| |
|

This overlay will guide you through the buttons:

ऋषय ऊचुः ।
निष्कलो निर्मलो नित्यो निष्क्रियः परमेश्वरः ।तन्नो वद महादेव विश्वरूपः कथं भवान् ॥ ९.१
।तत् नः वद महादेव विश्वरूपः कथम् भवान् ॥ ९।१
.tat naḥ vada mahādeva viśvarūpaḥ katham bhavān .. 9.1
ईश्वर उवाच ।
नाहं विश्वो न विश्वं च मामृते विद्यते द्विजाः ।मायानिमित्तमत्रास्ति सा चात्मनि मया श्रिता ॥ ९.२
न अहम् विश्वः न विश्वम् च माम् ऋते विद्यते द्विजाः ।माया-निमित्तम् अत्र अस्ति सा च आत्मनि मया श्रिता ॥ ९।२
na aham viśvaḥ na viśvam ca mām ṛte vidyate dvijāḥ .māyā-nimittam atra asti sā ca ātmani mayā śritā .. 9.2
अनादिनिधना शक्तिर्मायाऽव्यक्तसमाश्रया ।तन्निमित्तः प्रपञ्चोऽयमव्यक्तादभवत् खलु ॥ ९.३
अनादिनिधना शक्तिः माया अव्यक्त-समाश्रया ।तद्-निमित्तः प्रपञ्चः अयम् अव्यक्तात् अभवत् खलु ॥ ९।३
anādinidhanā śaktiḥ māyā avyakta-samāśrayā .tad-nimittaḥ prapañcaḥ ayam avyaktāt abhavat khalu .. 9.3
अव्यक्तं कारणं प्राहुरानन्दं ज्योतिरक्षरम् ।अहमेव परं ब्रह्म मत्तो ह्यन्यन्न विद्यते ॥ ९.४
अव्यक्तम् कारणम् प्राहुः आनन्दम् ज्योतिः अक्षरम् ।अहम् एव परम् ब्रह्म मत्तः हि अन्यत् न विद्यते ॥ ९।४
avyaktam kāraṇam prāhuḥ ānandam jyotiḥ akṣaram .aham eva param brahma mattaḥ hi anyat na vidyate .. 9.4
तस्मान्मे विश्वरूपत्वं निश्चितं ब्रह्मवादिभिः ।एकत्वे च पृथक्त्वं च प्रोक्तमेतन्निदर्शनम् ॥ ९.५
तस्मात् मे विश्व-रूप-त्वम् निश्चितम् ब्रह्म-वादिभिः ।एकत्वे च पृथक्त्वम् च प्रोक्तम् एतत् निदर्शनम् ॥ ९।५
tasmāt me viśva-rūpa-tvam niścitam brahma-vādibhiḥ .ekatve ca pṛthaktvam ca proktam etat nidarśanam .. 9.5
अहं तत् परमं ब्रह्म परमात्मा सनातनः ।अकारणं द्विजाः प्रोक्तो न दोषो ह्यात्मनस्तथा ॥ ९.६
अहम् तत् परमम् ब्रह्म परम-आत्मा सनातनः ।अकारणम् द्विजाः प्रोक्तः न दोषः हि आत्मनः तथा ॥ ९।६
aham tat paramam brahma parama-ātmā sanātanaḥ .akāraṇam dvijāḥ proktaḥ na doṣaḥ hi ātmanaḥ tathā .. 9.6
अनन्ता शक्तयोऽव्यक्ता मायया संस्थिता ध्रुवाः ।तस्मिन् दिवि स्थितं नित्यमव्यक्तं भाति केवलम् ॥ ९.७
अनन्ता शक्तयः अव्यक्ताः मायया संस्थिताः ध्रुवाः ।तस्मिन् दिवि स्थितम् नित्यम् अव्यक्तम् भाति केवलम् ॥ ९।७
anantā śaktayaḥ avyaktāḥ māyayā saṃsthitāḥ dhruvāḥ .tasmin divi sthitam nityam avyaktam bhāti kevalam .. 9.7
याभिस्तल्लक्ष्यते भिन्नं ब्रग्माव्यक्तं सनातनम् ।एकया मम सायुज्यमनादिनिधनं ध्रुवम् ॥ ९.८
याभिः तत् लक्ष्यते भिन्नम् ब्रग्म अव्यक्तम् सनातनम् ।एकया मम सायुज्यम् अनादिनिधनम् ध्रुवम् ॥ ९।८
yābhiḥ tat lakṣyate bhinnam bragma avyaktam sanātanam .ekayā mama sāyujyam anādinidhanam dhruvam .. 9.8
पुंसोऽन्याभूद्यथा भूतिरन्यया न तिरोहितम् ।अनादिमध्यं तिष्ठन्तं चेष्टतेऽविद्यया किल ॥ ९.९
पुंसः अन्या अभूत् यथा भूतिः अन्यया न तिरोहितम् ।अनादि-मध्यम् तिष्ठन्तम् चेष्टते अविद्यया किल ॥ ९।९
puṃsaḥ anyā abhūt yathā bhūtiḥ anyayā na tirohitam .anādi-madhyam tiṣṭhantam ceṣṭate avidyayā kila .. 9.9
तदेतत् परमं व्यक्तं प्रभामण्डलमण्डितम् ।तदक्षरं परं ज्योतिस्तद् विष्णोः परमं पदम् ॥ ९.१०
तत् एतत् परमम् व्यक्तम् प्रभा-मण्डल-मण्डितम् ।तत् अक्षरम् परम् ज्योतिः तत् विष्णोः परमम् पदम् ॥ ९।१०
tat etat paramam vyaktam prabhā-maṇḍala-maṇḍitam .tat akṣaram param jyotiḥ tat viṣṇoḥ paramam padam .. 9.10
तत्र सर्वमिदं प्रोतमोतं चैवाखिलं जगत् ।तदेव च जगत् कृत्स्नं तद् विज्ञाय विमुच्यते ॥ ९.११
तत्र सर्वम् इदम् प्रोतम् ओतम् च एव अखिलम् जगत् ।तत् एव च जगत् कृत्स्नम् तत् विज्ञाय विमुच्यते ॥ ९।११
tatra sarvam idam protam otam ca eva akhilam jagat .tat eva ca jagat kṛtsnam tat vijñāya vimucyate .. 9.11
यतो वाचो निवर्त्तन्ते अप्राप्य मनसा सह ।आनन्दं ब्रह्मणो विद्वान् विभेति न कुतश्चन ॥ ९.१२
यतस् वाचः निवर्त्तन्ते अ प्राप्य मनसा सह ।आनन्दम् ब्रह्मणः विद्वान् विभेति न कुतश्चन ॥ ९।१२
yatas vācaḥ nivarttante a prāpya manasā saha .ānandam brahmaṇaḥ vidvān vibheti na kutaścana .. 9.12
वेदाहमेतं पुरुषं महान्त- मादित्यवर्णं तमसः परस्तात् ।तद् विज्ञाय परिमुच्येत विद्वान् नित्यानन्दी भवति ब्रह्मभूतः ॥ ९.१३
वेद अहम् एतम् पुरुषम् महान्तम् आदित्य-वर्णम् तमसः परस्तात् ।तत् विज्ञाय परिमुच्येत विद्वान् नित्य-आनन्दी भवति ब्रह्म-भूतः ॥ ९।१३
veda aham etam puruṣam mahāntam āditya-varṇam tamasaḥ parastāt .tat vijñāya parimucyeta vidvān nitya-ānandī bhavati brahma-bhūtaḥ .. 9.13
यस्मात् परं नापरमस्ति किञ्चित् यज्ज्योतिषां ज्योतिरेकं दिविस्थम् ।तदेवात्मानं मन्यमानोऽथ विद्वा- नात्मनन्दी भवति ब्रह्मभूतः ॥ ९.१४
यस्मात् परम् न अपरम् अस्ति किञ्चिद् यत् ज्योतिषाम् ज्योतिः एकम् दिवि-स्थम् ।तत् एव आत्मानम् मन्यमानः अथ विद्वान् आत्म-नन्दी भवति ब्रह्म-भूतः ॥ ९।१४
yasmāt param na aparam asti kiñcid yat jyotiṣām jyotiḥ ekam divi-stham .tat eva ātmānam manyamānaḥ atha vidvān ātma-nandī bhavati brahma-bhūtaḥ .. 9.14
तदप्ययं कलिलं गूढदेहं ब्रह्मानन्दममृतं विश्वधामा ।वदन्त्येवं ब्राह्मणा ब्रह्मनिष्ठा यत्र गत्वा न निवर्त्तेत भूयः ॥ ९.१५
तत् अपि अयम् कलिलम् गूढ-देहम् ब्रह्म-आनन्दम् अमृतम् विश्व-धामा ।वदन्ति एवम् ब्राह्मणाः ब्रह्म-निष्ठाः यत्र गत्वा न निवर्त्तेत भूयस् ॥ ९।१५
tat api ayam kalilam gūḍha-deham brahma-ānandam amṛtam viśva-dhāmā .vadanti evam brāhmaṇāḥ brahma-niṣṭhāḥ yatra gatvā na nivartteta bhūyas .. 9.15
हिरण्मये परमाकाशतत्त्वे यदर्चिषि प्रविभातीव तेजः ।तद्विज्ञाने परिपश्यन्ति धीरा विभ्राजमानं विमलं व्योम धाम ॥ ९.१६
हिरण्मये परम-आकाश-तत्त्वे यत् अर्चिषि प्रविभाति इव तेजः ।तद्-विज्ञाने परिपश्यन्ति धीराः विभ्राजमानम् विमलम् व्योम धाम ॥ ९।१६
hiraṇmaye parama-ākāśa-tattve yat arciṣi pravibhāti iva tejaḥ .tad-vijñāne paripaśyanti dhīrāḥ vibhrājamānam vimalam vyoma dhāma .. 9.16
एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा ।तमेवैकं येऽनुपश्यन्ति धीरा- स्तेषां शान्तिः शाश्वतीनेतरेषाम् ॥ ९.१८
एकः देवः सर्व-भूतेषु गूढः सर्व-व्यापी सर्व-भूत-अन्तरात्मा ।तम् एव एकम् ये अनुपश्यन्ति धीराः तेषाम् शान्तिः शाश्वतीनाम् इतरेषाम् ॥ ९।१८
ekaḥ devaḥ sarva-bhūteṣu gūḍhaḥ sarva-vyāpī sarva-bhūta-antarātmā .tam eva ekam ye anupaśyanti dhīrāḥ teṣām śāntiḥ śāśvatīnām itareṣām .. 9.18
ततः परं परिपश्यन्ति धीरा आत्मन्यात्मानमनुभूय साक्षात् ।स्वयंप्रभुः परमेष्ठी महीयान् ब्रह्मानन्दी भगवानीश एषः ॥ ९.१७
ततस् परम् परिपश्यन्ति धीराः आत्मनि आत्मानम् अनुभूय साक्षात् ।स्वयंप्रभुः परमेष्ठी महीयान् ब्रह्म-आनन्दी भगवान् ईशः एषः ॥ ९।१७
tatas param paripaśyanti dhīrāḥ ātmani ātmānam anubhūya sākṣāt .svayaṃprabhuḥ parameṣṭhī mahīyān brahma-ānandī bhagavān īśaḥ eṣaḥ .. 9.17
सर्वायनशिरोग्रीवः सर्वभूतगुहाशयः । सर्वव्यापी च भगवान् न तस्मादन्यदिष्यते ॥ ९.१९इत्येतदैश्वरं ज्ञानमुक्तं वो मुनिपुंगवाः । गोपनीयं विशेषेण योगिनामपि दुर्लभम् ॥ ९.२०
सर्व-अयन-शिरः-ग्रीवः सर्व-भूत-गुहा-आशयः । सर्वव्यापी च भगवान् न तस्मात् अन्यत् इष्यते ॥ ९।१९इति एतत् ऐश्वरम् ज्ञानम् उक्तम् वः मुनि-पुंगवाः । गोपनीयम् विशेषेण योगिनाम् अपि दुर्लभम् ॥ ९।२०
sarva-ayana-śiraḥ-grīvaḥ sarva-bhūta-guhā-āśayaḥ . sarvavyāpī ca bhagavān na tasmāt anyat iṣyate .. 9.19iti etat aiśvaram jñānam uktam vaḥ muni-puṃgavāḥ . gopanīyam viśeṣeṇa yoginām api durlabham .. 9.20

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In