| |
|

This overlay will guide you through the buttons:

नारायणं नमस्कृत्य नरं चैव नरोत्तमम् । देवीं सरस्वतीं चैव ततो जयमुदीरयेत् ॥
नारायणम् नमस्कृत्य नरम् च एव नरोत्तमम् । देवीम् सरस्वतीम् च एव ततस् जयम् उदीरयेत् ॥
nārāyaṇam namaskṛtya naram ca eva narottamam . devīm sarasvatīm ca eva tatas jayam udīrayet ..
नमस्कृत्याऽप्रमेयाय विष्णवे कूर्मरूपिणे । पुराणं संप्रवक्ष्यामि यदुक्तं विश्वयोनिना ॥ १.१ ॥
नमस्कृत्य अ अप्रमेयाय विष्णवे कूर्म-रूपिणे । पुराणम् संप्रवक्ष्यामि यत् उक्तम् विश्वयोनिना ॥ १।१ ॥
namaskṛtya a aprameyāya viṣṇave kūrma-rūpiṇe . purāṇam saṃpravakṣyāmi yat uktam viśvayoninā .. 1.1 ..
सत्रान्ते सूतमनघं नैमिषेया महर्षयः । पुराणसंहितां पुण्यां पप्रच्छू रोमहर्षणम् ॥ १.२ ॥
सत्र-अन्ते सूतम् अनघम् नैमिषेयाः महा-ऋषयः । पुराण-संहिताम् पुण्याम् पप्रच्छुः रोमहर्षणम् ॥ १।२ ॥
satra-ante sūtam anagham naimiṣeyāḥ mahā-ṛṣayaḥ . purāṇa-saṃhitām puṇyām papracchuḥ romaharṣaṇam .. 1.2 ..
त्वया सूत महाबुद्धे भगवान् ब्रह्मवित्तमः । इतिहासपुराणार्थं व्यासः सम्यगुपासितः ॥ १.३ ॥
त्वया सूत महाबुद्धे भगवान् ब्रह्म-वित्तमः । इतिहास-पुराण-अर्थम् व्यासः सम्यक् उपासितः ॥ १।३ ॥
tvayā sūta mahābuddhe bhagavān brahma-vittamaḥ . itihāsa-purāṇa-artham vyāsaḥ samyak upāsitaḥ .. 1.3 ..
तस्य ते सर्वरोमाणि वचसा त्दृषितानि यत्द्वैपायनस्य तु भवांस्ततो वै रोमहर्षणः ॥ १.४ ॥
तस्य ते सर्व-रोमाणि वचसा यत् द्वैपायनस्य तु भवान् ततस् वै रोमहर्षणः ॥ १।४ ॥
tasya te sarva-romāṇi vacasā yat dvaipāyanasya tu bhavān tatas vai romaharṣaṇaḥ .. 1.4 ..
भवन्तमेव भगवान् व्याजहार स्वयं प्रभुः । मुनीनां संहितां वक्तुं व्यासः पौराणिकीं पुरा ॥ १.५ ॥
भवन्तम् एव भगवान् व्याजहार स्वयम् प्रभुः । मुनीनाम् संहिताम् वक्तुम् व्यासः पौराणिकीम् पुरा ॥ १।५ ॥
bhavantam eva bhagavān vyājahāra svayam prabhuḥ . munīnām saṃhitām vaktum vyāsaḥ paurāṇikīm purā .. 1.5 ..
त्वं हि स्वायंभुवे यज्ञे सुत्याहे वितते हरिः । संभूतः संहितां वक्तुं स्वांशेन पुरुषोत्तमः ॥ १.६ ॥
त्वम् हि स्वायंभुवे यज्ञे सुत्य-अहे वितते हरिः । संभूतः संहिताम् वक्तुम् स्व-अंशेन पुरुषोत्तमः ॥ १।६ ॥
tvam hi svāyaṃbhuve yajñe sutya-ahe vitate hariḥ . saṃbhūtaḥ saṃhitām vaktum sva-aṃśena puruṣottamaḥ .. 1.6 ..
तस्माद् भवन्तं पृच्छामः पुराणं कौर्ममुत्तमम् । वक्तुमर्हसि चास्माकं पुराणार्थविशारद ॥ १.७ ॥
तस्मात् भवन्तम् पृच्छामः पुराणम् कौर्मम् उत्तमम् । वक्तुम् अर्हसि च अस्माकम् पुराण-अर्थ-विशारद ॥ १।७ ॥
tasmāt bhavantam pṛcchāmaḥ purāṇam kaurmam uttamam . vaktum arhasi ca asmākam purāṇa-artha-viśārada .. 1.7 ..
मुनीनां वचनं श्रुत्वा सूतः पौराणिकोत्तमः । प्रणम्य मनसा प्राह गुरुं सत्यवतीसुतम् ॥ १.८ ॥
मुनीनाम् वचनम् श्रुत्वा सूतः पौराणिक-उत्तमः । प्रणम्य मनसा प्राह गुरुम् सत्यवती-सुतम् ॥ १।८ ॥
munīnām vacanam śrutvā sūtaḥ paurāṇika-uttamaḥ . praṇamya manasā prāha gurum satyavatī-sutam .. 1.8 ..
रोमहर्षण उवाच ।
नमस्कृत्य जगद्योनिं कूर्मरूपधरं हरिम् । वक्ष्ये पौराणिकीं दिव्यां कथां पापप्रणाशिनीम् ॥ १.९ ॥
नमस्कृत्य जगद्योनिम् कूर्म-रूप-धरम् हरिम् । वक्ष्ये पौराणिकीम् दिव्याम् कथाम् पाप-प्रणाशिनीम् ॥ १।९ ॥
namaskṛtya jagadyonim kūrma-rūpa-dharam harim . vakṣye paurāṇikīm divyām kathām pāpa-praṇāśinīm .. 1.9 ..
यां श्रुत्वा पापकर्माऽपि गच्छेत परमां गतिम् । न नास्तिके कथां पुण्यामिमां ब्रूयात् कदाचन ॥ १.१ ॥
याम् श्रुत्वा पाप-कर्मा अपि गच्छेत परमाम् गतिम् । न नास्तिके कथाम् पुण्याम् इमाम् ब्रूयात् कदाचन ॥ १।१ ॥
yām śrutvā pāpa-karmā api gaccheta paramām gatim . na nāstike kathām puṇyām imām brūyāt kadācana .. 1.1 ..
श्रद्दधानाय शान्ताय धार्मिकाय द्विजातये । इमां कथामनुब्रूयात् साक्षान्नारायणेरिताम् ॥ १.११ ॥
श्रद्दधानाय शान्ताय धार्मिकाय द्विजातये । इमाम् कथाम् अनुब्रूयात् साक्षात् नारायण-ईरिताम् ॥ १।११ ॥
śraddadhānāya śāntāya dhārmikāya dvijātaye . imām kathām anubrūyāt sākṣāt nārāyaṇa-īritām .. 1.11 ..
सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च । वंशानुचरितं चैव पुराणं पञ्चलक्षणम् ॥ १.१२ ॥
सर्गः च प्रतिसर्गः च वंशः मन्वन्तराणि च । वंशानुचरितम् च एव पुराणम् पञ्च-लक्षणम् ॥ १।१२ ॥
sargaḥ ca pratisargaḥ ca vaṃśaḥ manvantarāṇi ca . vaṃśānucaritam ca eva purāṇam pañca-lakṣaṇam .. 1.12 ..
ब्राह्मं पुराणं प्रथमं पाद्मं वैष्णवमेव च । शैवं भागवतं चैव भविष्यं नारदीयकम् ॥ १.१३ ॥
ब्राह्मम् पुराणम् प्रथमम् पाद्मम् वैष्णवम् एव च । शैवम् भागवतम् च एव भविष्यम् नारदीयकम् ॥ १।१३ ॥
brāhmam purāṇam prathamam pādmam vaiṣṇavam eva ca . śaivam bhāgavatam ca eva bhaviṣyam nāradīyakam .. 1.13 ..
मार्कण्डेयमथाग्नेयं ब्रह्मवैवर्तमेव च । लैङ्गं तथा च वाराहं स्कान्दं वामनमेव च ॥ १.१४ ॥
मार्कण्डेयम् अथ आग्नेयम् ब्रह्मवैवर्तम् एव च । लैङ्गम् तथा च वाराहम् स्कान्दम् वामनम् एव च ॥ १।१४ ॥
mārkaṇḍeyam atha āgneyam brahmavaivartam eva ca . laiṅgam tathā ca vārāham skāndam vāmanam eva ca .. 1.14 ..
कौर्म्मं मात्स्यं गारुडं च वायवीयमनन्तरम् । अष्टादशं समुद्दिष्टं ब्रह्मण्डमिति संज्ञितम् ॥ १.१५ ॥
कौर्म्मम् मात्स्यम् गारुडम् च वायवीयम् अनन्तरम् । अष्टादशम् समुद्दिष्टम् ब्रह्मण्डम् इति संज्ञितम् ॥ १।१५ ॥
kaurmmam mātsyam gāruḍam ca vāyavīyam anantaram . aṣṭādaśam samuddiṣṭam brahmaṇḍam iti saṃjñitam .. 1.15 ..
अन्यान्युपपुराणानि मुनिभिः कथितानि तु । अष्टादशपुराणानि श्रुत्वा संक्षेपतो द्विजाः ॥ १.१६ ॥
अन्यानि उपपुराणानि मुनिभिः कथितानि तु । अष्टादश-पुराणानि श्रुत्वा संक्षेपतः द्विजाः ॥ १।१६ ॥
anyāni upapurāṇāni munibhiḥ kathitāni tu . aṣṭādaśa-purāṇāni śrutvā saṃkṣepataḥ dvijāḥ .. 1.16 ..
आद्यं सनत्कुमारोक्तं नारसिहमतः परम् । तृतीयं स्कान्दमुद्दिष्टं कुमारेण तु भाषितम् ॥ १.१७ ॥
आद्यम् सनत्कुमार-उक्तम् नारसिहम् अतस् परम् । तृतीयम् स्कान्दम् उद्दिष्टम् कुमारेण तु भाषितम् ॥ १।१७ ॥
ādyam sanatkumāra-uktam nārasiham atas param . tṛtīyam skāndam uddiṣṭam kumāreṇa tu bhāṣitam .. 1.17 ..
चतुर्थं शिवधर्माख्यं साक्षान्नन्दीशभाषितम् । दुर्वाससोक्तमाश्चर्यं नारदीयमतः परम् ॥ १.१८ ॥
चतुर्थम् शिवधर्म-आख्यम् साक्षात् नन्दीश-भाषितम् । दुर्वाससा उक्तम् आश्चर्यम् नारदीयम् अतस् परम् ॥ १।१८ ॥
caturtham śivadharma-ākhyam sākṣāt nandīśa-bhāṣitam . durvāsasā uktam āścaryam nāradīyam atas param .. 1.18 ..
कापिलं वामनं चैव तथैवोशनसेरितम् । ब्रह्माण्डं वारुणं चैव कालिकाह्वयमेव च ॥ १.१९ ॥
कापिलम् वामनम् च एव तथा एव उशनसा ईरितम् । ब्रह्माण्डम् वारुणम् च एव कालिका-आह्वयम् एव च ॥ १।१९ ॥
kāpilam vāmanam ca eva tathā eva uśanasā īritam . brahmāṇḍam vāruṇam ca eva kālikā-āhvayam eva ca .. 1.19 ..
माहेश्वरं तथा साम्बं सौरं सर्वार्थसञ्चयम् । पराशरोक्तं मारीचं भार्गवाह्वयम् ॥ १.२ ॥
माहेश्वरम् तथा साम्बम् सौरम् सर्व-अर्थ-सञ्चयम् । ॥ १।२ ॥
māheśvaram tathā sāmbam sauram sarva-artha-sañcayam . .. 1.2 ..
इदं तु पञ्चदशकं पुराणं कौर्ममुत्तमम् । चतुर्द्धा संस्थितं पुण्यं संहितानां प्रभेदतः ॥ १.२१ ॥
इदम् तु पञ्चदशकम् पुराणम् कौर्मम् उत्तमम् । चतुर्द्धा संस्थितम् पुण्यम् संहितानाम् प्रभेदतः ॥ १।२१ ॥
idam tu pañcadaśakam purāṇam kaurmam uttamam . caturddhā saṃsthitam puṇyam saṃhitānām prabhedataḥ .. 1.21 ..
ब्राह्मी भागवती सौरी वैष्णवी च प्रकीर्तिताः । चतस्त्रः संहिताः पुण्या धर्मकामार्थमोक्षदाः ॥ १.२२ ॥
ब्राह्मी भागवती सौरी वैष्णवी च प्रकीर्तिताः । चतस्त्रः संहिताः पुण्याः धर्म-काम-अर्थ-मोक्ष-दाः ॥ १।२२ ॥
brāhmī bhāgavatī saurī vaiṣṇavī ca prakīrtitāḥ . catastraḥ saṃhitāḥ puṇyāḥ dharma-kāma-artha-mokṣa-dāḥ .. 1.22 ..
इयं तु संहिता ब्राह्मी चतुर्वेदैस्तु सम्मिता । भवन्ति षट्सहस्राणि श्लोकानामत्र संख्यया ॥ १.२३ ॥
इयम् तु संहिता ब्राह्मी चतुर्-वेदैः तु सम्मिता । भवन्ति षष्-सहस्राणि श्लोकानाम् अत्र संख्यया ॥ १।२३ ॥
iyam tu saṃhitā brāhmī catur-vedaiḥ tu sammitā . bhavanti ṣaṣ-sahasrāṇi ślokānām atra saṃkhyayā .. 1.23 ..
यत्र धर्मार्थकामानां मोक्षस्य च मुनीश्वराः । माहात्म्यमखिलं ब्रह्म ज्ञायते परमेश्वरः ॥ १.२४ ॥
यत्र धर्म-अर्थ-कामानाम् मोक्षस्य च मुनि-ईश्वराः । माहात्म्यम् अखिलम् ब्रह्म ज्ञायते परमेश्वरः ॥ १।२४ ॥
yatra dharma-artha-kāmānām mokṣasya ca muni-īśvarāḥ . māhātmyam akhilam brahma jñāyate parameśvaraḥ .. 1.24 ..
सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च । वंशानुचरितं पुण्या दिव्या प्रासङ्गिकी कथाः ॥ १.२५ ॥
सर्गः च प्रतिसर्गः च वंशः मन्वन्तराणि च । वंशानुचरितम् पुण्याः दिव्या प्रासङ्गिकी कथाः ॥ १।२५ ॥
sargaḥ ca pratisargaḥ ca vaṃśaḥ manvantarāṇi ca . vaṃśānucaritam puṇyāḥ divyā prāsaṅgikī kathāḥ .. 1.25 ..
ब्राह्मणाद्यैरियं धार्या धार्मिकैः शान्तमानसैः । तामहं वर्णयिष्यमि व्यासेन कथितां पुरा ॥ १.२६ ॥
ब्राह्मण-आद्यैः इयम् धार्या धार्मिकैः शान्त-मानसैः । ताम् अहम् वर्णयिष्यमि व्यासेन कथिताम् पुरा ॥ १।२६ ॥
brāhmaṇa-ādyaiḥ iyam dhāryā dhārmikaiḥ śānta-mānasaiḥ . tām aham varṇayiṣyami vyāsena kathitām purā .. 1.26 ..
पुरामृतार्थं दैतेयदानवैः सह देवताः । मन्थानं मन्दरं कृत्वा ममन्थुः क्षीरसागरम् ॥ १.२७ ॥
पुरा अमृत-अर्थम् दैतेय-दानवैः सह देवताः । मन्थानम् मन्दरम् कृत्वा ममन्थुः क्षीरसागरम् ॥ १।२७ ॥
purā amṛta-artham daiteya-dānavaiḥ saha devatāḥ . manthānam mandaram kṛtvā mamanthuḥ kṣīrasāgaram .. 1.27 ..
मथ्यमाने तदा तस्मिन् कूर्मरूपी जनार्दनः । बभार मन्दरं देवो देवानां हितकाम्यया ॥ १.२८ ॥
मथ्यमाने तदा तस्मिन् कूर्म-रूपी जनार्दनः । बभार मन्दरम् देवः देवानाम् हित-काम्यया ॥ १।२८ ॥
mathyamāne tadā tasmin kūrma-rūpī janārdanaḥ . babhāra mandaram devaḥ devānām hita-kāmyayā .. 1.28 ..
देवाश्च तुष्टुवुर्देवं नारदाद्या महर्षयः । कूर्मरूपधरं दृष्ट्वा साक्षिणं विष्णुमव्ययम् ॥ १.२९ ॥
देवाः च तुष्टुवुः देवम् नारद-आद्याः महा-ऋषयः । कूर्म-रूप-धरम् दृष्ट्वा साक्षिणम् विष्णुम् अव्ययम् ॥ १।२९ ॥
devāḥ ca tuṣṭuvuḥ devam nārada-ādyāḥ mahā-ṛṣayaḥ . kūrma-rūpa-dharam dṛṣṭvā sākṣiṇam viṣṇum avyayam .. 1.29 ..
तदन्तरेऽभवद् देवी श्रीर्नारायणवल्लभा । जग्राह भगवान् विष्णुस्तामेव पुरुषोत्तमः ॥ १.३ ॥
तद्-अन्तरे अभवत् देवी श्रीः नारायण-वल्लभा । जग्राह भगवान् विष्णुः ताम् एव पुरुषोत्तमः ॥ १।३ ॥
tad-antare abhavat devī śrīḥ nārāyaṇa-vallabhā . jagrāha bhagavān viṣṇuḥ tām eva puruṣottamaḥ .. 1.3 ..
तेजसा विष्णुमव्यक्तं नारदाद्या महर्षयः । मोहिताः सह शक्रेण श्रेयो वचनमब्रुवन् ॥ १.३१ ॥
तेजसा विष्णुम् अव्यक्तम् नारद-आद्याः महा-ऋषयः । मोहिताः सह शक्रेण श्रेयः वचनम् अब्रुवन् ॥ १।३१ ॥
tejasā viṣṇum avyaktam nārada-ādyāḥ mahā-ṛṣayaḥ . mohitāḥ saha śakreṇa śreyaḥ vacanam abruvan .. 1.31 ..
भगवन् देवदेवेश नारायण जगन्मय । कैषा देवी विशालाक्षी यथावद् ब्रूहि पृच्छताम् ॥ १.३२ ॥
भगवन् देवदेवेश नारायण जगत्-मय । का एषा देवी विशाल-अक्षी यथावत् ब्रूहि पृच्छताम् ॥ १।३२ ॥
bhagavan devadeveśa nārāyaṇa jagat-maya . kā eṣā devī viśāla-akṣī yathāvat brūhi pṛcchatām .. 1.32 ..
श्रुत्वा तेषां तदा वाक्यं विष्णुर्दानवमर्दनः । प्रोवाच देवीं संप्रेक्ष्य नारदादीनकल्मषान् ॥ १.३३ ॥
श्रुत्वा तेषाम् तदा वाक्यम् विष्णुः दानव-मर्दनः । प्रोवाच देवीम् संप्रेक्ष्य नारद-आदीन् अकल्मषान् ॥ १।३३ ॥
śrutvā teṣām tadā vākyam viṣṇuḥ dānava-mardanaḥ . provāca devīm saṃprekṣya nārada-ādīn akalmaṣān .. 1.33 ..
इयं सा परमा शक्तिर्मन्मयी ब्रह्मरूपिणी । माया मम प्रियाऽनन्ता ययेदं मोहितं जगत् ॥ १.३४ ॥
इयम् सा परमा शक्तिः मद्-मयी ब्रह्म-रूपिणी । माया मम प्रिया अनन्ता यया इदम् मोहितम् जगत् ॥ १।३४ ॥
iyam sā paramā śaktiḥ mad-mayī brahma-rūpiṇī . māyā mama priyā anantā yayā idam mohitam jagat .. 1.34 ..
अनयैव जगत्सर्वं सदेवासुरमानुषम् । मोहयामि द्विजश्रेष्ठा ग्रसामि विसृजामि च ॥ १.३५ ॥
अनया एव जगत् सर्वम् स देव-असुर-मानुषम् । मोहयामि द्विजश्रेष्ठाः ग्रसामि विसृजामि च ॥ १।३५ ॥
anayā eva jagat sarvam sa deva-asura-mānuṣam . mohayāmi dvijaśreṣṭhāḥ grasāmi visṛjāmi ca .. 1.35 ..
उत्पत्तिं प्रलयं चैव भूतनामागतिं गतिम् । विद्यायान्वीक्ष्य चात्मानं तरन्ति विपुलामिमाम् ॥ १.३६ ॥
उत्पत्तिम् प्रलयम् च एव भूतनामा आगतिम् गतिम् । विद्याय अन्वीक्ष्य च आत्मानम् तरन्ति विपुलाम् इमाम् ॥ १।३६ ॥
utpattim pralayam ca eva bhūtanāmā āgatim gatim . vidyāya anvīkṣya ca ātmānam taranti vipulām imām .. 1.36 ..
अस्यास्त्वंशानधिष्ठाय शक्तिमन्तोऽभवन् द्विजाः । ब्रह्मेशानादयः सर्वे सर्वशक्तिरियं मम ॥ १.३७ ॥
अस्याः तु अंशान् अधिष्ठाय शक्तिमन्तः अभवन् द्विजाः । ब्रह्म-ईशान-आदयः सर्वे सर्व-शक्तिः इयम् मम ॥ १।३७ ॥
asyāḥ tu aṃśān adhiṣṭhāya śaktimantaḥ abhavan dvijāḥ . brahma-īśāna-ādayaḥ sarve sarva-śaktiḥ iyam mama .. 1.37 ..
सैषा सर्वजगत्सूतिः प्रकृतिस्त्रिगुणात्मिका । प्रागेव मत्तः संजाता श्रीः कल्पे पद्मवासिनी ॥ १.३८ ॥
सा एषा सर्व-जगत्-सूतिः प्रकृतिः त्रिगुण-आत्मिका । प्राक् एव मत्तः संजाता श्रीः कल्पे पद्म-वासिनी ॥ १।३८ ॥
sā eṣā sarva-jagat-sūtiḥ prakṛtiḥ triguṇa-ātmikā . prāk eva mattaḥ saṃjātā śrīḥ kalpe padma-vāsinī .. 1.38 ..
चतुर्भुजा शङ्खचक्रपद्महस्ता शुभान्विता । कोटिसूर्यप्रतीकाशा मोहिनी सर्वदेहिनाम् ॥ १.३९ ॥
चतुर्-भुजा शङ्ख-चक्र-पद्म-हस्ता शुभ-अन्विता । कोटि-सूर्य-प्रतीकाशा मोहिनी सर्व-देहिनाम् ॥ १।३९ ॥
catur-bhujā śaṅkha-cakra-padma-hastā śubha-anvitā . koṭi-sūrya-pratīkāśā mohinī sarva-dehinām .. 1.39 ..
नालं देवा न पितरो मानवा वसवोऽपि च । मायामेतां समुत्तर्त्तुं ये चान्ये भुवि देहिनः ॥ १.४ ॥
न अलम् देवाः न पितरः मानवाः वसवः अपि च । मायाम् एताम् समुत्तर्त्तुम् ये च अन्ये भुवि देहिनः ॥ १।४ ॥
na alam devāḥ na pitaraḥ mānavāḥ vasavaḥ api ca . māyām etām samuttarttum ye ca anye bhuvi dehinaḥ .. 1.4 ..
इत्युक्तो वासुदेवेन मुनयो विष्णुमब्रुवन् । ब्रूहि त्वं पुण्डरीकाक्ष यदि कालत्रयेऽपि च । को वा तरति तां मायां दुर्जयां देवनिर्मिताम् ॥ १.४१ ॥
इति उक्तः वासुदेवेन मुनयः विष्णुम् अब्रुवन् । ब्रूहि त्वम् पुण्डरीकाक्ष यदि काल-त्रये अपि च । कः वा तरति ताम् मायाम् दुर्जयाम् देव-निर्मिताम् ॥ १।४१ ॥
iti uktaḥ vāsudevena munayaḥ viṣṇum abruvan . brūhi tvam puṇḍarīkākṣa yadi kāla-traye api ca . kaḥ vā tarati tām māyām durjayām deva-nirmitām .. 1.41 ..
अथोवाच हृषीकेशो मुनीन् मुनिगणार्चितः । अस्ति द्विजातिप्रवर इन्द्रद्युम्न इति श्रुतः ॥ १.४२ ॥
अथा उवाच हृषीकेशः मुनीन् मुनि-गण-अर्चितः । अस्ति द्विजाति-प्रवरः इन्द्रद्युम्नः इति श्रुतः ॥ १।४२ ॥
athā uvāca hṛṣīkeśaḥ munīn muni-gaṇa-arcitaḥ . asti dvijāti-pravaraḥ indradyumnaḥ iti śrutaḥ .. 1.42 ..
पूर्वजन्मनि राजासावधृष्यः शंकरादिभिः । दृष्ट्वा मां कूर्मसंस्थानं श्रुत्वा पौराणिकीं स्वयम् ॥ १.४३ ॥
पूर्व-जन्मनि राजा असौ अधृष्यः शंकर-आदिभिः । दृष्ट्वा माम् कूर्म-संस्थानम् श्रुत्वा पौराणिकीम् स्वयम् ॥ १।४३ ॥
pūrva-janmani rājā asau adhṛṣyaḥ śaṃkara-ādibhiḥ . dṛṣṭvā mām kūrma-saṃsthānam śrutvā paurāṇikīm svayam .. 1.43 ..
संहितां मन्मुखाद् दिव्यां पुरस्कृत्य मुनीश्वरान् । ब्रह्माणं च महादेवं देवांश्चान्यान् स्वशक्तिभिः ॥ १.४४ ॥
संहिताम् मद्-मुखात् दिव्याम् पुरस्कृत्य मुनि-ईश्वरान् । ब्रह्माणम् च महादेवम् देवान् च अन्यान् स्व-शक्तिभिः ॥ १।४४ ॥
saṃhitām mad-mukhāt divyām puraskṛtya muni-īśvarān . brahmāṇam ca mahādevam devān ca anyān sva-śaktibhiḥ .. 1.44 ..
मच्छक्तौ संस्थितान् बुद्ध्वा मामेव शरणं गतः । संभाषितो मया चाथ विप्रयोनिं गमिष्यसि ॥ १.४५ ॥
मद्-शक्तौ संस्थितान् बुद्ध्वा माम् एव शरणम् गतः । संभाषितः मया च अथ विप्र-योनिम् गमिष्यसि ॥ १।४५ ॥
mad-śaktau saṃsthitān buddhvā mām eva śaraṇam gataḥ . saṃbhāṣitaḥ mayā ca atha vipra-yonim gamiṣyasi .. 1.45 ..
इन्द्रद्युम्न इति ख्यातो जातिं स्मरसि पौर्विकीम् । सर्वेषामेव भूतानां देवानामप्यगोचरम् ॥ १.४६ ॥
इन्द्रद्युम्नः इति ख्यातः जातिम् स्मरसि पौर्विकीम् । सर्वेषाम् एव भूतानाम् देवानाम् अपि अगोचरम् ॥ १।४६ ॥
indradyumnaḥ iti khyātaḥ jātim smarasi paurvikīm . sarveṣām eva bhūtānām devānām api agocaram .. 1.46 ..
वक्तव्यं यद् गुह्यतमं दास्ये ज्ञानं तवानघ । लब्ध्वा तन्मामकं ज्ञानं मामेवान्ते प्रवेक्ष्यसि ॥ १.४७ ॥
वक्तव्यम् यत् गुह्यतमम् दास्ये ज्ञानम् तव अनघ । लब्ध्वा तत् मामकम् ज्ञानम् माम् एव अन्ते प्रवेक्ष्यसि ॥ १।४७ ॥
vaktavyam yat guhyatamam dāsye jñānam tava anagha . labdhvā tat māmakam jñānam mām eva ante pravekṣyasi .. 1.47 ..
अंशान्तरेण भूम्यां त्वं तत्र तिष्ठ सुनिर्दृतः । वैवस्वतेऽन्तरेऽतीते कार्यार्थं मां प्रवेक्ष्यसि ॥ १.४८ ॥
अंश-अन्तरेण भूम्याम् त्वम् तत्र तिष्ठ सु निर्दृतः । वैवस्वते अन्तरे अतीते कार्य-अर्थम् माम् प्रवेक्ष्यसि ॥ १।४८ ॥
aṃśa-antareṇa bhūmyām tvam tatra tiṣṭha su nirdṛtaḥ . vaivasvate antare atīte kārya-artham mām pravekṣyasi .. 1.48 ..
मां प्रणम्य पुरीं गत्वा पालयामास मेदिनीम् । कालधर्मं गतः कालाच्छ्वेतद्वीपे मया सह ॥ १.४९ ॥
माम् प्रणम्य पुरीम् गत्वा पालयामास मेदिनीम् । कालधर्मम् गतः कालात् श्वेतद्वीपे मया सह ॥ १।४९ ॥
mām praṇamya purīm gatvā pālayāmāsa medinīm . kāladharmam gataḥ kālāt śvetadvīpe mayā saha .. 1.49 ..
भुक्त्वा तान् वैष्णवान् भोगान् योगिनामप्यगोचरान् । मदाज्ञया मुनिश्रेष्ठा जज्ञे विप्रकुले पुनः ॥ १.५ ॥
भुक्त्वा तान् वैष्णवान् भोगान् योगिनाम् अपि अगोचरान् । मद्-आज्ञया मुनि-श्रेष्ठाः जज्ञे विप्र-कुले पुनर् ॥ १।५ ॥
bhuktvā tān vaiṣṇavān bhogān yoginām api agocarān . mad-ājñayā muni-śreṣṭhāḥ jajñe vipra-kule punar .. 1.5 ..
ज्ञात्वा मां वासुदेवाख्यं यत्र द्वे निहितेऽक्षरे । विद्याविद्ये गूढरूपे यत्तद् ब्रह्म परं विदुः ॥ १.५१ ॥
ज्ञात्वा माम् वासुदेव-आख्यम् यत्र द्वे निहिते अक्षरे । विद्या-अविद्ये गूढ-रूपे यत् तत् ब्रह्म परम् विदुः ॥ १।५१ ॥
jñātvā mām vāsudeva-ākhyam yatra dve nihite akṣare . vidyā-avidye gūḍha-rūpe yat tat brahma param viduḥ .. 1.51 ..
सोऽर्चयामास भूतानामाश्रयं परमेश्वरम् । व्रतोपवासनियमैर्होमैर्ब्राह्मणतर्पणैः ॥ १.५२ ॥
सः अर्चयामास भूतानाम् आश्रयम् परमेश्वरम् । व्रत-उपवास-नियमैः होमैः ब्राह्मण-तर्पणैः ॥ १।५२ ॥
saḥ arcayāmāsa bhūtānām āśrayam parameśvaram . vrata-upavāsa-niyamaiḥ homaiḥ brāhmaṇa-tarpaṇaiḥ .. 1.52 ..
तदाशीस्तन्नमस्कारस्तन्निष्ठस्तत्परायणः । आराधयन् महादेवं योगिनां हृदि संस्थितम् ॥ १.५३ ॥
तद्-आशीः तद्-नमस्कारः तद्-निष्ठः तद्-परायणः । आराधयत् महादेवम् योगिनाम् हृदि संस्थितम् ॥ १।५३ ॥
tad-āśīḥ tad-namaskāraḥ tad-niṣṭhaḥ tad-parāyaṇaḥ . ārādhayat mahādevam yoginām hṛdi saṃsthitam .. 1.53 ..
तस्यैवं वर्तमानस्य कदाचित् परमा कला । स्वरूपं दर्शयामास दिव्यं विष्णुसमुद्भवम् ॥ १.५४ ॥
तस्य एवम् वर्तमानस्य कदाचिद् परमा कला । स्व-रूपम् दर्शयामास दिव्यम् विष्णु-समुद्भवम् ॥ १।५४ ॥
tasya evam vartamānasya kadācid paramā kalā . sva-rūpam darśayāmāsa divyam viṣṇu-samudbhavam .. 1.54 ..
दृष्ट्वा प्रणम्य शिरसा विष्णोर्भगवतः प्रियाम् । संस्तूय विविधैः स्तोत्रैः कृताञ्जलिरभाषत ॥ १.५५ ॥
दृष्ट्वा प्रणम्य शिरसा विष्णोः भगवतः प्रियाम् । संस्तूय विविधैः स्तोत्रैः कृताञ्जलिः अभाषत ॥ १।५५ ॥
dṛṣṭvā praṇamya śirasā viṣṇoḥ bhagavataḥ priyām . saṃstūya vividhaiḥ stotraiḥ kṛtāñjaliḥ abhāṣata .. 1.55 ..
इन्द्रद्युम्न उवाच ।
का त्वं देविविशालाक्षि विष्णुचिह्नङ्किते शुभे । याथातथ्येन वै भावं तवेदानीं ब्रवीहि मे ॥ १.५६ ॥
का त्वम् देवि-विशाल-अक्षि शुभे । याथातथ्येन वै भावम् तव इदानीम् ब्रवीहि मे ॥ १।५६ ॥
kā tvam devi-viśāla-akṣi śubhe . yāthātathyena vai bhāvam tava idānīm bravīhi me .. 1.56 ..
तस्य तद् वाक्यमाकर्ण्य सुप्रसन्ना सुमङ्गला । हसन्ती संस्मरन् विष्णुं प्रियं ब्राह्मणमब्रवीत् ॥ १.५७ ॥
तस्य तत् वाक्यम् आकर्ण्य सु प्रसन्ना सु मङ्गला । हसन्ती संस्मरन् विष्णुम् प्रियम् ब्राह्मणम् अब्रवीत् ॥ १।५७ ॥
tasya tat vākyam ākarṇya su prasannā su maṅgalā . hasantī saṃsmaran viṣṇum priyam brāhmaṇam abravīt .. 1.57 ..
श्रीरुवाच
न मां पश्यन्ति मुनयो देवाः शक्रपुरोगमाः । नारायणात्मिका मेकां मायाऽहं तन्मया परा ॥ १.५८ ॥
न माम् पश्यन्ति मुनयः देवाः शक्र-पुरोगमाः । नारायण-आत्मिकाम् माया अहम् तद्-मया परा ॥ १।५८ ॥
na mām paśyanti munayaḥ devāḥ śakra-purogamāḥ . nārāyaṇa-ātmikām māyā aham tad-mayā parā .. 1.58 ..
न मे नारायणाद् भेदो विद्यते हि विचारतः । तन्मय्यऽहं परं ब्रह्म स विष्णुः परमेश्वरः ॥ १.५९ ॥
न मे नारायणात् भेदः विद्यते हि विचारतः । तत् मयि अहम् परम् ब्रह्म स विष्णुः परमेश्वरः ॥ १।५९ ॥
na me nārāyaṇāt bhedaḥ vidyate hi vicārataḥ . tat mayi aham param brahma sa viṣṇuḥ parameśvaraḥ .. 1.59 ..
येऽर्चयन्तीह भूतानामाश्रयं परमेश्वरम् । ज्ञानेन कर्मयोगेन न तेषां प्रभवाम्यहम् ॥ १.६ ॥
ये अर्चयन्ति इह भूतानाम् आश्रयम् परमेश्वरम् । ज्ञानेन कर्म-योगेन न तेषाम् प्रभवामि अहम् ॥ १।६ ॥
ye arcayanti iha bhūtānām āśrayam parameśvaram . jñānena karma-yogena na teṣām prabhavāmi aham .. 1.6 ..
तस्मादनादिनिधनं कर्मयोगपरायणः । ज्ञानेनाराधयानन्तं ततो मोक्षमवाप्स्यसि ॥ १.६१ ॥
तस्मात् अनादिनिधनम् कर्म-योग-परायणः । ज्ञानेन आराधय अनन्तम् ततस् मोक्षम् अवाप्स्यसि ॥ १।६१ ॥
tasmāt anādinidhanam karma-yoga-parāyaṇaḥ . jñānena ārādhaya anantam tatas mokṣam avāpsyasi .. 1.61 ..
इत्युक्तः स मुनिश्रेष्ठ इन्द्रद्युम्नो महामतिः । प्रणम्य शिरसा देवीं प्राञ्जलिः पुनरब्रवीत् ॥ १.६२ ॥
इति उक्तः स मुनि-श्रेष्ठः इन्द्रद्युम्नः महामतिः । प्रणम्य शिरसा देवीम् प्राञ्जलिः पुनर् अब्रवीत् ॥ १।६२ ॥
iti uktaḥ sa muni-śreṣṭhaḥ indradyumnaḥ mahāmatiḥ . praṇamya śirasā devīm prāñjaliḥ punar abravīt .. 1.62 ..
कथं स भगवानीशः शाश्वतो निष्कलोऽच्युतः । ज्ञातुं हि शक्यते देवि ब्रूहि मे परमेश्वरि ॥ १.६३ ॥
कथम् स भगवान् ईशः शाश्वतः निष्कलः अच्युतः । ज्ञातुम् हि शक्यते देवि ब्रूहि मे परमेश्वरि ॥ १।६३ ॥
katham sa bhagavān īśaḥ śāśvataḥ niṣkalaḥ acyutaḥ . jñātum hi śakyate devi brūhi me parameśvari .. 1.63 ..
एकमुक्ताऽथ विप्रेण देवी कमलवासिनी । साक्षान्नारायणो ज्ञानं दास्यतीत्याह तं मुनिम् ॥ १.६४ ॥
एक-मुक्ता अथ विप्रेण देवी कमल-वासिनी । साक्षात् नारायणः ज्ञानम् दास्यति इति आह तम् मुनिम् ॥ १।६४ ॥
eka-muktā atha vipreṇa devī kamala-vāsinī . sākṣāt nārāyaṇaḥ jñānam dāsyati iti āha tam munim .. 1.64 ..
उभाभ्यामथ हस्ताभ्यां संस्पृश्य प्रणतं मुनिम् । स्मृत्वा परात्परं विष्णुं तत्रैवान्तरधीयत ॥ १.६५ ॥
उभाभ्याम् अथ हस्ताभ्याम् संस्पृश्य प्रणतम् मुनिम् । स्मृत्वा परात्परम् विष्णुम् तत्र एव अन्तरधीयत ॥ १।६५ ॥
ubhābhyām atha hastābhyām saṃspṛśya praṇatam munim . smṛtvā parātparam viṣṇum tatra eva antaradhīyata .. 1.65 ..
सोऽपि नारायणं द्रष्टुं परमेण समाधिना । आराधयद्धृषीकेशं प्रणतार्तिप्रभञ्जनम् ॥ १.६६ ॥
सः अपि नारायणम् द्रष्टुम् परमेण समाधिना । आराधयत् हृषीकेशम् प्रणत-आर्ति-प्रभञ्जनम् ॥ १।६६ ॥
saḥ api nārāyaṇam draṣṭum parameṇa samādhinā . ārādhayat hṛṣīkeśam praṇata-ārti-prabhañjanam .. 1.66 ..
ततो बहुतिथे काले गते नारायणः स्वयम् । प्रादुरासीन्महायोगी पीतवासा जगन्मयः ॥ १.६७ ॥
ततस् बहुतिथे काले गते नारायणः स्वयम् । प्रादुरासीत् महा-योगी पीत-वासाः जगत्-मयः ॥ १।६७ ॥
tatas bahutithe kāle gate nārāyaṇaḥ svayam . prādurāsīt mahā-yogī pīta-vāsāḥ jagat-mayaḥ .. 1.67 ..
दृष्ट्वा देवं समायान्तं विष्णुमात्मानमव्ययम् । जानुभ्यामवनिं गत्वा तुष्टाव गरुडध्वजम् ॥ १.६८ ॥
दृष्ट्वा देवम् समायान्तम् विष्णुम् आत्मानम् अव्ययम् । जानुभ्याम् अवनिम् गत्वा तुष्टाव गरुडध्वजम् ॥ १।६८ ॥
dṛṣṭvā devam samāyāntam viṣṇum ātmānam avyayam . jānubhyām avanim gatvā tuṣṭāva garuḍadhvajam .. 1.68 ..
इन्द्रद्युम्न उवाच ।
यज्ञेशाच्युत गोविन्द माधवानन्त केशव । कुष्ण विष्णो हृषीकेश तुभ्यं विश्वात्मने नमः ॥ १.६९ ॥
यज्ञेश अच्युत गोविन्द माधव अनन्त केशव । कुष्ण विष्णो हृषीकेश तुभ्यम् विश्वात्मने नमः ॥ १।६९ ॥
yajñeśa acyuta govinda mādhava ananta keśava . kuṣṇa viṣṇo hṛṣīkeśa tubhyam viśvātmane namaḥ .. 1.69 ..
नमोऽस्तु ते पुराणाय हरये विश्वमूर्तये । सर्गस्थितिविनाशानां हेतवेऽनन्तशक्तये ॥ १.७ ॥
नमः अस्तु ते पुराणाय हरये विश्वमूर्तये । सर्ग-स्थिति-विनाशानाम् हेतवे अनन्त-शक्तये ॥ १।७ ॥
namaḥ astu te purāṇāya haraye viśvamūrtaye . sarga-sthiti-vināśānām hetave ananta-śaktaye .. 1.7 ..
निर्गुणाय नमस्तुभ्यं निष्कलायामलात्मने । पुरुषाय नमस्तेस्तु विश्वरूपाय ते नमः ॥ १.७१ ॥
निर्गुणाय नमः तुभ्यम् निष्कलाय अमल-आत्मने । पुरुषाय नमः ते अस्तु विश्वरूपाय ते नमः ॥ १।७१ ॥
nirguṇāya namaḥ tubhyam niṣkalāya amala-ātmane . puruṣāya namaḥ te astu viśvarūpāya te namaḥ .. 1.71 ..
नमस्ते वासुदेवाय विष्णवे विश्वयोनये । आदिमध्यान्तहीनाय ज्ञानगम्याय ते नमः ॥ १.७२ ॥
नमः ते वासुदेवाय विष्णवे विश्वयोनये । आदि-मध्य-अन्त-हीनाय ज्ञान-गम्याय ते नमः ॥ १।७२ ॥
namaḥ te vāsudevāya viṣṇave viśvayonaye . ādi-madhya-anta-hīnāya jñāna-gamyāya te namaḥ .. 1.72 ..
नमस्ते निर्विकाराय निष्प्रपञ्चाय ते नमः । भेदाभेदविहीनाय नमोऽस्त्वानन्दरूपिणे ॥ १.७३ ॥
नमः ते निर्विकाराय निष्प्रपञ्चाय ते नमः । भेद-अभेद-विहीनाय नमः अस्तु आनन्द-रूपिणे ॥ १।७३ ॥
namaḥ te nirvikārāya niṣprapañcāya te namaḥ . bheda-abheda-vihīnāya namaḥ astu ānanda-rūpiṇe .. 1.73 ..
नमस्ताराय शान्ताय नमोऽप्रतिहतात्मने । अनन्तमूर्तये तुभ्यममूर्ताय नमो नमः ॥ १.७४ ॥
नमः ताराय शान्ताय नमः अप्रतिहत-आत्मने । अनन्त-मूर्तये तुभ्यम् अमूर्ताय नमः नमः ॥ १।७४ ॥
namaḥ tārāya śāntāya namaḥ apratihata-ātmane . ananta-mūrtaye tubhyam amūrtāya namaḥ namaḥ .. 1.74 ..
नमस्ते परमार्थाय मायातीताय ते नमः । नमस्ते परमेशाय ब्रह्मणे परमात्मने ॥ १.७५ ॥
नमः ते परम-अर्थाय माया-अतीताय ते नमः । नमः ते परमेशाय ब्रह्मणे परमात्मने ॥ १।७५ ॥
namaḥ te parama-arthāya māyā-atītāya te namaḥ . namaḥ te parameśāya brahmaṇe paramātmane .. 1.75 ..
नमोऽस्तु ते सुसूक्ष्माय महादेवाय ते नमः । नमः शिवाय शुद्धाय नमस्ते परमेष्ठिने ॥ १.७६ ॥
नमः अस्तु ते सु सूक्ष्माय महादेवाय ते नमः । नमः शिवाय शुद्धाय नमः ते परमेष्ठिने ॥ १।७६ ॥
namaḥ astu te su sūkṣmāya mahādevāya te namaḥ . namaḥ śivāya śuddhāya namaḥ te parameṣṭhine .. 1.76 ..
त्वयैव सृष्टमखिलं त्वमेव परमा गतिः । त्वं पिता सर्वभूतानां त्वं माता पुरुषोत्तम ॥ १.७७ ॥
त्वया एव सृष्टम् अखिलम् त्वम् एव परमा गतिः । त्वम् पिता सर्व-भूतानाम् त्वम् माता पुरुषोत्तम ॥ १।७७ ॥
tvayā eva sṛṣṭam akhilam tvam eva paramā gatiḥ . tvam pitā sarva-bhūtānām tvam mātā puruṣottama .. 1.77 ..
त्वमक्षरं परं धाम चिन्मात्रं व्योम निष्कलम् । सर्वस्याधारमव्यक्तमनन्तं तमसः परम् ॥ १.७८ ॥
त्वम् अक्षरम् परम् धाम चित्-मात्रम् व्योम निष्कलम् । सर्वस्य आधारम् अव्यक्तम् अनन्तम् तमसः परम् ॥ १।७८ ॥
tvam akṣaram param dhāma cit-mātram vyoma niṣkalam . sarvasya ādhāram avyaktam anantam tamasaḥ param .. 1.78 ..
प्रपश्यन्ति परात्मानं ज्ञानदीपेन केवलम् । प्रपद्ये भवतो रूपं तद्विष्णोः परमं पदम् ॥ १.७९ ॥
प्रपश्यन्ति परात्मानम् ज्ञान-दीपेन केवलम् । प्रपद्ये भवतः रूपम् तत् विष्णोः परमम् पदम् ॥ १।७९ ॥
prapaśyanti parātmānam jñāna-dīpena kevalam . prapadye bhavataḥ rūpam tat viṣṇoḥ paramam padam .. 1.79 ..
एवं स्तुवन्तं भगवान् भूतात्मा भूतभावनः । भाभ्यामथ हस्ताभ्यां पस्पर्श प्रहसन्निव ॥ १.८ ॥
एवम् स्तुवन्तम् भगवान् भूतात्मा भूतभावनः । भाभ्याम् अथ हस्ताभ्याम् पस्पर्श प्रहसन् इव ॥ १।८ ॥
evam stuvantam bhagavān bhūtātmā bhūtabhāvanaḥ . bhābhyām atha hastābhyām pasparśa prahasan iva .. 1.8 ..
स्पृष्टमात्रो भगवता विष्णुना मुनिपुंगवः । यथावत् परमं तत्त्वं ज्ञातवांस्तत्प्रसादतः ॥ १.८१ ॥
स्पृष्ट-मात्रः भगवता विष्णुना मुनि-पुंगवः । यथावत् परमम् तत्त्वम् ज्ञातवान् तद्-प्रसादतः ॥ १।८१ ॥
spṛṣṭa-mātraḥ bhagavatā viṣṇunā muni-puṃgavaḥ . yathāvat paramam tattvam jñātavān tad-prasādataḥ .. 1.81 ..
ततः प्रहृष्टमनसा प्रणिपत्य जनार्दनम् । प्रोवाचोन्निद्रपद्माक्षं पीतवाससमच्युतम् ॥ १.८२ ॥
ततस् प्रहृष्ट-मनसा प्रणिपत्य जनार्दनम् । प्रोवाच उन्निद्र-पद्म-अक्षम् पीत-वाससम् अच्युतम् ॥ १।८२ ॥
tatas prahṛṣṭa-manasā praṇipatya janārdanam . provāca unnidra-padma-akṣam pīta-vāsasam acyutam .. 1.82 ..
त्वत्प्रसादादसंदिग्धमुत्पन्नं पुरुषोत्तम । ज्ञानं ब्रह्मैकविषयं परमानन्दसिद्धिदम् ॥ १.८३ ॥
त्वद्-प्रसादात् असंदिग्धम् उत्पन्नम् पुरुषोत्तम । ज्ञानम् ब्रह्म-एक-विषयम् परमानन्द-सिद्धि-दम् ॥ १।८३ ॥
tvad-prasādāt asaṃdigdham utpannam puruṣottama . jñānam brahma-eka-viṣayam paramānanda-siddhi-dam .. 1.83 ..
नमो भगवते तुभ्यं वासुदेवाय वेधसे । किं करिष्यामि योगेश तन्मे वद जगन्मय ॥ १.८४ ॥
नमः भगवते तुभ्यम् वासुदेवाय वेधसे । किम् करिष्यामि योगेश तत् मे वद जगत्-मय ॥ १।८४ ॥
namaḥ bhagavate tubhyam vāsudevāya vedhase . kim kariṣyāmi yogeśa tat me vada jagat-maya .. 1.84 ..
श्रुत्वा नारायणो वाक्यमिन्द्रद्युम्नस्य माधवः । उवाच सस्मितं वाक्यमशेषजगतो हितम् ॥ १.८५ ॥
श्रुत्वा नारायणः वाक्यम् इन्द्रद्युम्नस्य माधवः । उवाच स स्मितम् वाक्यम् अशेष-जगतः हितम् ॥ १।८५ ॥
śrutvā nārāyaṇaḥ vākyam indradyumnasya mādhavaḥ . uvāca sa smitam vākyam aśeṣa-jagataḥ hitam .. 1.85 ..
श्रीभगवानुवाच ।
वर्णाश्रमाचारवतां पुंसां देवो महेश्वरः । ज्ञानेन भक्तियोगेन पूजनीयो न चान्यथा ॥ १.८६ ॥
वर्ण-आश्रम-आचारवताम् पुंसाम् देवः महेश्वरः । ज्ञानेन भक्ति-योगेन पूजनीयः न च अन्यथा ॥ १।८६ ॥
varṇa-āśrama-ācāravatām puṃsām devaḥ maheśvaraḥ . jñānena bhakti-yogena pūjanīyaḥ na ca anyathā .. 1.86 ..
विज्ञाय तत्परं तत्त्वं विभूतिं कार्यकारणम् । प्रवृतिं चापि मे ज्ञात्वा मोक्षार्थोश्वरमर्चयेत् ॥ १.८७ ॥
विज्ञाय तत् परम् तत्त्वम् विभूतिम् कार्य-कारणम् । प्रवृतिम् च अपि मे ज्ञात्वा मोक्ष-अर्थ-उश्वरम् अर्चयेत् ॥ १।८७ ॥
vijñāya tat param tattvam vibhūtim kārya-kāraṇam . pravṛtim ca api me jñātvā mokṣa-artha-uśvaram arcayet .. 1.87 ..
सर्वसङ्गान् परित्यज्य ज्ञात्वा मायामयं जगत् । अद्वैतं भावयात्मानं द्रक्ष्यसे परमेश्वरम् ॥ १.८८ ॥
सर्व-सङ्गान् परित्यज्य ज्ञात्वा माया-मयम् जगत् । अद्वैतम् भावय आत्मानम् द्रक्ष्यसे परमेश्वरम् ॥ १।८८ ॥
sarva-saṅgān parityajya jñātvā māyā-mayam jagat . advaitam bhāvaya ātmānam drakṣyase parameśvaram .. 1.88 ..
त्रिविधा भावना ब्रह्मन् प्रोच्यमाना विबोध मे । एका मद्विषया तत्र द्वितीया व्यक्तसंश्रया॥ १.८९ ॥
त्रिविधा भावनाः ब्रह्मन् प्रोच्यमाना विबोध मे । एका मद्-विषया तत्र द्वितीया व्यक्त-संश्रया॥ १।८९ ॥
trividhā bhāvanāḥ brahman procyamānā vibodha me . ekā mad-viṣayā tatra dvitīyā vyakta-saṃśrayā.. 1.89 ..
अन्या च भावना ब्राह्मी विज्ञेया सा गुणातिगा । आसामन्यतमां चाथ भावनां भावयेद् बुधः॥ १.९ ॥
अन्या च भावना ब्राह्मी विज्ञेया सा गुण-अतिगा । आसाम् अन्यतमाम् च अथ भावनाम् भावयेत् बुधः॥ १।९ ॥
anyā ca bhāvanā brāhmī vijñeyā sā guṇa-atigā . āsām anyatamām ca atha bhāvanām bhāvayet budhaḥ.. 1.9 ..
अशक्तः संश्रयेदाद्यामित्येषा वैदिकी श्रुतिः । तस्मात् सर्वप्रयत्नेन तन्निष्ठस्तत्परायणः ॥ १.९१ ॥
अशक्तः संश्रयेत् आद्याम् इति एषा वैदिकी श्रुतिः । तस्मात् सर्व-प्रयत्नेन तद्-निष्ठः तद्-परायणः ॥ १।९१ ॥
aśaktaḥ saṃśrayet ādyām iti eṣā vaidikī śrutiḥ . tasmāt sarva-prayatnena tad-niṣṭhaḥ tad-parāyaṇaḥ .. 1.91 ..
समाराधय विश्वेशं ततो मोक्षमवाप्स्यसि ॥ ॥
समाराधय विश्वेशम् ततस् मोक्षम् अवाप्स्यसि ॥ ॥
samārādhaya viśveśam tatas mokṣam avāpsyasi .. ..
इन्द्रद्युम्न उवाच ।
किं तत् परतरं तत्त्वं का विभूतिर्जनार्दन ॥ १.९२
किम् तत् परतरम् तत्त्वम् का विभूतिः जनार्दन ॥ १।९२
kim tat parataram tattvam kā vibhūtiḥ janārdana .. 1.92
भगवान् उवाच ।
किं कार्यं कारणं कस्त्वं प्रवृत्तिश्चापि का तव ॥ १.९३॥
किम् कार्यम् कारणम् कः त्वम् प्रवृत्तिः च अपि का तव ॥ १।९३॥
kim kāryam kāraṇam kaḥ tvam pravṛttiḥ ca api kā tava .. 1.93..
परात्परतरं तत्त्वं परं ब्रह्मैकमव्ययम् । नित्यानन्दं स्वयंज्योतिरक्षरं तमसः परम् ॥ १.९४॥
परात्परतरम् तत्त्वम् परम् ब्रह्म एकम् अव्ययम् । नित्य-आनन्दम् स्वयम् ज्योतिः अक्षरम् तमसः परम् ॥ १।९४॥
parātparataram tattvam param brahma ekam avyayam . nitya-ānandam svayam jyotiḥ akṣaram tamasaḥ param .. 1.94..
ऐश्वर्यं तस्य यन्नित्यं विभूतिरिति गीयते । कार्यं जगदथाव्यक्तं कारणं शुद्धमक्षरम् ॥ १.९५॥
ऐश्वर्यम् तस्य यत् नित्यम् विभूतिः इति गीयते । कार्यम् जगत् अथ अव्यक्तम् कारणम् शुद्धम् अक्षरम् ॥ १।९५॥
aiśvaryam tasya yat nityam vibhūtiḥ iti gīyate . kāryam jagat atha avyaktam kāraṇam śuddham akṣaram .. 1.95..
अहं हि सर्वभूतानामन्तर्यामीश्वरः पुरः । सर्गस्थित्यन्तकर्तृत्वं प्रवृत्तिर्मम गीयते ॥ १.९६॥
अहम् हि सर्व-भूतानाम् अन्तर्यामी ईश्वरः पुरस् । सर्ग-स्थिति-अन्त-कर्तृ-त्वम् प्रवृत्तिः मम गीयते ॥ १।९६॥
aham hi sarva-bhūtānām antaryāmī īśvaraḥ puras . sarga-sthiti-anta-kartṛ-tvam pravṛttiḥ mama gīyate .. 1.96..
एतद् विज्ञाय भावेन यथावदखिलं द्विज । ततस्त्वं कर्मयोगेन शाश्वतं सम्यगर्चय ॥ १.९७॥
एतत् विज्ञाय भावेन यथावत् अखिलम् द्विज । ततस् त्वम् कर्म-योगेन शाश्वतम् सम्यक् अर्चय ॥ १।९७॥
etat vijñāya bhāvena yathāvat akhilam dvija . tatas tvam karma-yogena śāśvatam samyak arcaya .. 1.97..
इन्द्रद्युम्न उवाच ।
के ते वर्णाश्रमाचारा यैः समाराध्यते परः । ज्ञानं च कीदृशं दिव्यं भावनात्रयसंस्थितम् ॥ १.९८॥
के ते वर्ण-आश्रम-आचाराः यैः समाराध्यते परः । ज्ञानम् च कीदृशम् दिव्यम् भावना-त्रय-संस्थितम् ॥ १।९८॥
ke te varṇa-āśrama-ācārāḥ yaiḥ samārādhyate paraḥ . jñānam ca kīdṛśam divyam bhāvanā-traya-saṃsthitam .. 1.98..
कथं सृष्टमिदं पूर्वं कथं संह्रियते पुनः । कियत्यः सृष्टयो लोके वंशा मन्वन्तराणि च । कानि तेषां प्रमाणानि पावनानि व्रतानि च ॥ १.९९॥
कथम् सृष्टम् इदम् पूर्वम् कथम् संह्रियते पुनर् । कियत्यः सृष्टयः लोके वंशाः मन्वन्तराणि च । कानि तेषाम् प्रमाणानि पावनानि व्रतानि च ॥ १।९९॥
katham sṛṣṭam idam pūrvam katham saṃhriyate punar . kiyatyaḥ sṛṣṭayaḥ loke vaṃśāḥ manvantarāṇi ca . kāni teṣām pramāṇāni pāvanāni vratāni ca .. 1.99..
तीर्थान्यर्कादिसंस्थानं पृथिव्यायामविस्तरे । कति द्वीपाः समुद्राश्च पर्वताश्च नदीनदाः ॥ १.१॥
तीर्थानि अर्क-आदि-संस्थानम् पृथिवी-आयाम-विस्तरे । कति द्वीपाः समुद्राः च पर्वताः च नदीनदाः ॥ १।१॥
tīrthāni arka-ādi-saṃsthānam pṛthivī-āyāma-vistare . kati dvīpāḥ samudrāḥ ca parvatāḥ ca nadīnadāḥ .. 1.1..
ब्रूहि मे पुण्डरीकाक्ष यथावदधुनाऽखिलम् ॥ ॥
ब्रूहि मे पुण्डरीकाक्ष यथावत् अधुना अखिलम् ॥ ॥
brūhi me puṇḍarīkākṣa yathāvat adhunā akhilam .. ..
श्रीकूर्म उवाच ।
एवमुक्तोऽथ तेनाहं भक्तानुग्रहकाम्यया ॥ १.१०१
एवम् उक्तः अथ तेन अहम् भक्त-अनुग्रह-काम्यया ॥ १।१०१
evam uktaḥ atha tena aham bhakta-anugraha-kāmyayā .. 1.101
यथावदखिलं सर्वमवोचं मुनिपुंगवाः । व्याख्यायाशेषमेवेदं यत्पृष्टोऽहं द्विजेन तु॥ १.१०२॥
यथावत् अखिलम् सर्वम् अवोचम् मुनि-पुंगवाः । व्याख्याय अशेषम् एवा इदम् यत् पृष्टः अहम् द्विजेन तु॥ १।१०२॥
yathāvat akhilam sarvam avocam muni-puṃgavāḥ . vyākhyāya aśeṣam evā idam yat pṛṣṭaḥ aham dvijena tu.. 1.102..
अनुगृह्य च तं विप्रं तत्रैवान्तर्हितोऽभवम् । सोऽपि तेन विधानेन मदुक्तेन द्विजोत्तमः॥ १.१०३॥
अनुगृह्य च तम् विप्रम् तत्र एव अन्तर्हितः अभवम् । सः अपि तेन विधानेन मद्-उक्तेन द्विजोत्तमः॥ १।१०३॥
anugṛhya ca tam vipram tatra eva antarhitaḥ abhavam . saḥ api tena vidhānena mad-uktena dvijottamaḥ.. 1.103..
आराधयामास परं भावपूतः समाहितः । त्यक्त्वा पुत्रादिषु स्नेहं निर्द्वन्द्वो निष्परिग्रहः ॥ १.१०४॥
आराधयामास परम् भाव-पूतः समाहितः । त्यक्त्वा पुत्र-आदिषु स्नेहम् निर्द्वन्द्वः निष्परिग्रहः ॥ १।१०४॥
ārādhayāmāsa param bhāva-pūtaḥ samāhitaḥ . tyaktvā putra-ādiṣu sneham nirdvandvaḥ niṣparigrahaḥ .. 1.104..
संन्यस्य सर्वकर्माणि परं वैराग्यमाश्रितः । आत्मन्यात्मानमन्वीक्ष्य स्वात्मन्येवाखिलं जगत् ॥ १.१०५॥
संन्यस्य सर्व-कर्माणि परम् वैराग्यम् आश्रितः । आत्मनि आत्मानम् अन्वीक्ष्य स्व-आत्मनि एव अखिलम् जगत् ॥ १।१०५॥
saṃnyasya sarva-karmāṇi param vairāgyam āśritaḥ . ātmani ātmānam anvīkṣya sva-ātmani eva akhilam jagat .. 1.105..
संप्राप्य भावनामन्त्यां ब्राह्मीमक्षरपूर्विकाम् । अवाप परमं योगं येनैकं परिपश्यति ॥ १.१०६॥
संप्राप्य भावनाम् अन्त्याम् ब्राह्मीम् अक्षर-पूर्विकाम् । अवाप परमम् योगम् येन एकम् परिपश्यति ॥ १।१०६॥
saṃprāpya bhāvanām antyām brāhmīm akṣara-pūrvikām . avāpa paramam yogam yena ekam paripaśyati .. 1.106..
यं विनिद्रा जितश्वासाः कांक्षन्ते मोक्षकांक्षिणः । ततः कदाचिद् योगीन्द्रो ब्रह्माणं द्रष्टुमव्ययम् ॥ १.१०७॥
यम् विनिद्राः जित-श्वासाः कांक्षन्ते मोक्ष-कांक्षिणः । ततस् कदाचिद् योगि-इन्द्रः ब्रह्माणम् द्रष्टुम् अव्ययम् ॥ १।१०७॥
yam vinidrāḥ jita-śvāsāḥ kāṃkṣante mokṣa-kāṃkṣiṇaḥ . tatas kadācid yogi-indraḥ brahmāṇam draṣṭum avyayam .. 1.107..
जगामादित्यनिर्देशान्मानसोत्तरपर्वतम् । आकाशेनैव विप्रेन्द्रो योगैश्वर्यप्रभावतः ॥ १.१०८॥
जगाम आदित्य-निर्देशात् मानसोत्तर-पर्वतम् । आकाशेन एव विप्र-इन्द्रः योग-ऐश्वर्य-प्रभावतः ॥ १।१०८॥
jagāma āditya-nirdeśāt mānasottara-parvatam . ākāśena eva vipra-indraḥ yoga-aiśvarya-prabhāvataḥ .. 1.108..
विमानं सूर्यसंकाशं प्रादुर्भूतमनुत्तमम् । अन्वगच्छन् देवगणा गन्धर्वाप्सरसां गणाः ॥ १.१०९॥
विमानम् सूर्य-संकाशम् प्रादुर्भूतम् अनुत्तमम् । अन्वगच्छन् देव-गणाः गन्धर्व-अप्सरसाम् गणाः ॥ १।१०९॥
vimānam sūrya-saṃkāśam prādurbhūtam anuttamam . anvagacchan deva-gaṇāḥ gandharva-apsarasām gaṇāḥ .. 1.109..
दृष्ट्वाऽन्ये पथि योगीन्द्रं सिद्धा ब्रह्मर्षयो ययुः । ततः स गत्वा तु गिरिं विवेश सुरवन्दितम्॥ १.११॥
दृष्ट्वा अन्ये पथि योगि-इन्द्रम् सिद्धाः ब्रह्मर्षयः ययुः । ततस् स गत्वा तु गिरिम् विवेश सुर-वन्दितम्॥ १।११॥
dṛṣṭvā anye pathi yogi-indram siddhāḥ brahmarṣayaḥ yayuḥ . tatas sa gatvā tu girim viveśa sura-vanditam.. 1.11..
स्थानं तद्योगिभिर्जुष्टं यत्रास्ते परमः पुमान् .संप्रान्य परमं स्थानं सूर्यायुतसमप्रभम् ॥ १.१११॥
स्थानम् तत् योगिभिः जुष्टम् यत्र आस्ते परमः पुमान् ।संप्रान्य परमम् स्थानम् सूर्य-अयुत-सम-प्रभम् ॥ १।१११॥
sthānam tat yogibhiḥ juṣṭam yatra āste paramaḥ pumān .saṃprānya paramam sthānam sūrya-ayuta-sama-prabham .. 1.111..
विवेश चान्तर्भवनं देवानां च दुरासदम् । विचिन्तयामास परं शरण्यं सर्वदेहिनाम् ॥ १.११२॥
विवेश च अन्तर् भवनम् देवानाम् च दुरासदम् । विचिन्तयामास परम् शरण्यम् सर्व-देहिनाम् ॥ १।११२॥
viveśa ca antar bhavanam devānām ca durāsadam . vicintayāmāsa param śaraṇyam sarva-dehinām .. 1.112..
अनादिनिधनं देवं देवदेवं पितामहम् । ततः प्रादुरभूत् तस्मिन् प्रकाशः परमाद्भुतः ॥ १.११३॥
अन् आदि-निधनम् देवम् देवदेवम् पितामहम् । ततस् प्रादुरभूत् तस्मिन् प्रकाशः परम-अद्भुतः ॥ १।११३॥
an ādi-nidhanam devam devadevam pitāmaham . tatas prādurabhūt tasmin prakāśaḥ parama-adbhutaḥ .. 1.113..
तन्मध्ये पुरुषं पूर्वमपश्यत् परमं पदम् । महान्तं तेजसो राशिमगम्यं ब्रह्मविद्विषाम्॥ १.११४॥
तद्-मध्ये पुरुषम् पूर्वम् अपश्यत् परमम् पदम् । महान्तम् तेजसः राशिम् अगम्यम् ब्रह्म-विद्विषाम्॥ १।११४॥
tad-madhye puruṣam pūrvam apaśyat paramam padam . mahāntam tejasaḥ rāśim agamyam brahma-vidviṣām.. 1.114..
चतुर्मुखमुदाराङ्गमर्चिभिरुपशोभितम् । सोऽपि योगिनमन्वीक्ष्य प्रणमन्तमुपस्थितम् ॥ १.११५॥
चतुर्मुखम् उदार-अङ्गम् अर्चिभिः उपशोभितम् । सः अपि योगिनम् अन्वीक्ष्य प्रणमन्तम् उपस्थितम् ॥ १।११५॥
caturmukham udāra-aṅgam arcibhiḥ upaśobhitam . saḥ api yoginam anvīkṣya praṇamantam upasthitam .. 1.115..
प्रत्युद्गम्य स्वयं देवो विश्वात्मा परिषस्वजे । परिष्वक्तस्य देवेन द्विजेन्द्रस्याथ देहतः ॥ १.११६॥
प्रत्युद्गम्य स्वयम् देवः विश्वात्मा परिषस्वजे । परिष्वक्तस्य देवेन द्विजेन्द्रस्य अथ देहतः ॥ १।११६॥
pratyudgamya svayam devaḥ viśvātmā pariṣasvaje . pariṣvaktasya devena dvijendrasya atha dehataḥ .. 1.116..
निर्गत्य महती ज्योत्स्ना विवेशादित्यमण्डलम् । ऋग्यजुः सामसंज्ञं तत् पवित्रममलं पदम् ॥ १.११७॥
निर्गत्य महती ज्योत्स्ना विवेश आदित्य-मण्डलम् । ऋक्-यजुः साम-संज्ञम् तत् पवित्रम् अमलम् पदम् ॥ १।११७॥
nirgatya mahatī jyotsnā viveśa āditya-maṇḍalam . ṛk-yajuḥ sāma-saṃjñam tat pavitram amalam padam .. 1.117..
हिरण्यगर्भो भगवान् यत्रास्ते हव्यकव्यभुक् । द्वारं तद् योगिनामाद्यं वेदान्तेषु प्रतिष्ठितम् ॥ १.११८॥
हिरण्यगर्भः भगवान् यत्र आस्ते हव्य-कव्य-भुज् । द्वारम् तत् योगिनाम् आद्यम् वेदान्तेषु प्रतिष्ठितम् ॥ १।११८॥
hiraṇyagarbhaḥ bhagavān yatra āste havya-kavya-bhuj . dvāram tat yoginām ādyam vedānteṣu pratiṣṭhitam .. 1.118..
ब्रह्मतेजोमयं श्रीमन्निष्ठा चैव मनीषिणाम् । दृष्टमात्रो भगवता ब्रह्मणाऽर्चिर्मयो मुनिः॥ १.११९॥
ब्रह्म-तेजः-मयम् श्रीमत् निष्ठा च एव मनीषिणाम् । दृष्ट-मात्रः भगवता ब्रह्मणा अर्चिः-मयः मुनिः॥ १।११९॥
brahma-tejaḥ-mayam śrīmat niṣṭhā ca eva manīṣiṇām . dṛṣṭa-mātraḥ bhagavatā brahmaṇā arciḥ-mayaḥ muniḥ.. 1.119..
अपश्यदैश्वरं तेजः शान्तं सर्वत्रगं शिवम् । स्वात्मानमक्षरं व्योम यत्र विष्णोः परमं पदम् ॥ १.१२॥
अपश्यत् ऐश्वरम् तेजः शान्तम् सर्वत्रगम् शिवम् । स्व-आत्मानम् अक्षरम् व्योम यत्र विष्णोः परमम् पदम् ॥ १।१२॥
apaśyat aiśvaram tejaḥ śāntam sarvatragam śivam . sva-ātmānam akṣaram vyoma yatra viṣṇoḥ paramam padam .. 1.12..
आनन्दमचलं ब्रह्म स्थानं तत्पारमेश्वरम् । सर्वभूतात्मभूतः स्थः परमैश्वर्यमास्थितः ॥ १.१२१॥
आनन्दम् अचलम् ब्रह्म स्थानम् तत् पारमेश्वरम् । सर्व-भूत-आत्म-भूतः स्थः परम-ऐश्वर्यम् आस्थितः ॥ १।१२१॥
ānandam acalam brahma sthānam tat pārameśvaram . sarva-bhūta-ātma-bhūtaḥ sthaḥ parama-aiśvaryam āsthitaḥ .. 1.121..
प्राप्तवानात्मनो धाम यत्तन्मोक्षाख्यमव्ययम् । तस्मात् सर्वप्रयत्नेन वर्णाश्रमविधौ स्थितः॥ १.१२२॥
प्राप्तवान् आत्मनः धाम यत् तत् मोक्ष-आख्यम् अव्ययम् । तस्मात् सर्व-प्रयत्नेन वर्ण-आश्रम-विधौ स्थितः॥ १।१२२॥
prāptavān ātmanaḥ dhāma yat tat mokṣa-ākhyam avyayam . tasmāt sarva-prayatnena varṇa-āśrama-vidhau sthitaḥ.. 1.122..
समाश्रित्यान्तिमं भावं मायां लक्ष्मीं तरेद् बुधः ॥ ॥
समाश्रित्य अन्तिमम् भावम् मायाम् लक्ष्मीम् तरेत् बुधः ॥ ॥
samāśritya antimam bhāvam māyām lakṣmīm taret budhaḥ .. ..
सूत उवाच ।
व्याहृता हरिणा त्वेवं नारादाद्या महर्षयः॥ १.१२३
व्याहृताः हरिणा तु एवम् नाराद-आद्याः महा-ऋषयः॥ १।१२३
vyāhṛtāḥ hariṇā tu evam nārāda-ādyāḥ mahā-ṛṣayaḥ.. 1.123
शक्रेण सहिताः सर्वे पप्रच्छुर्गरुडध्वजम् ॥ ॥
शक्रेण सहिताः सर्वे पप्रच्छुः गरुडध्वजम् ॥ ॥
śakreṇa sahitāḥ sarve papracchuḥ garuḍadhvajam .. ..
ऋषय ऊचुः ।
देवदेव हृषीकेश नाथ नारायणामल ॥ १.१२४
देवदेव हृषीकेश नाथ नारायण अमल ॥ १।१२४
devadeva hṛṣīkeśa nātha nārāyaṇa amala .. 1.124
तद् वदाशेषमस्माकं यदुक्तं भवता पुरा .इन्द्रद्युम्नाय विप्रया ज्ञानं धर्मादिगोचरम् ॥ १.१२५॥
तत् वद अशेषम् अस्माकम् यत् उक्तम् भवता पुरा ।इन्द्रद्युम्नाय विप्रया ज्ञानम् धर्म-आदि-गोचरम् ॥ १।१२५॥
tat vada aśeṣam asmākam yat uktam bhavatā purā .indradyumnāya viprayā jñānam dharma-ādi-gocaram .. 1.125..
शुश्रूषुश्चाप्ययं शक्रः सखा तव जगन्मय । ततः स भगवान् विष्णुः कूर्मरूपी जनार्दनः ॥ १.१२६॥
शुश्रूषुः च अपि अयम् शक्रः सखा तव जगत्-मय । ततस् स भगवान् विष्णुः कूर्म-रूपी जनार्दनः ॥ १।१२६॥
śuśrūṣuḥ ca api ayam śakraḥ sakhā tava jagat-maya . tatas sa bhagavān viṣṇuḥ kūrma-rūpī janārdanaḥ .. 1.126..
रसातलगतो देवो नारदाद्यैर्महर्षिभिः । पृष्टः प्रोवाच सकलं पुराणं कौर्ममुत्तमम् ॥ १.१२७॥
रसातल-गतः देवः नारद-आद्यैः महा-ऋषिभिः । पृष्टः प्रोवाच सकलम् पुराणम् कौर्मम् उत्तमम् ॥ १।१२७॥
rasātala-gataḥ devaḥ nārada-ādyaiḥ mahā-ṛṣibhiḥ . pṛṣṭaḥ provāca sakalam purāṇam kaurmam uttamam .. 1.127..
सन्निधौ देवराजस्य तद् वक्ष्ये भवतामहम् । धन्यं यशस्यमायुष्यं पुण्यं मोक्षप्रदं नृणाम् ॥ १.१२८॥
सन्निधौ देवराजस्य तत् वक्ष्ये भवताम् अहम् । धन्यम् यशस्यम् आयुष्यम् पुण्यम् मोक्ष-प्रदम् नृणाम् ॥ १।१२८॥
sannidhau devarājasya tat vakṣye bhavatām aham . dhanyam yaśasyam āyuṣyam puṇyam mokṣa-pradam nṛṇām .. 1.128..
पुराणश्रवणं विप्राः कथनं च विशेषतः । श्रुत्वा चाध्यायमेवैकं सर्वपापैः प्रमुच्यते ॥ १.१२९॥
पुराण-श्रवणम् विप्राः कथनम् च विशेषतः । श्रुत्वा च अध्यायम् एव एकम् सर्व-पापैः प्रमुच्यते ॥ १।१२९॥
purāṇa-śravaṇam viprāḥ kathanam ca viśeṣataḥ . śrutvā ca adhyāyam eva ekam sarva-pāpaiḥ pramucyate .. 1.129..
उपाख्यानमथैकं वा ब्रह्मलोके महीयते । इदं पुराणं परमं कौर्मं कूर्मस्वरूपिणा ॥ १३०॥
उपाख्यानम् अथ एकम् वा ब्रह्म-लोके महीयते । इदम् पुराणम् परमम् कौर्मम् कूर्म-स्वरूपिणा ॥ १३०॥
upākhyānam atha ekam vā brahma-loke mahīyate . idam purāṇam paramam kaurmam kūrma-svarūpiṇā .. 130..
उक्तं देवाधिदेवेन श्रद्धातव्यं द्विजातिभिः ॥ १३१
उक्तम् देव-अधिदेवेन श्रद्धातव्यम् द्विजातिभिः ॥ १३१
uktam deva-adhidevena śraddhātavyam dvijātibhiḥ .. 131
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे इन्द्रद्युम्नमोक्ष वर्णनं नाम प्रथमोऽध्यायः ॥
इति श्री-कूर्मपुराणे षट्साहस्त्र्याम् संहितायाम् पूर्व-विभागे इन्द्रद्युम्नमोक्षवर्णनम् नाम प्रथमः अध्यायः ॥
iti śrī-kūrmapurāṇe ṣaṭsāhastryām saṃhitāyām pūrva-vibhāge indradyumnamokṣavarṇanam nāma prathamaḥ adhyāyaḥ ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In