| |
|

This overlay will guide you through the buttons:

नारायणं नमस्कृत्य नरं चैव नरोत्तमम् । देवीं सरस्वतीं चैव ततो जयमुदीरयेत् ॥
nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam . devīṃ sarasvatīṃ caiva tato jayamudīrayet ..
नमस्कृत्याऽप्रमेयाय विष्णवे कूर्मरूपिणे । पुराणं संप्रवक्ष्यामि यदुक्तं विश्वयोनिना ॥ १.१ ॥
namaskṛtyā'prameyāya viṣṇave kūrmarūpiṇe . purāṇaṃ saṃpravakṣyāmi yaduktaṃ viśvayoninā .. 1.1 ..
सत्रान्ते सूतमनघं नैमिषेया महर्षयः । पुराणसंहितां पुण्यां पप्रच्छू रोमहर्षणम् ॥ १.२ ॥
satrānte sūtamanaghaṃ naimiṣeyā maharṣayaḥ . purāṇasaṃhitāṃ puṇyāṃ papracchū romaharṣaṇam .. 1.2 ..
त्वया सूत महाबुद्धे भगवान् ब्रह्मवित्तमः । इतिहासपुराणार्थं व्यासः सम्यगुपासितः ॥ १.३ ॥
tvayā sūta mahābuddhe bhagavān brahmavittamaḥ . itihāsapurāṇārthaṃ vyāsaḥ samyagupāsitaḥ .. 1.3 ..
तस्य ते सर्वरोमाणि वचसा त्दृषितानि यत्द्वैपायनस्य तु भवांस्ततो वै रोमहर्षणः ॥ १.४ ॥
tasya te sarvaromāṇi vacasā tdṛṣitāni yatdvaipāyanasya tu bhavāṃstato vai romaharṣaṇaḥ .. 1.4 ..
भवन्तमेव भगवान् व्याजहार स्वयं प्रभुः । मुनीनां संहितां वक्तुं व्यासः पौराणिकीं पुरा ॥ १.५ ॥
bhavantameva bhagavān vyājahāra svayaṃ prabhuḥ . munīnāṃ saṃhitāṃ vaktuṃ vyāsaḥ paurāṇikīṃ purā .. 1.5 ..
त्वं हि स्वायंभुवे यज्ञे सुत्याहे वितते हरिः । संभूतः संहितां वक्तुं स्वांशेन पुरुषोत्तमः ॥ १.६ ॥
tvaṃ hi svāyaṃbhuve yajñe sutyāhe vitate hariḥ . saṃbhūtaḥ saṃhitāṃ vaktuṃ svāṃśena puruṣottamaḥ .. 1.6 ..
तस्माद् भवन्तं पृच्छामः पुराणं कौर्ममुत्तमम् । वक्तुमर्हसि चास्माकं पुराणार्थविशारद ॥ १.७ ॥
tasmād bhavantaṃ pṛcchāmaḥ purāṇaṃ kaurmamuttamam . vaktumarhasi cāsmākaṃ purāṇārthaviśārada .. 1.7 ..
मुनीनां वचनं श्रुत्वा सूतः पौराणिकोत्तमः । प्रणम्य मनसा प्राह गुरुं सत्यवतीसुतम् ॥ १.८ ॥
munīnāṃ vacanaṃ śrutvā sūtaḥ paurāṇikottamaḥ . praṇamya manasā prāha guruṃ satyavatīsutam .. 1.8 ..
रोमहर्षण उवाच ।
नमस्कृत्य जगद्योनिं कूर्मरूपधरं हरिम् । वक्ष्ये पौराणिकीं दिव्यां कथां पापप्रणाशिनीम् ॥ १.९ ॥
namaskṛtya jagadyoniṃ kūrmarūpadharaṃ harim . vakṣye paurāṇikīṃ divyāṃ kathāṃ pāpapraṇāśinīm .. 1.9 ..
यां श्रुत्वा पापकर्माऽपि गच्छेत परमां गतिम् । न नास्तिके कथां पुण्यामिमां ब्रूयात् कदाचन ॥ १.१ ॥
yāṃ śrutvā pāpakarmā'pi gaccheta paramāṃ gatim . na nāstike kathāṃ puṇyāmimāṃ brūyāt kadācana .. 1.1 ..
श्रद्दधानाय शान्ताय धार्मिकाय द्विजातये । इमां कथामनुब्रूयात् साक्षान्नारायणेरिताम् ॥ १.११ ॥
śraddadhānāya śāntāya dhārmikāya dvijātaye . imāṃ kathāmanubrūyāt sākṣānnārāyaṇeritām .. 1.11 ..
सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च । वंशानुचरितं चैव पुराणं पञ्चलक्षणम् ॥ १.१२ ॥
sargaśca pratisargaśca vaṃśo manvantarāṇi ca . vaṃśānucaritaṃ caiva purāṇaṃ pañcalakṣaṇam .. 1.12 ..
ब्राह्मं पुराणं प्रथमं पाद्मं वैष्णवमेव च । शैवं भागवतं चैव भविष्यं नारदीयकम् ॥ १.१३ ॥
brāhmaṃ purāṇaṃ prathamaṃ pādmaṃ vaiṣṇavameva ca . śaivaṃ bhāgavataṃ caiva bhaviṣyaṃ nāradīyakam .. 1.13 ..
मार्कण्डेयमथाग्नेयं ब्रह्मवैवर्तमेव च । लैङ्गं तथा च वाराहं स्कान्दं वामनमेव च ॥ १.१४ ॥
mārkaṇḍeyamathāgneyaṃ brahmavaivartameva ca . laiṅgaṃ tathā ca vārāhaṃ skāndaṃ vāmanameva ca .. 1.14 ..
कौर्म्मं मात्स्यं गारुडं च वायवीयमनन्तरम् । अष्टादशं समुद्दिष्टं ब्रह्मण्डमिति संज्ञितम् ॥ १.१५ ॥
kaurmmaṃ mātsyaṃ gāruḍaṃ ca vāyavīyamanantaram . aṣṭādaśaṃ samuddiṣṭaṃ brahmaṇḍamiti saṃjñitam .. 1.15 ..
अन्यान्युपपुराणानि मुनिभिः कथितानि तु । अष्टादशपुराणानि श्रुत्वा संक्षेपतो द्विजाः ॥ १.१६ ॥
anyānyupapurāṇāni munibhiḥ kathitāni tu . aṣṭādaśapurāṇāni śrutvā saṃkṣepato dvijāḥ .. 1.16 ..
आद्यं सनत्कुमारोक्तं नारसिहमतः परम् । तृतीयं स्कान्दमुद्दिष्टं कुमारेण तु भाषितम् ॥ १.१७ ॥
ādyaṃ sanatkumāroktaṃ nārasihamataḥ param . tṛtīyaṃ skāndamuddiṣṭaṃ kumāreṇa tu bhāṣitam .. 1.17 ..
चतुर्थं शिवधर्माख्यं साक्षान्नन्दीशभाषितम् । दुर्वाससोक्तमाश्चर्यं नारदीयमतः परम् ॥ १.१८ ॥
caturthaṃ śivadharmākhyaṃ sākṣānnandīśabhāṣitam . durvāsasoktamāścaryaṃ nāradīyamataḥ param .. 1.18 ..
कापिलं वामनं चैव तथैवोशनसेरितम् । ब्रह्माण्डं वारुणं चैव कालिकाह्वयमेव च ॥ १.१९ ॥
kāpilaṃ vāmanaṃ caiva tathaivośanaseritam . brahmāṇḍaṃ vāruṇaṃ caiva kālikāhvayameva ca .. 1.19 ..
माहेश्वरं तथा साम्बं सौरं सर्वार्थसञ्चयम् । पराशरोक्तं मारीचं भार्गवाह्वयम् ॥ १.२ ॥
māheśvaraṃ tathā sāmbaṃ sauraṃ sarvārthasañcayam . parāśaroktaṃ mārīcaṃ bhārgavāhvayam .. 1.2 ..
इदं तु पञ्चदशकं पुराणं कौर्ममुत्तमम् । चतुर्द्धा संस्थितं पुण्यं संहितानां प्रभेदतः ॥ १.२१ ॥
idaṃ tu pañcadaśakaṃ purāṇaṃ kaurmamuttamam . caturddhā saṃsthitaṃ puṇyaṃ saṃhitānāṃ prabhedataḥ .. 1.21 ..
ब्राह्मी भागवती सौरी वैष्णवी च प्रकीर्तिताः । चतस्त्रः संहिताः पुण्या धर्मकामार्थमोक्षदाः ॥ १.२२ ॥
brāhmī bhāgavatī saurī vaiṣṇavī ca prakīrtitāḥ . catastraḥ saṃhitāḥ puṇyā dharmakāmārthamokṣadāḥ .. 1.22 ..
इयं तु संहिता ब्राह्मी चतुर्वेदैस्तु सम्मिता । भवन्ति षट्सहस्राणि श्लोकानामत्र संख्यया ॥ १.२३ ॥
iyaṃ tu saṃhitā brāhmī caturvedaistu sammitā . bhavanti ṣaṭsahasrāṇi ślokānāmatra saṃkhyayā .. 1.23 ..
यत्र धर्मार्थकामानां मोक्षस्य च मुनीश्वराः । माहात्म्यमखिलं ब्रह्म ज्ञायते परमेश्वरः ॥ १.२४ ॥
yatra dharmārthakāmānāṃ mokṣasya ca munīśvarāḥ . māhātmyamakhilaṃ brahma jñāyate parameśvaraḥ .. 1.24 ..
सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च । वंशानुचरितं पुण्या दिव्या प्रासङ्गिकी कथाः ॥ १.२५ ॥
sargaśca pratisargaśca vaṃśo manvantarāṇi ca . vaṃśānucaritaṃ puṇyā divyā prāsaṅgikī kathāḥ .. 1.25 ..
ब्राह्मणाद्यैरियं धार्या धार्मिकैः शान्तमानसैः । तामहं वर्णयिष्यमि व्यासेन कथितां पुरा ॥ १.२६ ॥
brāhmaṇādyairiyaṃ dhāryā dhārmikaiḥ śāntamānasaiḥ . tāmahaṃ varṇayiṣyami vyāsena kathitāṃ purā .. 1.26 ..
पुरामृतार्थं दैतेयदानवैः सह देवताः । मन्थानं मन्दरं कृत्वा ममन्थुः क्षीरसागरम् ॥ १.२७ ॥
purāmṛtārthaṃ daiteyadānavaiḥ saha devatāḥ . manthānaṃ mandaraṃ kṛtvā mamanthuḥ kṣīrasāgaram .. 1.27 ..
मथ्यमाने तदा तस्मिन् कूर्मरूपी जनार्दनः । बभार मन्दरं देवो देवानां हितकाम्यया ॥ १.२८ ॥
mathyamāne tadā tasmin kūrmarūpī janārdanaḥ . babhāra mandaraṃ devo devānāṃ hitakāmyayā .. 1.28 ..
देवाश्च तुष्टुवुर्देवं नारदाद्या महर्षयः । कूर्मरूपधरं दृष्ट्वा साक्षिणं विष्णुमव्ययम् ॥ १.२९ ॥
devāśca tuṣṭuvurdevaṃ nāradādyā maharṣayaḥ . kūrmarūpadharaṃ dṛṣṭvā sākṣiṇaṃ viṣṇumavyayam .. 1.29 ..
तदन्तरेऽभवद् देवी श्रीर्नारायणवल्लभा । जग्राह भगवान् विष्णुस्तामेव पुरुषोत्तमः ॥ १.३ ॥
tadantare'bhavad devī śrīrnārāyaṇavallabhā . jagrāha bhagavān viṣṇustāmeva puruṣottamaḥ .. 1.3 ..
तेजसा विष्णुमव्यक्तं नारदाद्या महर्षयः । मोहिताः सह शक्रेण श्रेयो वचनमब्रुवन् ॥ १.३१ ॥
tejasā viṣṇumavyaktaṃ nāradādyā maharṣayaḥ . mohitāḥ saha śakreṇa śreyo vacanamabruvan .. 1.31 ..
भगवन् देवदेवेश नारायण जगन्मय । कैषा देवी विशालाक्षी यथावद् ब्रूहि पृच्छताम् ॥ १.३२ ॥
bhagavan devadeveśa nārāyaṇa jaganmaya . kaiṣā devī viśālākṣī yathāvad brūhi pṛcchatām .. 1.32 ..
श्रुत्वा तेषां तदा वाक्यं विष्णुर्दानवमर्दनः । प्रोवाच देवीं संप्रेक्ष्य नारदादीनकल्मषान् ॥ १.३३ ॥
śrutvā teṣāṃ tadā vākyaṃ viṣṇurdānavamardanaḥ . provāca devīṃ saṃprekṣya nāradādīnakalmaṣān .. 1.33 ..
इयं सा परमा शक्तिर्मन्मयी ब्रह्मरूपिणी । माया मम प्रियाऽनन्ता ययेदं मोहितं जगत् ॥ १.३४ ॥
iyaṃ sā paramā śaktirmanmayī brahmarūpiṇī . māyā mama priyā'nantā yayedaṃ mohitaṃ jagat .. 1.34 ..
अनयैव जगत्सर्वं सदेवासुरमानुषम् । मोहयामि द्विजश्रेष्ठा ग्रसामि विसृजामि च ॥ १.३५ ॥
anayaiva jagatsarvaṃ sadevāsuramānuṣam . mohayāmi dvijaśreṣṭhā grasāmi visṛjāmi ca .. 1.35 ..
उत्पत्तिं प्रलयं चैव भूतनामागतिं गतिम् । विद्यायान्वीक्ष्य चात्मानं तरन्ति विपुलामिमाम् ॥ १.३६ ॥
utpattiṃ pralayaṃ caiva bhūtanāmāgatiṃ gatim . vidyāyānvīkṣya cātmānaṃ taranti vipulāmimām .. 1.36 ..
अस्यास्त्वंशानधिष्ठाय शक्तिमन्तोऽभवन् द्विजाः । ब्रह्मेशानादयः सर्वे सर्वशक्तिरियं मम ॥ १.३७ ॥
asyāstvaṃśānadhiṣṭhāya śaktimanto'bhavan dvijāḥ . brahmeśānādayaḥ sarve sarvaśaktiriyaṃ mama .. 1.37 ..
सैषा सर्वजगत्सूतिः प्रकृतिस्त्रिगुणात्मिका । प्रागेव मत्तः संजाता श्रीः कल्पे पद्मवासिनी ॥ १.३८ ॥
saiṣā sarvajagatsūtiḥ prakṛtistriguṇātmikā . prāgeva mattaḥ saṃjātā śrīḥ kalpe padmavāsinī .. 1.38 ..
चतुर्भुजा शङ्खचक्रपद्महस्ता शुभान्विता । कोटिसूर्यप्रतीकाशा मोहिनी सर्वदेहिनाम् ॥ १.३९ ॥
caturbhujā śaṅkhacakrapadmahastā śubhānvitā . koṭisūryapratīkāśā mohinī sarvadehinām .. 1.39 ..
नालं देवा न पितरो मानवा वसवोऽपि च । मायामेतां समुत्तर्त्तुं ये चान्ये भुवि देहिनः ॥ १.४ ॥
nālaṃ devā na pitaro mānavā vasavo'pi ca . māyāmetāṃ samuttarttuṃ ye cānye bhuvi dehinaḥ .. 1.4 ..
इत्युक्तो वासुदेवेन मुनयो विष्णुमब्रुवन् । ब्रूहि त्वं पुण्डरीकाक्ष यदि कालत्रयेऽपि च । को वा तरति तां मायां दुर्जयां देवनिर्मिताम् ॥ १.४१ ॥
ityukto vāsudevena munayo viṣṇumabruvan . brūhi tvaṃ puṇḍarīkākṣa yadi kālatraye'pi ca . ko vā tarati tāṃ māyāṃ durjayāṃ devanirmitām .. 1.41 ..
अथोवाच हृषीकेशो मुनीन् मुनिगणार्चितः । अस्ति द्विजातिप्रवर इन्द्रद्युम्न इति श्रुतः ॥ १.४२ ॥
athovāca hṛṣīkeśo munīn munigaṇārcitaḥ . asti dvijātipravara indradyumna iti śrutaḥ .. 1.42 ..
पूर्वजन्मनि राजासावधृष्यः शंकरादिभिः । दृष्ट्वा मां कूर्मसंस्थानं श्रुत्वा पौराणिकीं स्वयम् ॥ १.४३ ॥
pūrvajanmani rājāsāvadhṛṣyaḥ śaṃkarādibhiḥ . dṛṣṭvā māṃ kūrmasaṃsthānaṃ śrutvā paurāṇikīṃ svayam .. 1.43 ..
संहितां मन्मुखाद् दिव्यां पुरस्कृत्य मुनीश्वरान् । ब्रह्माणं च महादेवं देवांश्चान्यान् स्वशक्तिभिः ॥ १.४४ ॥
saṃhitāṃ manmukhād divyāṃ puraskṛtya munīśvarān . brahmāṇaṃ ca mahādevaṃ devāṃścānyān svaśaktibhiḥ .. 1.44 ..
मच्छक्तौ संस्थितान् बुद्ध्वा मामेव शरणं गतः । संभाषितो मया चाथ विप्रयोनिं गमिष्यसि ॥ १.४५ ॥
macchaktau saṃsthitān buddhvā māmeva śaraṇaṃ gataḥ . saṃbhāṣito mayā cātha viprayoniṃ gamiṣyasi .. 1.45 ..
इन्द्रद्युम्न इति ख्यातो जातिं स्मरसि पौर्विकीम् । सर्वेषामेव भूतानां देवानामप्यगोचरम् ॥ १.४६ ॥
indradyumna iti khyāto jātiṃ smarasi paurvikīm . sarveṣāmeva bhūtānāṃ devānāmapyagocaram .. 1.46 ..
वक्तव्यं यद् गुह्यतमं दास्ये ज्ञानं तवानघ । लब्ध्वा तन्मामकं ज्ञानं मामेवान्ते प्रवेक्ष्यसि ॥ १.४७ ॥
vaktavyaṃ yad guhyatamaṃ dāsye jñānaṃ tavānagha . labdhvā tanmāmakaṃ jñānaṃ māmevānte pravekṣyasi .. 1.47 ..
अंशान्तरेण भूम्यां त्वं तत्र तिष्ठ सुनिर्दृतः । वैवस्वतेऽन्तरेऽतीते कार्यार्थं मां प्रवेक्ष्यसि ॥ १.४८ ॥
aṃśāntareṇa bhūmyāṃ tvaṃ tatra tiṣṭha sunirdṛtaḥ . vaivasvate'ntare'tīte kāryārthaṃ māṃ pravekṣyasi .. 1.48 ..
मां प्रणम्य पुरीं गत्वा पालयामास मेदिनीम् । कालधर्मं गतः कालाच्छ्वेतद्वीपे मया सह ॥ १.४९ ॥
māṃ praṇamya purīṃ gatvā pālayāmāsa medinīm . kāladharmaṃ gataḥ kālācchvetadvīpe mayā saha .. 1.49 ..
भुक्त्वा तान् वैष्णवान् भोगान् योगिनामप्यगोचरान् । मदाज्ञया मुनिश्रेष्ठा जज्ञे विप्रकुले पुनः ॥ १.५ ॥
bhuktvā tān vaiṣṇavān bhogān yogināmapyagocarān . madājñayā muniśreṣṭhā jajñe viprakule punaḥ .. 1.5 ..
ज्ञात्वा मां वासुदेवाख्यं यत्र द्वे निहितेऽक्षरे । विद्याविद्ये गूढरूपे यत्तद् ब्रह्म परं विदुः ॥ १.५१ ॥
jñātvā māṃ vāsudevākhyaṃ yatra dve nihite'kṣare . vidyāvidye gūḍharūpe yattad brahma paraṃ viduḥ .. 1.51 ..
सोऽर्चयामास भूतानामाश्रयं परमेश्वरम् । व्रतोपवासनियमैर्होमैर्ब्राह्मणतर्पणैः ॥ १.५२ ॥
so'rcayāmāsa bhūtānāmāśrayaṃ parameśvaram . vratopavāsaniyamairhomairbrāhmaṇatarpaṇaiḥ .. 1.52 ..
तदाशीस्तन्नमस्कारस्तन्निष्ठस्तत्परायणः । आराधयन् महादेवं योगिनां हृदि संस्थितम् ॥ १.५३ ॥
tadāśīstannamaskārastanniṣṭhastatparāyaṇaḥ . ārādhayan mahādevaṃ yogināṃ hṛdi saṃsthitam .. 1.53 ..
तस्यैवं वर्तमानस्य कदाचित् परमा कला । स्वरूपं दर्शयामास दिव्यं विष्णुसमुद्भवम् ॥ १.५४ ॥
tasyaivaṃ vartamānasya kadācit paramā kalā . svarūpaṃ darśayāmāsa divyaṃ viṣṇusamudbhavam .. 1.54 ..
दृष्ट्वा प्रणम्य शिरसा विष्णोर्भगवतः प्रियाम् । संस्तूय विविधैः स्तोत्रैः कृताञ्जलिरभाषत ॥ १.५५ ॥
dṛṣṭvā praṇamya śirasā viṣṇorbhagavataḥ priyām . saṃstūya vividhaiḥ stotraiḥ kṛtāñjalirabhāṣata .. 1.55 ..
इन्द्रद्युम्न उवाच ।
का त्वं देविविशालाक्षि विष्णुचिह्नङ्किते शुभे । याथातथ्येन वै भावं तवेदानीं ब्रवीहि मे ॥ १.५६ ॥
kā tvaṃ deviviśālākṣi viṣṇucihnaṅkite śubhe . yāthātathyena vai bhāvaṃ tavedānīṃ bravīhi me .. 1.56 ..
तस्य तद् वाक्यमाकर्ण्य सुप्रसन्ना सुमङ्गला । हसन्ती संस्मरन् विष्णुं प्रियं ब्राह्मणमब्रवीत् ॥ १.५७ ॥
tasya tad vākyamākarṇya suprasannā sumaṅgalā . hasantī saṃsmaran viṣṇuṃ priyaṃ brāhmaṇamabravīt .. 1.57 ..
श्रीरुवाच
न मां पश्यन्ति मुनयो देवाः शक्रपुरोगमाः । नारायणात्मिका मेकां मायाऽहं तन्मया परा ॥ १.५८ ॥
na māṃ paśyanti munayo devāḥ śakrapurogamāḥ . nārāyaṇātmikā mekāṃ māyā'haṃ tanmayā parā .. 1.58 ..
न मे नारायणाद् भेदो विद्यते हि विचारतः । तन्मय्यऽहं परं ब्रह्म स विष्णुः परमेश्वरः ॥ १.५९ ॥
na me nārāyaṇād bhedo vidyate hi vicārataḥ . tanmayya'haṃ paraṃ brahma sa viṣṇuḥ parameśvaraḥ .. 1.59 ..
येऽर्चयन्तीह भूतानामाश्रयं परमेश्वरम् । ज्ञानेन कर्मयोगेन न तेषां प्रभवाम्यहम् ॥ १.६ ॥
ye'rcayantīha bhūtānāmāśrayaṃ parameśvaram . jñānena karmayogena na teṣāṃ prabhavāmyaham .. 1.6 ..
तस्मादनादिनिधनं कर्मयोगपरायणः । ज्ञानेनाराधयानन्तं ततो मोक्षमवाप्स्यसि ॥ १.६१ ॥
tasmādanādinidhanaṃ karmayogaparāyaṇaḥ . jñānenārādhayānantaṃ tato mokṣamavāpsyasi .. 1.61 ..
इत्युक्तः स मुनिश्रेष्ठ इन्द्रद्युम्नो महामतिः । प्रणम्य शिरसा देवीं प्राञ्जलिः पुनरब्रवीत् ॥ १.६२ ॥
ityuktaḥ sa muniśreṣṭha indradyumno mahāmatiḥ . praṇamya śirasā devīṃ prāñjaliḥ punarabravīt .. 1.62 ..
कथं स भगवानीशः शाश्वतो निष्कलोऽच्युतः । ज्ञातुं हि शक्यते देवि ब्रूहि मे परमेश्वरि ॥ १.६३ ॥
kathaṃ sa bhagavānīśaḥ śāśvato niṣkalo'cyutaḥ . jñātuṃ hi śakyate devi brūhi me parameśvari .. 1.63 ..
एकमुक्ताऽथ विप्रेण देवी कमलवासिनी । साक्षान्नारायणो ज्ञानं दास्यतीत्याह तं मुनिम् ॥ १.६४ ॥
ekamuktā'tha vipreṇa devī kamalavāsinī . sākṣānnārāyaṇo jñānaṃ dāsyatītyāha taṃ munim .. 1.64 ..
उभाभ्यामथ हस्ताभ्यां संस्पृश्य प्रणतं मुनिम् । स्मृत्वा परात्परं विष्णुं तत्रैवान्तरधीयत ॥ १.६५ ॥
ubhābhyāmatha hastābhyāṃ saṃspṛśya praṇataṃ munim . smṛtvā parātparaṃ viṣṇuṃ tatraivāntaradhīyata .. 1.65 ..
सोऽपि नारायणं द्रष्टुं परमेण समाधिना । आराधयद्धृषीकेशं प्रणतार्तिप्रभञ्जनम् ॥ १.६६ ॥
so'pi nārāyaṇaṃ draṣṭuṃ parameṇa samādhinā . ārādhayaddhṛṣīkeśaṃ praṇatārtiprabhañjanam .. 1.66 ..
ततो बहुतिथे काले गते नारायणः स्वयम् । प्रादुरासीन्महायोगी पीतवासा जगन्मयः ॥ १.६७ ॥
tato bahutithe kāle gate nārāyaṇaḥ svayam . prādurāsīnmahāyogī pītavāsā jaganmayaḥ .. 1.67 ..
दृष्ट्वा देवं समायान्तं विष्णुमात्मानमव्ययम् । जानुभ्यामवनिं गत्वा तुष्टाव गरुडध्वजम् ॥ १.६८ ॥
dṛṣṭvā devaṃ samāyāntaṃ viṣṇumātmānamavyayam . jānubhyāmavaniṃ gatvā tuṣṭāva garuḍadhvajam .. 1.68 ..
इन्द्रद्युम्न उवाच ।
यज्ञेशाच्युत गोविन्द माधवानन्त केशव । कुष्ण विष्णो हृषीकेश तुभ्यं विश्वात्मने नमः ॥ १.६९ ॥
yajñeśācyuta govinda mādhavānanta keśava . kuṣṇa viṣṇo hṛṣīkeśa tubhyaṃ viśvātmane namaḥ .. 1.69 ..
नमोऽस्तु ते पुराणाय हरये विश्वमूर्तये । सर्गस्थितिविनाशानां हेतवेऽनन्तशक्तये ॥ १.७ ॥
namo'stu te purāṇāya haraye viśvamūrtaye . sargasthitivināśānāṃ hetave'nantaśaktaye .. 1.7 ..
निर्गुणाय नमस्तुभ्यं निष्कलायामलात्मने । पुरुषाय नमस्तेस्तु विश्वरूपाय ते नमः ॥ १.७१ ॥
nirguṇāya namastubhyaṃ niṣkalāyāmalātmane . puruṣāya namastestu viśvarūpāya te namaḥ .. 1.71 ..
नमस्ते वासुदेवाय विष्णवे विश्वयोनये । आदिमध्यान्तहीनाय ज्ञानगम्याय ते नमः ॥ १.७२ ॥
namaste vāsudevāya viṣṇave viśvayonaye . ādimadhyāntahīnāya jñānagamyāya te namaḥ .. 1.72 ..
नमस्ते निर्विकाराय निष्प्रपञ्चाय ते नमः । भेदाभेदविहीनाय नमोऽस्त्वानन्दरूपिणे ॥ १.७३ ॥
namaste nirvikārāya niṣprapañcāya te namaḥ . bhedābhedavihīnāya namo'stvānandarūpiṇe .. 1.73 ..
नमस्ताराय शान्ताय नमोऽप्रतिहतात्मने । अनन्तमूर्तये तुभ्यममूर्ताय नमो नमः ॥ १.७४ ॥
namastārāya śāntāya namo'pratihatātmane . anantamūrtaye tubhyamamūrtāya namo namaḥ .. 1.74 ..
नमस्ते परमार्थाय मायातीताय ते नमः । नमस्ते परमेशाय ब्रह्मणे परमात्मने ॥ १.७५ ॥
namaste paramārthāya māyātītāya te namaḥ . namaste parameśāya brahmaṇe paramātmane .. 1.75 ..
नमोऽस्तु ते सुसूक्ष्माय महादेवाय ते नमः । नमः शिवाय शुद्धाय नमस्ते परमेष्ठिने ॥ १.७६ ॥
namo'stu te susūkṣmāya mahādevāya te namaḥ . namaḥ śivāya śuddhāya namaste parameṣṭhine .. 1.76 ..
त्वयैव सृष्टमखिलं त्वमेव परमा गतिः । त्वं पिता सर्वभूतानां त्वं माता पुरुषोत्तम ॥ १.७७ ॥
tvayaiva sṛṣṭamakhilaṃ tvameva paramā gatiḥ . tvaṃ pitā sarvabhūtānāṃ tvaṃ mātā puruṣottama .. 1.77 ..
त्वमक्षरं परं धाम चिन्मात्रं व्योम निष्कलम् । सर्वस्याधारमव्यक्तमनन्तं तमसः परम् ॥ १.७८ ॥
tvamakṣaraṃ paraṃ dhāma cinmātraṃ vyoma niṣkalam . sarvasyādhāramavyaktamanantaṃ tamasaḥ param .. 1.78 ..
प्रपश्यन्ति परात्मानं ज्ञानदीपेन केवलम् । प्रपद्ये भवतो रूपं तद्विष्णोः परमं पदम् ॥ १.७९ ॥
prapaśyanti parātmānaṃ jñānadīpena kevalam . prapadye bhavato rūpaṃ tadviṣṇoḥ paramaṃ padam .. 1.79 ..
एवं स्तुवन्तं भगवान् भूतात्मा भूतभावनः । भाभ्यामथ हस्ताभ्यां पस्पर्श प्रहसन्निव ॥ १.८ ॥
evaṃ stuvantaṃ bhagavān bhūtātmā bhūtabhāvanaḥ . bhābhyāmatha hastābhyāṃ pasparśa prahasanniva .. 1.8 ..
स्पृष्टमात्रो भगवता विष्णुना मुनिपुंगवः । यथावत् परमं तत्त्वं ज्ञातवांस्तत्प्रसादतः ॥ १.८१ ॥
spṛṣṭamātro bhagavatā viṣṇunā munipuṃgavaḥ . yathāvat paramaṃ tattvaṃ jñātavāṃstatprasādataḥ .. 1.81 ..
ततः प्रहृष्टमनसा प्रणिपत्य जनार्दनम् । प्रोवाचोन्निद्रपद्माक्षं पीतवाससमच्युतम् ॥ १.८२ ॥
tataḥ prahṛṣṭamanasā praṇipatya janārdanam . provāconnidrapadmākṣaṃ pītavāsasamacyutam .. 1.82 ..
त्वत्प्रसादादसंदिग्धमुत्पन्नं पुरुषोत्तम । ज्ञानं ब्रह्मैकविषयं परमानन्दसिद्धिदम् ॥ १.८३ ॥
tvatprasādādasaṃdigdhamutpannaṃ puruṣottama . jñānaṃ brahmaikaviṣayaṃ paramānandasiddhidam .. 1.83 ..
नमो भगवते तुभ्यं वासुदेवाय वेधसे । किं करिष्यामि योगेश तन्मे वद जगन्मय ॥ १.८४ ॥
namo bhagavate tubhyaṃ vāsudevāya vedhase . kiṃ kariṣyāmi yogeśa tanme vada jaganmaya .. 1.84 ..
श्रुत्वा नारायणो वाक्यमिन्द्रद्युम्नस्य माधवः । उवाच सस्मितं वाक्यमशेषजगतो हितम् ॥ १.८५ ॥
śrutvā nārāyaṇo vākyamindradyumnasya mādhavaḥ . uvāca sasmitaṃ vākyamaśeṣajagato hitam .. 1.85 ..
श्रीभगवानुवाच ।
वर्णाश्रमाचारवतां पुंसां देवो महेश्वरः । ज्ञानेन भक्तियोगेन पूजनीयो न चान्यथा ॥ १.८६ ॥
varṇāśramācāravatāṃ puṃsāṃ devo maheśvaraḥ . jñānena bhaktiyogena pūjanīyo na cānyathā .. 1.86 ..
विज्ञाय तत्परं तत्त्वं विभूतिं कार्यकारणम् । प्रवृतिं चापि मे ज्ञात्वा मोक्षार्थोश्वरमर्चयेत् ॥ १.८७ ॥
vijñāya tatparaṃ tattvaṃ vibhūtiṃ kāryakāraṇam . pravṛtiṃ cāpi me jñātvā mokṣārthośvaramarcayet .. 1.87 ..
सर्वसङ्गान् परित्यज्य ज्ञात्वा मायामयं जगत् । अद्वैतं भावयात्मानं द्रक्ष्यसे परमेश्वरम् ॥ १.८८ ॥
sarvasaṅgān parityajya jñātvā māyāmayaṃ jagat . advaitaṃ bhāvayātmānaṃ drakṣyase parameśvaram .. 1.88 ..
त्रिविधा भावना ब्रह्मन् प्रोच्यमाना विबोध मे । एका मद्विषया तत्र द्वितीया व्यक्तसंश्रया॥ १.८९ ॥
trividhā bhāvanā brahman procyamānā vibodha me . ekā madviṣayā tatra dvitīyā vyaktasaṃśrayā.. 1.89 ..
अन्या च भावना ब्राह्मी विज्ञेया सा गुणातिगा । आसामन्यतमां चाथ भावनां भावयेद् बुधः॥ १.९ ॥
anyā ca bhāvanā brāhmī vijñeyā sā guṇātigā . āsāmanyatamāṃ cātha bhāvanāṃ bhāvayed budhaḥ.. 1.9 ..
अशक्तः संश्रयेदाद्यामित्येषा वैदिकी श्रुतिः । तस्मात् सर्वप्रयत्नेन तन्निष्ठस्तत्परायणः ॥ १.९१ ॥
aśaktaḥ saṃśrayedādyāmityeṣā vaidikī śrutiḥ . tasmāt sarvaprayatnena tanniṣṭhastatparāyaṇaḥ .. 1.91 ..
समाराधय विश्वेशं ततो मोक्षमवाप्स्यसि ॥ ॥
samārādhaya viśveśaṃ tato mokṣamavāpsyasi .. ..
इन्द्रद्युम्न उवाच ।
किं तत् परतरं तत्त्वं का विभूतिर्जनार्दन ॥ १.९२
kiṃ tat parataraṃ tattvaṃ kā vibhūtirjanārdana .. 1.92
भगवान् उवाच ।
किं कार्यं कारणं कस्त्वं प्रवृत्तिश्चापि का तव ॥ १.९३॥
kiṃ kāryaṃ kāraṇaṃ kastvaṃ pravṛttiścāpi kā tava .. 1.93..
परात्परतरं तत्त्वं परं ब्रह्मैकमव्ययम् । नित्यानन्दं स्वयंज्योतिरक्षरं तमसः परम् ॥ १.९४॥
parātparataraṃ tattvaṃ paraṃ brahmaikamavyayam . nityānandaṃ svayaṃjyotirakṣaraṃ tamasaḥ param .. 1.94..
ऐश्वर्यं तस्य यन्नित्यं विभूतिरिति गीयते । कार्यं जगदथाव्यक्तं कारणं शुद्धमक्षरम् ॥ १.९५॥
aiśvaryaṃ tasya yannityaṃ vibhūtiriti gīyate . kāryaṃ jagadathāvyaktaṃ kāraṇaṃ śuddhamakṣaram .. 1.95..
अहं हि सर्वभूतानामन्तर्यामीश्वरः पुरः । सर्गस्थित्यन्तकर्तृत्वं प्रवृत्तिर्मम गीयते ॥ १.९६॥
ahaṃ hi sarvabhūtānāmantaryāmīśvaraḥ puraḥ . sargasthityantakartṛtvaṃ pravṛttirmama gīyate .. 1.96..
एतद् विज्ञाय भावेन यथावदखिलं द्विज । ततस्त्वं कर्मयोगेन शाश्वतं सम्यगर्चय ॥ १.९७॥
etad vijñāya bhāvena yathāvadakhilaṃ dvija . tatastvaṃ karmayogena śāśvataṃ samyagarcaya .. 1.97..
इन्द्रद्युम्न उवाच ।
के ते वर्णाश्रमाचारा यैः समाराध्यते परः । ज्ञानं च कीदृशं दिव्यं भावनात्रयसंस्थितम् ॥ १.९८॥
ke te varṇāśramācārā yaiḥ samārādhyate paraḥ . jñānaṃ ca kīdṛśaṃ divyaṃ bhāvanātrayasaṃsthitam .. 1.98..
कथं सृष्टमिदं पूर्वं कथं संह्रियते पुनः । कियत्यः सृष्टयो लोके वंशा मन्वन्तराणि च । कानि तेषां प्रमाणानि पावनानि व्रतानि च ॥ १.९९॥
kathaṃ sṛṣṭamidaṃ pūrvaṃ kathaṃ saṃhriyate punaḥ . kiyatyaḥ sṛṣṭayo loke vaṃśā manvantarāṇi ca . kāni teṣāṃ pramāṇāni pāvanāni vratāni ca .. 1.99..
तीर्थान्यर्कादिसंस्थानं पृथिव्यायामविस्तरे । कति द्वीपाः समुद्राश्च पर्वताश्च नदीनदाः ॥ १.१॥
tīrthānyarkādisaṃsthānaṃ pṛthivyāyāmavistare . kati dvīpāḥ samudrāśca parvatāśca nadīnadāḥ .. 1.1..
ब्रूहि मे पुण्डरीकाक्ष यथावदधुनाऽखिलम् ॥ ॥
brūhi me puṇḍarīkākṣa yathāvadadhunā'khilam .. ..
श्रीकूर्म उवाच ।
एवमुक्तोऽथ तेनाहं भक्तानुग्रहकाम्यया ॥ १.१०१
evamukto'tha tenāhaṃ bhaktānugrahakāmyayā .. 1.101
यथावदखिलं सर्वमवोचं मुनिपुंगवाः । व्याख्यायाशेषमेवेदं यत्पृष्टोऽहं द्विजेन तु॥ १.१०२॥
yathāvadakhilaṃ sarvamavocaṃ munipuṃgavāḥ . vyākhyāyāśeṣamevedaṃ yatpṛṣṭo'haṃ dvijena tu.. 1.102..
अनुगृह्य च तं विप्रं तत्रैवान्तर्हितोऽभवम् । सोऽपि तेन विधानेन मदुक्तेन द्विजोत्तमः॥ १.१०३॥
anugṛhya ca taṃ vipraṃ tatraivāntarhito'bhavam . so'pi tena vidhānena maduktena dvijottamaḥ.. 1.103..
आराधयामास परं भावपूतः समाहितः । त्यक्त्वा पुत्रादिषु स्नेहं निर्द्वन्द्वो निष्परिग्रहः ॥ १.१०४॥
ārādhayāmāsa paraṃ bhāvapūtaḥ samāhitaḥ . tyaktvā putrādiṣu snehaṃ nirdvandvo niṣparigrahaḥ .. 1.104..
संन्यस्य सर्वकर्माणि परं वैराग्यमाश्रितः । आत्मन्यात्मानमन्वीक्ष्य स्वात्मन्येवाखिलं जगत् ॥ १.१०५॥
saṃnyasya sarvakarmāṇi paraṃ vairāgyamāśritaḥ . ātmanyātmānamanvīkṣya svātmanyevākhilaṃ jagat .. 1.105..
संप्राप्य भावनामन्त्यां ब्राह्मीमक्षरपूर्विकाम् । अवाप परमं योगं येनैकं परिपश्यति ॥ १.१०६॥
saṃprāpya bhāvanāmantyāṃ brāhmīmakṣarapūrvikām . avāpa paramaṃ yogaṃ yenaikaṃ paripaśyati .. 1.106..
यं विनिद्रा जितश्वासाः कांक्षन्ते मोक्षकांक्षिणः । ततः कदाचिद् योगीन्द्रो ब्रह्माणं द्रष्टुमव्ययम् ॥ १.१०७॥
yaṃ vinidrā jitaśvāsāḥ kāṃkṣante mokṣakāṃkṣiṇaḥ . tataḥ kadācid yogīndro brahmāṇaṃ draṣṭumavyayam .. 1.107..
जगामादित्यनिर्देशान्मानसोत्तरपर्वतम् । आकाशेनैव विप्रेन्द्रो योगैश्वर्यप्रभावतः ॥ १.१०८॥
jagāmādityanirdeśānmānasottaraparvatam . ākāśenaiva viprendro yogaiśvaryaprabhāvataḥ .. 1.108..
विमानं सूर्यसंकाशं प्रादुर्भूतमनुत्तमम् । अन्वगच्छन् देवगणा गन्धर्वाप्सरसां गणाः ॥ १.१०९॥
vimānaṃ sūryasaṃkāśaṃ prādurbhūtamanuttamam . anvagacchan devagaṇā gandharvāpsarasāṃ gaṇāḥ .. 1.109..
दृष्ट्वाऽन्ये पथि योगीन्द्रं सिद्धा ब्रह्मर्षयो ययुः । ततः स गत्वा तु गिरिं विवेश सुरवन्दितम्॥ १.११॥
dṛṣṭvā'nye pathi yogīndraṃ siddhā brahmarṣayo yayuḥ . tataḥ sa gatvā tu giriṃ viveśa suravanditam.. 1.11..
स्थानं तद्योगिभिर्जुष्टं यत्रास्ते परमः पुमान् .संप्रान्य परमं स्थानं सूर्यायुतसमप्रभम् ॥ १.१११॥
sthānaṃ tadyogibhirjuṣṭaṃ yatrāste paramaḥ pumān .saṃprānya paramaṃ sthānaṃ sūryāyutasamaprabham .. 1.111..
विवेश चान्तर्भवनं देवानां च दुरासदम् । विचिन्तयामास परं शरण्यं सर्वदेहिनाम् ॥ १.११२॥
viveśa cāntarbhavanaṃ devānāṃ ca durāsadam . vicintayāmāsa paraṃ śaraṇyaṃ sarvadehinām .. 1.112..
अनादिनिधनं देवं देवदेवं पितामहम् । ततः प्रादुरभूत् तस्मिन् प्रकाशः परमाद्भुतः ॥ १.११३॥
anādinidhanaṃ devaṃ devadevaṃ pitāmaham . tataḥ prādurabhūt tasmin prakāśaḥ paramādbhutaḥ .. 1.113..
तन्मध्ये पुरुषं पूर्वमपश्यत् परमं पदम् । महान्तं तेजसो राशिमगम्यं ब्रह्मविद्विषाम्॥ १.११४॥
tanmadhye puruṣaṃ pūrvamapaśyat paramaṃ padam . mahāntaṃ tejaso rāśimagamyaṃ brahmavidviṣām.. 1.114..
चतुर्मुखमुदाराङ्गमर्चिभिरुपशोभितम् । सोऽपि योगिनमन्वीक्ष्य प्रणमन्तमुपस्थितम् ॥ १.११५॥
caturmukhamudārāṅgamarcibhirupaśobhitam . so'pi yoginamanvīkṣya praṇamantamupasthitam .. 1.115..
प्रत्युद्गम्य स्वयं देवो विश्वात्मा परिषस्वजे । परिष्वक्तस्य देवेन द्विजेन्द्रस्याथ देहतः ॥ १.११६॥
pratyudgamya svayaṃ devo viśvātmā pariṣasvaje . pariṣvaktasya devena dvijendrasyātha dehataḥ .. 1.116..
निर्गत्य महती ज्योत्स्ना विवेशादित्यमण्डलम् । ऋग्यजुः सामसंज्ञं तत् पवित्रममलं पदम् ॥ १.११७॥
nirgatya mahatī jyotsnā viveśādityamaṇḍalam . ṛgyajuḥ sāmasaṃjñaṃ tat pavitramamalaṃ padam .. 1.117..
हिरण्यगर्भो भगवान् यत्रास्ते हव्यकव्यभुक् । द्वारं तद् योगिनामाद्यं वेदान्तेषु प्रतिष्ठितम् ॥ १.११८॥
hiraṇyagarbho bhagavān yatrāste havyakavyabhuk . dvāraṃ tad yogināmādyaṃ vedānteṣu pratiṣṭhitam .. 1.118..
ब्रह्मतेजोमयं श्रीमन्निष्ठा चैव मनीषिणाम् । दृष्टमात्रो भगवता ब्रह्मणाऽर्चिर्मयो मुनिः॥ १.११९॥
brahmatejomayaṃ śrīmanniṣṭhā caiva manīṣiṇām . dṛṣṭamātro bhagavatā brahmaṇā'rcirmayo muniḥ.. 1.119..
अपश्यदैश्वरं तेजः शान्तं सर्वत्रगं शिवम् । स्वात्मानमक्षरं व्योम यत्र विष्णोः परमं पदम् ॥ १.१२॥
apaśyadaiśvaraṃ tejaḥ śāntaṃ sarvatragaṃ śivam . svātmānamakṣaraṃ vyoma yatra viṣṇoḥ paramaṃ padam .. 1.12..
आनन्दमचलं ब्रह्म स्थानं तत्पारमेश्वरम् । सर्वभूतात्मभूतः स्थः परमैश्वर्यमास्थितः ॥ १.१२१॥
ānandamacalaṃ brahma sthānaṃ tatpārameśvaram . sarvabhūtātmabhūtaḥ sthaḥ paramaiśvaryamāsthitaḥ .. 1.121..
प्राप्तवानात्मनो धाम यत्तन्मोक्षाख्यमव्ययम् । तस्मात् सर्वप्रयत्नेन वर्णाश्रमविधौ स्थितः॥ १.१२२॥
prāptavānātmano dhāma yattanmokṣākhyamavyayam . tasmāt sarvaprayatnena varṇāśramavidhau sthitaḥ.. 1.122..
समाश्रित्यान्तिमं भावं मायां लक्ष्मीं तरेद् बुधः ॥ ॥
samāśrityāntimaṃ bhāvaṃ māyāṃ lakṣmīṃ tared budhaḥ .. ..
सूत उवाच ।
व्याहृता हरिणा त्वेवं नारादाद्या महर्षयः॥ १.१२३
vyāhṛtā hariṇā tvevaṃ nārādādyā maharṣayaḥ.. 1.123
शक्रेण सहिताः सर्वे पप्रच्छुर्गरुडध्वजम् ॥ ॥
śakreṇa sahitāḥ sarve papracchurgaruḍadhvajam .. ..
ऋषय ऊचुः ।
देवदेव हृषीकेश नाथ नारायणामल ॥ १.१२४
devadeva hṛṣīkeśa nātha nārāyaṇāmala .. 1.124
तद् वदाशेषमस्माकं यदुक्तं भवता पुरा .इन्द्रद्युम्नाय विप्रया ज्ञानं धर्मादिगोचरम् ॥ १.१२५॥
tad vadāśeṣamasmākaṃ yaduktaṃ bhavatā purā .indradyumnāya viprayā jñānaṃ dharmādigocaram .. 1.125..
शुश्रूषुश्चाप्ययं शक्रः सखा तव जगन्मय । ततः स भगवान् विष्णुः कूर्मरूपी जनार्दनः ॥ १.१२६॥
śuśrūṣuścāpyayaṃ śakraḥ sakhā tava jaganmaya . tataḥ sa bhagavān viṣṇuḥ kūrmarūpī janārdanaḥ .. 1.126..
रसातलगतो देवो नारदाद्यैर्महर्षिभिः । पृष्टः प्रोवाच सकलं पुराणं कौर्ममुत्तमम् ॥ १.१२७॥
rasātalagato devo nāradādyairmaharṣibhiḥ . pṛṣṭaḥ provāca sakalaṃ purāṇaṃ kaurmamuttamam .. 1.127..
सन्निधौ देवराजस्य तद् वक्ष्ये भवतामहम् । धन्यं यशस्यमायुष्यं पुण्यं मोक्षप्रदं नृणाम् ॥ १.१२८॥
sannidhau devarājasya tad vakṣye bhavatāmaham . dhanyaṃ yaśasyamāyuṣyaṃ puṇyaṃ mokṣapradaṃ nṛṇām .. 1.128..
पुराणश्रवणं विप्राः कथनं च विशेषतः । श्रुत्वा चाध्यायमेवैकं सर्वपापैः प्रमुच्यते ॥ १.१२९॥
purāṇaśravaṇaṃ viprāḥ kathanaṃ ca viśeṣataḥ . śrutvā cādhyāyamevaikaṃ sarvapāpaiḥ pramucyate .. 1.129..
उपाख्यानमथैकं वा ब्रह्मलोके महीयते । इदं पुराणं परमं कौर्मं कूर्मस्वरूपिणा ॥ १३०॥
upākhyānamathaikaṃ vā brahmaloke mahīyate . idaṃ purāṇaṃ paramaṃ kaurmaṃ kūrmasvarūpiṇā .. 130..
उक्तं देवाधिदेवेन श्रद्धातव्यं द्विजातिभिः ॥ १३१
uktaṃ devādhidevena śraddhātavyaṃ dvijātibhiḥ .. 131
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे इन्द्रद्युम्नमोक्ष वर्णनं नाम प्रथमोऽध्यायः ॥
iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ pūrvavibhāge indradyumnamokṣa varṇanaṃ nāma prathamo'dhyāyaḥ ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In