्ताः भक्ति-समन्विताः ।ज्योतिः-मयम् प्रपश्यन्ति स योगी दृश्यते किल ॥ ५।६
yam vinidrāḥ jita-śvāsāḥ śāntāḥ bhakti-samanvitāḥ .jyotiḥ-mayam prapaśyanti sa yogī dṛśyate kila .. 5.6
योऽज्ञानान्मोचयेत् क्षिप्रं प्रसन्नो भक्तवत्सलः ।तमेव मोचनं रुद्रमाकाशे ददृशुः परम् ॥ ५.८
यः अज्ञानात् मोचयेत् क्षिप्रम् प्रसन्नः भक्त-वत्सलः ।तम् एव मोचनम् रुद्रम् आकाशे ददृशुः परम् ॥ ५।८
yaḥ ajñānāt mocayet kṣipram prasannaḥ bhakta-vatsalaḥ .tam eva mocanam rudram ākāśe dadṛśuḥ param .. 5.8
सहस्रशिरसं देवं सहस्रचरणाकृतिम् ।सहस्रबाहुं जटिलं चन्द्रार्धकृतशेखरम् ॥ ५.८
सहस्र-शिरसम् देवम् सहस्र-चरण-आकृतिम् ।सहस्र-बाहुम् जटिलम् चन्द्र-अर्ध-कृत-शेखरम् ॥ ५।८
sahasra-śirasam devam sahasra-caraṇa-ākṛtim .sahasra-bāhum jaṭilam candra-ardha-kṛta-śekharam .. 5.8
वसानं चर्म वैयाघ्रं शूलासक्तमहाकरम् ।दण्डपाणिं त्रयीनेत्रं सूर्यसोमाग्निलोचनम् ॥ ५.९
वसानम् चर्म वैयाघ्रम् शूल-आसक्त-महा-करम् ।दण्ड-पाणिम् त्रयी-नेत्रम् सूर्य-सोम-अग्नि-लोचनम् ॥ ५।९
vasānam carma vaiyāghram śūla-āsakta-mahā-karam .daṇḍa-pāṇim trayī-netram sūrya-soma-agni-locanam .. 5.9
ब्रह्माण्डं तेजसा स्वेन सर्वमावृत्य च स्थितम् ।दंष्ट्राकरालं दुर्द्धर्षं सूर्यकोटिसमप्रभम् ॥ ५.१०
ब्रह्माण्डम् तेजसा स्वेन सर्वम् आवृत्य च स्थितम् ।दंष्ट्रा-करालम् दुर्द्धर्षम् सूर्य-कोटि-सम-प्रभम् ॥ ५।१०
brahmāṇḍam tejasā svena sarvam āvṛtya ca sthitam .daṃṣṭrā-karālam durddharṣam sūrya-koṭi-sama-prabham .. 5.10
अण्डस्थं चाण्डबाह्यस्थं बाह्यमभ्यन्तरं परम् ।सृजन्तमनलज्वालं दहन्तमखिलं जगत् ।नृत्यन्तं ददृशुर्देवं विश्वकर्माणमीश्वरम् ॥ ५.११
अण्ड-स्थम् च अण्ड-बाह्य-स्थम् बाह्यम् अभ्यन्तरम् परम् ।सृजन्तम् अनल-ज्वालम् दहन्तम् अखिलम् जगत् ।नृत्यन्तम् ददृशुः देवम् विश्वकर्माणम् ईश्वरम् ॥ ५।११
aṇḍa-stham ca aṇḍa-bāhya-stham bāhyam abhyantaram param .sṛjantam anala-jvālam dahantam akhilam jagat .nṛtyantam dadṛśuḥ devam viśvakarmāṇam īśvaram .. 5.11
महादेवं महायोगं देवानामपि दैवतम् ।पशूनां पतिमीशानं ज्योतिषां ज्योतिरव्ययम् ॥ ५.१२
महादेवम् महा-योगम् देवानाम् अपि दैवतम् ।पशूनाम् पतिम् ईशानम् ज्योतिषाम् ज्योतिः अव्ययम् ॥ ५।१२
mahādevam mahā-yogam devānām api daivatam .paśūnām patim īśānam jyotiṣām jyotiḥ avyayam .. 5.12
पिनाकिनं विशालाक्षं भेषजं भवरोगिणाम् ।कालात्मानं कालकालं देवदेवं महेश्वरम् ॥ ५.१३
पिनाकिनम् विशालाक्षम् भेषजम् भव-रोगिणाम् ।काल-आत्मानम् काल-कालम् देवदेवम् महेश्वरम् ॥ ५।१३
pinākinam viśālākṣam bheṣajam bhava-rogiṇām .kāla-ātmānam kāla-kālam devadevam maheśvaram .. 5.13
उमापतिं विरूपाक्षं योगानन्दमयं परम् ।ज्ञानवैराग्यनिलयं ज्ञानयोगं सनातनम् ॥ ५.१४
उमापतिम् विरूपाक्षम् योग-आनन्द-मयम् परम् ।ज्ञान-वैराग्य-निलयम् ज्ञान-योगम् सनातनम् ॥ ५।१४
umāpatim virūpākṣam yoga-ānanda-mayam param .jñāna-vairāgya-nilayam jñāna-yogam sanātanam .. 5.14
शाश्वतैश्वर्यविभवं धर्माधारं दुरासदम् ।महेन्द्रोपेन्द्रनमितं महर्षिगणवन्दितम् ॥ ५.१५
शाश्वत-ऐश्वर्य-विभवम् धर्म-आधारम् दुरासदम् ।महा-इन्द्र-उपेन्द्र-नमितम् महा-ऋषि-गण-वन्दितम् ॥ ५।१५
śāśvata-aiśvarya-vibhavam dharma-ādhāram durāsadam .mahā-indra-upendra-namitam mahā-ṛṣi-gaṇa-vanditam .. 5.15
आधारं सर्वशक्तीनां महायोगेश्वरेश्वरम् ।योगिनां परमं ब्रह्म योगिनां योगवन्दितम् ॥योगिनां हृदि तिष्ठन्तं योगमायासमावृतम् ।क्षणेन जगतो योनिं नारायणमनामयम् ॥५.१६
आधारम् सर्व-शक्तीनाम् महा-योग-ईश्वर-ईश्वरम् ।योगिनाम् परमम् ब्रह्म योगिनाम् योग-वन्दितम् ॥योगिनाम् हृदि तिष्ठन्तम् योग-माया-समावृतम् ।क्षणेन जगतः योनिम् नारायणम् अनामयम् ॥५।१६
ādhāram sarva-śaktīnām mahā-yoga-īśvara-īśvaram .yoginām paramam brahma yoginām yoga-vanditam ..yoginām hṛdi tiṣṭhantam yoga-māyā-samāvṛtam .kṣaṇena jagataḥ yonim nārāyaṇam anāmayam ..5.16
ईश्वरेणैकतापन्नमपश्यन् ब्रह्मवादिनः ।दृष्ट्वा तदैश्वरं रूपं रुद्रनारायणात्मकम् ।कृतार्थं मेनिरे सन्तः स्वात्मानं ब्रह्मवादिनः ॥ ५.१८
ईश्वरेण एकता-आपन्नम् अपश्यन् ब्रह्म-वादिनः ।दृष्ट्वा तत् ऐश्वरम् रूपम् रुद्र-नारायण-आत्मकम् ।कृतार्थम् मेनिरे सन्तः स्व-आत्मानम् ब्रह्म-वादिनः ॥ ५।१८
īśvareṇa ekatā-āpannam apaśyan brahma-vādinaḥ .dṛṣṭvā tat aiśvaram rūpam rudra-nārāyaṇa-ātmakam .kṛtārtham menire santaḥ sva-ātmānam brahma-vādinaḥ .. 5.18
सनत्कुमारः सनको भृगुश्चसनातनश्चैव सनन्दनश्च ।रैभ्योऽङ्गिरा वामदेवोऽथ शुक्रो महर्षिरत्रिः कपिलो मरीचिः ॥ ५.१८
सनत्कुमारः सनकः भृगुः च सनातनः च एव सनन्दनः च ।रैभ्यः अङ्गिराः वामदेवः अथ शुक्रः महा-ऋषिः अत्रिः कपिलः मरीचिः ॥ ५।१८
sanatkumāraḥ sanakaḥ bhṛguḥ ca sanātanaḥ ca eva sanandanaḥ ca .raibhyaḥ aṅgirāḥ vāmadevaḥ atha śukraḥ mahā-ṛṣiḥ atriḥ kapilaḥ marīciḥ .. 5.18
दृष्ट्वाऽथ रुद्रं जगदीशितारंतं पद्मनाभाश्रितवामभागम् ।ध्यात्वा हृदिस्थं प्रणिपत्य मूर्ध्नाबद्ध्वाञ्जलिं स्वेषु शिरः सु भूयः ॥ ५.१९
दृष्ट्वा अथ रुद्रम् जगदीशिता अरंतम् पद्मनाभ-आश्रित-वाम-भागम् ।ध्यात्वा हृदिस्थम् प्रणिपत्य मूर्ध्ना आबद्ध्वा अञ्जलिम् स्वेषु शिरः सु भूयस् ॥ ५।१९
dṛṣṭvā atha rudram jagadīśitā araṃtam padmanābha-āśrita-vāma-bhāgam .dhyātvā hṛdistham praṇipatya mūrdhnā ābaddhvā añjalim sveṣu śiraḥ su bhūyas .. 5.19
ओङ्कारमुच्चार्य विलोक्य देव-मन्तः शरीरे निहितं गुहायाम् ।समस्तुवन् ब्रह्ममयैर्वचोभि-रानन्दपूर्णायतमानसास्ते ॥ ५.२०
ओङ्कारम् उच्चार्य विलोक्य देव मन्तर् शरीरे निहितम् गुहायाम् ।समस्तुवन् ब्रह्म-मयैः वचोभिः आनन्द-पूर्ण-आयत-मानसाः ते ॥ ५।२०
oṅkāram uccārya vilokya deva mantar śarīre nihitam guhāyām .samastuvan brahma-mayaiḥ vacobhiḥ ānanda-pūrṇa-āyata-mānasāḥ te .. 5.20
त्वामेकमीशं पुरुषं पुराणंप्राणेश्वरं रुद्रमनन्तयोगम् ।नमाम सर्वे हृदि सन्निविष्टंप्रचेतसं ब्रह्ममयं पवित्रम् ॥ ५.२१
त्वाम् एकम् ईशम् पुरुषम् पुराणम् प्राण-ईश्वरम् रुद्रम् अनन्त-योगम् ।नमाम सर्वे हृदि सन्निविष्टम् प्रचेतसम् ब्रह्म-मयम् पवित्रम् ॥ ५।२१
tvām ekam īśam puruṣam purāṇam prāṇa-īśvaram rudram ananta-yogam .namāma sarve hṛdi sanniviṣṭam pracetasam brahma-mayam pavitram .. 5.21
त्वां पश्यन्ति मुनयो ब्रह्मयोनिंदान्ताः शान्ता विमलं रुक्मवर्णम् ।ध्यात्वात्मस्थमचलं स्वे शरीरे कविं परेभ्यः परमं परं च ॥ ५.२२
त्वाम् पश्यन्ति मुनयः ब्रह्म-योनिंदान्ताः दान्ताः शान्ताः विमलम् रुक्म-वर्णम् ।ध्यात्वा आत्म-स्थम् अचलम् स्वे शरीरे कविम् परेभ्यः परमम् परम् च ॥ ५।२२
tvām paśyanti munayaḥ brahma-yoniṃdāntāḥ dāntāḥ śāntāḥ vimalam rukma-varṇam .dhyātvā ātma-stham acalam sve śarīre kavim parebhyaḥ paramam param ca .. 5.22
त्वत्तः प्रसूता जगतः प्रसूतिः सर्वात्मभूस्त्वं परमाणुभूतः ।अणोरणीयान् महतो महीयां-स्त्वामेव सर्वं प्रवदन्ति सन्तः ॥ ५.२३
त्वत्तः प्रसूता जगतः प्रसूतिः सर्व-आत्म-भूः त्वम् परमाणु-भूतः ।अणोः अणीयान् महतः महीयान् त्वाम् एव सर्वम् प्रवदन्ति सन्तः ॥ ५।२३
tvattaḥ prasūtā jagataḥ prasūtiḥ sarva-ātma-bhūḥ tvam paramāṇu-bhūtaḥ .aṇoḥ aṇīyān mahataḥ mahīyān tvām eva sarvam pravadanti santaḥ .. 5.23
हिरण्यगर्भो जगदन्तरात्मा त्वत्तोऽधिजातः पुरुषः पुराणः ।संजायमानो भवता विसृष्टो यथाविधानं सकलं ससर्ज ॥ ५.२४
हिरण्यगर्भः जगत्-अन्तरात्मा त्वत्तः अधिजातः पुरुषः पुराणः ।संजायमानः भवता विसृष्टः यथा विधानम् सकलम् ससर्ज ॥ ५।२४
hiraṇyagarbhaḥ jagat-antarātmā tvattaḥ adhijātaḥ puruṣaḥ purāṇaḥ .saṃjāyamānaḥ bhavatā visṛṣṭaḥ yathā vidhānam sakalam sasarja .. 5.24
त्वत्तो वेदाः सकलाः संप्रसूता-स्त्वय्येवान्ते संस्थितिं ते लभन्ते ।पश्यामस्त्वां जगतो हेतुभूतं नृत्यन्तं स्वे हृदये सन्निविष्टम् ॥ ५.२५
त्वत्तः वेदाः सकलाः संप्रसूताः त्वयि एव अन्ते संस्थितिम् ते लभन्ते ।पश्यामः त्वाम् जगतः हेतु-भूतम् नृत्यन्तम् स्वे हृदये सन्निविष्टम् ॥ ५।२५
tvattaḥ vedāḥ sakalāḥ saṃprasūtāḥ tvayi eva ante saṃsthitim te labhante .paśyāmaḥ tvām jagataḥ hetu-bhūtam nṛtyantam sve hṛdaye sanniviṣṭam .. 5.25
त्वयैवेदं भ्राम्यते ब्रह्मचक्रंमायावी त्वं जगतामेकनाथः ।नमामस्त्वां शरणं संप्रपन्नायोगात्मानं चित्पतिं दिव्यनृत्यम् ॥ ५.२६
त्वया एव इदम् भ्राम्यते ब्रह्म-चक्रम् मायावी त्वम् जगताम् एक-नाथः ।नमामः त्वाम् शरणम् संप्रपन्न-अ योग-आत्मानम् चित्पतिम् दिव्य-नृत्यम् ॥ ५।२६
tvayā eva idam bhrāmyate brahma-cakram māyāvī tvam jagatām eka-nāthaḥ .namāmaḥ tvām śaraṇam saṃprapanna-a yoga-ātmānam citpatim divya-nṛtyam .. 5.26
पश्यामस्त्त्वां परमाकाशमध्येनृत्यन्तं ते महिमानं स्मरामः ।सर्वात्मानं बहुधा सन्निविष्टंब्रह्मानन्दमनुभूयानुभूय ॥ ५.२८
पश्यामः त्वाम् परम-आकाश-मध्ये नृत्यन्तम् ते महिमानम् स्मरामः ।सर्वात्मानम् बहुधा सन्निविष्टम् ब्रह्म-आनन्दम् अनुभूय अनुभूय ॥ ५।२८
paśyāmaḥ tvām parama-ākāśa-madhye nṛtyantam te mahimānam smarāmaḥ .sarvātmānam bahudhā sanniviṣṭam brahma-ānandam anubhūya anubhūya .. 5.28
ॐकारस्ते वाचको मुक्तिबीजंत्वमक्षरं प्रकृतौ गूढरूपम् ।तत्त्वां सत्यं प्रवदन्तीह सन्तःस्वयंप्रभं भवतो यत्प्रभावम् ॥ ५.२८
ओंकारः ते वाचकः मुक्ति-बीजम् त्वम् अक्षरम् प्रकृतौ गूढ-रूपम् ।तत् त्वाम् सत्यम् प्रवदन्ति इह सन्तः स्वयंप्रभम् भवतः यद्-प्रभावम् ॥ ५।२८
oṃkāraḥ te vācakaḥ mukti-bījam tvam akṣaram prakṛtau gūḍha-rūpam .tat tvām satyam pravadanti iha santaḥ svayaṃprabham bhavataḥ yad-prabhāvam .. 5.28
स्तुवन्ति त्वां सततं सर्ववेदानमन्ति त्वामृषयः क्षीणदोषाः ।शान्तात्मानः सत्यसंधं वरिष्ठविशन्ति त्वां यतयो ब्रह्मनिष्ठाः ॥ ५.२९
स्तुवन्ति त्वाम् सततम् सर्व-वेदा आनमन्ति त्वाम् ऋषयः क्षीण-दोषाः ।शान्त-आत्मानः सत्य-संधम् वरिष्ठ विशन्ति त्वाम् यतयः ब्रह्म-निष्ठाः ॥ ५।२९
stuvanti tvām satatam sarva-vedā ānamanti tvām ṛṣayaḥ kṣīṇa-doṣāḥ .śānta-ātmānaḥ satya-saṃdham variṣṭha viśanti tvām yatayaḥ brahma-niṣṭhāḥ .. 5.29
एको वेदो बहुशाखो ह्यनन्तस्त्वामेवैकं बोधयत्येकरूपम् ।वंन्द्यं त्वां ये शरणं संप्रपन्ना-स्तेषां शान्तिः शाश्वती नेतरेषाम् ॥ ५.३०
एकः वेदः बहु-शाखः हि अनन्तः त्वाम् एव एकम् बोधयति एक-रूपम् ।वंन्द्यम् त्वाम् ये शरणम् संप्रपन्नाः तेषाम् शान्तिः शाश्वती न इतरेषाम् ॥ ५।३०
ekaḥ vedaḥ bahu-śākhaḥ hi anantaḥ tvām eva ekam bodhayati eka-rūpam .vaṃndyam tvām ye śaraṇam saṃprapannāḥ teṣām śāntiḥ śāśvatī na itareṣām .. 5.30
भवानीशोऽनादिमांस्तेजोराशि-र्ब्रह्मा विश्वं परमेष्ठी वरिष्टः ।स्वात्मानन्दमनुभूय विशन्तेस्वयं ज्योतिरचलो नित्यमुक्ताः ॥ ५.३१
भवान् ईशः अनादिमान् तेजः-राशिः ब्रह्मा विश्वम् परमेष्ठी वरिष्टः ।स्व-आत्म-आनन्दम् अनुभूय विशन्ते स्वयम् ज्योतिः अचलः नित्यम् उक्ताः ॥ ५।३१
bhavān īśaḥ anādimān tejaḥ-rāśiḥ brahmā viśvam parameṣṭhī variṣṭaḥ .sva-ātma-ānandam anubhūya viśante svayam jyotiḥ acalaḥ nityam uktāḥ .. 5.31
एको रुद्रस्त्वं करोषीह विश्वंत्वं पालयस्यखिलं विश्वरूपम् ।त्वामेवान्ते निलयं विन्दतीदं नमामस्त्वां शरणं संप्रपन्नाः ॥ ५.३२
एकः रुद्रः त्वम् करोषि इह विश्वंत्वम् पालयसि अखिलम् विश्व-रूपम् ।त्वाम् एव अन्ते निलयम् विन्दति इदम् नमामः त्वाम् शरणम् संप्रपन्नाः ॥ ५।३२
ekaḥ rudraḥ tvam karoṣi iha viśvaṃtvam pālayasi akhilam viśva-rūpam .tvām eva ante nilayam vindati idam namāmaḥ tvām śaraṇam saṃprapannāḥ .. 5.32
त्वामेकमाहुः कविमेकरुद्रंब्रह्मं बृहन्तं हरिमग्निमीशम् ।इन्द्रं मृत्युमनिलं चेकितानंधातारमादित्यमनेकरूपम् ॥ ५.३३
त्वाम् एकम् आहुः कविम् एक-रुद्रम् ब्रह्मम् बृहन्तम् हरिम् अग्निम् ईशम् ।इन्द्रम् मृत्युम् अनिलम् चेकितानम् धातारम् आदित्यम् अनेक-रूपम् ॥ ५।३३
tvām ekam āhuḥ kavim eka-rudram brahmam bṛhantam harim agnim īśam .indram mṛtyum anilam cekitānam dhātāram ādityam aneka-rūpam .. 5.33
त्वमक्षरं परमं वेदितव्यं त्वमस्य विश्वस्य परं निधानम् ।त्वमव्ययः शाश्वतधर्मगोप्तासनातनस्त्वं पुरुषोत्तमोऽसि ॥ ५.३४
त्वम् अक्षरम् परमम् वेदितव्यम् त्वम् अस्य विश्वस्य परम् निधानम् ।त्वम् अव्ययः शाश्वत-धर्म-गोप्ता असनातनः त्वम् पुरुषोत्तमः असि ॥ ५।३४
tvam akṣaram paramam veditavyam tvam asya viśvasya param nidhānam .tvam avyayaḥ śāśvata-dharma-goptā asanātanaḥ tvam puruṣottamaḥ asi .. 5.34
त्वमेव विष्णुश्चतुराननस्त्वं त्वमेव रुद्रो भगवानपीशः ।त्वं विश्वनाथः प्रकृतिः प्रतिष्ठासर्वेश्वरस्त्वं परमेश्वरोऽसि ॥ ५.३५
त्वम् एव विष्णुः चतुराननः त्वम् त्वम् एव रुद्रः भगवान् अपि ईशः ।त्वम् विश्वनाथः प्रकृतिः प्रतिष्ठा-सर्व-ईश्वरः त्वम् परमेश्वरः असि ॥ ५।३५
tvam eva viṣṇuḥ caturānanaḥ tvam tvam eva rudraḥ bhagavān api īśaḥ .tvam viśvanāthaḥ prakṛtiḥ pratiṣṭhā-sarva-īśvaraḥ tvam parameśvaraḥ asi .. 5.35
त्वामेकमाहुः पुरुषं पुराण-मादित्यवर्णं तमसः परस्तात् ।चिन्मात्रमव्यक्तमचिन्त्यरूपंखं ब्रह्म शून्यं प्रकृतिं निर्गुणं च ॥ ५.३६
त्वाम् एकम् आहुः पुरुषम् पुराणम् आदित्य-वर्णम् तमसः परस्तात् ।चित्-मात्रम् अव्यक्तम् अचिन्त्य-रूपम् खम् ब्रह्म शून्यम् प्रकृतिम् निर्गुणम् च ॥ ५।३६
tvām ekam āhuḥ puruṣam purāṇam āditya-varṇam tamasaḥ parastāt .cit-mātram avyaktam acintya-rūpam kham brahma śūnyam prakṛtim nirguṇam ca .. 5.36
यदन्तरा सर्वमिदं विभाति यदव्ययं निर्मलमेकरूपम् ।किमप्यचिन्त्यं तव रूपमेतत् तदन्तरा यत्प्रतिभाति तत्त्वम् ॥ ५.३८
यद्-अन्तरा सर्वम् इदम् विभाति यत् अव्ययम् निर्मलम् एक-रूपम् ।किम् अपि अचिन्त्यम् तव रूपम् एतत् तद्-अन्तरा यत् प्रतिभाति तत् त्वम् ॥ ५।३८
yad-antarā sarvam idam vibhāti yat avyayam nirmalam eka-rūpam .kim api acintyam tava rūpam etat tad-antarā yat pratibhāti tat tvam .. 5.38
योगेश्वरं भद्रमनन्तशक्तिंपरायणं ब्रह्मतनुं पुराणम् ।नमाम सर्वे शरणार्थिनस्त्वांप्रसीद भूताधिपते महेश ॥ ५.३८
योगेश्वरम् भद्रम् अनन्तशक्तिम् परायणम् ब्रह्म-तनुम् पुराणम् ।नमाम सर्वे शरण-अर्थिनः त्वाम् प्रसीद भूत-अधिपते महेश ॥ ५।३८
yogeśvaram bhadram anantaśaktim parāyaṇam brahma-tanum purāṇam .namāma sarve śaraṇa-arthinaḥ tvām prasīda bhūta-adhipate maheśa .. 5.38
त्वत्पादपद्मस्मरणादशेष-संसारबीजं निलयं प्रयाति ।मनो नियम्य प्रणिधाय कायंप्रसादयामो वयमेकमीशम् ॥ ५.३९
त्वद्-पाद-पद्म-स्मरणात् अशेष-संसार-बीजम् निलयम् प्रयाति ।मनः नियम्य प्रणिधाय कायंप्रसादयामः वयम् एकम् ईशम् ॥ ५।३९
tvad-pāda-padma-smaraṇāt aśeṣa-saṃsāra-bījam nilayam prayāti .manaḥ niyamya praṇidhāya kāyaṃprasādayāmaḥ vayam ekam īśam .. 5.39
नमो भवायास्तु भवोद्भवायकालाय सर्वाय हराय तुम्यम् ।नमोऽस्तु रुद्राय कपर्दिने ते नमोऽग्नये देव नमः शिवाय ॥ ५.४०
नमः भवाय अस्तु भवोद्भवाय अकालाय सर्वाय हराय तुम्यम् ।नमः अस्तु रुद्राय कपर्दिने ते नमः अग्नये देव नमः शिवाय ॥ ५।४०
namaḥ bhavāya astu bhavodbhavāya akālāya sarvāya harāya tumyam .namaḥ astu rudrāya kapardine te namaḥ agnaye deva namaḥ śivāya .. 5.40
ततः स भगवान् प्रीतः कपर्दी वृषवाहनः ।संहृत्य परमं रूपं प्रकृतिस्थोऽभवद् भवः ॥ ५.४१
ततस् स भगवान् प्रीतः कपर्दी वृषवाहनः ।संहृत्य परमम् रूपम् प्रकृति-स्थः अभवत् भवः ॥ ५।४१
tatas sa bhagavān prītaḥ kapardī vṛṣavāhanaḥ .saṃhṛtya paramam rūpam prakṛti-sthaḥ abhavat bhavaḥ .. 5.41
ते भवं बूतभव्येशं पूर्ववत् समवस्थितम् ।दृष्ट्वा नारायणं देवं विस्मितं वाक्यमब्रुवन् ॥ ५.४२
ते भवम् बूत-भव्य-ईशम् पूर्व-वत् समवस्थितम् ।दृष्ट्वा नारायणम् देवम् विस्मितम् वाक्यम् अब्रुवन् ॥ ५।४२
te bhavam būta-bhavya-īśam pūrva-vat samavasthitam .dṛṣṭvā nārāyaṇam devam vismitam vākyam abruvan .. 5.42
भगवन् भूतभव्येश गोवृषाङ्कितशासन ।दृष्ट्वा ते परमं रूपं निर्वृताः स्म सनातन ॥ ५.४३
भगवन् भूत-भव्य-ईश गो-वृष-अङ्कित-शासन ।दृष्ट्वा ते परमम् रूपम् निर्वृताः स्म सनातन ॥ ५।४३
bhagavan bhūta-bhavya-īśa go-vṛṣa-aṅkita-śāsana .dṛṣṭvā te paramam rūpam nirvṛtāḥ sma sanātana .. 5.43
भवत्प्रसादादमले परस्मिन् परमेश्वरे ।अस्माकं जायते भक्तिस्त्वय्येवाव्यभिचारिणी ॥ ५.४४
भवत्-प्रसादात् अमले परस्मिन् परमेश्वरे ।अस्माकम् जायते भक्तिः त्वयि एव अव्यभिचारिणी ॥ ५।४४
bhavat-prasādāt amale parasmin parameśvare .asmākam jāyate bhaktiḥ tvayi eva avyabhicāriṇī .. 5.44
इदानीं श्रोतुमिच्छामो माहात्म्यं तव शंकर ।भूयोऽपि तारयन्नित्यं याथात्म्यं परमेष्ठिनः ॥ ५.४५
इदानीम् श्रोतुम् इच्छामः माहात्म्यम् तव शंकर ।भूयस् अपि तारयन् नित्यम् याथात्म्यम् परमेष्ठिनः ॥ ५।४५
idānīm śrotum icchāmaḥ māhātmyam tava śaṃkara .bhūyas api tārayan nityam yāthātmyam parameṣṭhinaḥ .. 5.45
स तेषां वाक्यमाकर्ण्य योगिनां योगसिद्धिदः ।प्राहः गम्भीरया वाचा समालोक्य च माधवम् ॥ ५.४६
स तेषाम् वाक्यम् आकर्ण्य योगिनाम् योग-सिद्धि-दः ।प्राहः गम्भीरया वाचा समालोक्य च माधवम् ॥ ५।४६
sa teṣām vākyam ākarṇya yoginām yoga-siddhi-daḥ .prāhaḥ gambhīrayā vācā samālokya ca mādhavam .. 5.46
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे (ईश्वरगीतासु) पञ्चमोऽध्यायः ॥ ५ ॥
इति श्री-कूर्मपुराणे षट्साहस्त्र्याम् संहितायाम् उपरि विभागे (ईश्वरगीतासु पञ्चमः अध्यायः ॥ ५ ॥
iti śrī-kūrmapurāṇe ṣaṭsāhastryām saṃhitāyām upari vibhāge (īśvaragītāsu pañcamaḥ adhyāyaḥ .. 5 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In