| |
|

This overlay will guide you through the buttons:

श्रीकूर्म उवाच ।
गते महेश्वरे देवे सोधिवासं पितामहः । तदेव सुमहत्पद्मं भेजे नाभिसमुत्थितम् ॥ १०.१॥
गते महेश्वरे देवे स उधिवासम् पितामहः । तत् एव सु महत् पद्मम् भेजे नाभि-समुत्थितम् ॥ १०।१॥
gate maheśvare deve sa udhivāsam pitāmahaḥ . tat eva su mahat padmam bheje nābhi-samutthitam .. 10.1..
अथ दीर्घेण कालेन तत्राप्रतिमपौरुषौ । महासुरौ समायातौ भ्रातरौ मधुकैटभौ ॥ १०.२॥
अथ दीर्घेण कालेन तत्र अप्रतिम-पौरुषौ । महा-असुरौ समायातौ भ्रातरौ मधु-कैटभौ ॥ १०।२॥
atha dīrgheṇa kālena tatra apratima-pauruṣau . mahā-asurau samāyātau bhrātarau madhu-kaiṭabhau .. 10.2..
क्रोधेन महताविष्टौ महापर्वतविग्रहौ । कर्णान्तरसमुद्भूतौ देवदेवस्य शार्ङ्गिणः ॥ १०.३॥
क्रोधेन महता आविष्टौ महा-पर्वत-विग्रहौ । कर्ण-अन्तर-समुद्भूतौ देवदेवस्य शार्ङ्गिणः ॥ १०।३॥
krodhena mahatā āviṣṭau mahā-parvata-vigrahau . karṇa-antara-samudbhūtau devadevasya śārṅgiṇaḥ .. 10.3..
तावागतौ समीक्ष्याह नारायणमजो विभुः । त्रैलोक्यकण्टकावेतावसुरौ हन्तुमर्हसि ॥ १०.४॥
तौ आगतौ समीक्ष्य आह नारायणम् अजः विभुः । त्रैलोक्य-कण्टकौ एतौ असुरौ हन्तुम् अर्हसि ॥ १०।४॥
tau āgatau samīkṣya āha nārāyaṇam ajaḥ vibhuḥ . trailokya-kaṇṭakau etau asurau hantum arhasi .. 10.4..
तदस्य वचनं श्रुत्वा हरिर्नारायणः प्रभुः । आज्ञापयामास तयोर्वधार्थं पुरुषावुभौ ॥ १०.५॥
तत् अस्य वचनम् श्रुत्वा हरिः नारायणः प्रभुः । आज्ञापयामास तयोः वध-अर्थम् पुरुषौ उभौ ॥ १०।५॥
tat asya vacanam śrutvā hariḥ nārāyaṇaḥ prabhuḥ . ājñāpayāmāsa tayoḥ vadha-artham puruṣau ubhau .. 10.5..
तदाज्ञया महद्युद्धं तयोस्ताभ्यामभूद् द्विजाः । व्यजयत् कैटभं जिष्णुः विष्णुश्च व्यजयन्मधुम् ॥ १०.६॥
तद्-आज्ञया महत् युद्धम् तयोः ताभ्याम् अभूत् द्विजाः । व्यजयत् कैटभम् जिष्णुः विष्णुः च व्यजयत् मधुम् ॥ १०।६॥
tad-ājñayā mahat yuddham tayoḥ tābhyām abhūt dvijāḥ . vyajayat kaiṭabham jiṣṇuḥ viṣṇuḥ ca vyajayat madhum .. 10.6..
ततः पद्मासनासीनं जगन्नाथं पितामहम् । बभाषे मधुरं वाक्यं स्नेहाविष्टमना हरिः ॥ १०.७॥
ततस् पद्मासन-आसीनम् जगन्नाथम् पितामहम् । बभाषे मधुरम् वाक्यम् स्नेह-आविष्ट-मनाः हरिः ॥ १०।७॥
tatas padmāsana-āsīnam jagannātham pitāmaham . babhāṣe madhuram vākyam sneha-āviṣṭa-manāḥ hariḥ .. 10.7..
अस्मान्मयोह्यमानस्त्वं पद्मादवतर प्रभो । नाहं भवन्तं शक्नोमि वोढुं तेजोमयं गुरुम् ॥ १०.८॥
अस्मात् मया उह्यमानः त्वम् पद्मात् अवतर प्रभो । न अहम् भवन्तम् शक्नोमि वोढुम् तेजः-मयम् गुरुम् ॥ १०।८॥
asmāt mayā uhyamānaḥ tvam padmāt avatara prabho . na aham bhavantam śaknomi voḍhum tejaḥ-mayam gurum .. 10.8..
ततोऽवतीर्य विश्वात्मा देहमाविश्य चक्रिणः । अवाच वैष्णवीं निद्रामेकीभूतोऽथ विष्णुना ॥ १०.९॥
ततस् अवतीर्य विश्वात्मा देहम् आविश्य चक्रिणः । अवाच वैष्णवीम् निद्राम् एकीभूतः अथ विष्णुना ॥ १०।९॥
tatas avatīrya viśvātmā deham āviśya cakriṇaḥ . avāca vaiṣṇavīm nidrām ekībhūtaḥ atha viṣṇunā .. 10.9..
सहस्त्रशीर्षनयनः शङ्खचक्रगदाधरः । ब्रह्मा नारायणाख्योऽसौ सुष्वाप सलिले तदा ॥ १०.१॥
। ब्रह्मा नारायण-आख्यः असौ सुष्वाप सलिले तदा ॥ १०।१॥
. brahmā nārāyaṇa-ākhyaḥ asau suṣvāpa salile tadā .. 10.1..
सोऽनुभूय चिरं कालमानन्दं परमात्मनः । अनाद्यनन्तमद्वैतं स्वात्मानं ब्रह्मसंज्ञितम् ॥ १०.११॥
सः अनुभूय चिरम् कालम् आनन्दम् परमात्मनः । अनादि-अनन्तम् अद्वैतम् स्व-आत्मानम् ब्रह्म-संज्ञितम् ॥ १०।११॥
saḥ anubhūya ciram kālam ānandam paramātmanaḥ . anādi-anantam advaitam sva-ātmānam brahma-saṃjñitam .. 10.11..
ततः प्रभाते योगात्मा भूत्वा देवश्चतुर्मुखः । ससर्ज सृष्टिं तद्रूपां वैष्णवं भावमाश्रितः ॥ १०.१२॥
ततस् प्रभाते योग-आत्मा भूत्वा देवः चतुर्मुखः । ससर्ज सृष्टिम् तद्-रूपाम् वैष्णवम् भावम् आश्रितः ॥ १०।१२॥
tatas prabhāte yoga-ātmā bhūtvā devaḥ caturmukhaḥ . sasarja sṛṣṭim tad-rūpām vaiṣṇavam bhāvam āśritaḥ .. 10.12..
पुरस्तादसृजद्देवः सनन्दं सनकं तथा । ऋभुं सनत्कुमारं च पुर्वजं तं सनातनम् ॥ १०.१३॥
पुरस्तात् असृजत् देवः सनन्दम् सनकम् तथा । ऋभुम् सनत्कुमारम् च पुर्वजम् तम् सनातनम् ॥ १०।१३॥
purastāt asṛjat devaḥ sanandam sanakam tathā . ṛbhum sanatkumāram ca purvajam tam sanātanam .. 10.13..
ते द्वन्द्वमोहनिर्मुक्ताः परं वैराग्यमास्थिताः । विदित्वा परमं भावं न सृष्टौ दधिरे मतिम् ॥ १०.१४॥
ते द्वन्द्व-मोह-निर्मुक्ताः परम् वैराग्यम् आस्थिताः । विदित्वा परमम् भावम् न सृष्टौ दधिरे मतिम् ॥ १०।१४॥
te dvandva-moha-nirmuktāḥ param vairāgyam āsthitāḥ . viditvā paramam bhāvam na sṛṣṭau dadhire matim .. 10.14..
तेष्वेवं निरपेक्षेषु लोकसृष्टौ पितामहः । बभूव नष्टचेता वै मायया परमेष्ठिनः ॥ १०.१५॥
तेषु एवम् निरपेक्षेषु लोक-सृष्टौ पितामहः । बभूव नष्ट-चेताः वै मायया परमेष्ठिनः ॥ १०।१५॥
teṣu evam nirapekṣeṣu loka-sṛṣṭau pitāmahaḥ . babhūva naṣṭa-cetāḥ vai māyayā parameṣṭhinaḥ .. 10.15..
ततः पुराणपुरुषो जगन्मूर्ति सनातनः। व्याजहारात्मनः पुत्रं मोहनाशाय पद्मजम् ॥ १०.१६॥
ततस् पुराणपुरुषः जगत्-मूर्ति सनातनः। व्याजहार आत्मनः पुत्रम् मोह-नाशाय पद्मजम् ॥ १०।१६॥
tatas purāṇapuruṣaḥ jagat-mūrti sanātanaḥ. vyājahāra ātmanaḥ putram moha-nāśāya padmajam .. 10.16..
विष्णुरुवाच ।
कच्चिन्न विस्मृतो देवः शूलपाणिः सनातनः । यदुक्तवानात्मनोऽसौ पुत्रत्वे तव शंकरः ॥ १०.१७॥
कच्चित् न विस्मृतः देवः शूलपाणिः सनातनः । यत् उक्तवान् आत्मनः असौ पुत्र-त्वे तव शंकरः ॥ १०।१७॥
kaccit na vismṛtaḥ devaḥ śūlapāṇiḥ sanātanaḥ . yat uktavān ātmanaḥ asau putra-tve tava śaṃkaraḥ .. 10.17..
प्रयुक्तवान् मनो योऽसौ पुत्रत्वेन तु शङ्करःअवाप संज्ञां गोविन्दात् पद्मयोनिः पितामहः ॥ १०.१८॥
प्रयुक्तवान् मनः यः असौ पुत्र-त्वेन तु शङ्करः अवाप संज्ञाम् गोविन्दात् पद्मयोनिः पितामहः ॥ १०।१८॥
prayuktavān manaḥ yaḥ asau putra-tvena tu śaṅkaraḥ avāpa saṃjñām govindāt padmayoniḥ pitāmahaḥ .. 10.18..
प्रजाः स्त्रष्टुमनास्तेपे तपः परमदुश्चरम् । तस्यैवं तप्यमानस्य न किञ्चित् समवर्तत॥ १०.१९॥
प्रजाः स्त्रष्टु-मनाः तेपे तपः परम-दुश्चरम् । तस्य एवम् तप्यमानस्य न किञ्चिद् समवर्तत॥ १०।१९॥
prajāḥ straṣṭu-manāḥ tepe tapaḥ parama-duścaram . tasya evam tapyamānasya na kiñcid samavartata.. 10.19..
ततो दीर्घेण कालेन दुःखात्क्रोधोऽभ्यजायत । क्रोधाविष्टस्य नेत्राभ्यां प्रापतन्नश्रुबिन्दवः ॥ १०.२॥
ततस् दीर्घेण कालेन दुःखात् क्रोधः अभ्यजायत । क्रोध-आविष्टस्य नेत्राभ्याम् प्रापतन् अश्रु-बिन्दवः ॥ १०।२॥
tatas dīrgheṇa kālena duḥkhāt krodhaḥ abhyajāyata . krodha-āviṣṭasya netrābhyām prāpatan aśru-bindavaḥ .. 10.2..
ततस्तेभ्योऽश्रुबिन्दुभ्य भूताः प्रेतास्तथाभवन् । सर्वांस्तान्ग्रतो दृष्ट्वा ब्रह्मात्मानमनिन्दत॥ १०.२१॥
ततस् तेभ्यः अश्रु-बिन्दुभ्यः भूताः प्रेताः तथा अभवन् । सर्वान् तान् ग्रतस् दृष्ट्वा ब्रह्मा आत्मानम् अनिन्दत॥ १०।२१॥
tatas tebhyaḥ aśru-bindubhyaḥ bhūtāḥ pretāḥ tathā abhavan . sarvān tān gratas dṛṣṭvā brahmā ātmānam anindata.. 10.21..
जहौ प्राणांश्च भगवान् क्रोधाविष्टः प्रजापतिः । तदा प्राणमयो रुद्रः प्रादुरसीत् प्रभोर्मुखात्॥ १०.२२॥
जहौ प्राणान् च भगवान् क्रोध-आविष्टः प्रजापतिः । तदा प्राण-मयः रुद्रः प्रादुरसीत् प्रभोः मुखात्॥ १०।२२॥
jahau prāṇān ca bhagavān krodha-āviṣṭaḥ prajāpatiḥ . tadā prāṇa-mayaḥ rudraḥ prādurasīt prabhoḥ mukhāt.. 10.22..
सहस्त्रादित्यसंकाशो युगान्तदहनोपमः । रुरोद सुस्वरं घोरं देवदेवः स्वयं शिवः॥ १०.२३॥
सहस्त्र-आदित्य-संकाशः युगान्त-दहन-उपमः । रुरोद सु स्वरम् घोरम् देवदेवः स्वयम् शिवः॥ १०।२३॥
sahastra-āditya-saṃkāśaḥ yugānta-dahana-upamaḥ . ruroda su svaram ghoram devadevaḥ svayam śivaḥ.. 10.23..
रोदमानं ततो ब्रह्मा मा रोदीरित्यभाषत । रोदनाद् रुद्र इत्येवं लोके ख्यातिं गमिष्यसि ॥ १०.२४॥
रोदमानम् ततस् ब्रह्मा मा रोदीः इति अभाषत । रोदनात् रुद्रः इति एवम् लोके ख्यातिम् गमिष्यसि ॥ १०।२४॥
rodamānam tatas brahmā mā rodīḥ iti abhāṣata . rodanāt rudraḥ iti evam loke khyātim gamiṣyasi .. 10.24..
अन्यानि सप्त नामानि पत्नीः पुत्रांश्चशाश्वतान् । स्थानानि तेषामष्टानां ददौ लोकपितामहः ॥ १०.२५॥
अन्यानि सप्त नामानि पत्नीः पुत्रान् च शाश्वतान् । स्थानानि तेषाम् अष्टानाम् ददौ लोकपितामहः ॥ १०।२५॥
anyāni sapta nāmāni patnīḥ putrān ca śāśvatān . sthānāni teṣām aṣṭānām dadau lokapitāmahaḥ .. 10.25..
भवः शर्वस्तथेशानः पशूनां पतिरेव च । भीमश्चोग्रो महादेवस्तानि नामानि सप्त वै ॥ १०.२६॥
भवः शर्वः तथा ईशानः पशूनाम् पतिः एव च । भीमः च उग्रः महादेवः तानि नामानि सप्त वै ॥ १०।२६॥
bhavaḥ śarvaḥ tathā īśānaḥ paśūnām patiḥ eva ca . bhīmaḥ ca ugraḥ mahādevaḥ tāni nāmāni sapta vai .. 10.26..
सूर्यो जलं मही वह्निर्वायुराकाशमेव च । दीक्षितो ब्राह्मणश्चन्द्र इत्येता अष्टमूर्त्तयः ॥ १०.२७॥
सूर्यः जलम् मही वह्निः वायुः आकाशम् एव च । दीक्षितः ब्राह्मणः चन्द्रः इति एताः अष्ट-मूर्त्तयः ॥ १०।२७॥
sūryaḥ jalam mahī vahniḥ vāyuḥ ākāśam eva ca . dīkṣitaḥ brāhmaṇaḥ candraḥ iti etāḥ aṣṭa-mūrttayaḥ .. 10.27..
स्थानेष्वेतेषु ये रुद्रान् ध्यायन्ति प्रणमन्ति च । तेषामष्टतनुर्देवो ददाति परमं पदम् ॥ १०.२८॥
स्थानेषु एतेषु ये रुद्रान् ध्यायन्ति प्रणमन्ति च । तेषाम् अष्ट-तनुः देवः ददाति परमम् पदम् ॥ १०।२८॥
sthāneṣu eteṣu ye rudrān dhyāyanti praṇamanti ca . teṣām aṣṭa-tanuḥ devaḥ dadāti paramam padam .. 10.28..
सुवर्चला तथैवोमा विकेशी च शिवा तथा । स्वाहा दिशश्च दीक्षा च रोहिणी चेति पत्नयः ॥ १०.२९॥
सुवर्चला तथा एवा उमा विकेशी च शिवा तथा । स्वाहा दिशः च दीक्षा च रोहिणी च इति पत्नयः ॥ १०।२९॥
suvarcalā tathā evā umā vikeśī ca śivā tathā . svāhā diśaḥ ca dīkṣā ca rohiṇī ca iti patnayaḥ .. 10.29..
शनैश्चरस्तथा शुक्रो लोहिताङ्गो मनोजवः । स्कन्दः सर्गोऽथ सन्तानो बुधश्चैषां सुताः स्मृताः ॥ १०.३॥
शनैश्चरः तथा शुक्रः लोहिताङ्गः मनोजवः । स्कन्दः सर्गः अथ सन्तानः बुधः च एषाम् सुताः स्मृताः ॥ १०।३॥
śanaiścaraḥ tathā śukraḥ lohitāṅgaḥ manojavaḥ . skandaḥ sargaḥ atha santānaḥ budhaḥ ca eṣām sutāḥ smṛtāḥ .. 10.3..
एवंप्रकारो भगवान् देवदेवो महेश्वरः । प्रजाधर्मं च काम च त्यक्त्वा वैराग्यमाश्रितः ॥ १०.३१॥
एवंप्रकारः भगवान् देवदेवः महेश्वरः । प्रजा-धर्मम् च काम च त्यक्त्वा वैराग्यम् आश्रितः ॥ १०।३१॥
evaṃprakāraḥ bhagavān devadevaḥ maheśvaraḥ . prajā-dharmam ca kāma ca tyaktvā vairāgyam āśritaḥ .. 10.31..
आत्मन्याधाय चात्मानमैश्वरं भावमास्थितः । पीत्वा तदक्षरं ब्रह्म शाश्वतं परमामृतम् ॥ १०.३२॥
आत्मनि आधाय च आत्मानम् ऐश्वरम् भावम् आस्थितः । पीत्वा तत् अक्षरम् ब्रह्म शाश्वतम् परम-अमृतम् ॥ १०।३२॥
ātmani ādhāya ca ātmānam aiśvaram bhāvam āsthitaḥ . pītvā tat akṣaram brahma śāśvatam parama-amṛtam .. 10.32..
प्रजाः सृजति चादिष्टो ब्रह्मणा नीललोहितः । स्वात्मना सदृशान् रुद्रान् ससर्ज मनसा शिवः ॥ १०.३३॥
प्रजाः सृजति च आदिष्टः ब्रह्मणा नीललोहितः । स्व-आत्मना सदृशान् रुद्रान् ससर्ज मनसा शिवः ॥ १०।३३॥
prajāḥ sṛjati ca ādiṣṭaḥ brahmaṇā nīlalohitaḥ . sva-ātmanā sadṛśān rudrān sasarja manasā śivaḥ .. 10.33..
कपरछ्दिनो निरातङ्कान् नीलकण्ठान् पिनाकिनः । त्रिशूलहस्तानुद्रिक्तान् महानन्दांस्त्रिलोचनान् ॥ १०.३४॥
कपर-छ्दिनः निरातङ्कान् नील-कण्ठान् पिनाकिनः । त्रिशूल-हस्तान् उद्रिक्तान् महा-आनन्दान् त्रि-लोचनान् ॥ १०।३४॥
kapara-chdinaḥ nirātaṅkān nīla-kaṇṭhān pinākinaḥ . triśūla-hastān udriktān mahā-ānandān tri-locanān .. 10.34..
जरामरणनिर्मुक्तान् महावृषभवाहनान् । वीतरागांश्च सर्वज्ञान् कोटिकोटिशतान्प्रभुः ॥ १०.३५॥
जरा-मरण-निर्मुक्तान् महा-वृषभ-वाहनान् । वीत-रागान् च सर्वज्ञान् कोटि-कोटि-शतान् प्रभुः ॥ १०।३५॥
jarā-maraṇa-nirmuktān mahā-vṛṣabha-vāhanān . vīta-rāgān ca sarvajñān koṭi-koṭi-śatān prabhuḥ .. 10.35..
तान्दृष्ट्वा विविधान्रुद्रान्निर्मलान्नीललोहितान् । जरामरणनिर्मुक्तान् व्याजहर हरं गुरुः ॥ १०.३६॥
तान् दृष्ट्वा विविधान् रुद्रान् निर्मलान् नीललोहितान् । जरा-मरण-निर्मुक्तान् व्याजहर हरम् गुरुः ॥ १०।३६॥
tān dṛṣṭvā vividhān rudrān nirmalān nīlalohitān . jarā-maraṇa-nirmuktān vyājahara haram guruḥ .. 10.36..
मा स्राक्षीरीदृशीर्देव प्रजा मृत्युविवर्जिताः । अन्याः सृजस्व भूतेश जन्ममृत्युसमन्विताः ॥ १०.३७॥
मा स्राक्षीः ईदृशीः देव प्रजाः मृत्यु-विवर्जिताः । अन्याः सृजस्व भूतेश जन्म-मृत्यु-समन्विताः ॥ १०।३७॥
mā srākṣīḥ īdṛśīḥ deva prajāḥ mṛtyu-vivarjitāḥ . anyāḥ sṛjasva bhūteśa janma-mṛtyu-samanvitāḥ .. 10.37..
ततस्तमाह भगवान् कपर्दी कामशासनः । नास्ति मे तादृशः सर्गः सृज त्वमशुभाः प्रजाः ॥ १०.३८॥
ततस् तम् आह भगवान् कपर्दी कामशासनः । न अस्ति मे तादृशः सर्गः सृज त्वम् अशुभाः प्रजाः ॥ १०।३८॥
tatas tam āha bhagavān kapardī kāmaśāsanaḥ . na asti me tādṛśaḥ sargaḥ sṛja tvam aśubhāḥ prajāḥ .. 10.38..
ततः प्रभृति देवोऽसौ न प्रसूतेऽशुभाः प्रजाः । स्वात्मजैरेव तै रुद्रैर्निवृत्तात्मा ह्यतिष्ठत । ॥ १०.३९॥
ततस् प्रभृति देवः असौ न प्रसूते अशुभाः प्रजाः । स्व-आत्मजैः एव तैः रुद्रैः निवृत्त-आत्मा हि अतिष्ठत । ॥ १०।३९॥
tatas prabhṛti devaḥ asau na prasūte aśubhāḥ prajāḥ . sva-ātmajaiḥ eva taiḥ rudraiḥ nivṛtta-ātmā hi atiṣṭhata . .. 10.39..
स्थाणुत्वं तेन तस्यासीद् देवदेवस्य शूलिनः । ज्ञानं वैराग्यमैश्वर्यं तपः सत्यं क्षमा धृतिः॥ १०.४॥
स्थाणु-त्वम् तेन तस्य आसीत् देवदेवस्य शूलिनः । ज्ञानम् वैराग्यम् ऐश्वर्यम् तपः सत्यम् क्षमा धृतिः॥ १०।४॥
sthāṇu-tvam tena tasya āsīt devadevasya śūlinaḥ . jñānam vairāgyam aiśvaryam tapaḥ satyam kṣamā dhṛtiḥ.. 10.4..
द्रष्टृत्वमात्मसंबोधो ह्यधिष्ठातृत्वमेव च । अव्ययानि दशैतानि नित्यं तिष्ठन्ति शंकरे॥ १०.४१॥
द्रष्टृ-त्वम् आत्म-संबोधः हि अधिष्ठातृ-त्वम् एव च । अव्ययानि दश एतानि नित्यम् तिष्ठन्ति शंकरे॥ १०।४१॥
draṣṭṛ-tvam ātma-saṃbodhaḥ hi adhiṣṭhātṛ-tvam eva ca . avyayāni daśa etāni nityam tiṣṭhanti śaṃkare.. 10.41..
एवं स शंकरः साक्षात्पिनाकी परमेश्वरः । ततः स भगवान् ब्रह्मा वीक्ष्य देवं त्रिलोचनम्॥ १०.४२॥
एवम् स शंकरः साक्षात् पिनाकी परमेश्वरः । ततस् स भगवान् ब्रह्मा वीक्ष्य देवम् त्रिलोचनम्॥ १०।४२॥
evam sa śaṃkaraḥ sākṣāt pinākī parameśvaraḥ . tatas sa bhagavān brahmā vīkṣya devam trilocanam.. 10.42..
सहैव मानसैः रुद्रैः प्रीतिविस्फारलोचनः । ज्ञात्वा परतरं भावमैश्वरं ज्ञानचक्षुषा ॥ १०.४३॥
सह एव मानसैः रुद्रैः प्रीति-विस्फार-लोचनः । ज्ञात्वा परतरम् भावम् ऐश्वरम् ज्ञानचक्षुषा ॥ १०।४३॥
saha eva mānasaiḥ rudraiḥ prīti-visphāra-locanaḥ . jñātvā parataram bhāvam aiśvaram jñānacakṣuṣā .. 10.43..
तुष्टाव जगतामीशं कृत्वा शिरसि चाञ्जलिम् ॥ ॥
तुष्टाव जगताम् ईशम् कृत्वा शिरसि च अञ्जलिम् ॥ ॥
tuṣṭāva jagatām īśam kṛtvā śirasi ca añjalim .. ..
ब्रह्मोवाच ।
नमस्तेऽस्तु महादेव नमस्ते परमेश्वर॥ १०.४४॥
नमः ते अस्तु महादेव नमः ते परमेश्वर॥ १०।४४॥
namaḥ te astu mahādeva namaḥ te parameśvara.. 10.44..
नमः शिवाय देवाय नमस्ते ब्रह्मरूपिणे । नमोऽस्तु ते महेशाय नमः शान्ताय हेतवे ॥ १०.४५॥
नमः शिवाय देवाय नमः ते ब्रह्म-रूपिणे । नमः अस्तु ते महेशाय नमः शान्ताय हेतवे ॥ १०।४५॥
namaḥ śivāya devāya namaḥ te brahma-rūpiṇe . namaḥ astu te maheśāya namaḥ śāntāya hetave .. 10.45..
प्रधानपुरुषेशाय योगाधिपतये नमः । नमः कालाय रुद्राय महाग्रासाय शूलिने ॥ १०.४६॥
प्रधानपुरुष-ईशाय योग-अधिपतये नमः । नमः कालाय रुद्राय महाग्रासाय शूलिने ॥ १०।४६॥
pradhānapuruṣa-īśāya yoga-adhipataye namaḥ . namaḥ kālāya rudrāya mahāgrāsāya śūline .. 10.46..
नमः पिनाकहस्ताय त्रिनेत्राय नमो नमः । नमस्त्रिमूर्त्तये तुभ्यं ब्रह्मणो जनकाय ते ॥ १०.४७॥
नमः पिनाकहस्ताय त्रिनेत्राय नमः नमः । नमः त्रिमूर्त्तये तुभ्यम् ब्रह्मणः जनकाय ते ॥ १०।४७॥
namaḥ pinākahastāya trinetrāya namaḥ namaḥ . namaḥ trimūrttaye tubhyam brahmaṇaḥ janakāya te .. 10.47..
ब्रह्मविद्याधिपतये ब्रह्मविद्याप्रदायिने । नमो वेदरहस्याय कालकालाय ते नमः ॥ १०.४८॥
ब्रह्म-विद्या-अधिपतये ब्रह्म-विद्या-प्रदायिने । नमः वेद-रहस्याय काल-कालाय ते नमः ॥ १०।४८॥
brahma-vidyā-adhipataye brahma-vidyā-pradāyine . namaḥ veda-rahasyāya kāla-kālāya te namaḥ .. 10.48..
वेदान्तसारसाराय नमो वेदात्ममूर्त्तये । नमो बुद्धाय शुद्धाय योगिनां गुरवे नमः ॥ १०.४९॥
। नमः बुद्धाय शुद्धाय योगिनाम् गुरवे नमः ॥ १०।४९॥
. namaḥ buddhāya śuddhāya yoginām gurave namaḥ .. 10.49..
प्रहीणशोकैर्विविधैर्भूतैः वरिवृताय ते । नमो ब्रह्मण्यदेवाय ब्रह्माधिपतये नमः ॥ १०.५॥
प्रहीण-शोकैः विविधैः भूतैः वरिवृताय ते । नमः ब्रह्मण्यदेवाय ब्रह्म-अधिपतये नमः ॥ १०।५॥
prahīṇa-śokaiḥ vividhaiḥ bhūtaiḥ varivṛtāya te . namaḥ brahmaṇyadevāya brahma-adhipataye namaḥ .. 10.5..
त्र्यम्बकायदिदेवाय नमस्ते परमेष्ठिने । नमो दिग्वाससे तुभ्यं नमो मुण्डाय दण्डिने ॥ १०.५१॥
नमः ते परमेष्ठिने । नमः दिग्वाससे तुभ्यम् नमः मुण्डाय दण्डिने ॥ १०।५१॥
namaḥ te parameṣṭhine . namaḥ digvāsase tubhyam namaḥ muṇḍāya daṇḍine .. 10.51..
अनादिमलहीनाय ज्ञानगम्याय ते नमः । नमस्ताराय तीर्थाय नमो योगर्द्धिहेतवे ॥ ११०.५२॥
अनादि-मल-हीनाय ज्ञान-गम्याय ते नमः । नमः ताराय तीर्थाय नमः योग-ऋद्धि-हेतवे ॥ ११०।५२॥
anādi-mala-hīnāya jñāna-gamyāya te namaḥ . namaḥ tārāya tīrthāya namaḥ yoga-ṛddhi-hetave .. 110.52..
नमो धर्माधिगम्याय योगगम्याय ते नमः । नमस्ते निष्प्रपञ्चाय निराभासाय ते नमः॥ १०.५३॥
नमः धर्म-अधिगम्याय योग-गम्याय ते नमः । नमः ते निष्प्रपञ्चाय निराभासाय ते नमः॥ १०।५३॥
namaḥ dharma-adhigamyāya yoga-gamyāya te namaḥ . namaḥ te niṣprapañcāya nirābhāsāya te namaḥ.. 10.53..
ब्रह्मणे विश्वरूपाय नमस्ते परमात्मने । त्वयैव सृष्टमखिलं त्वय्येव सकलं स्थितम् ॥ १०.५४॥
ब्रह्मणे विश्वरूपाय नमः ते परमात्मने । त्वया एव सृष्टम् अखिलम् त्वयि एव सकलम् स्थितम् ॥ १०।५४॥
brahmaṇe viśvarūpāya namaḥ te paramātmane . tvayā eva sṛṣṭam akhilam tvayi eva sakalam sthitam .. 10.54..
त्वया संह्रियते विश्वं प्रधानाद्यं जगन्मय । त्वमीश्वरो महादेवः परं ब्रह्म महेश्वरः । १०.५५॥ ॥
त्वया संह्रियते विश्वम् प्रधान-आद्यम् जगत्-मय । त्वम् ईश्वरः महादेवः परम् ब्रह्म महेश्वरः । १०।५५॥ ॥
tvayā saṃhriyate viśvam pradhāna-ādyam jagat-maya . tvam īśvaraḥ mahādevaḥ param brahma maheśvaraḥ . 10.55.. ..
परमेष्ठी शिवः शान्तः पुरुषो निष्कलो हरः ।त्वमक्षरं परं ज्योतिस्त्वं कालः परमेश्वरः ॥ १०.५६॥
परमेष्ठी शिवः शान्तः पुरुषः निष्कलः हरः ।त्वम् अक्षरम् परम् ज्योतिः त्वम् कालः परमेश्वरः ॥ १०।५६॥
parameṣṭhī śivaḥ śāntaḥ puruṣaḥ niṣkalaḥ haraḥ .tvam akṣaram param jyotiḥ tvam kālaḥ parameśvaraḥ .. 10.56..
त्वमेव पुरुषोऽनन्तः प्रधानं प्रकृतिस्तथा ।भूमिरापोऽनलो वायुर्व्योमाहङ्कार एव च ॥ १०.५७॥
त्वम् एव पुरुषः अनन्तः प्रधानम् प्रकृतिः तथा ।भूमिः आपः अनलः वायुः व्योम् अहङ्कारः एव च ॥ १०।५७॥
tvam eva puruṣaḥ anantaḥ pradhānam prakṛtiḥ tathā .bhūmiḥ āpaḥ analaḥ vāyuḥ vyom ahaṅkāraḥ eva ca .. 10.57..
यस्य रूपं नमस्यामि भवन्तं ब्रह्मसंज्ञितम् ।यस्य द्यौरभवन्मूर्द्धा पादौ पृथ्वी दिशो भुजाः ॥ १०.५८॥
यस्य रूपम् नमस्यामि भवन्तम् ब्रह्म-संज्ञितम् ।यस्य द्यौः अभवत् मूर्द्धा पादौ पृथ्वी दिशः भुजाः ॥ १०।५८॥
yasya rūpam namasyāmi bhavantam brahma-saṃjñitam .yasya dyauḥ abhavat mūrddhā pādau pṛthvī diśaḥ bhujāḥ .. 10.58..
आकाशमुदरं तस्मै विराजे प्रणमाम्यहम् ।संतापयति यो नित्यं स्वभाभिर्भासयन् दिशः ॥ १०.५९॥
आकाशम् उदरम् तस्मै विराजे प्रणमामि अहम् ।संतापयति यः नित्यम् स्व-भाभिः भासयन् दिशः ॥ १०।५९॥
ākāśam udaram tasmai virāje praṇamāmi aham .saṃtāpayati yaḥ nityam sva-bhābhiḥ bhāsayan diśaḥ .. 10.59..
ब्रह्मतेजोमयं वश्वं तस्मै सूर्यात्मने नमः ।हव्यं वहति यो नित्यं रौद्री तेजोमयी तनुः ॥ १०.६॥
ब्रह्म-तेजः-मयम् तस्मै सूर्य-आत्मने नमः ।हव्यम् वहति यः नित्यम् रौद्री तेजः-मयी तनुः ॥ १०।६॥
brahma-tejaḥ-mayam tasmai sūrya-ātmane namaḥ .havyam vahati yaḥ nityam raudrī tejaḥ-mayī tanuḥ .. 10.6..
कव्यं पितृगणानां च तस्मै वह्न्यात्मने नमः ।आप्यायति यो नित्यं स्वधाम्ना सकलं जगत् ॥ १०.६१॥
कव्यम् पितृ-गणानाम् च तस्मै वह्नि-आत्मने नमः ।आप्यायति यः नित्यम् स्व-धाम्ना सकलम् जगत् ॥ १०।६१॥
kavyam pitṛ-gaṇānām ca tasmai vahni-ātmane namaḥ .āpyāyati yaḥ nityam sva-dhāmnā sakalam jagat .. 10.61..
पीयते देवतासङ्घैस्तस्मै सोमात्मने नमः।विभर्त्त्यशेषभूतानि यान्तश्चरति सर्वदा ॥ १०.६२॥
पीयते देवता-सङ्घैः तस्मै सोम-आत्मने नमः।विभर्त्ति अशेष-भूतानि यान्तः चरति सर्वदा ॥ १०।६२॥
pīyate devatā-saṅghaiḥ tasmai soma-ātmane namaḥ.vibhartti aśeṣa-bhūtāni yāntaḥ carati sarvadā .. 10.62..
शक्तिर्माहेश्चरी तुभ्यं तस्मै वाय्वात्मने नमः ।सृजत्यशेषमेवेदं यः स्वकर्मानुरूपतः ॥ १०.६३॥
शक्तिः माहेश्चरी तुभ्यम् तस्मै वायु-आत्मने नमः ।सृजति अशेषम् एवा इदम् यः स्व-कर्म-अनुरूपतः ॥ १०।६३॥
śaktiḥ māheścarī tubhyam tasmai vāyu-ātmane namaḥ .sṛjati aśeṣam evā idam yaḥ sva-karma-anurūpataḥ .. 10.63..
आत्मन्यवस्थितस्तस्मै चतुर्वक्त्रात्मने नमः ।यः शते शेषशयने विश्वमावृत्य मायया ॥ १०.६४॥
आत्मनि अवस्थितः तस्मै चतुर्वक्त्र-आत्मने नमः ।यः शते शेष-शयने विश्वम् आवृत्य मायया ॥ १०।६४॥
ātmani avasthitaḥ tasmai caturvaktra-ātmane namaḥ .yaḥ śate śeṣa-śayane viśvam āvṛtya māyayā .. 10.64..
स्वात्मानुभूतियोगेन तस्मै विश्वात्मने नमः । विभर्त्ति शिरसा नित्यं द्विसप्तभुवनात्मकम्॥ १०.६५॥
स्व-आत्म-अनुभूति-योगेन तस्मै विश्वात्मने नमः । विभर्त्ति शिरसा नित्यम् द्वि-सप्त-भुवन-आत्मकम्॥ १०।६५॥
sva-ātma-anubhūti-yogena tasmai viśvātmane namaḥ . vibhartti śirasā nityam dvi-sapta-bhuvana-ātmakam.. 10.65..
ब्रह्माण्डं योऽखिलाधारस्तस्मै शेषात्मने नमः । यः परान्ते परानन्दं पीत्वा देव्यैकसाक्षिकम् ॥ १०.६६॥
ब्रह्माण्डम् यः अखिल-आधारः तस्मै शेष-आत्मने नमः । यः परान्ते पर-आनन्दम् पीत्वा देव्या ऐक-साक्षिकम् ॥ १०।६६॥
brahmāṇḍam yaḥ akhila-ādhāraḥ tasmai śeṣa-ātmane namaḥ . yaḥ parānte para-ānandam pītvā devyā aika-sākṣikam .. 10.66..
नृत्यत्यनन्तमहिमा तस्मै रुद्रात्मने नमः । योऽन्तरा सर्वभूतानां नियन्ता तिष्ठतीश्वरः॥ १०.६७॥
नृत्यति अनन्त-महिमा तस्मै रुद्र-आत्मने नमः । यः अन्तरा सर्व-भूतानाम् नियन्ता तिष्ठति ईश्वरः॥ १०।६७॥
nṛtyati ananta-mahimā tasmai rudra-ātmane namaḥ . yaḥ antarā sarva-bhūtānām niyantā tiṣṭhati īśvaraḥ.. 10.67..
यस्य केशेषु जीमूताः नद्यः सर्वांगसन्धिषु। कुक्षौ समुद्रश्चत्वारस्तस्मै तोयात्मने नमः॥ १०.६८॥
यस्य केशेषु जीमूताः नद्यः सर्वांगसन्धिषु। कुक्षौ समुद्रः चत्वारः तस्मै तोय-आत्मने नमः॥ १०।६८॥
yasya keśeṣu jīmūtāḥ nadyaḥ sarvāṃgasandhiṣu. kukṣau samudraḥ catvāraḥ tasmai toya-ātmane namaḥ.. 10.68..
तं सर्वसाक्षिणं देवं नमस्ये विश्वतस्तनुम् ।यं विनिन्द्रा जितश्वासाः संतुष्टाः समदर्शिनः ॥ १०.६९॥
तम् सर्वसाक्षिणम् देवम् नमस्ये विश्वतस् तनुम् ।यम् विनिन्द्राः जित-श्वासाः संतुष्टाः सम-दर्शिनः ॥ १०।६९॥
tam sarvasākṣiṇam devam namasye viśvatas tanum .yam vinindrāḥ jita-śvāsāḥ saṃtuṣṭāḥ sama-darśinaḥ .. 10.69..
ज्योतिः पश्यन्ति युञ्जानास्तस्मै योगात्मने नमः ।यया संतरते मायां योगी संक्षीणकल्मषः ॥ १०.७॥
ज्योतिः पश्यन्ति युञ्जानाः तस्मै योग-आत्मने नमः ।यया संतरते मायाम् योगी संक्षीण-कल्मषः ॥ १०।७॥
jyotiḥ paśyanti yuñjānāḥ tasmai yoga-ātmane namaḥ .yayā saṃtarate māyām yogī saṃkṣīṇa-kalmaṣaḥ .. 10.7..
अपारतरपर्यन्तां तस्मै विद्यात्मने नमः ।यस्य भासा विभातीदमद्वयं तमसः परम् ॥ १०.७१॥
अपार-तर-पर्यन्ताम् तस्मै विद्या-आत्मने नमः ।यस्य भासा विभाति इदम् अद्वयम् तमसः परम् ॥ १०।७१॥
apāra-tara-paryantām tasmai vidyā-ātmane namaḥ .yasya bhāsā vibhāti idam advayam tamasaḥ param .. 10.71..
प्रपद्ये तत् परं तत्त्वं तद्रूपं पारमेश्वरम् ।नित्यानन्दं निराधारं निष्कलं परमं शिवम् ॥ १०.७२॥
प्रपद्ये तत् परम् तत्त्वम् तद्-रूपम् पारमेश्वरम् । ॥ १०।७२॥
prapadye tat param tattvam tad-rūpam pārameśvaram . .. 10.72..
प्रपद्ये परमात्मानं भवन्तं परमेश्वरम् ।एवं स्तुत्वा महादेवं ब्रह्मा तद्भावभावितः ॥ १०.७३॥
प्रपद्ये परमात्मानम् भवन्तम् परमेश्वरम् ।एवम् स्तुत्वा महादेवम् ब्रह्मा तद्-भाव-भावितः ॥ १०।७३॥
prapadye paramātmānam bhavantam parameśvaram .evam stutvā mahādevam brahmā tad-bhāva-bhāvitaḥ .. 10.73..
प्राञ्जलिः प्रणतस्तस्थौ गृणन् ब्रह्म सनातनम् ।ततस्तस्मै महादेवो दिव्यं योगमनुत्तमम् ॥ १०.७४॥
प्राञ्जलिः प्रणतः तस्थौ गृणन् ब्रह्म सनातनम् ।ततस् तस्मै महादेवः दिव्यम् योगम् अनुत्तमम् ॥ १०।७४॥
prāñjaliḥ praṇataḥ tasthau gṛṇan brahma sanātanam .tatas tasmai mahādevaḥ divyam yogam anuttamam .. 10.74..
ऐश्वरं ब्रह्मसद्भावं वैराग्यं च ददौ हरः ।कराभ्यां कोमलाभ्यां च संस्पृश्य प्रणतार्तिहा ॥ १०.७५॥
ऐश्वरम् ब्रह्म-सद्भावम् वैराग्यम् च ददौ हरः ।कराभ्याम् कोमलाभ्याम् च संस्पृश्य प्रणत-आर्ति-हा ॥ १०।७५॥
aiśvaram brahma-sadbhāvam vairāgyam ca dadau haraḥ .karābhyām komalābhyām ca saṃspṛśya praṇata-ārti-hā .. 10.75..
व्याजहरा स्वयं देवः सोऽनुगृह्य पितामहम् ।यत्त्वयाऽभ्यर्थितं ब्रह्मन् पुत्रत्वे भवता मम ॥ १०.७६॥
स्वयम् देवः सः अनुगृह्य पितामहम् ।यत् त्वया अभ्यर्थितम् ब्रह्मन् पुत्र-त्वे भवता मम ॥ १०।७६॥
svayam devaḥ saḥ anugṛhya pitāmaham .yat tvayā abhyarthitam brahman putra-tve bhavatā mama .. 10.76..
कृतं मया तत्सकलं सृजस्व विविधं जगत् ।त्रिधा भिन्नोऽस्म्यहं ब्रह्मन् ब्रह्मविष्णुहराख्यया ॥ १०.७७॥
कृतम् मया तत् सकलम् सृजस्व विविधम् जगत् ।त्रिधा भिन्नः अस्मि अहम् ब्रह्मन् ब्रह्म-विष्णु-हर-आख्यया ॥ १०।७७॥
kṛtam mayā tat sakalam sṛjasva vividham jagat .tridhā bhinnaḥ asmi aham brahman brahma-viṣṇu-hara-ākhyayā .. 10.77..
सर्गरक्षालयगुणैर्निष्कलः परमेश्वरः । स त्वं ममाग्रजः पुत्रः सृष्टिहेतोर्विनिर्मितः ॥ १०.७८॥
सर्ग-रक्षा-लय-गुणैः निष्कलः परमेश्वरः । स त्वम् मम अग्रजः पुत्रः सृष्टि-हेतोः विनिर्मितः ॥ १०।७८॥
sarga-rakṣā-laya-guṇaiḥ niṣkalaḥ parameśvaraḥ . sa tvam mama agrajaḥ putraḥ sṛṣṭi-hetoḥ vinirmitaḥ .. 10.78..
ममैव दक्षिणादङ्गाद् वामाङ्गात् पुरुषोत्तमः । तस्य देवादिदेवस्य शंभोर्हृदयदेशतः ॥ १०.७९॥
मम एव दक्षिणात् अङ्गात् वाम-अङ्गात् पुरुषोत्तमः । तस्य देव-आदिदेवस्य शंभोः हृदय-देशतः ॥ १०।७९॥
mama eva dakṣiṇāt aṅgāt vāma-aṅgāt puruṣottamaḥ . tasya deva-ādidevasya śaṃbhoḥ hṛdaya-deśataḥ .. 10.79..
संबभूवाथ रुद्रो वा सोहं तस्य परा तनुः । ब्रह्मविष्णुशिवा ब्रह्मन् सर्गस्थित्यन्तहेतवः ॥ १०.८॥
संबभूव अथ रुद्रः वा सा उहम् तस्य परा तनुः । ब्रह्म-विष्णु-शिवाः ब्रह्मन् सर्ग-स्थिति-अन्त-हेतवः ॥ १०।८॥
saṃbabhūva atha rudraḥ vā sā uham tasya parā tanuḥ . brahma-viṣṇu-śivāḥ brahman sarga-sthiti-anta-hetavaḥ .. 10.8..
विभज्यात्मानमेकोऽपि स्वेच्छया शंकरः स्थितः । तथान्यानि च रूपाणि मम मायाकृतानि च ॥ १०.८१॥
विभज्य आत्मानम् एकः अपि स्व-इच्छया शंकरः स्थितः । तथा अन्यानि च रूपाणि मम माया-कृतानि च ॥ १०।८१॥
vibhajya ātmānam ekaḥ api sva-icchayā śaṃkaraḥ sthitaḥ . tathā anyāni ca rūpāṇi mama māyā-kṛtāni ca .. 10.81..
निरूपः केवलः स्वच्छो महादेवः स्वभावतः । एभ्यः परतरो देवस्त्रिमूर्तिः परमा तनुः ॥ १०.८२॥
निरूपः केवलः स्वच्छः महादेवः स्वभावतः । एभ्यः परतरः देवः त्रिमूर्तिः परमा तनुः ॥ १०।८२॥
nirūpaḥ kevalaḥ svacchaḥ mahādevaḥ svabhāvataḥ . ebhyaḥ parataraḥ devaḥ trimūrtiḥ paramā tanuḥ .. 10.82..
माहेश्वरी त्रिनयना योगिनां शान्तिदा सदा । तस्या एव परां मूर्ति मामवेहि पितामह ॥ १०.८३॥
दा सदा । तस्याः एव पराम् मूर्ति माम् अवेहि पितामह ॥ १०।८३॥
dā sadā . tasyāḥ eva parām mūrti mām avehi pitāmaha .. 10.83..
शाश्वतैश्वर्यविज्ञानतेजोयोगसमन्विताम् । सोऽहं ग्रसामि सकलमधिष्ठाय तमोगुणम् ॥ १०.८४॥
शाश्वत-ऐश्वर्य-विज्ञान-तेजः-योग-समन्विताम् । सः अहम् ग्रसामि सकलम् अधिष्ठाय तमः-गुणम् ॥ १०।८४॥
śāśvata-aiśvarya-vijñāna-tejaḥ-yoga-samanvitām . saḥ aham grasāmi sakalam adhiṣṭhāya tamaḥ-guṇam .. 10.84..
कालो भूत्वा न मनसा मामन्योऽभिभविष्यति । यदा यदा हि मां नित्यं विचिन्तयसि पद्मज ॥ १०.८५॥
कालः भूत्वा न मनसा माम् अन्यः अभिभविष्यति । यदा यदा हि माम् नित्यम् विचिन्तयसि पद्मज ॥ १०।८५॥
kālaḥ bhūtvā na manasā mām anyaḥ abhibhaviṣyati . yadā yadā hi mām nityam vicintayasi padmaja .. 10.85..
तदा तदा मे सान्निध्यं भविष्यति तवानघ । एतावदुक्त्वा ब्रह्माणं सोऽभिवन्द्य गुरुं हरः ॥ १०.८६॥
तदा तदा मे सान्निध्यम् भविष्यति तव अनघ । एतावत् उक्त्वा ब्रह्माणम् सः अभिवन्द्य गुरुम् हरः ॥ १०।८६॥
tadā tadā me sānnidhyam bhaviṣyati tava anagha . etāvat uktvā brahmāṇam saḥ abhivandya gurum haraḥ .. 10.86..
सहैव मानसैः पुत्रैः क्षणादन्तरधीयत । सोऽपि योगं समास्थाय ससर्ज विविधं जगत् ॥ ११०.८७॥
सह एव मानसैः पुत्रैः क्षणात् अन्तरधीयत । सः अपि योगम् समास्थाय ससर्ज विविधम् जगत् ॥ ११०।८७॥
saha eva mānasaiḥ putraiḥ kṣaṇāt antaradhīyata . saḥ api yogam samāsthāya sasarja vividham jagat .. 110.87..
नारायणाख्यो भगवान् यथापूर्वं प्रिजापतिः । मरीचिभृग्वङ्गिरसः पुलस्त्यं पुलहं क्रतुम् ॥ १०.८८॥
नारायण-आख्यः भगवान् यथापूर्वम् । मरीचि-भृगु-अङ्गिरसः पुलस्त्यम् पुलहम् क्रतुम् ॥ १०।८८॥
nārāyaṇa-ākhyaḥ bhagavān yathāpūrvam . marīci-bhṛgu-aṅgirasaḥ pulastyam pulaham kratum .. 10.88..
दक्षमत्रिं वसिष्ठं च सोऽसृजद् योगविद्यया । नव ब्रह्माण इत्येते पुराणे निश्चयं गताः ॥ १०.८९॥
दक्षम् अत्रिम् वसिष्ठम् च सः असृजत् योग-विद्यया । नव ब्रह्माणः इति एते पुराणे निश्चयम् गताः ॥ १०।८९॥
dakṣam atrim vasiṣṭham ca saḥ asṛjat yoga-vidyayā . nava brahmāṇaḥ iti ete purāṇe niścayam gatāḥ .. 10.89..
सर्वे ते ब्रह्मणा तुल्याः साधका ब्रह्मवादिनः । संकल्पंचैव धर्मंच युगधर्मांश्च शाश्वतान् ॥ १०.९॥
सर्वे ते ब्रह्मणा तुल्याः साधकाः ब्रह्म-वादिनः । संकल्पम् च एव धर्मम् च युग-धर्मान् च शाश्वतान् ॥ १०।९॥
sarve te brahmaṇā tulyāḥ sādhakāḥ brahma-vādinaḥ . saṃkalpam ca eva dharmam ca yuga-dharmān ca śāśvatān .. 10.9..
स्थानाभिमानिनः सर्वान्यथा ते कथितं पुरा । ॥ ॥
स्थान-अभिमानिनः सर्व-अन्यथा ते कथितम् पुरा । ॥ ॥
sthāna-abhimāninaḥ sarva-anyathā te kathitam purā . .. ..
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे देशमोऽध्यायः ॥ १०॥
इति श्री-कूर्मपुराणे षट्साहस्त्र्याम् संहितायाम् पूर्व-विभागे देशमः अध्यायः ॥ १०॥
iti śrī-kūrmapurāṇe ṣaṭsāhastryām saṃhitāyām pūrva-vibhāge deśamaḥ adhyāyaḥ .. 10..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In