| |
|

This overlay will guide you through the buttons:

ईश्वर उवाच ।
श्रृणुध्वमृषयः सर्वे प्रभावं परमेष्ठिनः ।यं ज्ञात्वा पुरुषो मुक्तो न संसारे पतेत् पुनः ॥ ७.१
श्रृणुध्वम् ऋषयः सर्वे प्रभावम् परमेष्ठिनः ।यम् ज्ञात्वा पुरुषः मुक्तः न संसारे पतेत् पुनर् ॥ ७।१
śrṛṇudhvam ṛṣayaḥ sarve prabhāvam parameṣṭhinaḥ .yam jñātvā puruṣaḥ muktaḥ na saṃsāre patet punar .. 7.1
परात् परतरं ब्रह्म शाश्वतं निष्कलं परम् ।नित्यानन्दं निर्विकल्पं तद्धाम परमं मम ॥ ७.२
परात् परतरम् ब्रह्म शाश्वतम् निष्कलम् परम् ।नित्य-आनन्दम् निर्विकल्पम् तत् धाम परमम् मम ॥ ७।२
parāt parataram brahma śāśvatam niṣkalam param .nitya-ānandam nirvikalpam tat dhāma paramam mama .. 7.2
अहं ब्रह्मविदां ब्रह्मा स्वयंभूर्विश्वतोमुखः ।मायाविनामहं देवः पुराणो हरिरव्ययः ॥ ७.३
अहम् ब्रह्म-विदाम् ब्रह्मा स्वयंभूः विश्वतोमुखः ।मायाविनाम् अहम् देवः पुराणः हरिः अव्ययः ॥ ७।३
aham brahma-vidām brahmā svayaṃbhūḥ viśvatomukhaḥ .māyāvinām aham devaḥ purāṇaḥ hariḥ avyayaḥ .. 7.3
योगिनामस्म्यहं शंभुः स्त्रीणां देवी गिरीन्द्रजा ।आदित्यानामहं विष्णुर्वसूनामस्मि पावकः ॥ ७.४
योगिनाम् अस्मि अहम् शंभुः स्त्रीणाम् देवी गिरीन्द्रजा ।आदित्यानाम् अहम् विष्णुः वसूनाम् अस्मि पावकः ॥ ७।४
yoginām asmi aham śaṃbhuḥ strīṇām devī girīndrajā .ādityānām aham viṣṇuḥ vasūnām asmi pāvakaḥ .. 7.4
रुद्राणां शंकरश्चाहं गरुडः पततामहम् ।ऐरावतो गजेन्द्राणां रामः शस्त्रप्रभृतामहम् ॥ ७.५
रुद्राणाम् शंकरः च अहम् गरुडः पतताम् अहम् ।ऐरावतः गज-इन्द्राणाम् रामः शस्त्र-प्रभृताम् अहम् ॥ ७।५
rudrāṇām śaṃkaraḥ ca aham garuḍaḥ patatām aham .airāvataḥ gaja-indrāṇām rāmaḥ śastra-prabhṛtām aham .. 7.5
ऋषीणां च वसिष्ठोऽहं देवानां च शतक्रतुः ।शिल्पिनां विश्वकर्माऽहं प्रह्लादोऽस्म्यमरद्विषाम् ॥ ७.६
ऋषीणाम् च वसिष्ठः अहम् देवानाम् च शतक्रतुः ।शिल्पिनाम् विश्वकर्मा अहम् प्रह्लादः अस्मि अमरद्विषाम् ॥ ७।६
ṛṣīṇām ca vasiṣṭhaḥ aham devānām ca śatakratuḥ .śilpinām viśvakarmā aham prahlādaḥ asmi amaradviṣām .. 7.6
मुनीनामप्यहं व्यासो गणानां च विनायकः ।वीराणां वीरभद्रोऽहं सिद्धानां कपिलो मुनिः ॥ ७.७
मुनीनाम् अपि अहम् व्यासः गणानाम् च विनायकः ।वीराणाम् वीरभद्रः अहम् सिद्धानाम् कपिलः मुनिः ॥ ७।७
munīnām api aham vyāsaḥ gaṇānām ca vināyakaḥ .vīrāṇām vīrabhadraḥ aham siddhānām kapilaḥ muniḥ .. 7.7
पर्वतानामहं मेरुर्नक्षत्राणां च चन्द्रमाः ।वज्रं प्रहरणानां च व्रतानां सत्यमस्म्यहम् ॥ ७.८
पर्वतानाम् अहम् मेरुः नक्षत्राणाम् च चन्द्रमाः ।वज्रम् प्रहरणानाम् च व्रतानाम् सत्यम् अस्मि अहम् ॥ ७।८
parvatānām aham meruḥ nakṣatrāṇām ca candramāḥ .vajram praharaṇānām ca vratānām satyam asmi aham .. 7.8
अनन्तो भोगिनां देवः सेनानीनां च पावकिः ।आश्रमाणां च गृहस्थोऽहमीश्वराणां महेश्वरः ॥ ७.९
अनन्तः भोगिनाम् देवः सेना-नीनाम् च पावकिः ।आश्रमाणाम् च गृहस्थः अहम् ईश्वराणाम् महेश्वरः ॥ ७।९
anantaḥ bhoginām devaḥ senā-nīnām ca pāvakiḥ .āśramāṇām ca gṛhasthaḥ aham īśvarāṇām maheśvaraḥ .. 7.9
महाकल्पश्च कल्पानां युगानां कृतमस्म्यहम् ।कुबेरः सर्वयक्षाणां गणेशानां च वीरुकः ॥ ७.१०
महाकल्पः च कल्पानाम् युगानाम् कृतम् अस्मि अहम् ।कुबेरः सर्व-यक्षाणाम् गणेशानाम् च वीरुकः ॥ ७।१०
mahākalpaḥ ca kalpānām yugānām kṛtam asmi aham .kuberaḥ sarva-yakṣāṇām gaṇeśānām ca vīrukaḥ .. 7.10
प्रजापतीनां दक्षोऽहं निर्ऋतिः सर्वरक्षसाम् ।वायुर्बलवतामस्मि द्वीपानां पुष्करोऽस्म्यहम् ॥ ७.११
प्रजापतीनाम् दक्षः अहम् निरृतिः सर्व-रक्षसाम् ।वायुः बलवताम् अस्मि द्वीपानाम् पुष्करः अस्मि अहम् ॥ ७।११
prajāpatīnām dakṣaḥ aham nirṛtiḥ sarva-rakṣasām .vāyuḥ balavatām asmi dvīpānām puṣkaraḥ asmi aham .. 7.11
मृगेन्द्राणां च सिंहोऽहं यन्त्राणां धनुरेव च ।वेदानां सामवेदोऽहं यजुषां शतरुद्रियम् ॥ ७.१२
मृग-इन्द्राणाम् च सिंहः अहम् यन्त्राणाम् धनुः एव च ।वेदानाम् सामवेदः अहम् यजुषाम् शतरुद्रियम् ॥ ७।१२
mṛga-indrāṇām ca siṃhaḥ aham yantrāṇām dhanuḥ eva ca .vedānām sāmavedaḥ aham yajuṣām śatarudriyam .. 7.12
सावित्री सर्वजप्यानां गुह्यानां प्रणवोऽस्म्यहम् ।सूक्तानां पौरुषं सूक्तं ज्येष्ठसाम च सामसु ॥ ७.१३
सावित्री सर्व-जप्यानाम् गुह्यानाम् प्रणवः अस्मि अहम् ।सूक्तानाम् पौरुषम् सूक्तम् ज्येष्ठसाम च सामसु ॥ ७।१३
sāvitrī sarva-japyānām guhyānām praṇavaḥ asmi aham .sūktānām pauruṣam sūktam jyeṣṭhasāma ca sāmasu .. 7.13
सर्ववेदार्थविदुषां मनुः स्वायंभुवोऽस्म्यहम् ।ब्रह्मावर्त्तस्तु देशानां क्षेत्राणामविमुक्तकम् ॥ ७.१४
सर्व-वेद-अर्थ-विदुषाम् मनुः स्वायंभुवः अस्मि अहम् ।ब्रह्मावर्तः तु देशानाम् क्षेत्राणाम् अविमुक्तकम् ॥ ७।१४
sarva-veda-artha-viduṣām manuḥ svāyaṃbhuvaḥ asmi aham .brahmāvartaḥ tu deśānām kṣetrāṇām avimuktakam .. 7.14
विद्यानामात्मविद्याऽहं ज्ञानानामैश्वरं परम् ।भूतानामस्म्यहं व्योम सत्त्वानां मृत्युरेव च ॥ ७.१५
विद्यानाम् आत्म-विद्या अहम् ज्ञानानाम् ऐश्वरम् परम् ।भूतानाम् अस्मि अहम् व्योम सत्त्वानाम् मृत्युः एव च ॥ ७।१५
vidyānām ātma-vidyā aham jñānānām aiśvaram param .bhūtānām asmi aham vyoma sattvānām mṛtyuḥ eva ca .. 7.15
पाशानामस्म्यहं माया कालः कलयतामहम् ।गतीनां मुक्तिरेवाहं परेषां परमेश्वरः ॥ ७.१६
पाशानाम् अस्मि अहम् माया कालः कलयताम् अहम् ।गतीनाम् मुक्तिः एव अहम् परेषाम् परमेश्वरः ॥ ७।१६
pāśānām asmi aham māyā kālaḥ kalayatām aham .gatīnām muktiḥ eva aham pareṣām parameśvaraḥ .. 7.16
यच्चान्यदपि लोकेऽस्मिन् सत्त्वं तेजोबलाधिकम् ।तत्सर्वं प्रतिजानीध्वं मम तेजोविजृम्भितम् ॥ ७.१७
यत् च अन्यत् अपि लोके अस्मिन् सत्त्वम् तेजः-बल-अधिकम् ।तत् सर्वम् प्रतिजानीध्वम् मम तेजः-विजृम्भितम् ॥ ७।१७
yat ca anyat api loke asmin sattvam tejaḥ-bala-adhikam .tat sarvam pratijānīdhvam mama tejaḥ-vijṛmbhitam .. 7.17
आत्मानः पशवः प्रोक्ताः सर्वे संसारवर्त्तिनः ।तेषां पतिरहं देवः स्मृतः पशुपतिर्बुधैः ॥ ७.१८
आत्मानः पशवः प्रोक्ताः सर्वे संसार-वर्त्तिनः ।तेषाम् पतिः अहम् देवः स्मृतः पशुपतिः बुधैः ॥ ७।१८
ātmānaḥ paśavaḥ proktāḥ sarve saṃsāra-varttinaḥ .teṣām patiḥ aham devaḥ smṛtaḥ paśupatiḥ budhaiḥ .. 7.18
मायापाशेन बध्नामि पशूनेतान् स्वलीलया ।मामेव मोचकं प्राहुः पशूनां वेदवादिनः ॥ ७.१९
माया-पाशेन बध्नामि पशून् एतान् स्व-लीलया ।माम् एव मोचकम् प्राहुः पशूनाम् वेद-वादिनः ॥ ७।१९
māyā-pāśena badhnāmi paśūn etān sva-līlayā .mām eva mocakam prāhuḥ paśūnām veda-vādinaḥ .. 7.19
मायापाशेन बद्धानां मोचकोऽन्यो न विद्यते ।मामृते परमात्मानं भूताधिपतिमव्ययम् ॥ ७.२०
माया-पाशेन बद्धानाम् मोचकः अन्यः न विद्यते ।माम् ऋते परमात्मानम् भूत-अधिपतिम् अव्ययम् ॥ ७।२०
māyā-pāśena baddhānām mocakaḥ anyaḥ na vidyate .mām ṛte paramātmānam bhūta-adhipatim avyayam .. 7.20
चतुर्विशतितत्त्वानि माया कर्म गुणा इति ।एते पाशाः पशुपतेः क्लेशाश्च पशुबन्धनाः ॥ ७.२१
चतुर्विशति-तत्त्वानि माया कर्म गुणाः इति ।एते पाशाः पशुपतेः क्लेशाः च पशु-बन्धनाः ॥ ७।२१
caturviśati-tattvāni māyā karma guṇāḥ iti .ete pāśāḥ paśupateḥ kleśāḥ ca paśu-bandhanāḥ .. 7.21
मनो बुद्धिरहंकारः खानिलाग्निजलानि भूः ।एताः प्रकृतयस्त्वष्टौ विकाराश्च तथापरे ॥ ७.२२
मनः बुद्धिः अहंकारः ख-अनिल-अग्नि-जलानि भूः ।एताः प्रकृतयः तु अष्टौ विकाराः च तथा अपरे ॥ ७।२२
manaḥ buddhiḥ ahaṃkāraḥ kha-anila-agni-jalāni bhūḥ .etāḥ prakṛtayaḥ tu aṣṭau vikārāḥ ca tathā apare .. 7.22
श्रोत्रं त्वक्चक्षुषी जिह्वा घ्राणं चैव तु पञ्चमम् ।पायूपस्थं करौ पादौ वाक् चैव दशमी मता ॥ ७.२३
श्रोत्रम् त्वच् चक्षुषी जिह्वा घ्राणम् च एव तु पञ्चमम् ।पायु-उपस्थम् करौ पादौ वाच् च एव दशमी मता ॥ ७।२३
śrotram tvac cakṣuṣī jihvā ghrāṇam ca eva tu pañcamam .pāyu-upastham karau pādau vāc ca eva daśamī matā .. 7.23
शब्दः स्पर्शश्च रूपं च रसो गन्धस्तथैव च ।त्रयोविंशतिरेतानि तत्त्वानि प्राकृतानि ॥ ७.२४
शब्दः स्पर्शः च रूपम् च रसः गन्धः तथा एव च ।त्रयोविंशतिः एतानि तत्त्वानि प्राकृतानि ॥ ७।२४
śabdaḥ sparśaḥ ca rūpam ca rasaḥ gandhaḥ tathā eva ca .trayoviṃśatiḥ etāni tattvāni prākṛtāni .. 7.24
चतुर्विंशकमव्यक्तं प्रधानं गुणलक्षणम् ।अनादिमध्यनिधनं कारणं जगतः परम् ॥ ७.२५
चतुर्विंशकम् अव्यक्तम् प्रधानम् गुण-लक्षणम् ।अन् आदि-मध्य-निधनम् कारणम् जगतः परम् ॥ ७।२५
caturviṃśakam avyaktam pradhānam guṇa-lakṣaṇam .an ādi-madhya-nidhanam kāraṇam jagataḥ param .. 7.25
सत्त्वं रजस्तमश्चेति गुणत्रयमुदाहृतम् ।साम्यावस्थितिमेतेषामव्यक्तं प्रकृतिं विदुः ॥ ७.२६
सत्त्वम् रजः तमः च इति गुणत्रयम् उदाहृतम् ।साम्य-अवस्थितिम् एतेषाम् अव्यक्तम् प्रकृतिम् विदुः ॥ ७।२६
sattvam rajaḥ tamaḥ ca iti guṇatrayam udāhṛtam .sāmya-avasthitim eteṣām avyaktam prakṛtim viduḥ .. 7.26
सत्त्वं ज्ञानं तमोऽज्ञानं रजो मिश्रमुदाहृतम् ।गुणानां बुद्धिवैषम्याद् वैषम्यं कवयो विदुः ॥ ७.२७
सत्त्वम् ज्ञानम् तमः अज्ञानम् रजः मिश्रम् उदाहृतम् ।गुणानाम् बुद्धि-वैषम्यात् वैषम्यम् कवयः विदुः ॥ ७।२७
sattvam jñānam tamaḥ ajñānam rajaḥ miśram udāhṛtam .guṇānām buddhi-vaiṣamyāt vaiṣamyam kavayaḥ viduḥ .. 7.27
धर्माधर्माविति प्रोक्तौ पाशौ द्वौ कर्मसंज्ञितौ ।मय्यर्पितानि कर्माणि नबन्धाय विमुक्तये ॥ ७.२८
धर्म-अधर्मौ इति प्रोक्तौ पाशौ द्वौ कर्म-संज्ञितौ ।मयि अर्पितानि कर्माणि न बन्धाय विमुक्तये ॥ ७।२८
dharma-adharmau iti proktau pāśau dvau karma-saṃjñitau .mayi arpitāni karmāṇi na bandhāya vimuktaye .. 7.28
अविद्यामस्मितां रागं द्वेषं चाभिनिवेशकम् ।क्लेशाख्यांस्तान् स्वयं प्राह पाशानात्मनिबन्धनान् ॥ ७.२९
अविद्याम् अस्मिताम् रागम् द्वेषम् च अभिनिवेशकम् ।क्लेश-आख्यान् तान् स्वयम् प्राह पाशान् आत्म-निबन्धनान् ॥ ७।२९
avidyām asmitām rāgam dveṣam ca abhiniveśakam .kleśa-ākhyān tān svayam prāha pāśān ātma-nibandhanān .. 7.29
एतेषामेव पाशानां माया कारणमुच्यते ।मूलप्रकृतिरव्यक्ता सा शक्तिर्मयि तिष्ठति ॥ ७.३०
एतेषाम् एव पाशानाम् माया कारणम् उच्यते ।मूलप्रकृतिः अव्यक्ता सा शक्तिः मयि तिष्ठति ॥ ७।३०
eteṣām eva pāśānām māyā kāraṇam ucyate .mūlaprakṛtiḥ avyaktā sā śaktiḥ mayi tiṣṭhati .. 7.30
स एव मूलप्रकृतिः प्रधानं पुरुषोऽपि च ।विकारा महदादीनि देवदेवः सनातनः ॥ ७.३१
सः एव मूलप्रकृतिः प्रधानम् पुरुषः अपि च ।विकाराः महत्-आदीनि देवदेवः सनातनः ॥ ७।३१
saḥ eva mūlaprakṛtiḥ pradhānam puruṣaḥ api ca .vikārāḥ mahat-ādīni devadevaḥ sanātanaḥ .. 7.31
स एव बन्धः स च बन्धकर्त्तास एव पाशः पशुभृत्स एव ।स वेद सर्वं न च तस्य वेत्तातमाहुराद्यं पुरुषं पुराणम् ॥ ७.३२
सः एव बन्धः स च बन्ध-कर्त्ता असौ एव पाशः पशुभृत् सः एव ।स वेद सर्वम् न च तस्य वेत्ता तम् आहुः आद्यम् पुरुषम् पुराणम् ॥ ७।३२
saḥ eva bandhaḥ sa ca bandha-karttā asau eva pāśaḥ paśubhṛt saḥ eva .sa veda sarvam na ca tasya vettā tam āhuḥ ādyam puruṣam purāṇam .. 7.32
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे (ईश्वरगीतासु) सप्तमोऽध्यायः ॥ ७ ॥
इति श्री-कूर्मपुराणे षट्साहस्त्र्याम् संहितायाम् उपरि विभागे (ईश्वरगीतासु सप्तमः अध्यायः ॥ ७ ॥
iti śrī-kūrmapurāṇe ṣaṭsāhastryām saṃhitāyām upari vibhāge (īśvaragītāsu saptamaḥ adhyāyaḥ .. 7 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In