| |
|

This overlay will guide you through the buttons:

श्रृणुध्वमृषयः सर्वे यथावत् परमेष्ठिनः ।वक्ष्यामीशस्य माहात्म्यं यत्तद्वेदविदो विदुः ॥ ६.१
श्रृणुध्वम् ऋषयः सर्वे यथावत् परमेष्ठिनः ।वक्ष्यामि ईशस्य माहात्म्यम् यत् तत् वेद-विदः विदुः ॥ ६।१
śrṛṇudhvam ṛṣayaḥ sarve yathāvat parameṣṭhinaḥ .vakṣyāmi īśasya māhātmyam yat tat veda-vidaḥ viduḥ .. 6.1
ईश्वर उवाच ।
सर्वलोकैकनिर्माता सर्वलोकैकरक्षिता ।सर्वलोकैकसंहर्त्ता सर्वात्माऽहं सनातनः ॥ ६.२
।सर्व-लोक-एक-संहर्त्ता सर्व-आत्मा अहम् सनातनः ॥ ६।२
.sarva-loka-eka-saṃharttā sarva-ātmā aham sanātanaḥ .. 6.2
सर्वेषामेव वस्तूनामन्तर्यामी महेश्वरः ।मध्ये चान्तः स्थितं सर्वं नाहं सर्वत्र संस्थितः ॥ ६.३
सर्वेषाम् एव वस्तूनाम् अन्तर्यामी महेश्वरः ।मध्ये च अन्तर् स्थितम् सर्वम् न अहम् सर्वत्र संस्थितः ॥ ६।३
sarveṣām eva vastūnām antaryāmī maheśvaraḥ .madhye ca antar sthitam sarvam na aham sarvatra saṃsthitaḥ .. 6.3
भवद्भिरद्भुतं दृष्टं यत्स्वरूपं तु मामकम् ।ममैषा ह्युपमा विप्रा मायया दर्शिता मया ॥ ६.४
भवद्भिः अद्भुतम् दृष्टम् यत् स्व-रूपम् तु मामकम् ।मम एषा हि उपमा विप्राः मायया दर्शिता मया ॥ ६।४
bhavadbhiḥ adbhutam dṛṣṭam yat sva-rūpam tu māmakam .mama eṣā hi upamā viprāḥ māyayā darśitā mayā .. 6.4
सर्वेषामेव भावानामन्तरा समवस्थितः ।प्रेरयामि जगत् कृत्स्नं क्रियाशाक्तिरियं मम ॥ ६.५
सर्वेषाम् एव भावानाम् अन्तरा समवस्थितः ।प्रेरयामि जगत् कृत्स्नम् क्रिया-शाक्तिः इयम् मम ॥ ६।५
sarveṣām eva bhāvānām antarā samavasthitaḥ .prerayāmi jagat kṛtsnam kriyā-śāktiḥ iyam mama .. 6.5
ययेदं चेष्टते विश्वं तत्स्वभावानुवर्त्ति च ।सोऽहं कालो जगत् कृत्स्नं प्रेरयामि कलात्मकम् ॥ ६.६
यया इदम् चेष्टते विश्वम् तद्-स्वभाव-अनुवर्त्ति च ।सः अहम् कालः जगत् कृत्स्नम् प्रेरयामि कला-आत्मकम् ॥ ६।६
yayā idam ceṣṭate viśvam tad-svabhāva-anuvartti ca .saḥ aham kālaḥ jagat kṛtsnam prerayāmi kalā-ātmakam .. 6.6
एकांशेन जगत् कृत्स्नं करोमि मुनिपुंगवाः ।संहराम्येकरूपेण स्थिताऽवस्था ममैव तु ॥ ६.7
एक-अंशेन जगत् कृत्स्नम् करोमि मुनि-पुंगवाः ।संहरामि एक-रूपेण स्थिता अवस्था मम एव तु ॥ ६।७
eka-aṃśena jagat kṛtsnam karomi muni-puṃgavāḥ .saṃharāmi eka-rūpeṇa sthitā avasthā mama eva tu .. 6.7
आदिमध्यान्तनिर्मुक्तो मायातत्त्वप्रवर्त्तकः ।क्षोभयामि च सर्गादौ प्रधानपुरुषावुभौ ॥ ६.८
।क्षोभयामि च सर्ग-आदौ प्रधान-पुरुषौ उभौ ॥ ६।८
.kṣobhayāmi ca sarga-ādau pradhāna-puruṣau ubhau .. 6.8
ताभ्यां संजायते विश्वं संयुक्ताभ्यां परस्परम् ।महदादिक्रमेणैव मम तेजो विजृम्भते ॥ ६.९
ताभ्याम् संजायते विश्वम् संयुक्ताभ्याम् परस्परम् ।महत्-आदि-क्रमेण एव मम तेजः विजृम्भते ॥ ६।९
tābhyām saṃjāyate viśvam saṃyuktābhyām parasparam .mahat-ādi-krameṇa eva mama tejaḥ vijṛmbhate .. 6.9
यो हि सर्वजगत्साक्षी कालचक्रप्रवर्त्तकः ।हिरण्यगर्भो मार्त्तण्डः सोऽपि मद्देहसंभवः ॥ ६.१०
यः हि सर्व-जगत्-साक्षी कालचक्र-प्रवर्त्तकः ।हिरण्यगर्भः मार्त्तण्डः सः अपि मद्-देह-संभवः ॥ ६।१०
yaḥ hi sarva-jagat-sākṣī kālacakra-pravarttakaḥ .hiraṇyagarbhaḥ mārttaṇḍaḥ saḥ api mad-deha-saṃbhavaḥ .. 6.10
तस्मै दिव्यं स्वमैश्वर्यं ज्ञानयोगं सनातनम् ।दत्तवानात्मजान् वेदान् कल्पादौ चतुरो द्विजाः ॥ ६.११
तस्मै दिव्यम् स्वम् ऐश्वर्यम् ज्ञान-योगम् सनातनम् ।दत्तवान् आत्मजान् वेदान् कल्प-आदौ चतुरः द्विजाः ॥ ६।११
tasmai divyam svam aiśvaryam jñāna-yogam sanātanam .dattavān ātmajān vedān kalpa-ādau caturaḥ dvijāḥ .. 6.11
स मन्नियोगतो देवो ब्रह्मा मद्भावभावितः ।दिव्यं तन्मामकैश्वर्यं सर्वदा वहति स्वयम् ॥ ६.१२
स मद्-नियोगतः देवः ब्रह्मा मद्-भाव-भावितः ।दिव्यम् तत् मामक-ऐश्वर्यम् सर्वदा वहति स्वयम् ॥ ६।१२
sa mad-niyogataḥ devaḥ brahmā mad-bhāva-bhāvitaḥ .divyam tat māmaka-aiśvaryam sarvadā vahati svayam .. 6.12
स सर्वलोकनिर्माता मन्नियोगेन सर्ववित् ।भूत्वा चतुर्मुखः सर्गं सृजत्येवात्मसंभवः ॥ ६.१३
स सर्व-लोक-निर्माता मद्-नियोगेन सर्व-विद् ।भूत्वा चतुर्मुखः सर्गम् सृजति एव आत्म-संभवः ॥ ६।१३
sa sarva-loka-nirmātā mad-niyogena sarva-vid .bhūtvā caturmukhaḥ sargam sṛjati eva ātma-saṃbhavaḥ .. 6.13
योऽपि नारायणोऽनन्तो लोकानां प्रभवाव्ययः ।ममैव परमा मूर्तिः करोति परिपालनम् ॥ ६.१४
यः अपि नारायणः अनन्तः लोकानाम् प्रभव-अव्ययः ।मम एव परमा मूर्तिः करोति परिपालनम् ॥ ६।१४
yaḥ api nārāyaṇaḥ anantaḥ lokānām prabhava-avyayaḥ .mama eva paramā mūrtiḥ karoti paripālanam .. 6.14
योऽन्तकः सर्वभूतानां रुद्रः कालात्मकः प्रभुः ।मदाज्ञयाऽसौ सततं संहरिष्यति मे तनुः ॥ ६.१५
यः अन्तकः सर्व-भूतानाम् रुद्रः काल-आत्मकः प्रभुः ।मद्-आज्ञया असौ सततम् संहरिष्यति मे तनुः ॥ ६।१५
yaḥ antakaḥ sarva-bhūtānām rudraḥ kāla-ātmakaḥ prabhuḥ .mad-ājñayā asau satatam saṃhariṣyati me tanuḥ .. 6.15
हव्यं वहति देवानां कव्यं कव्याशिनामपि ।पाकं च कुरुते वह्निः सोऽपि मच्छक्तिनोदितः ॥ ६.१६
हव्यम् वहति देवानाम् कव्यम् कव्य-आशिनाम् अपि ।पाकम् च कुरुते वह्निः सः अपि मद्-शक्तिना उदितः ॥ ६।१६
havyam vahati devānām kavyam kavya-āśinām api .pākam ca kurute vahniḥ saḥ api mad-śaktinā uditaḥ .. 6.16
भुक्तमाहारजातं च पचते तदहर्निशम् ।वैश्वानरोऽग्निर्भगवानीश्वरस्य नियोगतः ॥ ६.१7
भुक्तम् आहार-जातम् च पचते तत् अहर्निशम् ।वैश्वानरः अग्निः भगवान् ईश्वरस्य नियोगतः ॥ ६।१७
bhuktam āhāra-jātam ca pacate tat aharniśam .vaiśvānaraḥ agniḥ bhagavān īśvarasya niyogataḥ .. 6.17
योऽपि सर्वाम्भसां योनिर्वरुणो देवपुंगवः ।सोऽपि संजीवयेत् कृत्स्नमीशस्यैव नियोगतः ॥ ६.१८
यः अपि सर्व-अम्भसाम् योनिः वरुणः देव-पुंगवः ।सः अपि संजीवयेत् कृत्स्नम् ईशस्य एव नियोगतः ॥ ६।१८
yaḥ api sarva-ambhasām yoniḥ varuṇaḥ deva-puṃgavaḥ .saḥ api saṃjīvayet kṛtsnam īśasya eva niyogataḥ .. 6.18
योऽन्तस्तिष्ठति भूतानां बहिर्देवः प्रभञ्जनः ।मदाज्ञयाऽसौ भूतानां शरीराणि बिभर्ति हि ॥ ६.१९
यः अन्तर् तिष्ठति भूतानाम् बहिस् देवः प्रभञ्जनः ।मद्-आज्ञया असौ भूतानाम् शरीराणि बिभर्ति हि ॥ ६।१९
yaḥ antar tiṣṭhati bhūtānām bahis devaḥ prabhañjanaḥ .mad-ājñayā asau bhūtānām śarīrāṇi bibharti hi .. 6.19
योऽपि संजीवनो नॄणां देवानाममृताकरः ।सोमः स मन्नियोगेन चोदितः किल वर्तते ॥ ६.२०
यः अपि संजीवनः नॄणाम् देवानाम् अमृत-आकरः ।सोमः स मद्-नियोगेन चोदितः किल वर्तते ॥ ६।२०
yaḥ api saṃjīvanaḥ nṝṇām devānām amṛta-ākaraḥ .somaḥ sa mad-niyogena coditaḥ kila vartate .. 6.20
यः स्वभासा जगत् कृत्स्नं प्रकाशयति सर्वदा ।सूर्यो वृष्टिं वितनुते शास्त्रेणैव स्वयंभुवः ॥ ६.२१
यः स्व-भासा जगत् कृत्स्नम् प्रकाशयति सर्वदा ।सूर्यः वृष्टिम् वितनुते शास्त्रेण एव स्वयंभुवः ॥ ६।२१
yaḥ sva-bhāsā jagat kṛtsnam prakāśayati sarvadā .sūryaḥ vṛṣṭim vitanute śāstreṇa eva svayaṃbhuvaḥ .. 6.21
योऽप्यशेषजगच्छास्ता शक्रः सर्वामरेश्वरः ।यज्वनां फलदो देवो वर्त्ततेऽसौ मदाज्ञया ॥ ६.२२
यः अपि अशेष-जगत्-शास्ता शक्रः सर्व-अमर-ईश्वरः ।यज्वनाम् फल-दः देवः वर्त्तते असौ मद्-आज्ञया ॥ ६।२२
yaḥ api aśeṣa-jagat-śāstā śakraḥ sarva-amara-īśvaraḥ .yajvanām phala-daḥ devaḥ varttate asau mad-ājñayā .. 6.22
यः प्रशास्ता ह्यसाधूनां वर्त्तते नियमादिह ।यमो वैवस्वतो देवो देवदेवनियोगतः ॥ ६.२३
यः प्रशास्ता हि असाधूनाम् वर्त्तते नियमात् इह ।यमः वैवस्वतः देवः देवदेव-नियोगतः ॥ ६।२३
yaḥ praśāstā hi asādhūnām varttate niyamāt iha .yamaḥ vaivasvataḥ devaḥ devadeva-niyogataḥ .. 6.23
योऽपि सर्वधनाध्यक्षो धनानां संप्रदायकः ।सोऽपीश्वरनियोगेन कुबेरो वर्त्तते सदा ॥ ६.२४
यः अपि सर्व-धन-अध्यक्षः धनानाम् संप्रदायकः ।सः अपि ईश्वर-नियोगेन कुबेरः वर्त्तते सदा ॥ ६।२४
yaḥ api sarva-dhana-adhyakṣaḥ dhanānām saṃpradāyakaḥ .saḥ api īśvara-niyogena kuberaḥ varttate sadā .. 6.24
यः सर्वरक्षसां नाथस्तामसानां फलप्रदः ।मन्नियोगादसौ देवो वर्त्तते निर्ऋतिः सदा ॥ ६.२५
यः सर्व-रक्षसाम् नाथः तामसानाम् फल-प्रदः ।मद्-नियोगात् असौ देवः वर्त्तते निरृतिः सदा ॥ ६।२५
yaḥ sarva-rakṣasām nāthaḥ tāmasānām phala-pradaḥ .mad-niyogāt asau devaḥ varttate nirṛtiḥ sadā .. 6.25
वेतालगणभूतानां स्वामी भोगफलप्रदः ।ईशानः किल भक्तानां सोऽपि तिष्ठन्ममाज्ञया ॥ ६.२६
।ईशानः किल भक्तानाम् सः अपि तिष्ठत् मम आज्ञया ॥ ६।२६
.īśānaḥ kila bhaktānām saḥ api tiṣṭhat mama ājñayā .. 6.26
यो वामदेवोऽङ्गिरसः शिष्यो रुद्रगणाग्रणीः ।रक्षको योगिनां नित्यं वर्त्ततेऽसौ मदाज्ञया ॥ ६.२7
यः वामदेवः अङ्गिरसः शिष्यः रुद्र-गण-अग्रणीः ।रक्षकः योगिनाम् नित्यम् वर्त्तते असौ मद्-आज्ञया ॥ ६।२७
yaḥ vāmadevaḥ aṅgirasaḥ śiṣyaḥ rudra-gaṇa-agraṇīḥ .rakṣakaḥ yoginām nityam varttate asau mad-ājñayā .. 6.27
यश्च सर्वजगत्पूज्यो वर्त्तते विघ्नकारकः ।विनायको धर्मरतः सोऽपि मद्वचनात् किल ॥ ६.२८
यः च सर्व-जगत्-पूज्यः वर्त्तते विघ्न-कारकः ।विनायकः धर्म-रतः सः अपि मद्-वचनात् किल ॥ ६।२८
yaḥ ca sarva-jagat-pūjyaḥ varttate vighna-kārakaḥ .vināyakaḥ dharma-rataḥ saḥ api mad-vacanāt kila .. 6.28
योऽपि ब्रह्मविदां श्रेष्ठो देवसेनापतिः प्रभुः ।स्कन्दोऽसौ वर्त्तते नित्यं स्वयंभूर्विधिचोदितः ॥ ६.२९
यः अपि ब्रह्म-विदाम् श्रेष्ठः देव-सेनापतिः प्रभुः ।स्कन्दः असौ वर्त्तते नित्यम् स्वयंभूः विधि-चोदितः ॥ ६।२९
yaḥ api brahma-vidām śreṣṭhaḥ deva-senāpatiḥ prabhuḥ .skandaḥ asau varttate nityam svayaṃbhūḥ vidhi-coditaḥ .. 6.29
ये च प्रजानां पतयो मरीच्याद्या महर्षयः ।सृजन्ति विविधं लोकं परस्यैव नियोगतः ॥ ६.३०
ये च प्रजानाम् पतयः मरीचि-आद्याः महा-ऋषयः ।सृजन्ति विविधम् लोकम् परस्य एव नियोगतः ॥ ६।३०
ye ca prajānām patayaḥ marīci-ādyāḥ mahā-ṛṣayaḥ .sṛjanti vividham lokam parasya eva niyogataḥ .. 6.30
या च श्रीः सर्वभूतानां ददाति विपुलां श्रियम् ।पत्नी नारायणस्यासौ वर्त्तते मदनुग्रहात् ॥ ६.३१
या च श्रीः सर्व-भूतानाम् ददाति विपुलाम् श्रियम् ।पत्नी नारायणस्य असौ वर्त्तते मद्-अनुग्रहात् ॥ ६।३१
yā ca śrīḥ sarva-bhūtānām dadāti vipulām śriyam .patnī nārāyaṇasya asau varttate mad-anugrahāt .. 6.31
वाचं ददाति विपुलां या च देवी सरस्वती ।साऽपीश्वरनियोगेन चोदिता संप्रवर्त्तते ॥ ६.३२
वाचम् ददाति विपुलाम् या च देवी सरस्वती ।सा अपि ईश्वर-नियोगेन चोदिता संप्रवर्त्तते ॥ ६।३२
vācam dadāti vipulām yā ca devī sarasvatī .sā api īśvara-niyogena coditā saṃpravarttate .. 6.32
याऽशेषपुरुषान् घोरान्नरकात् तारयिष्यति ।सावित्री संस्मृता देवी देवाज्ञाऽनुविधायिनी ॥ ६.३३
या अशेष-पुरुषान् घोरात् नरकात् तारयिष्यति ।देव-आज्ञा-अनुविधायिनी ॥ ६।३३
yā aśeṣa-puruṣān ghorāt narakāt tārayiṣyati .deva-ājñā-anuvidhāyinī .. 6.33
पार्वती परमा देवी ब्रह्मविद्याप्रदायिनी ।याऽपि ध्याता विशेषेण सापि मद्वचनानुगा ॥ ६.३४
पार्वती परमा देवी ब्रह्म-विद्या-प्रदायिनी ।या अपि ध्याता विशेषेण सा अपि मद्-वचन-अनुगा ॥ ६।३४
pārvatī paramā devī brahma-vidyā-pradāyinī .yā api dhyātā viśeṣeṇa sā api mad-vacana-anugā .. 6.34
योऽनन्तमहिमाऽनन्तः शेषोऽशेषामरप्रभुः ।दधाति शिरसा लोकं सोऽपि देवनियोगतः ॥ ६.३५
यः अनन्त-महिमा अनन्तः शेषः अशेष-अमर-प्रभुः ।दधाति शिरसा लोकम् सः अपि देव-नियोगतः ॥ ६।३५
yaḥ ananta-mahimā anantaḥ śeṣaḥ aśeṣa-amara-prabhuḥ .dadhāti śirasā lokam saḥ api deva-niyogataḥ .. 6.35
योऽग्निः संवर्त्तको नित्यं वडवारूपसंस्थितः ।पिबत्यखिलमम्भोधिमीश्वरस्य नियोगतः ॥ ६.३६
यः अग्निः संवर्त्तकः नित्यम् वडवा-रूप-संस्थितः ।पिबति अखिलम् अम्भोधिम् ईश्वरस्य नियोगतः ॥ ६।३६
yaḥ agniḥ saṃvarttakaḥ nityam vaḍavā-rūpa-saṃsthitaḥ .pibati akhilam ambhodhim īśvarasya niyogataḥ .. 6.36
ये चतुर्दश लोकेऽस्मिन् मनवः प्रथितौजसः ।पालयन्ति प्रजाः सर्वास्तेऽपि तस्य नियोगतः ॥ ६.३7
ये चतुर्दश लोके अस्मिन् मनवः प्रथित-ओजसः ।पालयन्ति प्रजाः सर्वाः ते अपि तस्य नियोगतः ॥ ६।३७
ye caturdaśa loke asmin manavaḥ prathita-ojasaḥ .pālayanti prajāḥ sarvāḥ te api tasya niyogataḥ .. 6.37
आदित्या वसवो रुद्रा मरुतश्च तथाऽश्विनौ ।अन्याश्च देवताः सर्वा मच्छास्त्रेणैव निष्ठिताः ॥ ६.३८
आदित्याः वसवः रुद्राः मरुतः च तथा अश्विनौ ।अन्याः च देवताः सर्वाः मद्-शास्त्रेण एव निष्ठिताः ॥ ६।३८
ādityāḥ vasavaḥ rudrāḥ marutaḥ ca tathā aśvinau .anyāḥ ca devatāḥ sarvāḥ mad-śāstreṇa eva niṣṭhitāḥ .. 6.38
गन्धर्वा गरुडा ऋक्षाः सिद्धाः साध्याश्चचारणाः ।यक्षरक्षः पिशाचाश्च स्थिताः सृष्टाः स्वयंभुवः ॥ ६.३९
गन्धर्वाः गरुडाः ऋक्षाः सिद्धाः साध्याः च चारणाः ।यक्ष-रक्षः पिशाचाः च स्थिताः सृष्टाः स्वयंभुवः ॥ ६।३९
gandharvāḥ garuḍāḥ ṛkṣāḥ siddhāḥ sādhyāḥ ca cāraṇāḥ .yakṣa-rakṣaḥ piśācāḥ ca sthitāḥ sṛṣṭāḥ svayaṃbhuvaḥ .. 6.39
कलाकाष्ठानिमेषाश्च मुहूर्त्ता दिवसाः क्षपाः ।ऋतवः पक्षमासाश्च स्थिताः शास्त्रे प्रजापतेः ॥ ६.४०
कला-काष्ठा-निमेषाः च मुहूर्त्ताः दिवसाः क्षपाः ।ऋतवः पक्ष-मासाः च स्थिताः शास्त्रे प्रजापतेः ॥ ६।४०
kalā-kāṣṭhā-nimeṣāḥ ca muhūrttāḥ divasāḥ kṣapāḥ .ṛtavaḥ pakṣa-māsāḥ ca sthitāḥ śāstre prajāpateḥ .. 6.40
युगमन्वन्तराण्येव मम तिष्ठन्ति शासने ।पराश्चैव परार्धाश्च कालभेदास्तथा परे ॥ ६.४१
युग-मन्वन्तराणि एव मम तिष्ठन्ति शासने ।परे च एव परार्धाः च काल-भेदाः तथा परे ॥ ६।४१
yuga-manvantarāṇi eva mama tiṣṭhanti śāsane .pare ca eva parārdhāḥ ca kāla-bhedāḥ tathā pare .. 6.41
चतुर्विधानि बूतानि स्थावराणि चराणि च ।नियोगादेव वर्त्तन्ते देवस्य परमात्मनः ॥ ६.४२
चतुर्विधानि बूतानि स्थावराणि चराणि च ।नियोगात् एव वर्त्तन्ते देवस्य परमात्मनः ॥ ६।४२
caturvidhāni būtāni sthāvarāṇi carāṇi ca .niyogāt eva varttante devasya paramātmanaḥ .. 6.42
पातालानि च सर्वाणि भुवनानि च शासनात् ।ब्रह्माण्डानि च वर्त्तन्ते सर्वाण्येव स्वयंभुवः ॥ ६.४३
पातालानि च सर्वाणि भुवनानि च शासनात् ।ब्रह्माण्डानि च वर्त्तन्ते सर्वाणि एव स्वयंभुवः ॥ ६।४३
pātālāni ca sarvāṇi bhuvanāni ca śāsanāt .brahmāṇḍāni ca varttante sarvāṇi eva svayaṃbhuvaḥ .. 6.43
अतीतान्यप्यसंख्यानि ब्रह्माण्डानि ममाज्ञया ।प्रवृत्तानि पदार्थौघैः सहितानि समन्ततः ॥ ६.४४
अतीतानि अपि असंख्यानि ब्रह्माण्डानि मम आज्ञया ।प्रवृत्तानि पदार्थ-ओघैः सहितानि समन्ततः ॥ ६।४४
atītāni api asaṃkhyāni brahmāṇḍāni mama ājñayā .pravṛttāni padārtha-oghaiḥ sahitāni samantataḥ .. 6.44
ब्रह्माण्डानि भविष्यन्ति सह वस्तुभिरात्मगैः ।वहिष्यन्ति सदैवाज्ञां परस्य परमात्मनः ॥ ६.४५
ब्रह्माण्डानि भविष्यन्ति सह वस्तुभिः आत्म-गैः ।वहिष्यन्ति सदा एव आज्ञाम् परस्य परमात्मनः ॥ ६।४५
brahmāṇḍāni bhaviṣyanti saha vastubhiḥ ātma-gaiḥ .vahiṣyanti sadā eva ājñām parasya paramātmanaḥ .. 6.45
भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च ।भूतादिरादिप्रकृतिर्नियोगे मम वर्त्तते ॥ ६.४६
भूमिः आपः अनलः वायुः खम् मनः बुद्धिः एव च ।भूतादिः आदि-प्रकृतिः नियोगे मम वर्त्तते ॥ ६।४६
bhūmiḥ āpaḥ analaḥ vāyuḥ kham manaḥ buddhiḥ eva ca .bhūtādiḥ ādi-prakṛtiḥ niyoge mama varttate .. 6.46
योऽशेषजगतां योनिर्मोहिनी सर्वदेहिनाम् ।माया विवर्त्तते नित्यं सापीश्वरनियोगतः ॥ ६.४7
यः अशेष-जगताम् योनिः मोहिनी सर्व-देहिनाम् ।माया विवर्त्तते नित्यम् सा अपि ईश्वर-नियोगतः ॥ ६।४७
yaḥ aśeṣa-jagatām yoniḥ mohinī sarva-dehinām .māyā vivarttate nityam sā api īśvara-niyogataḥ .. 6.47
यो वै देहभृतां देवः पुरुषः पठ्यते परः ।आत्माऽसौ वर्त्तते नित्यमीश्वरस्य नियोगतः ॥ ६.४८
यः वै देहभृताम् देवः पुरुषः पठ्यते परः ।आत्मा असौ वर्त्तते नित्यम् ईश्वरस्य नियोगतः ॥ ६।४८
yaḥ vai dehabhṛtām devaḥ puruṣaḥ paṭhyate paraḥ .ātmā asau varttate nityam īśvarasya niyogataḥ .. 6.48
विधूय मोहकलिलं यया पश्यति तत् पदम् ।साऽपि बुद्धिर्महेशस्य नियोगवशवर्त्तिनी ॥ ६.४९
विधूय मोह-कलिलम् यया पश्यति तत् पदम् ।सा अपि बुद्धिः महेशस्य नियोग-वश-वर्त्तिनी ॥ ६।४९
vidhūya moha-kalilam yayā paśyati tat padam .sā api buddhiḥ maheśasya niyoga-vaśa-varttinī .. 6.49
बहुनाऽत्र किमुक्तेन मम शक्त्यात्मकं जगत् ॥मयैव प्रेर्यते कृत्स्नं मय्येव प्रलयं व्रजेत् ॥ ६.५०
बहुना अत्र किम् उक्तेन मम शक्ति-आत्मकम् जगत् ॥मया एव प्रेर्यते कृत्स्नम् मयि एव प्रलयम् व्रजेत् ॥ ६।५०
bahunā atra kim uktena mama śakti-ātmakam jagat ..mayā eva preryate kṛtsnam mayi eva pralayam vrajet .. 6.50
अहं हि भगवानीशः स्वयं ज्योतिः सनातनः ।परमात्मार परं ब्रह्म मत्तो ह्यन्यो न विद्यते ॥ ६.५१
अहम् हि भगवान् ईशः स्वयम् ज्योतिः सनातनः ।परमात्मा आर परम् ब्रह्म मत्तः हि अन्यः न विद्यते ॥ ६।५१
aham hi bhagavān īśaḥ svayam jyotiḥ sanātanaḥ .paramātmā āra param brahma mattaḥ hi anyaḥ na vidyate .. 6.51
इत्येतत् परमं ज्ञानं युष्माकं कथितं मया ।ज्ञात्वा विमुच्यते जन्तुर्जन्मसंसारबन्धनात् ॥ ६.५२
इति एतत् परमम् ज्ञानम् युष्माकम् कथितम् मया ।ज्ञात्वा विमुच्यते जन्तुः जन्म-संसार-बन्धनात् ॥ ६।५२
iti etat paramam jñānam yuṣmākam kathitam mayā .jñātvā vimucyate jantuḥ janma-saṃsāra-bandhanāt .. 6.52
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे (ईश्वरगीतासु) षष्ठोऽध्यायः ॥ ६ ॥
इति श्री-कूर्मपुराणे षट्साहस्त्र्याम् संहितायाम् उपरि विभागे (ईश्वरगीतासु षष्ठः अध्यायः ॥ ६ ॥
iti śrī-kūrmapurāṇe ṣaṭsāhastryām saṃhitāyām upari vibhāge (īśvaragītāsu ṣaṣṭhaḥ adhyāyaḥ .. 6 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In