| |
|

This overlay will guide you through the buttons:

श्रीकूर्म उवाच ।
एवं सृष्ट्वा मरीच्यादीन्देवदेवः पितामहः । सहैव मानसैः पुत्रैस्तताप परमं तपः ॥ ११.१॥
एवम् सृष्ट्वा मरीचि-आदीन् देवदेवः पितामहः । सह एव मानसैः पुत्रैः तताप परमम् तपः ॥ ११।१॥
evam sṛṣṭvā marīci-ādīn devadevaḥ pitāmahaḥ . saha eva mānasaiḥ putraiḥ tatāpa paramam tapaḥ .. 11.1..
तस्यैवं तपतो वक्राद् रुद्रः कालाग्निसम्भवः .त्रिशूलपाणिरीशानः प्रदुरासीत्त्रिलोचनः ॥ ११.२॥
तस्य एवम् तपतः वक्रात् रुद्रः कालाग्नि-सम्भवः ।त्रिशूल-पाणिः ईशानः प्रदुरासीत् त्रिलोचनः ॥ ११।२॥
tasya evam tapataḥ vakrāt rudraḥ kālāgni-sambhavaḥ .triśūla-pāṇiḥ īśānaḥ pradurāsīt trilocanaḥ .. 11.2..
अर्द्धनारीनरवपुः दुष्प्रेक्ष्योऽतिभयंकरः । विभजात्मानमित्युक्त्वा ब्रह्मा चान्तर्दधे भयात् ॥ ११.३॥
अर्द्ध-नारी-नर-वपुः दुष्प्रेक्ष्यः अति भयंकरः । विभज आत्मानम् इति उक्त्वा ब्रह्मा च अन्तर्दधे भयात् ॥ ११।३॥
arddha-nārī-nara-vapuḥ duṣprekṣyaḥ ati bhayaṃkaraḥ . vibhaja ātmānam iti uktvā brahmā ca antardadhe bhayāt .. 11.3..
तथोक्तोऽसौ द्विधा स्त्रीत्वं पुरुषत्वम् तथाकरोत् । बिभेद पुरुषत्वं च दशधा चैकधा पुनः ॥ ११.४॥
तथा उक्तः असौ द्विधा स्त्री-त्वम् पुरुष-त्वम् तथा अकरोत् । बिभेद पुरुष-त्वम् च दशधा च एकधा पुनर् ॥ ११।४॥
tathā uktaḥ asau dvidhā strī-tvam puruṣa-tvam tathā akarot . bibheda puruṣa-tvam ca daśadhā ca ekadhā punar .. 11.4..
एकादशैते कथिता रुद्रास्त्रिभुवनेश्वराः । कपालीशादयो विप्रा देवकार्ये नियोजिताः ॥ ११.५॥
एकादशा एते कथिताः रुद्राः त्रिभुवन-ईश्वराः । कपालि-ईश-आदयः विप्राः देव-कार्ये नियोजिताः ॥ ११।५॥
ekādaśā ete kathitāḥ rudrāḥ tribhuvana-īśvarāḥ . kapāli-īśa-ādayaḥ viprāḥ deva-kārye niyojitāḥ .. 11.5..
सौम्यासौम्यैस्तथा शान्ताशान्तैः स्त्रीत्वं च स प्रभुः । बिभेद बहुधा देवः स्वरूपैरसितैः सितैः ॥ ११.६॥
सौम्य-असौम्यैः तथा शान्त-अशान्तैः स्त्री-त्वम् च स प्रभुः । बिभेद बहुधा देवः स्व-रूपैः असितैः सितैः ॥ ११।६॥
saumya-asaumyaiḥ tathā śānta-aśāntaiḥ strī-tvam ca sa prabhuḥ . bibheda bahudhā devaḥ sva-rūpaiḥ asitaiḥ sitaiḥ .. 11.6..
ता वै विभूतयो विप्रा विश्रुताः शक्तयो भुवि । लक्ष्म्यादयो याभिरीशा विश्वंव्याप्नोति शांकरी ॥ ११.७॥
ताः वै विभूतयः विप्राः विश्रुताः शक्तयः भुवि । लक्ष्मी-आदयः याभिः ईशा विश्वम् व्याप्नोति शांकरी ॥ ११।७॥
tāḥ vai vibhūtayaḥ viprāḥ viśrutāḥ śaktayaḥ bhuvi . lakṣmī-ādayaḥ yābhiḥ īśā viśvam vyāpnoti śāṃkarī .. 11.7..
विभज्य पुररीशानं आत्मानं शंकराद् विभोः । महादेवनियोगेन पितामहमुपस्थिता ॥ ११.८॥
विभज्य पुरर् ईशानम् आत्मानम् शंकरात् विभोः । महादेव-नियोगेन पितामहम् उपस्थिता ॥ ११।८॥
vibhajya purar īśānam ātmānam śaṃkarāt vibhoḥ . mahādeva-niyogena pitāmaham upasthitā .. 11.8..
तामाह भगवान् ब्रह्मा दक्षस्य दुहिता भव । साऽपि तस्य नियोगेन प्रादुरासीत्प्रजापतेः ॥ ११.९॥
ताम् आह भगवान् ब्रह्मा दक्षस्य दुहिता भव । सा अपि तस्य नियोगेन प्रादुरासीत् प्रजापतेः ॥ ११।९॥
tām āha bhagavān brahmā dakṣasya duhitā bhava . sā api tasya niyogena prādurāsīt prajāpateḥ .. 11.9..
नियोगाद् ब्रह्मणो देवीं ददौ रुद्राय तां सतीम् । दक्षात् रुद्रोऽपि जग्राह स्वकीयामेव शूलभृत् ॥ ११.१॥
नियोगात् ब्रह्मणः देवीम् ददौ रुद्राय ताम् सतीम् । दक्षात् रुद्रः अपि जग्राह स्वकीयाम् एव शूलभृत् ॥ ११।१॥
niyogāt brahmaṇaḥ devīm dadau rudrāya tām satīm . dakṣāt rudraḥ api jagrāha svakīyām eva śūlabhṛt .. 11.1..
प्रजापति विनिर्दैशात्कालेन परमेश्वरी । विभज्य पुनरीशानि आत्मानं शंकराद्विभोः॥ ११.११॥
प्रजापति विनिर्दैशात् कालेन परमेश्वरी । विभज्य पुनर् ईशानि आत्मानम् शंकरात् विभोः॥ ११।११॥
prajāpati vinirdaiśāt kālena parameśvarī . vibhajya punar īśāni ātmānam śaṃkarāt vibhoḥ.. 11.11..
मेनायामभवत्पुत्री तदा हिमवतः सती । स चापि पर्वतवरो ददौ रुद्राय पार्वतीम्॥ ११.१२॥
मेनायाम् अभवत् पुत्री तदा हिमवतः सती । स च अपि पर्वत-वरः ददौ रुद्राय पार्वतीम्॥ ११।१२॥
menāyām abhavat putrī tadā himavataḥ satī . sa ca api parvata-varaḥ dadau rudrāya pārvatīm.. 11.12..
हिताय सर्वदेवानां त्रिलोकस्यात्मनोऽपि च । सैषा माहेश्वरी देवी शंकरार्द्धशरीरिणी ॥ ११.१३॥
हिताय सर्व-देवानाम् त्रिलोकस्य आत्मनः अपि च । सा एषा माहेश्वरी देवी शंकर-अर्द्ध-शरीरिणी ॥ ११।१३॥
hitāya sarva-devānām trilokasya ātmanaḥ api ca . sā eṣā māheśvarī devī śaṃkara-arddha-śarīriṇī .. 11.13..
शिवा सती हैमवती सुरासुरनमस्कृता । तस्याः प्रभावमतुलं सर्वे देवाः सवासवाः ॥ ११.१४॥
शिवा सती हैमवती सुर-असुर-नमस्कृता । तस्याः प्रभावम् अतुलम् सर्वे देवाः स वासवाः ॥ ११।१४॥
śivā satī haimavatī sura-asura-namaskṛtā . tasyāḥ prabhāvam atulam sarve devāḥ sa vāsavāḥ .. 11.14..
विन्दन्ति मुनयो वेत्ति शंकरो वा स्वयं हरिः । एतद्वः कथितं विप्राः पुत्रत्वं परमेष्ठिनः ॥ ११.१५॥
विन्दन्ति मुनयः वेत्ति शंकरः वा स्वयम् हरिः । एतत् वः कथितम् विप्राः पुत्र-त्वम् परमेष्ठिनः ॥ ११।१५॥
vindanti munayaḥ vetti śaṃkaraḥ vā svayam hariḥ . etat vaḥ kathitam viprāḥ putra-tvam parameṣṭhinaḥ .. 11.15..
ब्रह्मणः पद्मयोनित्वं शंकरस्यामितौजसः । इति श्रीकूर्मपुराणे देव्यवतारे एकादशोऽध्यायः॥ ११.१६॥
ब्रह्मणः पद्मयोनि-त्वम् शंकरस्य अमित-ओजसः । इति श्री-कूर्मपुराणे देव्यवतारे एकादशः अध्यायः॥ ११।१६॥
brahmaṇaḥ padmayoni-tvam śaṃkarasya amita-ojasaḥ . iti śrī-kūrmapurāṇe devyavatāre ekādaśaḥ adhyāyaḥ.. 11.16..
इति श्रीकूर्मपुराणे देव्यवतारे एकादशोऽध्यायः॥ ११.१६॥
इति श्री-कूर्मपुराणे देव्यवतारे एकादशः अध्यायः॥ ११।१६॥
iti śrī-kūrmapurāṇe devyavatāre ekādaśaḥ adhyāyaḥ.. 11.16..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In