| |
|

This overlay will guide you through the buttons:

ईश्वर उवाच ।
अन्यद् गुह्यतमं ज्ञानं वक्ष्ये ब्राह्मणपुंगवाः ।येनासौ तरते जन्तुर्घोरं संसारसागरम् ॥ ८.१
अन्यत् गुह्यतमम् ज्ञानम् वक्ष्ये ब्राह्मण-पुंगवाः ।येन असौ तरते जन्तुः घोरम् संसार-सागरम् ॥ ८।१
anyat guhyatamam jñānam vakṣye brāhmaṇa-puṃgavāḥ .yena asau tarate jantuḥ ghoram saṃsāra-sāgaram .. 8.1
अहं ब्रह्ममयः शान्तः शाश्वतो निर्मलोऽव्ययः ।एकाकी भगवानुक्तः केवलः परमेश्वरः ॥ ८.२
अहम् ब्रह्म-मयः शान्तः शाश्वतः निर्मलः अव्ययः ।एकाकी भगवान् उक्तः केवलः परमेश्वरः ॥ ८।२
aham brahma-mayaḥ śāntaḥ śāśvataḥ nirmalaḥ avyayaḥ .ekākī bhagavān uktaḥ kevalaḥ parameśvaraḥ .. 8.2
मम योनिर्महद् ब्रह्म तत्र गर्भं दधाम्यहम् ।मूल मायाभिधानं तं ततो जातमिदं जगत् ॥ ८.३
मम योनिः महत् ब्रह्म तत्र गर्भम् दधामि अहम् ।मूल माया-अभिधानम् तम् ततस् जातम् इदम् जगत् ॥ ८।३
mama yoniḥ mahat brahma tatra garbham dadhāmi aham .mūla māyā-abhidhānam tam tatas jātam idam jagat .. 8.3
प्रधानं पुरुषो ह्यत्मा महान् भूतादिरेव च ।तन्मात्राणि महाभूतानीन्द्रियाणि च जज्ञिरे ॥ ८.४
प्रधानम् पुरुषः हि अत्मा महान् भूतादिः एव च ।तन्मात्राणि महाभूतानि इन्द्रियाणि च जज्ञिरे ॥ ८।४
pradhānam puruṣaḥ hi atmā mahān bhūtādiḥ eva ca .tanmātrāṇi mahābhūtāni indriyāṇi ca jajñire .. 8.4
ततोऽण्डमभवद्धैमं सूर्यकोटिसमप्रभम् ।तस्मिन् जज्ञे महाब्रह्मा मच्छक्त्या चोपबृंहितः ॥ ८.५
ततस् अण्डम् अभवत् हैमम् सूर्य-कोटि-सम-प्रभम् ।तस्मिन् जज्ञे महा-ब्रह्मा मद्-शक्त्या च उपबृंहितः ॥ ८।५
tatas aṇḍam abhavat haimam sūrya-koṭi-sama-prabham .tasmin jajñe mahā-brahmā mad-śaktyā ca upabṛṃhitaḥ .. 8.5
ये चान्ये बहवो जीवा मन्मयाः सर्व एव ते ।न मां पश्यन्ति पितरं मायया मम मोहिताः ॥ ८.६
ये च अन्ये बहवः जीवाः मद्-मयाः सर्वे एव ते ।न माम् पश्यन्ति पितरम् मायया मम मोहिताः ॥ ८।६
ye ca anye bahavaḥ jīvāḥ mad-mayāḥ sarve eva te .na mām paśyanti pitaram māyayā mama mohitāḥ .. 8.6
यासु योनिषु सर्वासु संभवन्ति हि मूर्त्तयः ।तासां माया परा योनिर्मामेव पितरं विदुः ॥ ८.७
यासु योनिषु सर्वासु संभवन्ति हि मूर्त्तयः ।तासाम् माया परा योनिः माम् एव पितरम् विदुः ॥ ८।७
yāsu yoniṣu sarvāsu saṃbhavanti hi mūrttayaḥ .tāsām māyā parā yoniḥ mām eva pitaram viduḥ .. 8.7
यो मामेवं विजानाति बीजिनं पितरं प्रभुम् ।स धीरः सर्वलोकेषु न मोहमधिगच्छति ॥ ८.८
यः माम् एवम् विजानाति बीजिनम् पितरम् प्रभुम् ।स धीरः सर्व-लोकेषु न मोहम् अधिगच्छति ॥ ८।८
yaḥ mām evam vijānāti bījinam pitaram prabhum .sa dhīraḥ sarva-lokeṣu na moham adhigacchati .. 8.8
ईशानः सर्वविद्यानां भूतानां परमेश्वरः ।ओङ्कारमूर्तिर्भगवानहं ब्रह्मा प्रजापतिः ॥ ८.९
ईशानः सर्व-विद्यानाम् भूतानाम् परम-ईश्वरः ।ओङ्कार-मूर्तिः भगवान् अहम् ब्रह्मा प्रजापतिः ॥ ८।९
īśānaḥ sarva-vidyānām bhūtānām parama-īśvaraḥ .oṅkāra-mūrtiḥ bhagavān aham brahmā prajāpatiḥ .. 8.9
समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम् ।विनश्यत्स्वविनश्यन्तं यः पश्यति स पश्यति ॥ ८.१०
समम् सर्वेषु भूतेषु तिष्ठन्तम् परमेश्वरम् ।विनश्यत्-स्व-विनश्यन्तम् यः पश्यति स पश्यति ॥ ८।१०
samam sarveṣu bhūteṣu tiṣṭhantam parameśvaram .vinaśyat-sva-vinaśyantam yaḥ paśyati sa paśyati .. 8.10
समं पश्यन् हि सर्वत्र समवस्थितमीश्वरम् ।न हिनस्त्यात्मनात्मानं ततो याति परांगतिम् ॥ ८.११
समम् पश्यन् हि सर्वत्र समवस्थितम् ईश्वरम् ।न हिनस्ति आत्मना आत्मानम् ततस् याति परांगतिम् ॥ ८।११
samam paśyan hi sarvatra samavasthitam īśvaram .na hinasti ātmanā ātmānam tatas yāti parāṃgatim .. 8.11
विदित्वा सप्त सूक्ष्माणि षडङ्गं च महेश्वरम् ।प्रधानविनियोगज्ञः परं ब्रह्माधिगच्छति ॥ ८.१२
विदित्वा सप्त सूक्ष्माणि षष्-अङ्गम् च महेश्वरम् ।प्रधान-विनियोग-ज्ञः परम् ब्रह्म अधिगच्छति ॥ ८।१२
viditvā sapta sūkṣmāṇi ṣaṣ-aṅgam ca maheśvaram .pradhāna-viniyoga-jñaḥ param brahma adhigacchati .. 8.12
सर्वज्ञता तृप्तिरनादिबोधः स्वतन्दता नित्यमलुप्तशक्तिः ।अनन्तशक्तिश्च विभोर्विदित्वा षडाहुरङ्गानि महेश्वरस्य ॥ ८.१३
सर्वज्ञ-ता तृप्तिः अनादि-बोधः स्वतन्द-ता नित्यम् अलुप्त-शक्तिः ।अनन्त-शक्तिः च विभोः विदित्वा षड् आहुः अङ्गानि महेश्वरस्य ॥ ८।१३
sarvajña-tā tṛptiḥ anādi-bodhaḥ svatanda-tā nityam alupta-śaktiḥ .ananta-śaktiḥ ca vibhoḥ viditvā ṣaḍ āhuḥ aṅgāni maheśvarasya .. 8.13
तन्मात्राणि मन आत्मा च तानि सूक्ष्माण्याहुः सप्ततत्त्वात्मकानि ।या सा हेतुः प्रकृतिः सा प्रधानंबन्धः प्रोक्तो विनियोगोऽपि तेन ॥ ८.१४
तन्मात्राणि मनः आत्मा च तानि सूक्ष्माणि आहुः सप्त-तत्त्व-आत्मकानि ।या सा हेतुः प्रकृतिः सा प्रधानम् बन्धः प्रोक्तः विनियोगः अपि तेन ॥ ८।१४
tanmātrāṇi manaḥ ātmā ca tāni sūkṣmāṇi āhuḥ sapta-tattva-ātmakāni .yā sā hetuḥ prakṛtiḥ sā pradhānam bandhaḥ proktaḥ viniyogaḥ api tena .. 8.14
या सा शक्तिः प्रकृतौ लीनरूपावेदेषूक्ता कारणं ब्रह्मयोनिः ।तस्या एकः परमेष्ठी पुरस्ता-न्महेश्वरः पुरुषः सत्यरूपः ॥ ८.१५
या सा शक्तिः प्रकृतौ कारणम् ब्रह्म-योनिः ।तस्याः एकः परमेष्ठी पुरस्तात् महेश्वरः पुरुषः सत्य-रूपः ॥ ८।१५
yā sā śaktiḥ prakṛtau kāraṇam brahma-yoniḥ .tasyāḥ ekaḥ parameṣṭhī purastāt maheśvaraḥ puruṣaḥ satya-rūpaḥ .. 8.15
ब्रहामा योगी परमात्मा महीयान् व्योमव्यापी वेदवेद्यः पुराणः ।एको रुद्रो मृत्युमव्यक्तमेकंबीजं विश्वं देव एकः स एव ॥ ८.१६
ब्रहामा योगी परम-आत्मा महीयान् व्योम-व्यापी वेद-वेद्यः पुराणः ।एकः रुद्रः मृत्युम् अव्यक्तम् एकम् बीजम् विश्वम् देवः एकः सः एव ॥ ८।१६
brahāmā yogī parama-ātmā mahīyān vyoma-vyāpī veda-vedyaḥ purāṇaḥ .ekaḥ rudraḥ mṛtyum avyaktam ekam bījam viśvam devaḥ ekaḥ saḥ eva .. 8.16
तमेवैकं प्राहुरन्येऽप्यनेकं त्वेकात्मानं केचिदन्यंतमाहुः ।अणोरणीयान् महतो महीयान् महादेवः प्रोच्यते वेदविद्भिः ॥ ८.१७
तम् एव एकम् प्राहुः अन्ये अपि अनेकम् तु एक-आत्मानम् केचिद् अन्यंतम् आहुः ।अणोः अणीयान् महतः महीयान् महादेवः प्रोच्यते वेद-विद्भिः ॥ ८।१७
tam eva ekam prāhuḥ anye api anekam tu eka-ātmānam kecid anyaṃtam āhuḥ .aṇoḥ aṇīyān mahataḥ mahīyān mahādevaḥ procyate veda-vidbhiḥ .. 8.17
एवम् हि यो वेद गुहाशयं परं प्रभुं पुराणं पुरुषं विश्वरूपम् ।हिरण्मयं बुद्धिमतां परां गतिंसबुद्धिमान् बुद्धिमतीत्य तिष्ठति ॥ ८.१८
एवम् हि यः वेद गुहा-आशयम् परम् प्रभुम् पुराणम् पुरुषम् विश्व-रूपम् ।हिरण्मयम् बुद्धिमताम् पराम् गतिम् स बुद्धिमान् बुद्धिम् अतीत्य तिष्ठति ॥ ८।१८
evam hi yaḥ veda guhā-āśayam param prabhum purāṇam puruṣam viśva-rūpam .hiraṇmayam buddhimatām parām gatim sa buddhimān buddhim atītya tiṣṭhati .. 8.18
इति श्रीकूर्मपाराणे षट्साहस्त्र्यां संहितायामुपरिविभागे (ईश्वरगीतासु) अष्टमोऽध्यायः ॥ ८ ॥
इति श्री-कूर्मपाराणे षट्साहस्त्र्याम् संहितायाम् उपरि विभागे (ईश्वरगीतासु अष्टमः अध्यायः ॥ ८ ॥
iti śrī-kūrmapārāṇe ṣaṭsāhastryām saṃhitāyām upari vibhāge (īśvaragītāsu aṣṭamaḥ adhyāyaḥ .. 8 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In