| |
|

This overlay will guide you through the buttons:

अथ देवीमाहात्म्यम् । सूत उवाच ।
इत्याकर्ण्याथ मुनयः कूर्मरूपेण भाषितम् । विष्णुना पुनरेवैनं प्रणता हरिम् ॥ १२.१॥
इति आकर्ण्य अथ मुनयः कूर्म-रूपेण भाषितम् । विष्णुना पुनर् एव एनम् प्रणताः हरिम् ॥ १२।१॥
iti ākarṇya atha munayaḥ kūrma-rūpeṇa bhāṣitam . viṣṇunā punar eva enam praṇatāḥ harim .. 12.1..
ऋषयः ऊचुः
कैषा भगवती देवी शंकरार्द्धशरीरिणी । शिवा सती हैमवती यथावद्ब्रूहि पृच्छताम् ॥ १२.२॥
का एषा भगवती देवी शंकर-अर्द्ध-शरीरिणी । शिवा सती हैमवती यथावत् ब्रूहि पृच्छताम् ॥ १२।२॥
kā eṣā bhagavatī devī śaṃkara-arddha-śarīriṇī . śivā satī haimavatī yathāvat brūhi pṛcchatām .. 12.2..
तेषां तद्वचनं श्रुत्वा मुनीनां पुरुषोत्तमः । प्रत्युवाच महायोगी ध्यात्वा स्वं परमं पदम् ॥ १२.३॥
तेषाम् तत् वचनम् श्रुत्वा मुनीनाम् पुरुषोत्तमः । प्रत्युवाच महा-योगी ध्यात्वा स्वम् परमम् पदम् ॥ १२।३॥
teṣām tat vacanam śrutvā munīnām puruṣottamaḥ . pratyuvāca mahā-yogī dhyātvā svam paramam padam .. 12.3..
श्रीकूर्म उवाच
पुरा पितामहेनोक्तं मेरुपृष्ठे सुशोभने । रहस्यमेतद् विज्ञानं गोपनीयं विशेषतः ॥ १२.४॥
पुरा पितामहेन उक्तम् मेरु-पृष्ठे सु शोभने । रहस्यम् एतत् विज्ञानम् गोपनीयम् विशेषतः ॥ १२।४॥
purā pitāmahena uktam meru-pṛṣṭhe su śobhane . rahasyam etat vijñānam gopanīyam viśeṣataḥ .. 12.4..
सांख्यानां परमं सांख्यं ब्रह्मविज्ञानमुत्तमम् । संसारार्णवमग्नानां जन्तूनामेकमोचनम् ॥ १२.५॥
सांख्यानाम् परमम् सांख्यम् ब्रह्म-विज्ञानम् उत्तमम् । संसार-अर्णव-मग्नानाम् जन्तूनाम् एक-मोचनम् ॥ १२।५॥
sāṃkhyānām paramam sāṃkhyam brahma-vijñānam uttamam . saṃsāra-arṇava-magnānām jantūnām eka-mocanam .. 12.5..
या सा माहेश्वरी शक्तिर्ज्ञानरूपाऽतिलालसा । व्योमसंज्ञा परा काष्ठा सेयं हैमवती मता ॥ १२.६॥
या सा माहेश्वरी शक्तिः ज्ञान-रूपा अति लालसा । व्योम-संज्ञा परा काष्ठा सा इयम् हैमवती मता ॥ १२।६॥
yā sā māheśvarī śaktiḥ jñāna-rūpā ati lālasā . vyoma-saṃjñā parā kāṣṭhā sā iyam haimavatī matā .. 12.6..
शिवा सर्वगताऽनान्ता गुणातीतातिनिष्कला । एकानेकविभागस्था ज्ञानरूपाऽतिलालसा ॥ १२.७॥
शिवा सर्व-गता अनान्ता गुण-अतीता अति निष्कला । एक-अनेक-विभाग-स्था ज्ञान-रूपा अति लालसा ॥ १२।७॥
śivā sarva-gatā anāntā guṇa-atītā ati niṣkalā . eka-aneka-vibhāga-sthā jñāna-rūpā ati lālasā .. 12.7..
अनन्या निष्कले तत्त्वे संस्थिता तस्य तेजसा । स्वाभाविकी च तन्मूला प्रभा भानोरिवामला ॥ १२.८॥
अनन्या निष्कले तत्त्वे संस्थिता तस्य तेजसा । स्वाभाविकी च तद्-मूला प्रभा भानोः इव अमला ॥ १२।८॥
ananyā niṣkale tattve saṃsthitā tasya tejasā . svābhāvikī ca tad-mūlā prabhā bhānoḥ iva amalā .. 12.8..
एका माहेश्वरी शक्तिरनेकोपाधियोगतः । परावरेण रूपेण क्रीडते तस्य सन्निधौ ॥ १२.९॥
एका माहेश्वरी शक्तिः अनेक-उपाधि-योगतः । परावरेण रूपेण क्रीडते तस्य सन्निधौ ॥ १२।९॥
ekā māheśvarī śaktiḥ aneka-upādhi-yogataḥ . parāvareṇa rūpeṇa krīḍate tasya sannidhau .. 12.9..
सेयं करोति सकलं तस्याः कार्यमिदं जगत् । न कार्यं नापि करणमीश्वरस्येति सूरयः ॥ १२.१॥
सा इयम् करोति सकलम् तस्याः कार्यम् इदम् जगत् । न कार्यम् ना अपि करणम् ईश्वरस्य इति सूरयः ॥ १२।१॥
sā iyam karoti sakalam tasyāḥ kāryam idam jagat . na kāryam nā api karaṇam īśvarasya iti sūrayaḥ .. 12.1..
चतस्रः शक्तयो देव्याः स्वरूपत्वेन संस्थिताः । अधिष्ठानवशात्तस्याः श्रृणुध्वं मुनिपुंगवाः ॥ १२.११॥
चतस्रः शक्तयः देव्याः स्व-रूप-त्वेन संस्थिताः । अधिष्ठान-वशात् तस्याः श्रृणुध्वम् मुनि-पुंगवाः ॥ १२।११॥
catasraḥ śaktayaḥ devyāḥ sva-rūpa-tvena saṃsthitāḥ . adhiṣṭhāna-vaśāt tasyāḥ śrṛṇudhvam muni-puṃgavāḥ .. 12.11..
शान्तिर्विद्या प्रतिष्ठा च निवृत्तिश्चेति ताः स्मृताः । चतुर्व्यूहस्ततो देवः प्रोच्यते परमेश्वरः ॥ १२.१२॥
शान्तिः विद्या प्रतिष्ठा च निवृत्तिः च इति ताः स्मृताः । चतुर्-व्यूहः ततस् देवः प्रोच्यते परमेश्वरः ॥ १२।१२॥
śāntiḥ vidyā pratiṣṭhā ca nivṛttiḥ ca iti tāḥ smṛtāḥ . catur-vyūhaḥ tatas devaḥ procyate parameśvaraḥ .. 12.12..
अनया परया देवः स्वात्मानन्दं समश्नुते । चतुर्ष्वपि च वेदेषु चतुर्मूर्तिर्महेश्वरः ॥ १२.१३॥
अनया परया देवः स्व-आत्म-आनन्दम् समश्नुते । चतुर्षु अपि च वेदेषु चतुर्-मूर्तिः महेश्वरः ॥ १२।१३॥
anayā parayā devaḥ sva-ātma-ānandam samaśnute . caturṣu api ca vedeṣu catur-mūrtiḥ maheśvaraḥ .. 12.13..
अस्यास्त्वनादिसंसिद्धमैश्वर्यमतुलं महत् । तत्सम्बन्धादनन्ताया रुद्रेण परमात्मना ॥ १२.१४॥
अस्याः तु अनादि-संसिद्धम् ऐश्वर्यम् अतुलम् महत् । तद्-सम्बन्धात् अनन्तायाः रुद्रेण परमात्मना ॥ १२।१४॥
asyāḥ tu anādi-saṃsiddham aiśvaryam atulam mahat . tad-sambandhāt anantāyāḥ rudreṇa paramātmanā .. 12.14..
सैषा सर्वेश्वरी देवी सर्वभूतप्रवर्तिका । प्रोच्यते भगवान् कालो हरिः प्राणो महेश्वरः ॥ १२.१५॥
सा एषा सर्व-ईश्वरी देवी सर्व-भूत-प्रवर्तिका । प्रोच्यते भगवान् कालः हरिः प्राणः महेश्वरः ॥ १२।१५॥
sā eṣā sarva-īśvarī devī sarva-bhūta-pravartikā . procyate bhagavān kālaḥ hariḥ prāṇaḥ maheśvaraḥ .. 12.15..
तत्र सर्वमिदं प्रोतमोतंचैवाखिलं जगत् । स कालोऽग्निर्हरो रुद्रो गीयते वेदवादिभिः ॥ १२.१६॥
तत्र सर्वम् इदम् प्रोतम् ओतम् च एव अखिलम् जगत् । स कालः अग्निः हरः रुद्रः गीयते वेद-वादिभिः ॥ १२।१६॥
tatra sarvam idam protam otam ca eva akhilam jagat . sa kālaḥ agniḥ haraḥ rudraḥ gīyate veda-vādibhiḥ .. 12.16..
कालः सृजति भूतानि कालः संहरते प्रजाः । सर्वे कालस्य वशगा न कालः कस्यचिद् वशे ॥ १२.१७॥
कालः सृजति भूतानि कालः संहरते प्रजाः । सर्वे कालस्य वश-गाः न कालः कस्यचिद् वशे ॥ १२।१७॥
kālaḥ sṛjati bhūtāni kālaḥ saṃharate prajāḥ . sarve kālasya vaśa-gāḥ na kālaḥ kasyacid vaśe .. 12.17..
प्रधानं पुरुषस्तत्त्वं महानात्मा त्वहंकृतिः । कालेनान्यानि तत्त्वानि समाविष्टानि योगिना ॥ १२.१८॥
प्रधानम् पुरुषः तत्त्वम् महान् आत्मा तु अहंकृतिः । कालेन अन्यानि तत्त्वानि समाविष्टानि योगिना ॥ १२।१८॥
pradhānam puruṣaḥ tattvam mahān ātmā tu ahaṃkṛtiḥ . kālena anyāni tattvāni samāviṣṭāni yoginā .. 12.18..
तस्य सर्वजगन्मूर्तिः शक्तिर्मायेति विश्रुता । तदेयं भ्रामयेदीशो मायावी पुरुषोत्तमः ॥ १२.१९॥
तस्य सर्व-जगत्-मूर्तिः शक्तिः माया इति विश्रुता । तदा इयम् भ्रामयेत् ईशः मायावी पुरुषोत्तमः ॥ १२।१९॥
tasya sarva-jagat-mūrtiḥ śaktiḥ māyā iti viśrutā . tadā iyam bhrāmayet īśaḥ māyāvī puruṣottamaḥ .. 12.19..
सैषा मायात्मिका शक्तिः सर्वाकारा सनातनी । वैश्वरूपं महेशस्य सर्वदा संप्रकाशयेत् ॥ १२.२॥
सा एषा माया-आत्मिका शक्तिः सर्व-आकारा सनातनी । वैश्वरूपम् महेशस्य सर्वदा संप्रकाशयेत् ॥ १२।२॥
sā eṣā māyā-ātmikā śaktiḥ sarva-ākārā sanātanī . vaiśvarūpam maheśasya sarvadā saṃprakāśayet .. 12.2..
अन्याश्च शक्तयो मुख्यास्तस्य देवस्य निर्मिताः । ज्ञानशक्तिः क्रियाशक्तिः प्राणशक्तिरिति त्रयम् ॥ १२.२१॥
अन्याः च शक्तयः मुख्याः तस्य देवस्य निर्मिताः । इति ॥ १२।२१॥
anyāḥ ca śaktayaḥ mukhyāḥ tasya devasya nirmitāḥ . iti .. 12.21..
सर्वासामेव शक्तीनां शक्तिमन्तो विनिर्मिताः । माययैवाथ विप्रेन्द्राः सा चानादिरनश्वराः॥ १२.२२॥
सर्वासाम् एव शक्तीनाम् शक्तिमन्तः विनिर्मिताः । मायया एव अथ विप्र-इन्द्राः सा च अनादिः अनश्वराः॥ १२।२२॥
sarvāsām eva śaktīnām śaktimantaḥ vinirmitāḥ . māyayā eva atha vipra-indrāḥ sā ca anādiḥ anaśvarāḥ.. 12.22..
सर्वशक्त्यात्मिका माया दुर्निवारा दुरत्यया । मायावी सर्वशक्तीशः कालः कालकारः प्रभुः ॥ १२.२३॥
सर्व-शक्ति-आत्मिका माया दुर्निवारा दुरत्यया । सर्व ॥ १२।२३॥
sarva-śakti-ātmikā māyā durnivārā duratyayā . sarva .. 12.23..
करोति कालः सकलं संहरेत् काल एव हि । कालः स्थापयते विश्वं कालाधीनमिदं जगत् ॥ १२.२४॥
करोति कालः सकलम् संहरेत् कालः एव हि । कालः स्थापयते विश्वम् काल-अधीनम् इदम् जगत् ॥ १२।२४॥
karoti kālaḥ sakalam saṃharet kālaḥ eva hi . kālaḥ sthāpayate viśvam kāla-adhīnam idam jagat .. 12.24..
लब्ध्वा देवाधिदेवस्य सन्निधिं परमेष्ठिनः । अनन्तस्याखिलेशस्य शंभोः कालात्मनः प्रभोः ॥ १२.२५॥
लब्ध्वा देव-अधिदेवस्य सन्निधिम् परमेष्ठिनः । अनन्तस्य अखिल-ईशस्य शंभोः काल-आत्मनः प्रभोः ॥ १२।२५॥
labdhvā deva-adhidevasya sannidhim parameṣṭhinaḥ . anantasya akhila-īśasya śaṃbhoḥ kāla-ātmanaḥ prabhoḥ .. 12.25..
प्रधानं पुरुषो माया माया चैवं प्रपद्यते । एका सर्वगतानन्ता केवला निष्कला शिवा ॥ १२.२६॥
प्रधानम् पुरुषः माया माया च एवम् प्रपद्यते । एका सर्व-गता अनन्ता केवला निष्कला शिवा ॥ १२।२६॥
pradhānam puruṣaḥ māyā māyā ca evam prapadyate . ekā sarva-gatā anantā kevalā niṣkalā śivā .. 12.26..
एका शक्तिः शिवैकोऽपि शक्तिमानुच्यते शिवः । शक्तयः शक्तिमन्तोऽन्ये सर्वशक्तिसमुद्भवाः ॥ १२.२७॥
एका शक्तिः शिवा एकः अपि शक्तिमान् उच्यते शिवः । शक्तयः शक्तिमन्तः अन्ये सर्व-शक्ति-समुद्भवाः ॥ १२।२७॥
ekā śaktiḥ śivā ekaḥ api śaktimān ucyate śivaḥ . śaktayaḥ śaktimantaḥ anye sarva-śakti-samudbhavāḥ .. 12.27..
शक्तिशक्तिमतोर्भेदं वदन्ति परमार्थतः । अभेदंचानुपश्यन्ति योगिनस्तत्त्वचिन्तकाः ॥ १२.२८॥
शक्ति-शक्तिमतोः भेदम् वदन्ति परमार्थतः । अभेदम् च अनुपश्यन्ति योगिनः तत्त्व-चिन्तकाः ॥ १२।२८॥
śakti-śaktimatoḥ bhedam vadanti paramārthataḥ . abhedam ca anupaśyanti yoginaḥ tattva-cintakāḥ .. 12.28..
शक्तयो गिरजा देवी शक्तिमानथ शंकरः । विशेषः कथ्यते चायं पुराणे ब्रह्मवादिभिः ॥ १२.२९॥
शक्तयः गिरजाः देवी शक्तिमान् अथ शंकरः । विशेषः कथ्यते च अयम् पुराणे ब्रह्म-वादिभिः ॥ १२।२९॥
śaktayaḥ girajāḥ devī śaktimān atha śaṃkaraḥ . viśeṣaḥ kathyate ca ayam purāṇe brahma-vādibhiḥ .. 12.29..
भोग्या विश्वेश्वरी देवी महेश्वरपतिव्रता । प्रोच्यते भगवान् भोक्ता कपर्दी नीललोहितः ॥ १२.३॥
भोग्या विश्वेश्वरी देवी महेश्वर-पतिव्रता । प्रोच्यते भगवान् भोक्ता कपर्दी नीललोहितः ॥ १२।३॥
bhogyā viśveśvarī devī maheśvara-pativratā . procyate bhagavān bhoktā kapardī nīlalohitaḥ .. 12.3..
मन्ता विश्वेश्वरो देवः शंकरो मन्मथान्तकः । प्रोच्यते मतिरीशानी मन्तव्या च विचारतः ॥ १२.३१॥
मन्ता विश्वेश्वरः देवः शंकरः मन्मथ-अन्तकः । प्रोच्यते मतिः ईशानी मन्तव्या च विचारतः ॥ १२।३१॥
mantā viśveśvaraḥ devaḥ śaṃkaraḥ manmatha-antakaḥ . procyate matiḥ īśānī mantavyā ca vicārataḥ .. 12.31..
इत्येतदखिलं विप्राः शक्तिशक्तिमदुद्भवम् । प्रोच्यते सर्ववेदेषु मुनिभिस्तत्त्वदर्शिभिः ॥ १२.३२॥
इति एतत् अखिलम् विप्राः शक्ति-शक्तिमत्-उद्भवम् । प्रोच्यते सर्व-वेदेषु मुनिभिः तत्त्व-दर्शिभिः ॥ १२।३२॥
iti etat akhilam viprāḥ śakti-śaktimat-udbhavam . procyate sarva-vedeṣu munibhiḥ tattva-darśibhiḥ .. 12.32..
एतत्प्रदर्शितं दिव्यं देव्या माहात्म्यमुत्तमम् । सर्ववेदान्तवीदेषु निश्चितं ब्रह्मवादिभिः ॥ १२.३३॥
एतत् प्रदर्शितम् दिव्यम् देव्याः माहात्म्यम् उत्तमम् । सर्व-वेदान्त-वीदेषु निश्चितम् ब्रह्म-वादिभिः ॥ १२।३३॥
etat pradarśitam divyam devyāḥ māhātmyam uttamam . sarva-vedānta-vīdeṣu niścitam brahma-vādibhiḥ .. 12.33..
एकं सर्वगतं सूक्ष्मं कूटस्थमचलं ध्रुवम् । योगिनस्तत्प्रपश्यन्ति महादेव्याः परं पदम् ॥ १२.३४॥
एकम् सर्व-गतम् सूक्ष्मम् कूटस्थम् अचलम् ध्रुवम् । योगिनः तत् प्रपश्यन्ति महादेव्याः परम् पदम् ॥ १२।३४॥
ekam sarva-gatam sūkṣmam kūṭastham acalam dhruvam . yoginaḥ tat prapaśyanti mahādevyāḥ param padam .. 12.34..
आनन्दमक्षरं ब्रह्म केवलं निष्कलं परम् । योगिनस्तत्प्रपश्यन्ति महादेव्याः परं पदम् ॥ १२.३५॥
आनन्दम् अक्षरम् ब्रह्म केवलम् निष्कलम् परम् । योगिनः तत् प्रपश्यन्ति महादेव्याः परम् पदम् ॥ १२।३५॥
ānandam akṣaram brahma kevalam niṣkalam param . yoginaḥ tat prapaśyanti mahādevyāḥ param padam .. 12.35..
परात्परतरं तत्त्वं शाश्वतं शिवमच्युतम् । अनन्तप्रकृतौ लीनं देव्यास्तत्परमं पदम् ॥ १२.३६॥
परात्परतरम् तत्त्वम् शाश्वतम् शिवम् अच्युतम् । अनन्त-प्रकृतौ लीनम् देव्याः तत् परमम् पदम् ॥ १२।३६॥
parātparataram tattvam śāśvatam śivam acyutam . ananta-prakṛtau līnam devyāḥ tat paramam padam .. 12.36..
शुभं निरञ्जनं शुद्धं निर्गुणं द्वैतवर्जितम् । आत्मोपलब्धिविषयं देव्यास्ततपरमं पदम् ॥ १२.३७॥
शुभम् निरञ्जनम् शुद्धम् निर्गुणम् द्वैत-वर्जितम् । आत्म-उपलब्धि-विषयम् देव्याः तत-परमम् पदम् ॥ १२।३७॥
śubham nirañjanam śuddham nirguṇam dvaita-varjitam . ātma-upalabdhi-viṣayam devyāḥ tata-paramam padam .. 12.37..
सैषा धात्री विधात्री च परमानन्दमिच्छताम् । संसारतापानखिलान्निहन्तीश्वरसंश्रया ॥ १२.३८॥
सा एषा धात्री विधात्री च परमानन्दम् इच्छताम् । संसार-तापान् अखिलान् निहन्ति ईश्वर-संश्रया ॥ १२।३८॥
sā eṣā dhātrī vidhātrī ca paramānandam icchatām . saṃsāra-tāpān akhilān nihanti īśvara-saṃśrayā .. 12.38..
तस्माद्विमुक्तिमन्विच्छन् पार्वतीं परमेश्वरीम् । आश्रयेत्सर्वभूतानामात्मभूतां शिवात्मिकाम् ॥ १२.३९॥
तस्मात् विमुक्तिम् अन्विच्छन् पार्वतीम् परमेश्वरीम् । आश्रयेत् सर्व-भूतानाम् आत्म-भूताम् शिव-आत्मिकाम् ॥ १२।३९॥
tasmāt vimuktim anvicchan pārvatīm parameśvarīm . āśrayet sarva-bhūtānām ātma-bhūtām śiva-ātmikām .. 12.39..
लब्ध्वा च पुत्रीं शर्वाणीं तपस्तप्त्वा सुदुश्चरन् । सभार्यः शरणं यातः पार्वतीं परमेश्वरीम् ॥ १२.४॥
लब्ध्वा च पुत्रीम् शर्वाणीम् तपः तप्त्वा सु दुश्चरन् । स भार्यः शरणम् यातः पार्वतीम् परमेश्वरीम् ॥ १२।४॥
labdhvā ca putrīm śarvāṇīm tapaḥ taptvā su duścaran . sa bhāryaḥ śaraṇam yātaḥ pārvatīm parameśvarīm .. 12.4..
तां दृष्ट्वा जायमानां च स्वेच्छयैव वराननाम् । मेना हिमवतः पत्नी प्राहेदं पर्वतेश्वरम् ॥ १२.४१॥
ताम् दृष्ट्वा जायमानाम् च स्व-इच्छया एव वराननाम् । मेना हिमवतः पत्नी प्राह इदम् पर्वतेश्वरम् ॥ १२।४१॥
tām dṛṣṭvā jāyamānām ca sva-icchayā eva varānanām . menā himavataḥ patnī prāha idam parvateśvaram .. 12.41..
मेनोवाच
पश्य बालामिमां राजन्राजीवसदृशाननाम् । हिताय सर्वभूतानां जाता च तपसावयोः ॥ १२.४२॥
पश्य बालाम् इमाम् राजन् राजीव-सदृश-आननाम् । हिताय सर्व-भूतानाम् जाता च तपसा आवयोः ॥ १२।४२॥
paśya bālām imām rājan rājīva-sadṛśa-ānanām . hitāya sarva-bhūtānām jātā ca tapasā āvayoḥ .. 12.42..
सोऽपि दृष्ट्वा ततः देवीं तरुणादित्यसन्निभाम् । कपर्दिनीं चतुर्वक्रां त्रिनेत्रामतिलालसाम् ॥ १२.४३॥
सः अपि दृष्ट्वा ततस् देवीम् तरुण-आदित्य-सन्निभाम् । कपर्दिनीम् चतुर्-वक्राम् त्रि-नेत्राम् अति लालसाम् ॥ १२।४३॥
saḥ api dṛṣṭvā tatas devīm taruṇa-āditya-sannibhām . kapardinīm catur-vakrām tri-netrām ati lālasām .. 12.43..
अष्टहस्तां विशालाक्षीं चन्द्रावयवभूषणाम् । निर्गुणां सगुणां साक्षात्सदसद्व्यक्तिवर्जिताम् ॥ १२.४४॥
अष्ट-हस्ताम् विशाल-अक्षीम् चन्द्र-अवयव-भूषणाम् । निर्गुणाम् स गुणाम् साक्षात् सत्-असत्-व्यक्ति-वर्जिताम् ॥ १२।४४॥
aṣṭa-hastām viśāla-akṣīm candra-avayava-bhūṣaṇām . nirguṇām sa guṇām sākṣāt sat-asat-vyakti-varjitām .. 12.44..
प्रणम्य शिरसा भूमौ तेजसा चातिविह्वलः । भीतः कृताञ्जलिस्तस्याः प्रोवाच परमेश्वरीम् ॥ १२.४५॥
प्रणम्य शिरसा भूमौ तेजसा च अति विह्वलः । भीतः कृताञ्जलिः तस्याः प्रोवाच परमेश्वरीम् ॥ १२।४५॥
praṇamya śirasā bhūmau tejasā ca ati vihvalaḥ . bhītaḥ kṛtāñjaliḥ tasyāḥ provāca parameśvarīm .. 12.45..
हिमवानुवाच
का त्वं देवि विशालाक्षि शशाङ्कावयवाङ्किते । न जाने त्वामहं वत्से यथावद्ब्रूहि पृच्छते ॥ १२.४६॥
का त्वम् देवि विशाल-अक्षि शशाङ्क-अवयव-अङ्किते । न जाने त्वाम् अहम् वत्से यथावत् ब्रूहि पृच्छते ॥ १२।४६॥
kā tvam devi viśāla-akṣi śaśāṅka-avayava-aṅkite . na jāne tvām aham vatse yathāvat brūhi pṛcchate .. 12.46..
गिरीन्द्रवचनं श्रुत्वा ततः सा परमेश्वरी । व्याजहार महाशैलं योगिनामभयप्रदा ॥ १२.४७॥
गिरीन्द्र-वचनम् श्रुत्वा ततस् सा परमेश्वरी । व्याजहार महा-शैलम् योगिनाम् अभय-प्रदा ॥ १२।४७॥
girīndra-vacanam śrutvā tatas sā parameśvarī . vyājahāra mahā-śailam yoginām abhaya-pradā .. 12.47..
देव्युवाच
मां विद्धि परमां शक्तिं परमेश्वरसमाश्रयाम् । अनन्यामव्ययामेकां यां पश्यन्ति मुमुक्षवः ॥ १२.४८॥
माम् विद्धि परमाम् शक्तिम् परमेश्वर-समाश्रयाम् । अनन्याम् अव्ययाम् एकाम् याम् पश्यन्ति मुमुक्षवः ॥ १२।४८॥
mām viddhi paramām śaktim parameśvara-samāśrayām . ananyām avyayām ekām yām paśyanti mumukṣavaḥ .. 12.48..
अहं वै सर्वभावानात्मा सर्वान्तरा शिवा । ॥ १२.४९॥
अहम् वै सर्व-भाव-अनात्मा सर्व-अन्तरा शिवा । ॥ १२।४९॥
aham vai sarva-bhāva-anātmā sarva-antarā śivā . .. 12.49..
शाश्वतैश्वर्यविज्ञानमूर्तिः सर्वप्रवर्तिका । अनन्ताऽनन्तमहिमा संसारार्णवतारिणी॥ १२.५॥
शाश्वत-ऐश्वर्य-विज्ञान-मूर्तिः सर्व-प्रवर्तिका । ॥ १२।५॥
śāśvata-aiśvarya-vijñāna-mūrtiḥ sarva-pravartikā . .. 12.5..
दिव्यं ददामि ते चक्षुः पश्य मे रूपमैश्वरम् । एतावदुक्त्वा विज्ञानं दत्त्वा हिमवते स्वयम् ॥ १२.५१॥
दिव्यम् ददामि ते चक्षुः पश्य मे रूपम् ऐश्वरम् । एतावत् उक्त्वा विज्ञानम् दत्त्वा हिमवते स्वयम् ॥ १२।५१॥
divyam dadāmi te cakṣuḥ paśya me rūpam aiśvaram . etāvat uktvā vijñānam dattvā himavate svayam .. 12.51..
स्वं रूपं दर्शयामास दिव्यं तत् पारमेश्वरम् । कोटिसूर्यप्रितीकाशं तेजोबिम्बं निराकुलम् ॥ १२.५२॥
स्वम् रूपम् दर्शयामास दिव्यम् तत् पारमेश्वरम् । कोटि-सूर्य-प्रितीकाशम् तेजः-बिम्बम् निराकुलम् ॥ १२।५२॥
svam rūpam darśayāmāsa divyam tat pārameśvaram . koṭi-sūrya-pritīkāśam tejaḥ-bimbam nirākulam .. 12.52..
ज्वालामालासहस्राढ्यं कालानलशतोपमम्। दंष्ट्राकरालं दुर्द्धर्षं जटामणडलमण्डितम्॥ १२.५३॥
ज्वाला-माला-सहस्र-आढ्यम् काल-अनल-शत-उपमम्। दंष्ट्रा-करालम् दुर्द्धर्षम् जटा-मणडल-मण्डितम्॥ १२।५३॥
jvālā-mālā-sahasra-āḍhyam kāla-anala-śata-upamam. daṃṣṭrā-karālam durddharṣam jaṭā-maṇaḍala-maṇḍitam.. 12.53..
किरीटिनं गदाहस्तं शङ्कचक्रधरं तथा। त्रिशूलवरहस्तं च घोररूपं भयानकम् ॥ १२.५४॥
किरीटिनम् गदा-हस्तम् शङ्क-चक्र-धरम् तथा। त्रिशूल-वर-हस्तम् च घोर-रूपम् भयानकम् ॥ १२।५४॥
kirīṭinam gadā-hastam śaṅka-cakra-dharam tathā. triśūla-vara-hastam ca ghora-rūpam bhayānakam .. 12.54..
प्रशान्तं सोम्यवदनमनन्ताश्चर्यसंयुतम्। चन्द्रावयवलक्ष्माणं चन्द्रकोटिसमप्रभम् ॥ १२.५५॥
प्रशान्तम् सोम्य-वदनम् अनन्त-आश्चर्य-संयुतम्। चन्द्र-अवयव-लक्ष्माणम् चन्द्र-कोटि-सम-प्रभम् ॥ १२।५५॥
praśāntam somya-vadanam ananta-āścarya-saṃyutam. candra-avayava-lakṣmāṇam candra-koṭi-sama-prabham .. 12.55..
किरीटिनं गदाहस्तं नूपुरैरुपशोभितम् । दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम् ॥ १२.५६॥
किरीटिनम् गदा-हस्तम् नूपुरैः उपशोभितम् । दिव्य-माल्य-अम्बर-धरम् दिव्य-गन्ध-अनुलेपनम् ॥ १२।५६॥
kirīṭinam gadā-hastam nūpuraiḥ upaśobhitam . divya-mālya-ambara-dharam divya-gandha-anulepanam .. 12.56..
शङ्खचक्रधरं काम्यं त्रिनेत्रं कृत्तिवाससम् । अण्डस्थं चाण्डबाह्यस्थं बाह्यमाभ्यन्तरं परम् ॥ १२.५७॥
शङ्ख-चक्र-धरम् काम्यम् त्रिनेत्रम् कृत्तिवाससम् । अण्ड-स्थम् च अण्ड-बाह्य-स्थम् बाह्यम् आभ्यन्तरम् परम् ॥ १२।५७॥
śaṅkha-cakra-dharam kāmyam trinetram kṛttivāsasam . aṇḍa-stham ca aṇḍa-bāhya-stham bāhyam ābhyantaram param .. 12.57..
सर्वशक्तिमयं शुभ्रं सर्वाकारं सनातनम् । ब्रह्मोन्द्रोपेन्द्रयोगीन्द्रैर्वन्द्यमानपदाम्बुजम् ॥ १२.५८॥
सर्व-शक्ति-मयम् शुभ्रम् सर्व-आकारम् सनातनम् । ब्रह्म-उन्द्र-उपेन्द्र-योगि-इन्द्रैः वन्द्यमान-पद-अम्बुजम् ॥ १२।५८॥
sarva-śakti-mayam śubhram sarva-ākāram sanātanam . brahma-undra-upendra-yogi-indraiḥ vandyamāna-pada-ambujam .. 12.58..
सर्वतः पाणिपादान्तं सर्वतोऽक्षिशिरोमुखम् । सर्वमावृत्य तिष्ठन्तं ददर्श परमेश्वरम् ॥ १२.५९॥
सर्वतस् पाणि-पाद-अन्तम् सर्वतस् अक्षि-शिरः-मुखम् । सर्वम् आवृत्य तिष्ठन्तम् ददर्श परमेश्वरम् ॥ १२।५९॥
sarvatas pāṇi-pāda-antam sarvatas akṣi-śiraḥ-mukham . sarvam āvṛtya tiṣṭhantam dadarśa parameśvaram .. 12.59..
दृष्ट्वा तदीदृशं रूपं देव्या माहेश्वरं परम् । भयेन च समाविष्टः स राजा हृष्टमानसः ॥ १२.६॥
दृष्ट्वा तत् ईदृशम् रूपम् देव्याः माहेश्वरम् परम् । भयेन च समाविष्टः स राजा हृष्ट-मानसः ॥ १२।६॥
dṛṣṭvā tat īdṛśam rūpam devyāḥ māheśvaram param . bhayena ca samāviṣṭaḥ sa rājā hṛṣṭa-mānasaḥ .. 12.6..
आत्मन्याधाय चात्मानमोङ्कारं समनुस्मरन् । नाम्नामष्टसहस्रेण तुष्टाव परमेश्वरीम् ॥ १२.६१॥
आत्मनि आधाय च आत्मानम् ओङ्कारम् समनुस्मरन् । नाम्नाम् अष्ट-सहस्रेण तुष्टाव परमेश्वरीम् ॥ १२।६१॥
ātmani ādhāya ca ātmānam oṅkāram samanusmaran . nāmnām aṣṭa-sahasreṇa tuṣṭāva parameśvarīm .. 12.61..
हिमवानुवाच
शिवोमा परमा शक्तिरनन्ता निष्कलामला । शान्ता माहेश्वरी नित्या शाश्वती परमाक्षरा ॥ १२.६२॥
शिवा उमा परमा शक्तिः अनन्ता निष्कला अमला । शान्ता माहेश्वरी नित्या शाश्वती परमा अक्षरा ॥ १२।६२॥
śivā umā paramā śaktiḥ anantā niṣkalā amalā . śāntā māheśvarī nityā śāśvatī paramā akṣarā .. 12.62..
अचिन्त्या केवलाऽनन्त्या शिवात्मा परमात्मिका । अनादिरव्यया शुद्धा देवात्मा सर्वगाऽचला ॥ १२.६३॥
अचिन्त्या केवला अनन्त्या शिव-आत्मा परम-आत्मिका । अनादिः अव्यया शुद्धा देवात्मा सर्वगा अचला ॥ १२।६३॥
acintyā kevalā anantyā śiva-ātmā parama-ātmikā . anādiḥ avyayā śuddhā devātmā sarvagā acalā .. 12.63..
एकानेकविभागस्था मायातीता सुनिर्मला । महामाहेश्वरी सत्या महादेवी निरञ्जना ॥ १२.६४॥
एक-अनेक-विभाग-स्था माया-अतीता सु निर्मला । महा-माहेश्वरी सत्या महादेवी निरञ्जना ॥ १२।६४॥
eka-aneka-vibhāga-sthā māyā-atītā su nirmalā . mahā-māheśvarī satyā mahādevī nirañjanā .. 12.64..
काष्ठा सर्वान्तरस्था च चिच्छक्तिरतिलालसा । नन्दा सर्वात्मिका विद्या ज्योतीरूपाऽमृताक्षरा ॥ १२.६५॥
काष्ठा सर्व-अन्तर-स्था च चिच्छक्ति-रतिलालसा । ॥ १२।६५॥
kāṣṭhā sarva-antara-sthā ca cicchakti-ratilālasā . .. 12.65..
शान्तिः प्रतिष्ठा सर्वेषां निवृत्तिरमृतप्रदा । व्योममूर्तिर्व्योमलया व्योमाधाराऽच्युताऽमरा ॥ १२.६६॥
शान्तिः प्रतिष्ठा सर्वेषाम् निवृत्तिः अमृत-प्रदा । ॥ १२।६६॥
śāntiḥ pratiṣṭhā sarveṣām nivṛttiḥ amṛta-pradā . .. 12.66..
अनादिनिधनाऽमोघा कारणात्माकुलाकुला । स्वतः प्रथमजानाभिरमृतस्यात्मसंश्रया ॥ १२.६७॥
अनादिनिधना अमोघा कारण-आत्म-आकुल-आकुला । स्वतस् प्रथम-जा-नाभिः अमृतस्य आत्म-संश्रया ॥ १२।६७॥
anādinidhanā amoghā kāraṇa-ātma-ākula-ākulā . svatas prathama-jā-nābhiḥ amṛtasya ātma-saṃśrayā .. 12.67..
प्राणेश्वरप्रिया माता महामहिषघातिनी । प्राणेश्वरी प्राणरूपा प्रधानपुरुषेश्वरी ॥ १२.६८॥
prāṇeśvarapriyā mātā mahāmahiṣaghātinī | prāṇeśvarī prāṇarūpā pradhānapuruṣeśvarī || 12.68||
prāṇeśvarapriyā mātā mahāmahiṣaghātinī | prāṇeśvarī prāṇarūpā pradhānapuruṣeśvarī || 12.68||
महामाया सुदुष्पूरा मूलप्रकृतिरीश्वरीसर्वशक्तिकलाकारा ज्योत्स्ना द्योर्महिमास्पदा ॥ १२.६९॥
महामाया सु दुष्पूरा मूलप्रकृतिः ईश्वरी-सर्व-शक्ति-कला-आकारा ज्योत्स्ना द्योः महिम-आस्पदा ॥ १२।६९॥
mahāmāyā su duṣpūrā mūlaprakṛtiḥ īśvarī-sarva-śakti-kalā-ākārā jyotsnā dyoḥ mahima-āspadā .. 12.69..
सर्वकार्यनियन्त्री च सर्वभूतेश्वरेश्वरी । संसारयोनिः सकला सर्वशक्तिसमुद्भवा॥ १२.७॥
सर्व-कार्य-नियन्त्री च सर्व-भूत-ईश्वर-ईश्वरा । सर्व॥ १२।७॥
sarva-kārya-niyantrī ca sarva-bhūta-īśvara-īśvarā . sarva.. 12.7..
संसारपोता दुर्वारा दुर्निरीक्ष्य दुरासदा । प्राणशक्तिः प्राणविद्या योगनीपरमा कला॥ १२.७१॥
संसार-पोता दुर्वारा दुर्निरीक्ष्य दुरासदा । ॥ १२।७१॥
saṃsāra-potā durvārā durnirīkṣya durāsadā . .. 12.71..
महविभूतिदुर्दर्षा मूलप्रकृतिसम्भवा। अनाद्यनन्तविभवा परमाद्यापकर्षिणी॥ १२.७२॥
मह-विभूति-दुर्दर्षा मूलप्रकृति-सम्भवा। ॥ १२।७२॥
maha-vibhūti-durdarṣā mūlaprakṛti-sambhavā. .. 12.72..
सर्गस्थित्यन्तकरणी सुदुर्वाच्यादुरत्यया। शब्दयोनिः शब्दमयी नादाख्या नादविग्रहा॥ १२.७३॥
सर्ग-स्थिति-अन्त-करणी सु दुर्वाच्या अ दुरत्यया। ॥ १२।७३॥
sarga-sthiti-anta-karaṇī su durvācyā a duratyayā. .. 12.73..
अनादिरव्यक्तगुणा महानन्दा सनातनी । आकाशयोनिर्योगस्था महायोगेश्वरेश्वरी ॥ १२.७४॥
अनादिः अव्यक्त-गुणा महानन्दा सनातनी । आकाश-योनिः योग-स्था महा-योग-ईश्वर-ईश्वरी ॥ १२।७४॥
anādiḥ avyakta-guṇā mahānandā sanātanī . ākāśa-yoniḥ yoga-sthā mahā-yoga-īśvara-īśvarī .. 12.74..
महामाया सुदुष्पारा मूलप्रकृतिरीश्वरीप्रधानपुरुषातीता प्रधानपुरुषात्मिका॥ १२.७५॥
महामाया सु दुष्पारा मूलप्रकृतिः ईश्वरी-प्रधान-पुरुष-अतीता प्रधान-पुरुष-आत्मिका॥ १२।७५॥
mahāmāyā su duṣpārā mūlaprakṛtiḥ īśvarī-pradhāna-puruṣa-atītā pradhāna-puruṣa-ātmikā.. 12.75..
पुराणी चिन्मयी पुंसामादिः पुरुषरूपिणी । भूतान्तरात्मा कूटस्था महापुरुषसंज्ञिता ॥ १२.७६॥
पुराणी चित्-मयी पुंसाम् आदिः पुरुष-रूपिणी । भूत-अन्तरात्मा कूटस्था महापुरुष-संज्ञिता ॥ १२।७६॥
purāṇī cit-mayī puṃsām ādiḥ puruṣa-rūpiṇī . bhūta-antarātmā kūṭasthā mahāpuruṣa-saṃjñitā .. 12.76..
जन्ममृत्युजरातीता सर्वशक्तिसमन्विता । व्यापिनी चानवच्छिन्ना प्रधानानुप्रवेशिनी ॥ १२.७७॥
जन्म-मृत्यु-जरा-अतीता सर्व-शक्ति-समन्विता । व्यापिनी च अनवच्छिन्ना प्रधान-अनुप्रवेशिनी ॥ १२।७७॥
janma-mṛtyu-jarā-atītā sarva-śakti-samanvitā . vyāpinī ca anavacchinnā pradhāna-anupraveśinī .. 12.77..
क्षेत्रज्ञशक्तिरव्यक्तलक्षणा मलवर्जिता । अनादिमायासंभिन्ना त्रितत्त्वा प्रकृतिग्रहा॥ १२.७८॥
क्षेत्रज्ञ-शक्तिः अव्यक्त-लक्षणा मल-वर्जिता । अनादि-माया-संभिन्ना त्रि-तत्त्वा प्रकृति-ग्रहा॥ १२।७८॥
kṣetrajña-śaktiḥ avyakta-lakṣaṇā mala-varjitā . anādi-māyā-saṃbhinnā tri-tattvā prakṛti-grahā.. 12.78..
महामायासमुत्पन्ना तामसी पौरुषी ध्रुवा । व्यक्ताव्यक्तात्मिका कृष्णा रक्ता शुक्ला प्रसूतिका ॥ १२.७९॥
महामाया-समुत्पन्ना तामसी पौरुषी ध्रुवा । ॥ १२।७९॥
mahāmāyā-samutpannā tāmasī pauruṣī dhruvā . .. 12.79..
अकार्या कार्यजननी नित्यं प्रसवधर्मिणी। सर्गप्रलयनिर्मुक्ता सृष्टिस्थित्यन्तधर्मिणी ॥ १२.८॥
अकार्या कार्य-जननी नित्यम् प्रसव-धर्मिणी। सर्ग-प्रलय-निर्मुक्ता सृष्टि-स्थिति-अन्त-धर्मिणी ॥ १२।८॥
akāryā kārya-jananī nityam prasava-dharmiṇī. sarga-pralaya-nirmuktā sṛṣṭi-sthiti-anta-dharmiṇī .. 12.8..
ब्रह्मगर्भा चतुर्विशा पद्मनाभाऽच्युतात्मिका । वैद्युती शाश्वती योनिर्जगन्मातेश्वरप्रिया ॥ १२.८१॥
ब्रह्म-गर्भा चतुर्विशा पद्मनाभ-अच्युत-आत्मिका । ॥ १२।८१॥
brahma-garbhā caturviśā padmanābha-acyuta-ātmikā . .. 12.81..
सर्वाधारा महारूपा सर्वैश्वर्यसमन्विता । विश्वरूपा महागर्भा विश्वेशेच्छानुवर्तिनी ॥ १२.८२॥
सर्व-आधारा महारूपा सर्व-ऐश्वर्य-समन्विता । ॥ १२।८२॥
sarva-ādhārā mahārūpā sarva-aiśvarya-samanvitā . .. 12.82..
महीयसी ब्रह्मयोनिः महालक्ष्मीसमुद्भवामहाविमानमध्यस्था महानिद्रात्महेतुका ॥ १२.८३॥
महीयसी ब्रह्मयोनिः महा-लक्ष्मीसमुद्भवा-महा-विमान-मध्य-स्था महानिद्रा आत्म-हेतुका ॥ १२।८३॥
mahīyasī brahmayoniḥ mahā-lakṣmīsamudbhavā-mahā-vimāna-madhya-sthā mahānidrā ātma-hetukā .. 12.83..
सर्वसाधारणी सूक्ष्मा ह्यविद्या पारमार्थिका । अनन्तरूपाऽनन्तस्था देवी पुरुषमोहिनी ॥ १२.८४॥
सर्व-साधारणी सूक्ष्मा हि अविद्या पारमार्थिका । देवी पुरुष-मोहिनी ॥ १२।८४॥
sarva-sādhāraṇī sūkṣmā hi avidyā pāramārthikā . devī puruṣa-mohinī .. 12.84..
अनेकाकारसंस्थाना कालत्रयविवर्जिता । ब्रह्मजन्मा हरेर्मूर्तिर्ब्रह्मविष्णुशिवात्मिका॥ १२.८५॥
अनेक-आकार-संस्थाना काल-त्रय-विवर्जिता । ब्रह्म-जन्मा हरेः मूर्तिः ब्रह्म-विष्णु-शिव-आत्मिका॥ १२।८५॥
aneka-ākāra-saṃsthānā kāla-traya-vivarjitā . brahma-janmā hareḥ mūrtiḥ brahma-viṣṇu-śiva-ātmikā.. 12.85..
ब्रह्मेशविष्णुजननी ब्रह्माख्या ब्रह्मसंश्रया । व्यक्ता प्रथमजा ब्राह्मी महती ज्ञानरूपिणी ॥ १२.८६॥
ब्रह्म-ईश-विष्णु-जननी ब्रह्म-आख्या ब्रह्म-संश्रया । व्यक्ता प्रथम-जा ब्राह्मी महती ज्ञान-रूपिणी ॥ १२।८६॥
brahma-īśa-viṣṇu-jananī brahma-ākhyā brahma-saṃśrayā . vyaktā prathama-jā brāhmī mahatī jñāna-rūpiṇī .. 12.86..
वैराग्यैश्वर्यधर्मात्मा ब्रह्ममूर्तिर्हृदिस्थिता । अपांयोनिः स्वयंभूतिर्मानसी तत्त्वसंभवा ॥ १२.८७॥
वैराग्य-ऐश्वर्य-धर्म-आत्मा ब्रह्म-मूर्तिः हृदिस्थिता । अपाम् योनिः स्वयंभूतिः मानसी तत्त्व-संभवा ॥ १२।८७॥
vairāgya-aiśvarya-dharma-ātmā brahma-mūrtiḥ hṛdisthitā . apām yoniḥ svayaṃbhūtiḥ mānasī tattva-saṃbhavā .. 12.87..
ईश्वराणी च शर्वाणी शंकरार्द्धशरीरिणी । भवानी चैव रुद्राणी महालक्ष्मीरथाम्बिका ॥ १२.८८॥
ईश्वराणी च शर्वाणी शंकर-अर्द्ध-शरीरिणी । भवानी च एव रुद्राणी महालक्ष्मीः अथ अम्बिका ॥ १२।८८॥
īśvarāṇī ca śarvāṇī śaṃkara-arddha-śarīriṇī . bhavānī ca eva rudrāṇī mahālakṣmīḥ atha ambikā .. 12.88..
महेश्वरसमुत्पन्ना भुक्तिमुक्तिफलप्रदा । सर्वेश्वरी सर्ववन्द्या नित्यं मुदितमानसा ॥ १२.८९॥
महेश्वर-समुत्पन्ना भुक्ति-मुक्ति-फल-प्रदा । सर्व नित्यम् ॥ १२।८९॥
maheśvara-samutpannā bhukti-mukti-phala-pradā . sarva nityam .. 12.89..
ब्रह्मेन्द्रोपेन्द्रनमिता शंकरेच्छानुवर्तिनी । ईश्वरार्द्धासनगता महेश्वरपतिव्रता ॥ १२.९॥
ब्रह्म-इन्द्र-उपेन्द्र-नमिता शंकर-इच्छा-अनुवर्तिनी । ईश्वर-अर्द्धासन-गता महेश्वर-पतिव्रता ॥ १२।९॥
brahma-indra-upendra-namitā śaṃkara-icchā-anuvartinī . īśvara-arddhāsana-gatā maheśvara-pativratā .. 12.9..
सकृद्विभाता सर्वार्ति समुद्रपरिशोषिणी । पार्वती हिमवत्पुत्री परमानन्ददायिनी ॥ १२.९१॥
सकृद्विभाता सर्व-आर्ति समुद्र-परिशोषिणी । ॥ १२।९१॥
sakṛdvibhātā sarva-ārti samudra-pariśoṣiṇī . .. 12.91..
गुणाढ्या योगजा योग्या ज्ञानमूर्तिर्विकासिनी । सावित्रीकमला लक्ष्मीः श्रीरनन्तोरसि स्थिता ॥ १२.९२॥
गुण-आढ्या योगजा योग्या ज्ञान-मूर्तिः विकासिनी । सावित्री-कमला लक्ष्मीः श्रीः अनन्त-उरसि स्थिता ॥ १२।९२॥
guṇa-āḍhyā yogajā yogyā jñāna-mūrtiḥ vikāsinī . sāvitrī-kamalā lakṣmīḥ śrīḥ ananta-urasi sthitā .. 12.92..
सरोजनिलया मुद्रा योगनिद्रा सुरार्दिनी । सरस्वती सर्वविद्या जगज्ज्येष्ठा सुमङ्गला ॥ १२.९३॥
sarojanilayā mudrā yoganidrā surārdinī | sarasvatī sarvavidyā jagajjyeṣṭhā sumaṅgalā || 12.93||
sarojanilayā mudrā yoganidrā surārdinī | sarasvatī sarvavidyā jagajjyeṣṭhā sumaṅgalā || 12.93||
वाग्देवी वरदा वाच्या कीर्तिः सर्वार्थसाधिका । योगीश्वरी ब्रह्मविद्या महाविद्या सुशोभना ॥ १२.९४॥
सर्व । योगीश्वरी ब्रह्मविद्या महाविद्या सुशोभना ॥ १२।९४॥
sarva . yogīśvarī brahmavidyā mahāvidyā suśobhanā .. 12.94..
गुह्यविद्यात्मविद्या च धर्मविद्यात्मभाविता । स्वाहा विश्वंभरा सिद्धिः स्वधा मेधा धृतिः श्रुतिः ॥ १२.९५॥
गुह्यविद्या आत्मविद्या च धर्म-विद्या-आत्म-भाविता । स्वाहा विश्वंभरा सिद्धिः स्वधा मेधा धृतिः श्रुतिः ॥ १२।९५॥
guhyavidyā ātmavidyā ca dharma-vidyā-ātma-bhāvitā . svāhā viśvaṃbharā siddhiḥ svadhā medhā dhṛtiḥ śrutiḥ .. 12.95..
नीतिः सुनीतिः सुकृतिर्माधवी नरवाहिनी । पूज्या विभावरी सौम्या भोगिनी भोगशायिनी॥ १२.९६॥
नीतिः सुनीतिः सुकृतिः माधवी नरवाहिनी । पूज्या विभावरी सौम्या भोगिनी भोग-शायिनी॥ १२।९६॥
nītiḥ sunītiḥ sukṛtiḥ mādhavī naravāhinī . pūjyā vibhāvarī saumyā bhoginī bhoga-śāyinī.. 12.96..
शोभा वंशकरी लोला मालिनी परमेष्ठिनी । त्रैलोक्यसुन्दरी रम्या सुन्दरी कामचारिणी ॥ १२.९७॥
शोभा वंश-करी लोला मालिनी परमेष्ठिनी । त्रैलोक्यसुन्दरी रम्या सुन्दरी कामचारिणी ॥ १२।९७॥
śobhā vaṃśa-karī lolā mālinī parameṣṭhinī . trailokyasundarī ramyā sundarī kāmacāriṇī .. 12.97..
महानुभावा सत्त्वस्था महामहिषमर्दिनी । पद्ममाला पापहरा विचित्रा मुकुटानना ॥ १२.९८॥
महा-अनुभावा सत्त्व-स्था महा-महिष-मर्दिनी । पद्म-माला पापहरा विचित्रा मुकुट-आनना ॥ १२।९८॥
mahā-anubhāvā sattva-sthā mahā-mahiṣa-mardinī . padma-mālā pāpaharā vicitrā mukuṭa-ānanā .. 12.98..
कान्ता चित्राम्बरधरा दिव्याबरणभूषिता। हंसाख्या व्योमनिलया जगत्सृष्टिविवर्द्धिनी॥ १२.९९॥
कान्ता चित्र-अम्बर-धरा दिव्य-आबरण-भूषिता। ॥ १२।९९॥
kāntā citra-ambara-dharā divya-ābaraṇa-bhūṣitā. .. 12.99..
निर्यन्त्रा यन्त्रवाहस्था नन्दिनी भद्रकालिका । आदित्यवर्णा कौमारी मयूरवरवाहना॥ १२.१॥
। आदित्य-वर्णा कौमारी मयूर-वर-वाहना॥ १२।१॥
. āditya-varṇā kaumārī mayūra-vara-vāhanā.. 12.1..
वृषासनगता गौरी महाकाली सुरार्चिता । अदितिर्नियता रौद्रा पद्मगर्भा विवाहना ॥ १२.१०१॥
वृषासन-गता गौरी महाकाली सुर-अर्चिता । अदितिः नियता रौद्रा पद्म-गर्भा विवाहना ॥ १२।१०१॥
vṛṣāsana-gatā gaurī mahākālī sura-arcitā . aditiḥ niyatā raudrā padma-garbhā vivāhanā .. 12.101..
विरूपाक्षी लेलिहाना महापुरनिवासिनी । महाफलाऽनवद्याङ्गी कामरुपा विभावरी ॥ १२.१०२॥
। महाफला अनवद्याङ्गी कामरुपा विभावरी ॥ १२।१०२॥
. mahāphalā anavadyāṅgī kāmarupā vibhāvarī .. 12.102..
विचित्ररत्नमुकुटा प्रणतार्तिप्रभञ्जनी । कौशिकी कर्षणी रात्रिस्त्रिदशार्तिविनाशिनी ॥ १२.१०३॥
vicitraratnamukuṭā praṇatārtiprabhañjanī | kauśikī karṣaṇī rātristridaśārtivināśinī || 12.103||
vicitraratnamukuṭā praṇatārtiprabhañjanī | kauśikī karṣaṇī rātristridaśārtivināśinī || 12.103||
बहुरूपा स्वरूपा च विरूपा रूपवर्जिता । भक्तार्तिशमनी भव्या भवभारविनाशनी ॥ १२.१०४॥
बहुरूपा स्वरूपा च विरूपा रूप-वर्जिता । ॥ १२।१०४॥
bahurūpā svarūpā ca virūpā rūpa-varjitā . .. 12.104..
निर्गुणा नित्यविभवा निःसारा निरपत्रपा । यशस्विनी सामगीतिर्भवाङ्गनिलयालया ॥ १२.१०५॥
निर्गुणा नित्य-विभवा निःसारा निरपत्रपा । यशस्विनी साम-गीतिः भव-अङ्ग-निलय-आलया ॥ १२।१०५॥
nirguṇā nitya-vibhavā niḥsārā nirapatrapā . yaśasvinī sāma-gītiḥ bhava-aṅga-nilaya-ālayā .. 12.105..
दीक्षा विद्याधरी दीप्ता महेन्द्रविनिपातिनी । सर्वातिशायिनी विश्वा सर्वसिद्धिप्रदायिनी ॥ १२.१०६॥
दीक्षा विद्याधरी दीप्ता महा-इन्द्र-विनिपातिनी । सर्व ॥ १२।१०६॥
dīkṣā vidyādharī dīptā mahā-indra-vinipātinī . sarva .. 12.106..
सर्वेश्वरप्रिया भार्या समुद्रान्तरवासिनी । अकलङ्का निराधारा नित्यसिद्धा निरामया ॥ १२.१०७॥
। अकलङ्का निराधारा नित्य-सिद्धा निरामया ॥ १२।१०७॥
. akalaṅkā nirādhārā nitya-siddhā nirāmayā .. 12.107..
कामधेनुर्बृहद्गर्भा धीमती मोहनाशिनी । निःसङ्कल्पा निरातङ्का विनया विनयप्रिया ॥ १२.१०८॥
कामधेनुः बृहद्गर्भा धीमती मोह-नाशिनी । ॥ १२।१०८॥
kāmadhenuḥ bṛhadgarbhā dhīmatī moha-nāśinī . .. 12.108..
ज्वालामालासहस्त्राढ्या देवदेवी मनोमयी । महाभगवती भर्गा वासुदेवसमुद्भवा ॥ १२.१०९॥
ज्वाला-माला-सहस्त्र-आढ्या देवदेवी मनः-मयी । महा-भगवती भर्गा वासुदेव-समुद्भवा ॥ १२।१०९॥
jvālā-mālā-sahastra-āḍhyā devadevī manaḥ-mayī . mahā-bhagavatī bhargā vāsudeva-samudbhavā .. 12.109..
महेन्द्रोपेन्द्रभगिनी भक्तिगम्या परावरा । ज्ञानज्ञेया जरातीता वेदान्तविषया गतिः ॥ १२.११॥
। ज्ञान-ज्ञेया जरातीता वेदान्त-विषया गतिः ॥ १२।११॥
. jñāna-jñeyā jarātītā vedānta-viṣayā gatiḥ .. 12.11..
दक्षिणा दहना माया सर्वभूतनमस्कृता । योगमाया विभागज्ञा महामोहा महीयसी ॥ १२.१११॥
दक्षिणा दहना माया सर्व-भूत-नमस्कृता । योगमाया विभाग-ज्ञा महामोहा महीयसी ॥ १२।१११॥
dakṣiṇā dahanā māyā sarva-bhūta-namaskṛtā . yogamāyā vibhāga-jñā mahāmohā mahīyasī .. 12.111..
संध्या सर्वसमुद्भूतिर्ब्रह्मवृक्षाश्रयानतिः । बीजाङ्कुरसमुद्भूतिर्महाशक्तिर्महामतिः ॥ १२.११२॥
। बीज-अङ्कुर-समुद्भूतिः महा-शक्तिः महामतिः ॥ १२।११२॥
. bīja-aṅkura-samudbhūtiḥ mahā-śaktiḥ mahāmatiḥ .. 12.112..
ख्यातिः प्रज्ञा चितिः संच्चिन्महाभोगीन्द्रशायिनी । विकृतिः शांसरी शास्तिर्गणगन्धर्वसेविता ॥ १२.११३॥
ख्यातिः प्रज्ञा चितिः संचित् महा-भोगीन्द्र-शायिनी । विकृतिः शांसरी शास्तिः गण-गन्धर्व-सेविता ॥ १२।११३॥
khyātiḥ prajñā citiḥ saṃcit mahā-bhogīndra-śāyinī . vikṛtiḥ śāṃsarī śāstiḥ gaṇa-gandharva-sevitā .. 12.113..
वैश्वानरी महाशाला देवसेना गुहप्रिया । महारात्रिः शिवामन्दा शची दुःस्वप्ननाशिनी ॥ १२.११४॥
vaiśvānarī mahāśālā devasenā guhapriyā | mahārātriḥ śivāmandā śacī duḥsvapnanāśinī || 12.114||
vaiśvānarī mahāśālā devasenā guhapriyā | mahārātriḥ śivāmandā śacī duḥsvapnanāśinī || 12.114||
इज्या पूज्या जगद्धात्री दुर्विज्ञेया सुरूपिणी । तपस्विनी समाधिस्था त्रिनेत्रा दिवि संस्थिता॥ १२.११५॥
इज्या पूज्या जगद्धात्री दुर्विज्ञेया सुरूपिणी । तपस्विनी समाधि-स्था त्रिनेत्रा दिवि संस्थिता॥ १२।११५॥
ijyā pūjyā jagaddhātrī durvijñeyā surūpiṇī . tapasvinī samādhi-sthā trinetrā divi saṃsthitā.. 12.115..
गुहाम्बिका गुणोत्पत्तिर्महापीठा मरुत्सुता । हव्यवाहान्तरागादिः हव्यवाहसमुद्भवा ॥ १२.११६॥
गुहा अम्बिका गुण-उत्पत्तिः महा-पीठा मरुत्-सुता । ॥ १२।११६॥
guhā ambikā guṇa-utpattiḥ mahā-pīṭhā marut-sutā . .. 12.116..
जगद्योनिर्जगन्माता जन्ममृत्युजरातिगा । बुद्धिमाता बुद्धिमती पुरुषान्तरवासिनी ॥ १२.११७॥
। बुद्धि-माता बुद्धिमती पुरुष-अन्तर-वासिनी ॥ १२।११७॥
. buddhi-mātā buddhimatī puruṣa-antara-vāsinī .. 12.117..
तरस्विनी समाधिस्था त्रिनेत्रा दिविसंस्थिता । सर्वेन्द्रियमनोमाता सर्वभूतहृदि स्थिता ॥ १२.११८॥
तरस्विनी समाधि-स्था त्रिनेत्रा दिविसंस्थिता । सर्व-इन्द्रिय-मनः-माता सर्व-भूत-हृदि स्थिता ॥ १२।११८॥
tarasvinī samādhi-sthā trinetrā divisaṃsthitā . sarva-indriya-manaḥ-mātā sarva-bhūta-hṛdi sthitā .. 12.118..
संसारतारिणी विद्या ब्रह्मवादिमनोलया । ब्रह्माणी बृहती ब्राह्मी ब्रह्मभूता भवारणी॥ १२.११९॥
। ब्रह्माणी बृहती ब्राह्मी ब्रह्म-भूता भव-अरणी॥ १२।११९॥
. brahmāṇī bṛhatī brāhmī brahma-bhūtā bhava-araṇī.. 12.119..
हिरण्मयी महारात्रिः संसारपरिवर्त्तिका । सुमालिनी सुरूपा च भाविनी तारिणी प्रभा ॥ १२.१२॥
हिरण्मयी महारात्रिः संसारपरिवर्त्तिका । सुमालिनी सुरूपा च भाविनी तारिणी प्रभा ॥ १२।१२॥
hiraṇmayī mahārātriḥ saṃsāraparivarttikā . sumālinī surūpā ca bhāvinī tāriṇī prabhā .. 12.12..
उन्मीलनी सर्वसहा सर्वप्रत्ययसाक्षिणी । सुसौम्या चन्द्रवदना ताण्डवासक्तमानसा ॥ १२.१२१॥
। सु सौम्या चन्द्र-वदना ताण्डव-आसक्त-मानसा ॥ १२।१२१॥
. su saumyā candra-vadanā tāṇḍava-āsakta-mānasā .. 12.121..
सत्त्वशुद्धिकरी शुद्धिर्मलत्रयविनाशिनी । जगत्प्रिया जगन्मूर्तिस्त्रिमूर्तिरमृताश् ॥ १२.१२२॥
। जगत्-प्रियाः जगन्मूर्तिः त्रिमूर्तिः अमृताः ॥ १२।१२२॥
. jagat-priyāḥ jaganmūrtiḥ trimūrtiḥ amṛtāḥ .. 12.122..
निराश्रया निराहारा निरङ्कुरवनोद्भवा । चन्द्रहस्ता विचित्राङ्गी स्रग्विणी पद्मधारिणी ॥ १२.१२३॥
। चन्द्र-हस्ता विचित्र-अङ्गी स्रग्विणी पद्म-धारिणी ॥ १२।१२३॥
. candra-hastā vicitra-aṅgī sragviṇī padma-dhāriṇī .. 12.123..
परावरविधानज्ञा महापुरुषपूर्वजा । विद्येश्वरप्रिया विद्या विद्युज्जिह्वा जितश्रमा ॥ १२.१२४॥
parāvaravidhānajñā mahāpuruṣapūrvajā | vidyeśvarapriyā vidyā vidyujjihvā jitaśramā || 12.124||
parāvaravidhānajñā mahāpuruṣapūrvajā | vidyeśvarapriyā vidyā vidyujjihvā jitaśramā || 12.124||
विद्यामयी सहस्त्राक्षी सहस्त्रवदनात्मजा । सहस्त्ररश्मिः सत्त्वस्था महेश्वरपदाश्रया ॥ १२.१२५॥
vidyāmayī sahastrākṣī sahastravadanātmajā | sahastraraśmiḥ sattvasthā maheśvarapadāśrayā || 12.125||
vidyāmayī sahastrākṣī sahastravadanātmajā | sahastraraśmiḥ sattvasthā maheśvarapadāśrayā || 12.125||
क्षालिनी सन्मयी व्याप्ता तैजसी पद्मबोधिका । महामायाश्रया मान्या महादेवमनोरमा ॥ १२.१२६॥
। महामाया-आश्रया मान्या महादेव-मनोरमा ॥ १२।१२६॥
. mahāmāyā-āśrayā mānyā mahādeva-manoramā .. 12.126..
व्योमलक्ष्मीः सिहरथा चेकितानामितप्रभा । वीरेश्वरी विमानस्था विशोकाशोकनाशिनी ॥ १२.१२७॥
व्योम-लक्ष्मीः सिहरथा चेकिताना अमित-प्रभा । ॥ १२।१२७॥
vyoma-lakṣmīḥ siharathā cekitānā amita-prabhā . .. 12.127..
अनाहता कुण्डलिनी नलिनी पद्मवासिनी । सदानन्दा सदाकीर्तिः सर्वभूताश्रयस्थिता ॥ १२.१२८॥
अनाहता कुण्डलिनी नलिनी पद्म-वासिनी । सर्व ॥ १२।१२८॥
anāhatā kuṇḍalinī nalinī padma-vāsinī . sarva .. 12.128..
वाग्देवता ब्रह्मकला कलातीता कलारणी । ब्रह्मश्रीर्ब्रह्महृदया ब्रह्मविष्णुशिवप्रिया ॥ १२.१२९॥
vāgdevatā brahmakalā kalātītā kalāraṇī | brahmaśrīrbrahmahṛdayā brahmaviṣṇuśivapriyā || 12.129||
vāgdevatā brahmakalā kalātītā kalāraṇī | brahmaśrīrbrahmahṛdayā brahmaviṣṇuśivapriyā || 12.129||
व्योमशक्तिः क्रियाशक्तिर्ज्ञानशक्तिः परागतिः । क्षोभिका बन्धिका भेद्या भेदाभेदविवर्जिता ॥ १२.१३॥
vyomaśaktiḥ kriyāśaktirjñānaśaktiḥ parāgatiḥ | kṣobhikā bandhikā bhedyā bhedābhedavivarjitā || 12.13||
vyomaśaktiḥ kriyāśaktirjñānaśaktiḥ parāgatiḥ | kṣobhikā bandhikā bhedyā bhedābhedavivarjitā || 12.13||
अभिन्नाभिन्नसंस्थाना वंशिनी वंशहारिणी । गुह्यशक्तिर्गुणातीता सर्वदा सर्वतोमुखी ॥ १२.१३१॥
अभिन्ना अभिन्न-संस्थाना वंशिनी वंश-हारिणी । गुह्य-शक्तिः गुण-अतीता सर्वदा सर्वतोमुखी ॥ १२।१३१॥
abhinnā abhinna-saṃsthānā vaṃśinī vaṃśa-hāriṇī . guhya-śaktiḥ guṇa-atītā sarvadā sarvatomukhī .. 12.131..
भगिनी भगवत्पत्नी सकला कालकारिणी । सर्ववित् सर्वतोभद्रा गुह्यातीता गुहावलिः ॥ १२.१३२॥
bhaginī bhagavatpatnī sakalā kālakāriṇī | sarvavit sarvatobhadrā guhyātītā guhāvaliḥ || 12.132||
bhaginī bhagavatpatnī sakalā kālakāriṇī | sarvavit sarvatobhadrā guhyātītā guhāvaliḥ || 12.132||
प्रक्रिया योगमाता च गङ्गा विश्वेश्वरेश्वरी । कपिला कापिला कान्ताकनकाभाकलान्तरा ॥ १२.१३३॥
प्रक्रिया योगमाता च गङ्गा विश्वेश्वर-ईश्वरी । ॥ १२।१३३॥
prakriyā yogamātā ca gaṅgā viśveśvara-īśvarī . .. 12.133..
पुण्या पुष्करिणी भोक्त्री पुरंदरपुरस्सरा । पोषणी परमैश्वर्यभूतिदा भूतिभूषणा ॥ १२.१३४॥
पुण्या पुष्करिणी भोक्त्री पुरंदर-पुरस्सरा । पोषणी परम-ऐश्वर्य-भूति-दा भूति-भूषणा ॥ १२।१३४॥
puṇyā puṣkariṇī bhoktrī puraṃdara-purassarā . poṣaṇī parama-aiśvarya-bhūti-dā bhūti-bhūṣaṇā .. 12.134..
पञ्चब्रह्मसमुत्पत्तिः परमार्थार्थविग्रहा । धर्मोदया भानुमती योगिज्ञेय मनोजवा ॥ १२.१३५॥
पञ्च-ब्रह्म-समुत्पत्तिः परमार्थ-अर्थ-विग्रहा । धर्म-उदया भानुमती मनोजवा ॥ १२।१३५॥
pañca-brahma-samutpattiḥ paramārtha-artha-vigrahā . dharma-udayā bhānumatī manojavā .. 12.135..
मनोहरा मनोरस्था तापसी वेदरूपिणी । वेदशक्तिर्वेदमाता वेदविद्याप्रकाशिनी ॥ १२.१३६॥
मनोहरा तापसी वेद-रूपिणी । ॥ १२।१३६॥
manoharā tāpasī veda-rūpiṇī . .. 12.136..
योगेश्वरेश्वरी माता महाशक्तिर्मनोमयी । विश्वावस्था वियन्मूर्त्तिर्विद्युन्माला विहायसी ॥ १२.१३७॥
योगेश्वर-ईश्वरी माता महा-शक्तिः मनः-मयी । विश्व-अवस्था वियत्-मूर्त्तिः विद्युन्माला विहायसी ॥ १२।१३७॥
yogeśvara-īśvarī mātā mahā-śaktiḥ manaḥ-mayī . viśva-avasthā viyat-mūrttiḥ vidyunmālā vihāyasī .. 12.137..
किंनरी सुरभिर्वन्द्या नन्दिनी नन्दिवल्लभा । भारती परमानन्दा परापरविभेदिका ॥ १२.१३८॥
kiṃnarī surabhirvandyā nandinī nandivallabhā | bhāratī paramānandā parāparavibhedikā || 12.138||
kiṃnarī surabhirvandyā nandinī nandivallabhā | bhāratī paramānandā parāparavibhedikā || 12.138||
सर्वप्रहरणोपेता काम्या कामेश्वरेश्वरी । अचिन्त्याऽचिन्त्यविभवा हृल्लेखा कनकप्रभा ॥ १२.१३९॥
sarvapraharaṇopetā kāmyā kāmeśvareśvarī | acintyā'cintyavibhavā hṛllekhā kanakaprabhā || 12.139||
sarvapraharaṇopetā kāmyā kāmeśvareśvarī | acintyā'cintyavibhavā hṛllekhā kanakaprabhā || 12.139||
कूष्माण्डी धनरत्नाढ्या सुगन्धा गन्धायिनी । त्रिविक्रमपदोद्भूता धनुष्पाणिः शिवोदया ॥ १२.१४॥
kūṣmāṇḍī dhanaratnāḍhyā sugandhā gandhāyinī | trivikramapadodbhūtā dhanuṣpāṇiḥ śivodayā || 12.14||
kūṣmāṇḍī dhanaratnāḍhyā sugandhā gandhāyinī | trivikramapadodbhūtā dhanuṣpāṇiḥ śivodayā || 12.14||
सुदुर्लभा धनाद्यक्षा धन्या पिङ्गललोचना । शान्तिः प्रभावती दीप्तिः पङ्कजायतलोचना ॥ १२.१४१॥
सु दुर्लभा धनात् यक्षा धन्या पिङ्गल-लोचना । शान्तिः प्रभावती दीप्तिः पङ्कज-आयत-लोचना ॥ १२।१४१॥
su durlabhā dhanāt yakṣā dhanyā piṅgala-locanā . śāntiḥ prabhāvatī dīptiḥ paṅkaja-āyata-locanā .. 12.141..
आद्या हृत्कमलोद्भूता गवां मता रणप्रिया । सत्क्रिया गिरिजा शुदिर्नित्यपुष्टा निरन्तरा ॥ १२.१४२॥
आद्या हृद्-कमल-उद्भूता गवाम् मता रणप्रिया । ॥ १२।१४२॥
ādyā hṛd-kamala-udbhūtā gavām matā raṇapriyā . .. 12.142..
दुर्गाकात्यायनीचण्डी चर्चिका शान्तविग्रहा । हिरण्यवर्णा रजनी जगद्यन्त्रप्रवर्तिका ॥ १२.१४३॥
durgākātyāyanīcaṇḍī carcikā śāntavigrahā | hiraṇyavarṇā rajanī jagadyantrapravartikā || 12.143||
durgākātyāyanīcaṇḍī carcikā śāntavigrahā | hiraṇyavarṇā rajanī jagadyantrapravartikā || 12.143||
मन्दराद्रिनिवासा च शारदा स्वर्णमालिनी । रत्नमाला रत्नगर्भा पृथ्वी विश्वप्रमाथिनी ॥ १२.१४४॥
मन्दर-अद्रि-निवासा च शारदा स्वर्ण-मालिनी । ॥ १२।१४४॥
mandara-adri-nivāsā ca śāradā svarṇa-mālinī . .. 12.144..
पद्मानना पद्मनिभा नित्यतुष्टाऽमृतोद्भवा । धुन्वती दुःप्रकम्पा च सूर्यमाता दृषद्वती ॥ १२.१४५॥
पद्म-आनना पद्म-निभा नित्य-तुष्टा अमृत-उद्भवा । धुन्वती दुःप्रकम्पा च सूर्यमाता दृषद्वती ॥ १२।१४५॥
padma-ānanā padma-nibhā nitya-tuṣṭā amṛta-udbhavā . dhunvatī duḥprakampā ca sūryamātā dṛṣadvatī .. 12.145..
महेन्द्रभगिनी मान्या वरेण्या वरदयिका । कल्याणी कमलावासा पञ्चचूडा वरप्रदा ॥ १२.१४६॥
महा-इन्द्र-भगिनी मान्या वरेण्या वर-दयिका । ॥ १२।१४६॥
mahā-indra-bhaginī mānyā vareṇyā vara-dayikā . .. 12.146..
वाच्या वरेश्वरी वन्द्या दुर्जया दुरतिक्रमा । कालरात्रिर्महावेगा वीरभद्रप्रिया हिता ॥ १२.१४७॥
वाच्या वर-ईश्वरी वन्द्या दुर्जया दुरतिक्रमा । कालरात्रिः महावेगा वीरभद्रप्रिया हिता ॥ १२।१४७॥
vācyā vara-īśvarī vandyā durjayā duratikramā . kālarātriḥ mahāvegā vīrabhadrapriyā hitā .. 12.147..
भद्रकाली जगन्माता भक्तानां भद्रदायिनी । कराला पिङ्गलाकारा कामभेदाऽमहामदा ॥ १२.१४८॥
। कराला पिङ्गल-आकारा काम-भेदा अ महा-मदा ॥ १२।१४८॥
. karālā piṅgala-ākārā kāma-bhedā a mahā-madā .. 12.148..
यशस्विनी यशोदा च षडध्वपरिवर्त्तिका । शङ्खिनी पद्मिनी सांख्या सांख्ययोगप्रवर्तिका ॥ १२.१४९॥
यशस्विनी यशोदा च षडध्वपरिवर्तिका । शङ्खिनी पद्मिनी सांख्या सांख्य-योग-प्रवर्तिका ॥ १२।१४९॥
yaśasvinī yaśodā ca ṣaḍadhvaparivartikā . śaṅkhinī padminī sāṃkhyā sāṃkhya-yoga-pravartikā .. 12.149..
चैत्रा संवत्सरारूढा जगत्संपूरणीध्वजा । शुम्भारिः खेचरीस्वस्था कम्बुग्रीवाकलिप्रिया ॥ १२.१५॥
caitrā saṃvatsarārūḍhā jagatsaṃpūraṇīdhvajā | śumbhāriḥ khecarīsvasthā kambugrīvākalipriyā || 12.15||
caitrā saṃvatsarārūḍhā jagatsaṃpūraṇīdhvajā | śumbhāriḥ khecarīsvasthā kambugrīvākalipriyā || 12.15||
खगध्वजा खगारूढा परार्या परमालिनी । ऐश्वर्यपद्मनिलया विरक्ता गरुडासना ॥ १२.१५१॥
। ऐश्वर्य-पद्म-निलया विरक्ता गरुड-आसना ॥ १२।१५१॥
. aiśvarya-padma-nilayā viraktā garuḍa-āsanā .. 12.151..
जयन्ती हृद्गुहा गम्या गह्वरेष्ठा गणाग्रणीः । संकल्पसिद्धा साम्यस्था सर्वविज्ञानदायिनी ॥ १२.१५२॥
जयन्ती हृद्-गुहा गम्या गह्वरेष्ठा गणाग्रणीः । ॥ १२।१५२॥
jayantī hṛd-guhā gamyā gahvareṣṭhā gaṇāgraṇīḥ . .. 12.152..
कलिकल्पविहन्त्री च गुह्योपनिषदुत्तमा । निष्ठा दृष्टिः स्मृतिर्व्याप्तिः पुष्टिस्तुष्टिः क्रियावती ॥ १२.१५३॥
कलि-कल्प-विहन्त्री च गुह्य-उपनिषद् उत्तमा । निष्ठा दृष्टिः स्मृतिः व्याप्तिः पुष्टिः तुष्टिः क्रियावती ॥ १२।१५३॥
kali-kalpa-vihantrī ca guhya-upaniṣad uttamā . niṣṭhā dṛṣṭiḥ smṛtiḥ vyāptiḥ puṣṭiḥ tuṣṭiḥ kriyāvatī .. 12.153..
विश्वामरेश्वरेशाना भुक्तिर्मुक्तिः शिवाऽमृता । लोहिता सर्पमाला च भीषणी वनमालिनी ॥ १२.१५४॥
विश्व-अमर-ईश्वर-ईशाना भुक्तिः मुक्तिः शिवा अमृता । लोहिता सर्पमाला च भीषणी वनमालिनी ॥ १२।१५४॥
viśva-amara-īśvara-īśānā bhuktiḥ muktiḥ śivā amṛtā . lohitā sarpamālā ca bhīṣaṇī vanamālinī .. 12.154..
अनन्तशयनाऽनन्ता नरनारायणोद्भवा । नृसिंही दैत्यमथनी शङ्खचक्रगदाधरा ॥ १२.१५५॥
anantaśayanā'nantā naranārāyaṇodbhavā | nṛsiṃhī daityamathanī śaṅkhacakragadādharā || 12.155||
anantaśayanā'nantā naranārāyaṇodbhavā | nṛsiṃhī daityamathanī śaṅkhacakragadādharā || 12.155||
संकर्षणसमुत्पत्तिरम्बिकापादसंश्रया । महाज्वाला महामूर्त्तिः सुमूर्त्तिः सर्वकामधुक् ॥ १२.१५६॥
संकर्षण-समुत्पत्तिः अम्बिका-पाद-संश्रया । ॥ १२।१५६॥
saṃkarṣaṇa-samutpattiḥ ambikā-pāda-saṃśrayā . .. 12.156..
सुप्रभा सुस्तना सौरी धर्मकामार्थमोक्षदा । भ्रूमध्यनिलया पूर्वा पुराणपुरुषारणिः ॥ १२.१५७॥
suprabhā sustanā saurī dharmakāmārthamokṣadā | bhrūmadhyanilayā pūrvā purāṇapuruṣāraṇiḥ || 12.157||
suprabhā sustanā saurī dharmakāmārthamokṣadā | bhrūmadhyanilayā pūrvā purāṇapuruṣāraṇiḥ || 12.157||
महाविभूतिदा मध्या सरोजनयना समा । अष्टादशभुजानाद्या नीलोत्पलदलप्रभ॥ १२.१५८॥
महा-विभूति-दा मध्या सरोज-नयना समा । अष्टादश-भुजा अनाद्या नीलोत्पल-दल-प्रभ॥ १२।१५८॥
mahā-vibhūti-dā madhyā saroja-nayanā samā . aṣṭādaśa-bhujā anādyā nīlotpala-dala-prabha.. 12.158..
सर्वशक्त्यासनारूढा सर्वधर्मार्थवर्जिता । वैराग्यज्ञाननिरता निरालोका निरिन्द्रिया ॥ १२.१५९॥
सर्व-शक्ति-आसन-आरूढा सर्व-धर्म-अर्थ-वर्जिता । वैराग्य-ज्ञान-निरता निरालोका निरिन्द्रिया ॥ १२।१५९॥
sarva-śakti-āsana-ārūḍhā sarva-dharma-artha-varjitā . vairāgya-jñāna-niratā nirālokā nirindriyā .. 12.159..
विचित्रगहनाधारा शाश्वतस्थानवासिनी । स्थानेश्वरी निरानन्दा त्रिशूलवरधारिणी ॥ १२.१६॥
vicitragahanādhārā śāśvatasthānavāsinī | sthāneśvarī nirānandā triśūlavaradhāriṇī || 12.16||
vicitragahanādhārā śāśvatasthānavāsinī | sthāneśvarī nirānandā triśūlavaradhāriṇī || 12.16||
अशेषदेवतामूर्त्तिर्देवता वरदेवता । गणाम्बिका गिरेः पुत्री निशुम्भविनिपातिनी ॥ १२.१६१॥
अशेष-देवता-मूर्त्तिः देवता वर-देवता । ॥ १२।१६१॥
aśeṣa-devatā-mūrttiḥ devatā vara-devatā . .. 12.161..
अवर्णा वर्णरहिता त्रिवर्णा जीवसंभवा । अनन्तवर्णाऽनन्यस्था शंकरी शान्तमानसा ॥ १२.१६२॥
अवर्णा वर्ण-रहिता त्रि-वर्णा जीव-संभवा । अनन्त-वर्णा अनन्य-स्था शंकरी शान्त-मानसा ॥ १२।१६२॥
avarṇā varṇa-rahitā tri-varṇā jīva-saṃbhavā . ananta-varṇā ananya-sthā śaṃkarī śānta-mānasā .. 12.162..
अगोत्रा गोमती गोप्त्री गुह्यरूपा गुणोत्तरा । गौर्गीर्गव्यप्रिया गौणी गणेश्वरनमस्कृता ॥ १२.१६३॥
अगोत्रा गोमती गोप्त्री गुह्य-रूपा गुण-उत्तरा । गौः गीः गव्य-प्रिया गौणी गणेश्वर-नमस्कृता ॥ १२।१६३॥
agotrā gomatī goptrī guhya-rūpā guṇa-uttarā . gauḥ gīḥ gavya-priyā gauṇī gaṇeśvara-namaskṛtā .. 12.163..
सत्यमाता सत्यसंधा त्रिसंध्या संधिवर्जिता । सर्ववादाश्रया सांख्या सांख्ययोगसमुद्भवा ॥ १२.१६४॥
। सर्व-वाद-आश्रया सांख्या सांख्य-योग-समुद्भवा ॥ १२।१६४॥
. sarva-vāda-āśrayā sāṃkhyā sāṃkhya-yoga-samudbhavā .. 12.164..
असंख्येयाऽप्रमेयाख्या शून्या शुद्धकुलोद्भवा । बिन्दुनादसमुत्पत्तिः शंभुवामा शशिप्रभा ॥ १२.१६५॥
असंख्येया अ प्रमेय-आख्या शून्या शुद्ध-कुल-उद्भवा । बिन्दु-नाद-समुत्पत्तिः शंभुवामा शशिप्रभा ॥ १२।१६५॥
asaṃkhyeyā a prameya-ākhyā śūnyā śuddha-kula-udbhavā . bindu-nāda-samutpattiḥ śaṃbhuvāmā śaśiprabhā .. 12.165..
पिषङ्गा भेदरहिता मनोज्ञा मधुसूदनी । महाश्रीः श्रीसमुत्पत्तिस्तमःपारे प्रतिष्ठिता ॥ १२.१६६॥
पिषङ्गा भेद-रहिता मनोज्ञा मधुसूदनी । महाश्रीः श्री-समुत्पत्तिः तमःपारे प्रतिष्ठिता ॥ १२।१६६॥
piṣaṅgā bheda-rahitā manojñā madhusūdanī . mahāśrīḥ śrī-samutpattiḥ tamaḥpāre pratiṣṭhitā .. 12.166..
त्रितत्त्वमाता त्रिविधा सुसूक्ष्मपदसंश्रया । शन्ता भीता मलातीता निर्विकारा निराश्रया ॥ १२.१६७॥
। शन्ता भीता मल-अतीता निर्विकारा निराश्रया ॥ १२।१६७॥
. śantā bhītā mala-atītā nirvikārā nirāśrayā .. 12.167..
शिवाख्या चित्तनिलया शिवज्ञानस्वरूपिणी । दैत्यदानवनिर्मात्री काश्यपी कालकर्णिका ॥ १२.१६८॥
शिव-आख्या चित्त-निलया शिव-ज्ञान-स्वरूपिणी । ॥ १२।१६८॥
śiva-ākhyā citta-nilayā śiva-jñāna-svarūpiṇī . .. 12.168..
शास्त्रयोनिः क्रियामूर्तिश्चतुर्वर्गप्रदर्शिका । नारायणी नरोद्भूतिः कौमुदी लिङ्गधारिणी ॥ १२.१६९॥
śāstrayoniḥ kriyāmūrtiścaturvargapradarśikā | nārāyaṇī narodbhūtiḥ kaumudī liṅgadhāriṇī || 12.169||
śāstrayoniḥ kriyāmūrtiścaturvargapradarśikā | nārāyaṇī narodbhūtiḥ kaumudī liṅgadhāriṇī || 12.169||
कामुकी ललिताभावा परापरविभूतिदा । परान्तजातमहिमा बडवा वामलोचना ॥ १२.१७॥
। परान्त-जात-महिमा बडवा वाम-लोचना ॥ १२।१७॥
. parānta-jāta-mahimā baḍavā vāma-locanā .. 12.17..
सुभद्रा देवकी सीता वेदवेदाङ्गपारगा । मनस्विनी मन्युमाता महामन्युसमुद्भवा ॥ १२.१७१॥
सुभद्रा देवकी सीता वेद-वेदाङ्ग-पारगा । मनस्विनी मन्युमाता महा-मन्यु-समुद्भवा ॥ १२।१७१॥
subhadrā devakī sītā veda-vedāṅga-pāragā . manasvinī manyumātā mahā-manyu-samudbhavā .. 12.171..
अमृत्युरमृतास्वादा पुरुहूता पुरुष्टुता । अशोच्या भिन्नविषया हिरण्यरजतप्रिया ॥ १२.१७२॥
अमृत्युः अमृत-आस्वादा पुरु-हूता पुरुष्टुता । अशोच्या भिन्नविषया हिरण्य-रजत-प्रिया ॥ १२।१७२॥
amṛtyuḥ amṛta-āsvādā puru-hūtā puruṣṭutā . aśocyā bhinnaviṣayā hiraṇya-rajata-priyā .. 12.172..
हिरण्या राजती हैमा हेमाभरणभूषिता । विभ्राजमाना दुर्ज्ञेया ज्योतिष्टोमफलप्रदा ॥ १२.१७३॥
हिरण्या राजती हैमा हेम-आभरण-भूषिता । विभ्राजमाना दुर्ज्ञेया ज्योतिष्टोम-फल-प्रदा ॥ १२।१७३॥
hiraṇyā rājatī haimā hema-ābharaṇa-bhūṣitā . vibhrājamānā durjñeyā jyotiṣṭoma-phala-pradā .. 12.173..
महानिद्रासमुद्भूतिरनिद्रा सत्यदेवता । दीर्घाककुद्मिनी हृद्या शान्तिदा शान्तिवर्द्धिनी ॥ १२.१७४॥
महानिद्रा-समुद्भूतिः अनिद्रा सत्यदेवता । दीर्घाककुद्मिनी हृद्या शान्ति-दा शान्ति-वर्द्धिनी ॥ १२।१७४॥
mahānidrā-samudbhūtiḥ anidrā satyadevatā . dīrghākakudminī hṛdyā śānti-dā śānti-varddhinī .. 12.174..
लक्ष्म्यादिशक्तिजननी शक्तिचक्रप्रवर्तिका । त्रिशक्तिजननी जन्या षडूर्मिपरिवर्जिता ॥ १२.१७५॥
lakṣmyādiśaktijananī śakticakrapravartikā | triśaktijananī janyā ṣaḍūrmiparivarjitā || 12.175||
lakṣmyādiśaktijananī śakticakrapravartikā | triśaktijananī janyā ṣaḍūrmiparivarjitā || 12.175||
सुधामा कर्मकरणी युगान्तदहनात्मिका । संकर्षणी जगद्धात्री कामयोनिः किरीटिनी ॥ १२.१७६॥
sudhāmā karmakaraṇī yugāntadahanātmikā | saṃkarṣaṇī jagaddhātrī kāmayoniḥ kirīṭinī || 12.176||
sudhāmā karmakaraṇī yugāntadahanātmikā | saṃkarṣaṇī jagaddhātrī kāmayoniḥ kirīṭinī || 12.176||
ऐन्द्री त्रैलोक्यनमिता वैष्णवी परमेश्वरी । प्रद्युम्नदयिता दात्री युग्मदृष्टिस्त्रिलोचना ॥ १२.१७७॥
ऐन्द्री त्रैलोक्य-नमिता वैष्णवी परमेश्वरी । ॥ १२।१७७॥
aindrī trailokya-namitā vaiṣṇavī parameśvarī . .. 12.177..
मदोत्कटा हंसगतिः प्रचण्डा चण्डविक्रमा । वृषावेशा वियन्माता विन्ध्यपर्वतवासिनी ॥ १२.१७८॥
madotkaṭā haṃsagatiḥ pracaṇḍā caṇḍavikramā | vṛṣāveśā viyanmātā vindhyaparvatavāsinī || 12.178||
madotkaṭā haṃsagatiḥ pracaṇḍā caṇḍavikramā | vṛṣāveśā viyanmātā vindhyaparvatavāsinī || 12.178||
हिमवन्मेरुनिलया कैलासगिरिवासिनी । चाणूरहन्तृतनया नीतिज्ञा कामरूपिणी ॥ १२.१७९॥
हिमवत्-मेरु-निलया कैलास-गिरि-वासिनी । चाणूर-हन्तृ-तनया नीति-ज्ञा कामरूपिणी ॥ १२।१७९॥
himavat-meru-nilayā kailāsa-giri-vāsinī . cāṇūra-hantṛ-tanayā nīti-jñā kāmarūpiṇī .. 12.179..
वेदविद्याव्रतस्नाता धर्मशीलाऽनिलाशना । वीरभद्रप्रिया वीरा महाकामसमुद्भवा ॥ १२.१८॥
वेद-विद्या-व्रत-स्नाता धर्म-शीला अनिल-अशना । ॥ १२।१८॥
veda-vidyā-vrata-snātā dharma-śīlā anila-aśanā . .. 12.18..
विद्याधरप्रिया सिद्धा विद्याधरनिराकृतिः । आप्यायनी हरन्ती च पावनी पोषणी कला ॥ १२.१८१॥
। आप्यायनी हरन्ती च पावनी पोषणी कला ॥ १२।१८१॥
. āpyāyanī harantī ca pāvanī poṣaṇī kalā .. 12.181..
मातृका मन्मथोद्भूता वारिजा वाहनप्रिया । करीषिणी सुधावाणी वीणावादनतत्परा ॥ १२.१८२॥
mātṛkā manmathodbhūtā vārijā vāhanapriyā | karīṣiṇī sudhāvāṇī vīṇāvādanatatparā || 12.182||
mātṛkā manmathodbhūtā vārijā vāhanapriyā | karīṣiṇī sudhāvāṇī vīṇāvādanatatparā || 12.182||
सेविता सेविका सेव्या सिनीवाली गरुत्मती । अरुन्धती हिरण्याक्षी मृगांका मानदायिनी ॥ १२.१८३॥
sevitā sevikā sevyā sinīvālī garutmatī | arundhatī hiraṇyākṣī mṛgāṃkā mānadāyinī || 12.183||
sevitā sevikā sevyā sinīvālī garutmatī | arundhatī hiraṇyākṣī mṛgāṃkā mānadāyinī || 12.183||
वसुप्रदा वसुमती वसोर्द्धारा वसुंधरा । धाराधरा वरारोहा वरावरसहस्त्रदा ॥ १२.१८४॥
वसु-प्रदा वसुमती वसोर्द्धारा वसुंधरा । दा ॥ १२।१८४॥
vasu-pradā vasumatī vasorddhārā vasuṃdharā . dā .. 12.184..
श्रीफला श्रीमती श्रीशा श्रीनिवासा शिवप्रिया । श्रीधरा श्रीकरी कल्या श्रीधरार्द्धशरीरिणी ॥ १२.१८५॥
śrīphalā śrīmatī śrīśā śrīnivāsā śivapriyā | śrīdharā śrīkarī kalyā śrīdharārddhaśarīriṇī || 12.185||
śrīphalā śrīmatī śrīśā śrīnivāsā śivapriyā | śrīdharā śrīkarī kalyā śrīdharārddhaśarīriṇī || 12.185||
अनन्तदृष्टिरक्षुद्रा धात्रीशा धनदप्रिया । निहन्त्री दैत्यसङ्घानां सिहिका सिहवाहना ॥ १२.१८६॥
अनन्त-दृष्टिः अक्षुद्रा धात्री ईशा धनद-प्रिया । निहन्त्री दैत्य-सङ्घानाम् सिहिका सिहवाहना ॥ १२।१८६॥
ananta-dṛṣṭiḥ akṣudrā dhātrī īśā dhanada-priyā . nihantrī daitya-saṅghānām sihikā sihavāhanā .. 12.186..
सुषेणा चन्द्रनिलया सुकीर्तिश्छिन्नसंशया । रसज्ञा रसदा रामा लेलिहानामृतस्रवा ॥ १२.१८७॥
सुषेणा चन्द्र-निलया सु कीर्तिः छिन्न-संशया । लेलिहाना ॥ १२।१८७॥
suṣeṇā candra-nilayā su kīrtiḥ chinna-saṃśayā . lelihānā .. 12.187..
नित्योदिता स्वयंज्योतिरुत्सुका मृतजीवना । वज्रदण्डा वज्रजिह्वा वैदेही वज्रविग्रहा ॥ १२.१८८॥
नित्योदिता स्वयंज्योतिः-उत्सुका मृत-जीवना । ॥ १२।१८८॥
nityoditā svayaṃjyotiḥ-utsukā mṛta-jīvanā . .. 12.188..
मङ्गल्या मङ्गला माला मलिना मलहारिणी । गान्धर्वी गारुडी चान्द्री कम्बलाश्वतरप्रिया ॥ १२.१८९॥
maṅgalyā maṅgalā mālā malinā malahāriṇī | gāndharvī gāruḍī cāndrī kambalāśvatarapriyā || 12.189||
maṅgalyā maṅgalā mālā malinā malahāriṇī | gāndharvī gāruḍī cāndrī kambalāśvatarapriyā || 12.189||
सौदामिनी जनानन्दा भ्रुकुटीकुटिलानना । कर्णिकारकरा कक्ष्या कंसप्राणापहारिणी ॥ १२.१९॥
saudāminī janānandā bhrukuṭīkuṭilānanā | karṇikārakarā kakṣyā kaṃsaprāṇāpahāriṇī || 12.19||
saudāminī janānandā bhrukuṭīkuṭilānanā | karṇikārakarā kakṣyā kaṃsaprāṇāpahāriṇī || 12.19||
युगंधरा युगावर्त्ता त्रिसंध्या हर्षवर्द्धनी । प्रत्यक्षदेवता दिव्या दिव्यगन्धा दिवा परा ॥ १२.१९१॥
युगंधरा युग-आवर्त्ता त्रिसंध्या हर्ष-वर्द्धनी । प्रत्यक्ष-देवता दिव्या दिव्य-गन्धा दिवा परा ॥ १२।१९१॥
yugaṃdharā yuga-āvarttā trisaṃdhyā harṣa-varddhanī . pratyakṣa-devatā divyā divya-gandhā divā parā .. 12.191..
शक्रासनगता शाक्री सान्ध्या चारुशरासना । इष्टा विशिष्टा शिष्टेष्टा शिष्टाशिष्टप्रपूजिता ॥ १२.१९२॥
शक्रासन-गता शाक्री सान्ध्या चारु-शरासना । इष्टा विशिष्टा शिष्ट-इष्टा शिष्ट-अशिष्ट-प्रपूजिता ॥ १२।१९२॥
śakrāsana-gatā śākrī sāndhyā cāru-śarāsanā . iṣṭā viśiṣṭā śiṣṭa-iṣṭā śiṣṭa-aśiṣṭa-prapūjitā .. 12.192..
शतरूपा शतावर्त्ता विनता सुरभिः सुरा । सुरेन्द्रमाता सुद्युम्ना सुषुम्ना सूर्यसंस्थिता ॥ १२.१९३॥
शतरूपा शतावर्त्ता विनता सुरभिः सुरा । ॥ १२।१९३॥
śatarūpā śatāvarttā vinatā surabhiḥ surā . .. 12.193..
समीक्ष्या सत्प्रतिष्ठा च निवृत्तिर्ज्ञानपारगा । धर्मशास्त्रार्थकुशला धर्मज्ञा धर्मवाहना ॥ १२.१९४॥
समीक्ष्या सत्-प्रतिष्ठा च निवृत्तिः ज्ञान-पारगा । धर्म-शास्त्र-अर्थ-कुशला धर्म-ज्ञा धर्म-वाहना ॥ १२।१९४॥
samīkṣyā sat-pratiṣṭhā ca nivṛttiḥ jñāna-pāragā . dharma-śāstra-artha-kuśalā dharma-jñā dharma-vāhanā .. 12.194..
धर्माधर्मविनिर्मात्री धार्मिकाणां शिवप्रदा । धर्मशक्तिर्धर्ममयी विधर्मा विश्वधर्मिणी ॥ १२.१९५॥
धर्म-अधर्म-विनिर्मात्री धार्मिकाणाम् शिव-प्रदा । धर्म-शक्तिः धर्म-मयी विधर्मा विश्व-धर्मिणी ॥ १२।१९५॥
dharma-adharma-vinirmātrī dhārmikāṇām śiva-pradā . dharma-śaktiḥ dharma-mayī vidharmā viśva-dharmiṇī .. 12.195..
धर्मान्तरा धर्ममयी धर्मपूर्वा धनावहा । धर्मोपदेष्ट्री धर्मत्मा धर्मगम्या धराधरा ॥ १२.१९६॥
धर्म-अन्तरा धर्म-मयी धर्म-पूर्वा धन-आवहा । ॥ १२।१९६॥
dharma-antarā dharma-mayī dharma-pūrvā dhana-āvahā . .. 12.196..
कापाली शकला मूर्त्तिः कला कलितविग्रहा । सर्वशक्तिविनिर्मुक्ता सर्वशक्त्याश्रयाश्रया ॥ १२.१९७॥
कापाली शकला मूर्त्तिः कला कलित-विग्रहा । सर्व-शक्ति-विनिर्मुक्ता सर्व-शक्ति-आश्रय-आश्रया ॥ १२।१९७॥
kāpālī śakalā mūrttiḥ kalā kalita-vigrahā . sarva-śakti-vinirmuktā sarva-śakti-āśraya-āśrayā .. 12.197..
सर्वा सर्वेश्वरी सूक्ष्मा सूक्ष्माज्ञानस्वरूपिणी । प्रधानपुरुषेशेषा महादेवैकसाक्षिणी ॥ १२.१९८॥
। प्रधानपुरुष-ईश-ईषा ईषा ईषा ईषा ईषा ईषा ईषा ईषा ईषा ईषा ईषा ईषा ईषा ईषा ईषा ईषा ईषा ईषा ईश-ईषा ईषा ईश-ईषा ईषा ईषा ईश- ॥ १२।१९८॥
. pradhānapuruṣa-īśa-īṣā īṣā īṣā īṣā īṣā īṣā īṣā īṣā īṣā īṣā īṣā īṣā īṣā īṣā īṣā īṣā īṣā īṣā īśa-īṣā īṣā īśa-īṣā īṣā īṣā īśa- .. 12.198..
सदाशिवा वियन्मूर्त्तिर्विश्वमूर्त्तिरमूर्त्तिका । एवं नाम्नां सहस्त्रेण स्तुत्वाऽसौ हिमवान् गिरिः ॥ १२.१९९॥
सदाशिवा वियन्मूर्त्तिः विश्वमूर्त्तिः अमूर्त्तिका । एवम् नाम्नाम् सहस्त्रेण स्तुत्वा असौ हिमवान् गिरिः ॥ १२।१९९॥
sadāśivā viyanmūrttiḥ viśvamūrttiḥ amūrttikā . evam nāmnām sahastreṇa stutvā asau himavān giriḥ .. 12.199..
भूयः प्रणम्य भीतात्मा प्रोवाचेदं कृताञ्जलिः । यदेतदैश्वरं रूपं घोरं ते परमेश्वरि ॥ १२.२॥
भूयस् प्रणम्य भीत-आत्मा प्रोवाच इदम् कृताञ्जलिः । यत् एतत् ऐश्वरम् रूपम् घोरम् ते परमेश्वरि ॥ १२।२॥
bhūyas praṇamya bhīta-ātmā provāca idam kṛtāñjaliḥ . yat etat aiśvaram rūpam ghoram te parameśvari .. 12.2..
भीतोऽस्मि साम्प्रतं दृष्ट्वा रूपमन्यत् प्रदर्शय । एवमुक्ताऽथ सा देवी तेन शैलेन पार्वती ॥ १२.२०१॥
भीतः अस्मि साम्प्रतम् दृष्ट्वा रूपम् अन्यत् प्रदर्शय । एवम् उक्ता अथ सा देवी तेन शैलेन पार्वती ॥ १२।२०१॥
bhītaḥ asmi sāmpratam dṛṣṭvā rūpam anyat pradarśaya . evam uktā atha sā devī tena śailena pārvatī .. 12.201..
संहृत्य दर्शयामास स्वरूपमपरं पुनः । नीलोत्पलदलप्रख्यं नीलोत्पलसुगन्धिकम् ॥ १२.२०२॥
संहृत्य दर्शयामास स्व-रूपम् अपरम् पुनर् । ॥ १२।२०२॥
saṃhṛtya darśayāmāsa sva-rūpam aparam punar . .. 12.202..
द्विनेत्रं द्विभुजं सौम्यं नीलालकविभूषितम् । रक्तपादाम्बुजतलं सुरक्तकरपल्लवम् ॥ १२.२०३॥
द्वि-नेत्रम् द्वि-भुजम् सौम्यम् नील-अलक-विभूषितम् । रक्त-पाद-अम्बुज-तलम् सु रक्त-करपल्लवम् ॥ १२।२०३॥
dvi-netram dvi-bhujam saumyam nīla-alaka-vibhūṣitam . rakta-pāda-ambuja-talam su rakta-karapallavam .. 12.203..
श्रीमद्विशालसंवृत्तंललाटतिलकोज्ज्वलम् । भूषितं चारुसर्वाङ्गं भूषणैरतिकोमलम् ॥ १२.२०४॥
श्रीमत्-विशाल-संवृत्तम् ललाट-तिलक-उज्ज्वलम् । भूषितम् चारु-सर्व-अङ्गम् भूषणैः अति कोमलम् ॥ १२।२०४॥
śrīmat-viśāla-saṃvṛttam lalāṭa-tilaka-ujjvalam . bhūṣitam cāru-sarva-aṅgam bhūṣaṇaiḥ ati komalam .. 12.204..
दधानमुरसा मालां विशालां हेमनिर्मिताम् । ईषत्स्मितं सुबिम्बोष्ठं नूपुरारावसंयुतम् ॥ १२.२०५॥
दधानम् उरसा मालाम् विशालाम् हेम-निर्मिताम् । ईषत् स्मितम् सु बिम्बोष्ठम् नूपुर-आराव-संयुतम् ॥ १२।२०५॥
dadhānam urasā mālām viśālām hema-nirmitām . īṣat smitam su bimboṣṭham nūpura-ārāva-saṃyutam .. 12.205..
प्रसन्नवदनं दिव्यमनन्तमहिमास्पदम् । तदीदृशं समालोक्य स्वरूपं शैलसत्तमः ॥ १२.२०६॥
प्रसन्न-वदनम् दिव्यम् अनन्त-महिम-आस्पदम् । तत् ईदृशम् समालोक्य स्व-रूपम् शैल-सत्तमः ॥ १२।२०६॥
prasanna-vadanam divyam ananta-mahima-āspadam . tat īdṛśam samālokya sva-rūpam śaila-sattamaḥ .. 12.206..
भीतिं संत्यज्य हृष्टात्मा बभाषे परमेश्वरीम् ॥ ॥
भीतिम् संत्यज्य हृष्ट-आत्मा बभाषे परमेश्वरीम् ॥ ॥
bhītim saṃtyajya hṛṣṭa-ātmā babhāṣe parameśvarīm .. ..
हिमवानुवाच
यन्मे साक्षात्त्वमव्यक्ता प्रसन्ना दृष्टिगोचरा । त्वया सृष्टं जगत् सर्वं प्रधानाद्यं त्वयि स्थितम् ॥ १२.२०८॥
यत् मे साक्षात् त्वम् अव्यक्ता प्रसन्ना दृष्टि-गोचरा । त्वया सृष्टम् जगत् सर्वम् प्रधान-आद्यम् त्वयि स्थितम् ॥ १२।२०८॥
yat me sākṣāt tvam avyaktā prasannā dṛṣṭi-gocarā . tvayā sṛṣṭam jagat sarvam pradhāna-ādyam tvayi sthitam .. 12.208..
त्वय्येव लीयते देवि त्वमेव च परा गतिः । वदन्ति केचित् त्वामेव प्रकृतिं प्रकृतेः पराम्॥ १२.२०९॥
त्वयि एव लीयते देवि त्वम् एव च परा गतिः । वदन्ति केचिद् त्वाम् एव प्रकृतिम् प्रकृतेः पराम्॥ १२।२०९॥
tvayi eva līyate devi tvam eva ca parā gatiḥ . vadanti kecid tvām eva prakṛtim prakṛteḥ parām.. 12.209..
अपरे परमार्थज्ञाः शिवेति शिवसंश्रयात् । त्वयि प्रधानं पुरुषो महान् ब्रह्मा तथेश्वरः ॥ १२.२१॥
अपरे परम-अर्थ-ज्ञाः शिव इति शिव-संश्रयात् । त्वयि प्रधानम् पुरुषः महान् ब्रह्मा तथा ईश्वरः ॥ १२।२१॥
apare parama-artha-jñāḥ śiva iti śiva-saṃśrayāt . tvayi pradhānam puruṣaḥ mahān brahmā tathā īśvaraḥ .. 12.21..
अविद्या नियतिर्माया कलाद्याः शतशोऽभवन् । त्वं हि सा परमा शक्तिरनन्ता परमेष्ठिनी ॥ १२.२११॥
अविद्या नियतिः माया कला-आद्याः शतशस् अभवन् । त्वम् हि सा परमा शक्तिः अनन्ता परमेष्ठिनी ॥ १२।२११॥
avidyā niyatiḥ māyā kalā-ādyāḥ śataśas abhavan . tvam hi sā paramā śaktiḥ anantā parameṣṭhinī .. 12.211..
सर्वभेदविनिर्मुक्ता सर्वेभेदाश्रयाश्रया । त्वामधिष्ठाय योगेशि महादेवो महेश्वरः ॥ १२.२१२॥
सर्व-भेद-विनिर्मुक्ता । त्वाम् अधिष्ठाय योगेशि महादेवः महेश्वरः ॥ १२।२१२॥
sarva-bheda-vinirmuktā . tvām adhiṣṭhāya yogeśi mahādevaḥ maheśvaraḥ .. 12.212..
प्रधानाद्यं जगत् कृत्स्नं करोति विकरोति च । त्वयैव संगतो देवः स्वमानन्दं समश्नुते ॥ १२.२१३॥
प्रधान-आद्यम् जगत् कृत्स्नम् करोति विकरोति च । त्वया एव संगतः देवः स्वम् आनन्दम् समश्नुते ॥ १२।२१३॥
pradhāna-ādyam jagat kṛtsnam karoti vikaroti ca . tvayā eva saṃgataḥ devaḥ svam ānandam samaśnute .. 12.213..
त्वमेव परमानन्दस्त्वमेवानन्ददायिनी । त्वमक्षरं परं व्योम महज्ज्योतिर्निरञ्जनम् ॥ १२.२१४॥
त्वम् एव परम-आनन्दः त्वम् एव आनन्द-दायिनी । त्वम् अक्षरम् परम् व्योम महत् ज्योतिः निरञ्जनम् ॥ १२।२१४॥
tvam eva parama-ānandaḥ tvam eva ānanda-dāyinī . tvam akṣaram param vyoma mahat jyotiḥ nirañjanam .. 12.214..
शिवं सर्वगतं सूक्ष्मं परं ब्रह्म सनातनम् । त्वं शक्रः सर्वदेवानां ब्रह्मा ब्रह्मविदामसि ॥ १२.२१५॥
शिवम् सर्व-गतम् सूक्ष्मम् परम् ब्रह्म सनातनम् । त्वम् शक्रः सर्व-देवानाम् ब्रह्मा ब्रह्म-विदाम् असि ॥ १२।२१५॥
śivam sarva-gatam sūkṣmam param brahma sanātanam . tvam śakraḥ sarva-devānām brahmā brahma-vidām asi .. 12.215..
वायुर्बलवतां देवि योगिनां त्वं कुमारकः। ऋषीणां च वसिष्ठस्त्वं व्यासो वेदविदामसि ॥ १२.२१६॥
वायुः बलवताम् देवि योगिनाम् त्वम् कुमारकः। ऋषीणाम् च वसिष्ठः त्वम् व्यासः वेद-विदाम् असि ॥ १२।२१६॥
vāyuḥ balavatām devi yoginām tvam kumārakaḥ. ṛṣīṇām ca vasiṣṭhaḥ tvam vyāsaḥ veda-vidām asi .. 12.216..
सांख्यानां कपिलो देवो रुद्राणामसि शंकरः । आदित्यानामुपेन्द्रस्त्वं वसूनां चैव पावकः ॥ १२.२१७॥
सांख्यानाम् कपिलः देवः रुद्राणाम् असि शंकरः । आदित्यानाम् उपेन्द्रः त्वम् वसूनाम् च एव पावकः ॥ १२।२१७॥
sāṃkhyānām kapilaḥ devaḥ rudrāṇām asi śaṃkaraḥ . ādityānām upendraḥ tvam vasūnām ca eva pāvakaḥ .. 12.217..
वेदानां सामवेदस्त्वं गायत्री छन्दसामसि । अध्यात्मविद्या विद्यानां गतीनां परमा गतिः ॥ १२.२१८॥
वेदानाम् सामवेदः त्वम् गायत्री छन्दसाम् असि । अध्यात्म-विद्या विद्यानाम् गतीनाम् परमा गतिः ॥ १२।२१८॥
vedānām sāmavedaḥ tvam gāyatrī chandasām asi . adhyātma-vidyā vidyānām gatīnām paramā gatiḥ .. 12.218..
माया त्वं सर्वशक्तीनां कालः कलयतामसि । ओङ्कारः सर्वगुह्यानां वर्णानां च द्विजात्तमः ॥ १२.२१९॥
माया त्वम् सर्व-शक्तीनाम् कालः कलयताम् असि । ओङ्कारः सर्व-गुह्यानाम् वर्णानाम् च द्विजात्तमः ॥ १२।२१९॥
māyā tvam sarva-śaktīnām kālaḥ kalayatām asi . oṅkāraḥ sarva-guhyānām varṇānām ca dvijāttamaḥ .. 12.219..
आश्रमाणां च गार्हस्थ्यमीश्वराणां महेश्वरः । पुंसां त्वमेकः पुरुषः सर्वभूतहृदि स्थितः ॥ १२.२२॥
आश्रमाणाम् च गार्हस्थ्यम् ईश्वराणाम् महेश्वरः । पुंसाम् त्वम् एकः पुरुषः सर्व-भूत-हृदि स्थितः ॥ १२।२२॥
āśramāṇām ca gārhasthyam īśvarāṇām maheśvaraḥ . puṃsām tvam ekaḥ puruṣaḥ sarva-bhūta-hṛdi sthitaḥ .. 12.22..
सर्वोपनिषदां देवि गुह्योपनिषदुच्यते । ईशानश्चासि कल्पानां युगानां कृतमेव च ॥ १२.२२१॥
सर्व-उपनिषदाम् देवि गुह्य-उपनिषद् उच्यते । ईशानः च असि कल्पानाम् युगानाम् कृतम् एव च ॥ १२।२२१॥
sarva-upaniṣadām devi guhya-upaniṣad ucyate . īśānaḥ ca asi kalpānām yugānām kṛtam eva ca .. 12.221..
आदित्यः सर्वमार्गाणां वाचां देवि सरस्वती । त्वं लक्ष्मीश्चारुरूपाणां विष्णुर्मायाविनामसि ॥ १२.२२२॥
आदित्यः सर्व-मार्गाणाम् वाचाम् देवि सरस्वती । त्वम् लक्ष्मीः चारु-रूपाणाम् विष्णुः मायाविनाम् असि ॥ १२।२२२॥
ādityaḥ sarva-mārgāṇām vācām devi sarasvatī . tvam lakṣmīḥ cāru-rūpāṇām viṣṇuḥ māyāvinām asi .. 12.222..
अरुन्धती सतीनां त्वं सुपर्णः पततामसि । सूक्तानां पौरुषं सूक्तं साम ज्येष्टं च सामसु ॥ १२.२२३॥
अरुन्धती सतीनाम् त्वम् सुपर्णः पतताम् असि । सूक्तानाम् पौरुषम् सूक्तम् साम ज्येष्टम् च सामसु ॥ १२।२२३॥
arundhatī satīnām tvam suparṇaḥ patatām asi . sūktānām pauruṣam sūktam sāma jyeṣṭam ca sāmasu .. 12.223..
सावित्री चासि जाप्यानां यजुषां शतरुद्रियम् । पर्वतानां महामेरुरनन्तो भोगिनामसि ॥ १२.२२४॥
सावित्री च असि जाप्यानाम् यजुषाम् शतरुद्रियम् । पर्वतानाम् महा-मेरुः अनन्तः भोगिनाम् असि ॥ १२।२२४॥
sāvitrī ca asi jāpyānām yajuṣām śatarudriyam . parvatānām mahā-meruḥ anantaḥ bhoginām asi .. 12.224..
सर्वेषां त्वं परं ब्रह्म त्वन्मयं सर्वमेव हि ॥ १२.२२५॥
सर्वेषाम् त्वम् परम् ब्रह्म त्वद्-मयम् सर्वम् एव हि ॥ १२।२२५॥
sarveṣām tvam param brahma tvad-mayam sarvam eva hi .. 12.225..
रूपं तवाशेषकलाविहीन- मगोचरं निर्मलमेकरूपम् । अनादिमध्यान्तमनन्तामाद्यं नमामि सत्यं तमसः परस्तात् ॥ १२.२२६॥
रूपम् तव अशेष-कला-विहीनम् अगोचरम् निर्मलम् एक-रूपम् । अनादि-मध्य-अन्तम् अनन्ताम् आद्यम् नमामि सत्यम् तमसः परस्तात् ॥ १२।२२६॥
rūpam tava aśeṣa-kalā-vihīnam agocaram nirmalam eka-rūpam . anādi-madhya-antam anantām ādyam namāmi satyam tamasaḥ parastāt .. 12.226..
यदेव पश्यन्ति जगत्प्रसूतिं वेदान्तविज्ञानविनिश्चितार्थाः । आनन्दमात्रं प्रणवाभिधानं तदेव रूपं शरणं प्रपद्ये ॥ १२.२२७॥
यत् एव पश्यन्ति जगत्-प्रसूतिम् वेदान्त-विज्ञान-विनिश्चित-अर्थाः । आनन्द-मात्रम् प्रणव-अभिधानम् तत् एव रूपम् शरणम् प्रपद्ये ॥ १२।२२७॥
yat eva paśyanti jagat-prasūtim vedānta-vijñāna-viniścita-arthāḥ . ānanda-mātram praṇava-abhidhānam tat eva rūpam śaraṇam prapadye .. 12.227..
अशेषभूतान्तरसन्निविष्टं प्रधानपुंयोगवियोगहेतुम् । तेजोमयं जन्मविनाशहीनं प्राणाभिधानं प्रणतोऽस्मि रूपम् ॥ १२.२२८॥
अशेष-भूत-अन्तर-सन्निविष्टम् प्रधान-पुम् योग-वियोग-हेतुम् । तेजः-मयम् जन्म-विनाश-हीनम् प्राण-अभिधानम् प्रणतः अस्मि रूपम् ॥ १२।२२८॥
aśeṣa-bhūta-antara-sanniviṣṭam pradhāna-pum yoga-viyoga-hetum . tejaḥ-mayam janma-vināśa-hīnam prāṇa-abhidhānam praṇataḥ asmi rūpam .. 12.228..
आद्यन्तहीनं जगदात्मभूतं विभिन्नसंस्थं प्रकृतेः परस्तात् । कूटस्थमव्यक्तवपुस्तथैव नमामि रूपं पुरुषाभिधानम् ॥ १२.२२९॥
आदि-अन्त-हीनम् जगत्-आत्म-भूतम् विभिन्न-संस्थम् प्रकृतेः परस्तात् । कूटस्थम् अव्यक्त-वपुः तथा एव नमामि रूपम् पुरुष-अभिधानम् ॥ १२।२२९॥
ādi-anta-hīnam jagat-ātma-bhūtam vibhinna-saṃstham prakṛteḥ parastāt . kūṭastham avyakta-vapuḥ tathā eva namāmi rūpam puruṣa-abhidhānam .. 12.229..
सर्वाश्रयं सर्वजगद्विधानं सर्वत्रगं जन्मविनाशहीनम् । सूक्ष्मं विचित्रं त्रिगुणं प्रधानं नतोऽस्मि ते रूपमरूपभेदम् ॥ १२.२३॥
सर्व-आश्रयम् सर्व-जगत्-विधानम् सर्वत्रगम् जन्म-विनाश-हीनम् । सूक्ष्मम् विचित्रम् त्रिगुणम् प्रधानम् नतः अस्मि ते रूपम् अरूप-भेदम् ॥ १२।२३॥
sarva-āśrayam sarva-jagat-vidhānam sarvatragam janma-vināśa-hīnam . sūkṣmam vicitram triguṇam pradhānam nataḥ asmi te rūpam arūpa-bhedam .. 12.23..
आद्यं महान्तं पुरुषात्मरूपं प्रकृत्यवस्थं त्रिगुणात्मबीजम् । ऐश्वर्यविज्ञानविरागधर्मैः समन्वितं देवि नतोऽस्मि रूपम् ॥ १२.२३१॥
आद्यम् महान्तम् पुरुष-आत्म-रूपम् प्रकृति-अवस्थम् त्रिगुण-आत्म-बीजम् । ऐश्वर्य-विज्ञान-विराग-धर्मैः समन्वितम् देवि नतः अस्मि रूपम् ॥ १२।२३१॥
ādyam mahāntam puruṣa-ātma-rūpam prakṛti-avastham triguṇa-ātma-bījam . aiśvarya-vijñāna-virāga-dharmaiḥ samanvitam devi nataḥ asmi rūpam .. 12.231..
द्विसप्तलोकात्मकमम्बुसंस्थं विचित्रभेदं पुरुषैकनाथम् । अनन्तभूतैरधिवासितं ते नतोऽस्मि रूपं जगदण्डसंज्ञम् ॥ १२.२३१॥
द्वि-सप्त-लोक-आत्मकम् अम्बु-संस्थम् विचित्र-भेदम् पुरुष-एक-नाथम् । अनन्त-भूतैः अधिवासितम् ते नतः अस्मि रूपम् जगदण्ड-संज्ञम् ॥ १२।२३१॥
dvi-sapta-loka-ātmakam ambu-saṃstham vicitra-bhedam puruṣa-eka-nātham . ananta-bhūtaiḥ adhivāsitam te nataḥ asmi rūpam jagadaṇḍa-saṃjñam .. 12.231..
अशेषवेदात्मकमेकमाद्यं स्वतेजसा पूरितलोकभेदम् । त्रिकालहेतुं परमेष्ठिसंज्ञं नमामि रूपं रविमण्डलस्थम् ॥ १२.२३२॥
अशेष-वेद-आत्मकम् एकम् आद्यम् स्व-तेजसा पूरित-लोक-भेदम् । त्रिकाल-हेतुम् परमेष्ठि-संज्ञम् नमामि रूपम् रवि-मण्डल-स्थम् ॥ १२।२३२॥
aśeṣa-veda-ātmakam ekam ādyam sva-tejasā pūrita-loka-bhedam . trikāla-hetum parameṣṭhi-saṃjñam namāmi rūpam ravi-maṇḍala-stham .. 12.232..
सहस्त्रमूर्धानमनन्तशक्तिं सहस्रबाहुं पुरुषं पुराणम् । शयानमन्तः सलिले तथैव नारायणाख्यं प्रणतोऽस्मि रूपम् ॥ १२.२३३॥
सहस्त्र-मूर्धानम् अनन्तशक्तिम् सहस्र-बाहुम् पुरुषम् पुराणम् । शयानम् अन्तर् सलिले तथा एव नारायण-आख्यम् प्रणतः अस्मि रूपम् ॥ १२।२३३॥
sahastra-mūrdhānam anantaśaktim sahasra-bāhum puruṣam purāṇam . śayānam antar salile tathā eva nārāyaṇa-ākhyam praṇataḥ asmi rūpam .. 12.233..
दंष्ट्राकरालं त्रिदशाभिवन्द्यं युगान्तकालानलकल्परूपम् । अशेषभूताण्डविनाशहेतुं नमामि रूपं तव कालसंज्ञम् ॥ १२.२३४॥
दंष्ट्रा-करालम् त्रिदश-अभिवन्द्यम् युगान्त-काल-अनल-कल्प-रूपम् । अशेष-भूत-अण्ड-विनाश-हेतुम् नमामि रूपम् तव काल-संज्ञम् ॥ १२।२३४॥
daṃṣṭrā-karālam tridaśa-abhivandyam yugānta-kāla-anala-kalpa-rūpam . aśeṣa-bhūta-aṇḍa-vināśa-hetum namāmi rūpam tava kāla-saṃjñam .. 12.234..
फणासहस्त्रेण विराजमानं भोगीन्द्रमुख्यैरभिपूज्यमानम् । जनार्दनारूढतनुं प्रसुप्तं नतोऽस्मि रूपं तव शेषसंज्ञम् ॥ १२.२३५॥
फणा-सहस्त्रेण विराजमानम् भोगि-इन्द्र-मुख्यैः अभिपूज्यमानम् । जनार्दन-आरूढ-तनुम् प्रसुप्तम् नतः अस्मि रूपम् तव शेष-संज्ञम् ॥ १२।२३५॥
phaṇā-sahastreṇa virājamānam bhogi-indra-mukhyaiḥ abhipūjyamānam . janārdana-ārūḍha-tanum prasuptam nataḥ asmi rūpam tava śeṣa-saṃjñam .. 12.235..
अव्याहतैश्वर्यमयुग्मनेत्रं ब्रह्मामृतानन्दरसज्ञमेकम् । युगान्तशेषं दिवि नृत्यमानं नतोऽस्मि रूपं तव रुद्रसंज्ञम् ॥ १२.२३६॥
अव्याहत-ऐश्वर्यम् अयुग्मनेत्रम् ब्रह्म-अमृत-आनन्द-रस-ज्ञम् एकम् । युगान्त-शेषम् दिवि नृत्यमानम् नतः अस्मि रूपम् तव रुद्र-संज्ञम् ॥ १२।२३६॥
avyāhata-aiśvaryam ayugmanetram brahma-amṛta-ānanda-rasa-jñam ekam . yugānta-śeṣam divi nṛtyamānam nataḥ asmi rūpam tava rudra-saṃjñam .. 12.236..
प्रहीणशोकं विमलं पवित्रं सुरासुरैरर्चितापादपद्मम् । सुकोमलं देवि विभासि शुभ्रं नमामि ते रूपमिदं भवानि ॥ १२.२३७॥
प्रहीण-शोकम् विमलम् पवित्रम् सुर-असुरैः अर्चिता आपाद-पद्मम् । सु कोमलम् देवि विभासि शुभ्रम् नमामि ते रूपम् इदम् भवानि ॥ १२।२३७॥
prahīṇa-śokam vimalam pavitram sura-asuraiḥ arcitā āpāda-padmam . su komalam devi vibhāsi śubhram namāmi te rūpam idam bhavāni .. 12.237..
ॐ नमस्तेऽस्तु महादेवि नमस्ते परमेश्वरि । नमो भगवतीशानि शिवायै ते नमो नमः ॥ १२.२३८॥
ओम् नमः ते अस्तु महादेवि नमः ते परमेश्वरि । नमः भगवति ईशानि शिवायै ते नमः नमः ॥ १२।२३८॥
om namaḥ te astu mahādevi namaḥ te parameśvari . namaḥ bhagavati īśāni śivāyai te namaḥ namaḥ .. 12.238..
त्वन्मयोऽहं त्वदाधारस्त्वमेव च गतिर्मम । त्वामेव शरणं यास्ये प्रसीद परमेश्वरि ॥ १२.२३९॥
त्वद्-मयः अहम् त्वद्-आधारः त्वम् एव च गतिः मम । त्वाम् एव शरणम् यास्ये प्रसीद परमेश्वरि ॥ १२।२३९॥
tvad-mayaḥ aham tvad-ādhāraḥ tvam eva ca gatiḥ mama . tvām eva śaraṇam yāsye prasīda parameśvari .. 12.239..
मया नास्ति समो लोके देवो वा दानवोऽपि वा । जगन्मातैव मत्पुत्री संभूता तपसा यतः ॥ १२.२४॥
मया ना अस्ति समः लोके देवः वा दानवः अपि वा । जगन्माता एव मद्-पुत्री संभूता तपसा यतस् ॥ १२।२४॥
mayā nā asti samaḥ loke devaḥ vā dānavaḥ api vā . jaganmātā eva mad-putrī saṃbhūtā tapasā yatas .. 12.24..
एषा तवाम्बिका देवि किलाभूत्पितृकन्यका । मेनाऽशेषजगन्मातुरहो पुण्यस्य गौरवम् ॥ १२.२४१॥
एषा तव अम्बिका देवि किल अभूत् पितृ-कन्यका । मेना अशेष-जगत्-मातुः अहो पुण्यस्य गौरवम् ॥ १२।२४१॥
eṣā tava ambikā devi kila abhūt pitṛ-kanyakā . menā aśeṣa-jagat-mātuḥ aho puṇyasya gauravam .. 12.241..
पाहि माममरेशानि मेनया सह सर्वदा । नमामि तव पादाब्जं व्रजामि शरणं शिवाम् ॥ १२.२४२॥
पाहि माम् अमर-ईशानि मेनया सह सर्वदा । नमामि तव पाद-अब्जम् व्रजामि शरणम् शिवाम् ॥ १२।२४२॥
pāhi mām amara-īśāni menayā saha sarvadā . namāmi tava pāda-abjam vrajāmi śaraṇam śivām .. 12.242..
अहो मे सुमहद् भाग्यं महादेवीसमागमात् । आज्ञापय महादेवि किं करिष्यामि शंकरि ॥ १२.२४३॥
अहो मे सु महत् भाग्यम् महादेवी-समागमात् । आज्ञापय महादेवि किम् करिष्यामि शंकरि ॥ १२।२४३॥
aho me su mahat bhāgyam mahādevī-samāgamāt . ājñāpaya mahādevi kim kariṣyāmi śaṃkari .. 12.243..
एतावदुक्त्वा वचनं तदा हिमगिरीश्वरः । संप्रेक्षणमाणो गिरिजां प्राञ्जलिः पार्श्वतोऽभवत् ॥ १२.२४४॥
एतावत् उक्त्वा वचनम् तदा हिमगिरि-ईश्वरः । संप्रेक्षणमाणः गिरिजाम् प्राञ्जलिः पार्श्वतस् अभवत् ॥ १२।२४४॥
etāvat uktvā vacanam tadā himagiri-īśvaraḥ . saṃprekṣaṇamāṇaḥ girijām prāñjaliḥ pārśvatas abhavat .. 12.244..
अथ सा तस्य वचनं निशम्य जगतोऽरणिः । सस्मितं प्राह पितरं स्मृत्वा पशुपतिं पतिम् ॥ १२.२४६॥
अथ सा तस्य वचनम् निशम्य जगतः अरणिः । स स्मितम् प्राह पितरम् स्मृत्वा पशुपतिम् पतिम् ॥ १२।२४६॥
atha sā tasya vacanam niśamya jagataḥ araṇiḥ . sa smitam prāha pitaram smṛtvā paśupatim patim .. 12.246..
देव्युवाच
श्रृणुष्व चैतत् प्रथमं गुह्यमीश्वरगोचरम् । उपदेशं गिरिश्रेष्ठ सेवितं ब्रह्मवादिभिः ॥ १२.२४७॥
श्रृणुष्व च एतत् प्रथमम् गुह्यम् ईश्वर-गोचरम् । उपदेशम् गिरि-श्रेष्ठ सेवितम् ब्रह्म-वादिभिः ॥ १२।२४७॥
śrṛṇuṣva ca etat prathamam guhyam īśvara-gocaram . upadeśam giri-śreṣṭha sevitam brahma-vādibhiḥ .. 12.247..
यन्मे साक्षात् परं रूपमैश्वरं दृष्टमद्भुतम् । सर्वशक्तिसमायुक्तमनन्तं प्रेरकं परम् ॥ १२.२४८॥
यत् मे साक्षात् परम् रूपम् ऐश्वरम् दृष्टम् अद्भुतम् । सर्व-शक्ति-समायुक्तम् अनन्तम् प्रेरकम् परम् ॥ १२।२४८॥
yat me sākṣāt param rūpam aiśvaram dṛṣṭam adbhutam . sarva-śakti-samāyuktam anantam prerakam param .. 12.248..
शान्तः समाहितमना दम्भाहंकारवर्जितः । तन्निष्ठस्तत्परो भूत्वा तदेव शरणं व्रज ॥ १२.२४९॥
शान्तः समाहित-मनाः दम्भ-अहंकार-वर्जितः । तद्-निष्ठः तत्परः भूत्वा तत् एव शरणम् व्रज ॥ १२।२४९॥
śāntaḥ samāhita-manāḥ dambha-ahaṃkāra-varjitaḥ . tad-niṣṭhaḥ tatparaḥ bhūtvā tat eva śaraṇam vraja .. 12.249..
भक्त्या त्वनन्यया तात पद्भावं परमाश्रितः । सर्वयज्ञतपोदानैस्तदेवार्च्चय सर्वदा ॥ १२.२५॥
भक्त्या तु अनन्यया तात पद्-भावम् परम् आश्रितः । सर्व-यज्ञ-तपः-दानैः तत् एव अर्च्चय सर्वदा ॥ १२।२५॥
bhaktyā tu ananyayā tāta pad-bhāvam param āśritaḥ . sarva-yajña-tapaḥ-dānaiḥ tat eva arccaya sarvadā .. 12.25..
तदेव मनसा पश्य तद् ध्यायस्व यजस्व च । ममोपदेशात्संसारं नाशयामि तवानघ ॥ १२.२५१॥
तत् एव मनसा पश्य तत् ध्यायस्व यजस्व च । मम उपदेशात् संसारम् नाशयामि तव अनघ ॥ १२।२५१॥
tat eva manasā paśya tat dhyāyasva yajasva ca . mama upadeśāt saṃsāram nāśayāmi tava anagha .. 12.251..
अहं वै मत्परान् भक्तानैश्वरं योगमास्थितान् । संसारसागरादस्मादुद्धराम्यचिरेण तु ॥ १२.२५२॥
अहम् वै मद्-परान् भक्तान् ऐश्वरम् योगम् आस्थितान् । संसार-सागरात् अस्मात् उद्धरामि अचिरेण तु ॥ १२।२५२॥
aham vai mad-parān bhaktān aiśvaram yogam āsthitān . saṃsāra-sāgarāt asmāt uddharāmi acireṇa tu .. 12.252..
ध्यानेन कर्मयोगेन भक्त्या ज्ञानेन चैव हि । प्राप्याऽहं ते गिरिश्रेष्ठ नान्यथा कर्मकोटिभिः ॥ १२.२५३॥
ध्यानेन कर्म-योगेन भक्त्या ज्ञानेन च एव हि । प्राप्या अहम् ते गिरि-श्रेष्ठ ना अन्यथा कर्म-कोटिभिः ॥ १२।२५३॥
dhyānena karma-yogena bhaktyā jñānena ca eva hi . prāpyā aham te giri-śreṣṭha nā anyathā karma-koṭibhiḥ .. 12.253..
श्रुतिस्मृत्युदितं सम्यक् कर्म वर्णाश्रमात्मकम् । अध्यात्मज्ञानसहितं मुक्तये सततं कुरु ॥ १२.२५४॥
श्रुति-स्मृति-उदितम् सम्यक् कर्म वर्ण-आश्रम-आत्मकम् । अध्यात्म-ज्ञान-सहितम् मुक्तये सततम् कुरु ॥ १२।२५४॥
śruti-smṛti-uditam samyak karma varṇa-āśrama-ātmakam . adhyātma-jñāna-sahitam muktaye satatam kuru .. 12.254..
धर्मात्संजायते भक्तिर्भक्त्या संप्राप्यते परम् । श्रुतिस्मृतिभ्यामुदितो धर्मो यज्ञादिको मतः ॥ १२.२५५॥
धर्मात् संजायते भक्तिः भक्त्या संप्राप्यते परम् । श्रुति-स्मृतिभ्याम् उदितः धर्मः यज्ञ-आदिकः मतः ॥ १२।२५५॥
dharmāt saṃjāyate bhaktiḥ bhaktyā saṃprāpyate param . śruti-smṛtibhyām uditaḥ dharmaḥ yajña-ādikaḥ mataḥ .. 12.255..
नान्यतो जायते धर्मो वेदाद् धर्मो हि निर्बभौ । तस्मान्मुमुक्षुर्धर्मार्थी मद्रूपं वेदमाश्रयेत् ॥ १२.२५६॥
न अन्यतस् जायते धर्मः वेदात् धर्मः हि निर्बभौ । तस्मात् मुमुक्षुः धर्म-अर्थी मद्-रूपम् वेदम् आश्रयेत् ॥ १२।२५६॥
na anyatas jāyate dharmaḥ vedāt dharmaḥ hi nirbabhau . tasmāt mumukṣuḥ dharma-arthī mad-rūpam vedam āśrayet .. 12.256..
ममैवैषा परा शक्तिर्वेदसंज्ञा पुरातनी । ऋग्यजुः सामरूपेण सर्गादौ संप्रवर्त्तते ॥ १२.२५७॥
मम एव एषा परा शक्तिः वेद-संज्ञा पुरातनी । ऋक्-यजुः साम-रूपेण सर्ग-आदौ संप्रवर्त्तते ॥ १२।२५७॥
mama eva eṣā parā śaktiḥ veda-saṃjñā purātanī . ṛk-yajuḥ sāma-rūpeṇa sarga-ādau saṃpravarttate .. 12.257..
तेषामेव च गुप्त्यर्थं वेदानां भगवानजः । ब्राह्मणादीन् ससर्जाथ स्वे स्वे कर्मण्ययोजयत् ॥ १२.२५८॥
तेषाम् एव च गुप्ति-अर्थम् वेदानाम् भगवान् अजः । ब्राह्मण-आदीन् ससर्ज अथ स्वे स्वे कर्मणि अयोजयत् ॥ १२।२५८॥
teṣām eva ca gupti-artham vedānām bhagavān ajaḥ . brāhmaṇa-ādīn sasarja atha sve sve karmaṇi ayojayat .. 12.258..
ये न कुर्वन्ति तद् धर्मं तदर्थं ब्रह्मनिर्मिताः । तेषामधस्ताद् नरकांस्तामिस्त्रादीनकल्पयत् ॥ १२.२५९॥
ये न कुर्वन्ति तत् धर्मम् तद्-अर्थम् ब्रह्म-निर्मिताः । तेषाम् अधस्तात् नरकान् तामिस्त्र-आदीन् अकल्पयत् ॥ १२।२५९॥
ye na kurvanti tat dharmam tad-artham brahma-nirmitāḥ . teṣām adhastāt narakān tāmistra-ādīn akalpayat .. 12.259..
न च वेदादृते किञ्चिच्छास्त्रं धर्माभिधायकम् । योऽन्यत्ररमतेसोऽसौ न संभाष्यो द्विजातिभिः ॥ १२.२६॥
न च वेदात् ऋते किञ्चिद् शास्त्रम् धर्म-अभिधायकम् । यः अन्यत्र रमते सः असौ न संभाष्यः द्विजातिभिः ॥ १२।२६॥
na ca vedāt ṛte kiñcid śāstram dharma-abhidhāyakam . yaḥ anyatra ramate saḥ asau na saṃbhāṣyaḥ dvijātibhiḥ .. 12.26..
यानि शास्त्राणि दृश्यन्ते लोकेऽस्मिन् विविधानितु । श्रुतिस्मृतिविरुद्धानि निष्ठा तेषां हि तामसी ॥ १२.२६१॥
यानि शास्त्राणि दृश्यन्ते लोके अस्मिन् । श्रुति-स्मृति-विरुद्धानि निष्ठा तेषाम् हि तामसी ॥ १२।२६१॥
yāni śāstrāṇi dṛśyante loke asmin . śruti-smṛti-viruddhāni niṣṭhā teṣām hi tāmasī .. 12.261..
कापालं पञ्चरात्रं च यामलं वाममार्हतम् । एवंविधानि चान्यानि मोहनार्थानि तानि तु ॥ १२.२६२॥
कापालम् पञ्चरात्रम् च यामलम् वामम् आर्हतम् । एवंविधानि च अन्यानि मोहन-अर्थानि तानि तु ॥ १२।२६२॥
kāpālam pañcarātram ca yāmalam vāmam ārhatam . evaṃvidhāni ca anyāni mohana-arthāni tāni tu .. 12.262..
ये कुशास्त्राभियोगेन मोहयन्तीह मानवान् । मया सृष्टानि शास्त्राणि मोहायैषां भवान्तरे ॥ १२.२६३॥
ये कुशास्त्र-अभियोगेन मोहयन्ति इह मानवान् । मया सृष्टानि शास्त्राणि मोहाय एषाम् भव-अन्तरे ॥ १२।२६३॥
ye kuśāstra-abhiyogena mohayanti iha mānavān . mayā sṛṣṭāni śāstrāṇi mohāya eṣām bhava-antare .. 12.263..
वेदार्थवित्तमैः कार्यं यत् स्मृतं कर्म वैदिकम् । तत्प्रयत्नेन कुर्वन्ति मत्प्रियास्ते हि ये नराः ॥ १२.२६४॥
वेद-अर्थ-वित्तमैः कार्यम् यत् स्मृतम् कर्म वैदिकम् । तत् प्रयत्नेन कुर्वन्ति मद्-प्रियाः ते हि ये नराः ॥ १२।२६४॥
veda-artha-vittamaiḥ kāryam yat smṛtam karma vaidikam . tat prayatnena kurvanti mad-priyāḥ te hi ye narāḥ .. 12.264..
वर्णानामनुकम्पार्थं मन्नियोगाद्विराट् स्वयम् । स्वायंभुवो मनुर्धार्मान् मुनीनां पूर्वमुक्तवान् ॥ १२.२६५॥
वर्णानाम् अनुकम्पा-अर्थम् मद्-नियोगात् विराज् स्वयम् । स्वायंभुवः मनुः धार्मात् मुनीनाम् पूर्वम् उक्तवान् ॥ १२।२६५॥
varṇānām anukampā-artham mad-niyogāt virāj svayam . svāyaṃbhuvaḥ manuḥ dhārmāt munīnām pūrvam uktavān .. 12.265..
श्रुत्वा चान्येऽपि मुनयस्तन्मुखाद् धर्ममुत्तमम् । चक्रुर्धर्मप्रतिष्ठार्थं धर्मशास्त्राणि चैव हि ॥ १२.२६६॥
श्रुत्वा च अन्ये अपि मुनयः तद्-मुखात् धर्मम् उत्तमम् । चक्रुः धर्म-प्रतिष्ठा-अर्थम् धर्म-शास्त्राणि च एव हि ॥ १२।२६६॥
śrutvā ca anye api munayaḥ tad-mukhāt dharmam uttamam . cakruḥ dharma-pratiṣṭhā-artham dharma-śāstrāṇi ca eva hi .. 12.266..
तेषु चान्तर्हितेष्वेवं युगान्तेषु महर्षयः । ब्रह्मणो वचनात्तानि करिष्यन्ति युगे युगे ॥ १२.२६७॥
तेषु च अन्तर्हितेषु एवम् युग-अन्तेषु महा-ऋषयः । ब्रह्मणः वचनात् तानि करिष्यन्ति युगे युगे ॥ १२।२६७॥
teṣu ca antarhiteṣu evam yuga-anteṣu mahā-ṛṣayaḥ . brahmaṇaḥ vacanāt tāni kariṣyanti yuge yuge .. 12.267..
अष्टादश पुराणानि व्यासेन कथितानि तु । नियोगाद् ब्रह्मणो राजंस्तेषु धर्मः प्रतिष्ठितः ॥ १२.२६८॥
अष्टादश पुराणानि व्यासेन कथितानि तु । नियोगात् ब्रह्मणः राजन् तेषु धर्मः प्रतिष्ठितः ॥ १२।२६८॥
aṣṭādaśa purāṇāni vyāsena kathitāni tu . niyogāt brahmaṇaḥ rājan teṣu dharmaḥ pratiṣṭhitaḥ .. 12.268..
अन्यान्युपपुराणानि तच्छिष्यैः कथितानि तु । युगे युगेऽत्र सर्वेषां कर्ता वै धर्मशास्त्रवित् ॥ १२.२६९॥
अन्यानि उपपुराणानि तद्-शिष्यैः कथितानि तु । युगे युगे अत्र सर्वेषाम् कर्ता वै धर्म-शास्त्र-विद् ॥ १२।२६९॥
anyāni upapurāṇāni tad-śiṣyaiḥ kathitāni tu . yuge yuge atra sarveṣām kartā vai dharma-śāstra-vid .. 12.269..
शिक्षा कल्पो व्याकरणं निरुक्तं छन्द एव च । ज्योतिः शास्त्रं न्यायविद्या मीमांसा चोपबृंहणम् ॥ १२.२७॥
शिक्षा कल्पः व्याकरणम् निरुक्तम् छन्दः एव च । ज्योतिः शास्त्रम् न्याय-विद्या मीमांसा च उपबृंहणम् ॥ १२।२७॥
śikṣā kalpaḥ vyākaraṇam niruktam chandaḥ eva ca . jyotiḥ śāstram nyāya-vidyā mīmāṃsā ca upabṛṃhaṇam .. 12.27..
एवं चतुर्दशैतानि विद्यास्थानानि सत्तम । चतुर्वेदैः सहोक्तानि धर्मो नान्यत्र विद्यते ॥ १२.२७१॥
एवम् चतुर्दश एतानि विद्या-स्थानानि सत्तम । चतुर्-वेदैः सह उक्तानि धर्मः न अन्यत्र विद्यते ॥ १२।२७१॥
evam caturdaśa etāni vidyā-sthānāni sattama . catur-vedaiḥ saha uktāni dharmaḥ na anyatra vidyate .. 12.271..
एवं पैतामहं धर्मं मनुव्यासादयः परम् । स्थापयन्ति ममादेशाद् यावदाभूतसंप्लवम् ॥ १२.२७२॥
एवम् पैतामहम् धर्मम् मनु-व्यास-आदयः परम् । स्थापयन्ति मम आदेशात् यावत् आभूतसंप्लवम् ॥ १२।२७२॥
evam paitāmaham dharmam manu-vyāsa-ādayaḥ param . sthāpayanti mama ādeśāt yāvat ābhūtasaṃplavam .. 12.272..
ब्रह्मणा सह ते सर्वे संप्राप्ते प्रतिसंचरे । परस्यान्ते कृतात्मानः प्रविशन्ति परं पदम् ॥ १२.२७३॥
ब्रह्मणा सह ते सर्वे संप्राप्ते प्रतिसंचरे । परस्य अन्ते कृतात्मानः प्रविशन्ति परम् पदम् ॥ १२।२७३॥
brahmaṇā saha te sarve saṃprāpte pratisaṃcare . parasya ante kṛtātmānaḥ praviśanti param padam .. 12.273..
तस्मात् सर्वप्रयत्नेन धर्मार्थं वेदमाश्रयेत् । धर्मेण सहितं ज्ञानं परं ब्रह्म प्रकाशयेत् ॥ १२.२७४॥
तस्मात् सर्व-प्रयत्नेन धर्म-अर्थम् वेदम् आश्रयेत् । धर्मेण सहितम् ज्ञानम् परम् ब्रह्म प्रकाशयेत् ॥ १२।२७४॥
tasmāt sarva-prayatnena dharma-artham vedam āśrayet . dharmeṇa sahitam jñānam param brahma prakāśayet .. 12.274..
ये तु सङ्गान् परित्यज्य मामेव शरणं गताः । उपासते सदा भक्त्या योगमैश्वरमास्थिताः ॥ १२.२७५॥
ये तु सङ्गान् परित्यज्य माम् एव शरणम् गताः । उपासते सदा भक्त्या योगम् ऐश्वरम् आस्थिताः ॥ १२।२७५॥
ye tu saṅgān parityajya mām eva śaraṇam gatāḥ . upāsate sadā bhaktyā yogam aiśvaram āsthitāḥ .. 12.275..
सर्वभूतदयावन्तः शान्ता दान्ता विमत्सराः । अमानिनो बुद्धिमन्तस्तापसाः शंसितव्रताः ॥ १२.२७६॥
सर्व-भूत-दयावन्तः शान्ताः दान्ताः विमत्सराः । अमानिनः बुद्धिमन्तः तापसाः शंसित-व्रताः ॥ १२।२७६॥
sarva-bhūta-dayāvantaḥ śāntāḥ dāntāḥ vimatsarāḥ . amāninaḥ buddhimantaḥ tāpasāḥ śaṃsita-vratāḥ .. 12.276..
मच्चित्ता मद्गतप्राणा मज्ज्ञानकथने रताः । संन्यासिनो गृहस्थाश्च वनस्था ब्रह्मचारिणः ॥ १२.२७७॥
मद्-चित्ताः मद्-गत-प्राणाः मद्-ज्ञान-कथने रताः । संन्यासिनः गृहस्थाः च वनस्थाः ब्रह्मचारिणः ॥ १२।२७७॥
mad-cittāḥ mad-gata-prāṇāḥ mad-jñāna-kathane ratāḥ . saṃnyāsinaḥ gṛhasthāḥ ca vanasthāḥ brahmacāriṇaḥ .. 12.277..
तेषां नित्याभियुक्तानां मायातत्त्वं समुत्थितम् । नाशयामि तमः कृत्स्नं ज्ञानदीपेन मा चिरात् ॥ १२.२७८॥
तेषाम् नित्य-अभियुक्तानाम् माया-तत्त्वम् समुत्थितम् । नाशयामि तमः कृत्स्नम् ज्ञान-दीपेन मा चिरात् ॥ १२।२७८॥
teṣām nitya-abhiyuktānām māyā-tattvam samutthitam . nāśayāmi tamaḥ kṛtsnam jñāna-dīpena mā cirāt .. 12.278..
ते सुनिर्धूततमसो ज्ञानेनैकेन मन्मयाः । सदानन्दास्तु संसारे न जायन्ते पुनः पुनः ॥ १२.२७९॥
ते सु निर्धूत-तमसः ज्ञानेन एकेन मद्-मयाः । सत्-आनन्दाः तु संसारे न जायन्ते पुनर् पुनर् ॥ १२।२७९॥
te su nirdhūta-tamasaḥ jñānena ekena mad-mayāḥ . sat-ānandāḥ tu saṃsāre na jāyante punar punar .. 12.279..
तस्मात् सर्वप्रकारेण मद्भक्तो मत्परायणः । मामेवार्चय सर्वत्र मनसा शरणं गतः ॥ १२.२८॥
तस्मात् सर्व-प्रकारेण मद्-भक्तः मद्-परायणः । माम् एव अर्चय सर्वत्र मनसा शरणम् गतः ॥ १२।२८॥
tasmāt sarva-prakāreṇa mad-bhaktaḥ mad-parāyaṇaḥ . mām eva arcaya sarvatra manasā śaraṇam gataḥ .. 12.28..
अशक्तो यदि मे ध्यातुमैश्वरं रूपमव्ययम् । ततो मे सकलं रूपं कालाद्यं शरणं व्रज ॥ १२.२८१॥
अशक्तः यदि मे ध्यातुम् ऐश्वरम् रूपम् अव्ययम् । ततस् मे सकलम् रूपम् काल-आद्यम् शरणम् व्रज ॥ १२।२८१॥
aśaktaḥ yadi me dhyātum aiśvaram rūpam avyayam . tatas me sakalam rūpam kāla-ādyam śaraṇam vraja .. 12.281..
यद्यत् स्वरूपं मे तात मनसो गोचरं तव । तन्निष्ठस्तत्परो भूत्वा तदर्चनपरो भव ॥ १२.२८२॥
यत् यत् स्व-रूपम् मे तात मनसः गोचरम् तव । तद्-निष्ठः तत्परः भूत्वा तद्-अर्चन-परः भव ॥ १२।२८२॥
yat yat sva-rūpam me tāta manasaḥ gocaram tava . tad-niṣṭhaḥ tatparaḥ bhūtvā tad-arcana-paraḥ bhava .. 12.282..
यत्तु मे निष्कलं रूपं चिन्मात्रं केवलं शिवम् । सर्वोपाधिविनिर्मुक्तमनन्तममृतं परम् ॥ १२.२८३॥
यत् तु मे निष्कलम् रूपम् चित्-मात्रम् केवलम् शिवम् । सर्व-उपाधि-विनिर्मुक्तम् अनन्तम् अमृतम् परम् ॥ १२।२८३॥
yat tu me niṣkalam rūpam cit-mātram kevalam śivam . sarva-upādhi-vinirmuktam anantam amṛtam param .. 12.283..
ज्ञानेनैकेन तल्लभ्यं क्लेशेन परमं पदम् । ज्ञानमेव प्रपश्यन्तो मामेव प्रविशन्ति ते ॥ १२.२८४॥
ज्ञानेन एकेन तत् लभ्यम् क्लेशेन परमम् पदम् । ज्ञानम् एव प्रपश्यन्तः माम् एव प्रविशन्ति ते ॥ १२।२८४॥
jñānena ekena tat labhyam kleśena paramam padam . jñānam eva prapaśyantaḥ mām eva praviśanti te .. 12.284..
तद्बुद्धयस्तदात्मानस्तन्निष्ठास्तत्परायणाः । गच्छन्त्यपुनरावृत्तिं ज्ञाननिर्धूतकल्मषाः ॥ १२.२८५॥
तद्-बुद्धयः तद्-आत्मानः तद्-निष्ठाः तद्-परायणाः । गच्छन्ति अपुनरावृत्तिम् ज्ञान-निर्धूत-कल्मषाः ॥ १२।२८५॥
tad-buddhayaḥ tad-ātmānaḥ tad-niṣṭhāḥ tad-parāyaṇāḥ . gacchanti apunarāvṛttim jñāna-nirdhūta-kalmaṣāḥ .. 12.285..
मामनाश्रित्य परमं निर्वाणममलं पदम् । प्राप्यते न हि राजेन्द्र ततो मां शरणं व्रज ॥ १२.२८६॥
माम् अन् आश्रित्य परमम् निर्वाणम् अमलम् पदम् । प्राप्यते न हि राज-इन्द्र ततस् माम् शरणम् व्रज ॥ १२।२८६॥
mām an āśritya paramam nirvāṇam amalam padam . prāpyate na hi rāja-indra tatas mām śaraṇam vraja .. 12.286..
एकत्वेन पृथक्त्वेन तथा चोभयथापि वा । मामुपास्य महाराज ततो यास्यासि तत्पदम् ॥ १२.२८७॥
एकत्वेन पृथक्त्वेन तथा च उभयथा अपि वा । माम् उपास्य महा-राज ततस् यास्यासि तत् पदम् ॥ १२।२८७॥
ekatvena pṛthaktvena tathā ca ubhayathā api vā . mām upāsya mahā-rāja tatas yāsyāsi tat padam .. 12.287..
मामनाश्रित्य तत्तत्त्वं स्वभावविमलं शिवम् । ज्ञायते न हि राजेन्द्र ततो मां शरणं व्रज ॥ १२.२८८॥
माम् अन् आश्रित्य तत् तत्त्वम् स्वभाव-विमलम् शिवम् । ज्ञायते न हि राज-इन्द्र ततस् माम् शरणम् व्रज ॥ १२।२८८॥
mām an āśritya tat tattvam svabhāva-vimalam śivam . jñāyate na hi rāja-indra tatas mām śaraṇam vraja .. 12.288..
तस्मात् त्वमक्षरं रूपं नित्यं चारूपमैश्वरम् । आराधय प्रयत्नेन ततो बन्धं प्रहास्यसि ॥ १२.२८९॥
तस्मात् त्वम् अक्षरम् रूपम् नित्यम् च अरूपम् ऐश्वरम् । आराधय प्रयत्नेन ततस् बन्धम् प्रहास्यसि ॥ १२।२८९॥
tasmāt tvam akṣaram rūpam nityam ca arūpam aiśvaram . ārādhaya prayatnena tatas bandham prahāsyasi .. 12.289..
कर्मणा मनसा वाचा शिवं सर्वत्र सर्वदा । समाराधय भावेन ततो यास्यसि तत्पदम् ॥ १२.२९॥
कर्मणा मनसा वाचा शिवम् सर्वत्र सर्वदा । समाराधय भावेन ततस् यास्यसि तत् पदम् ॥ १२।२९॥
karmaṇā manasā vācā śivam sarvatra sarvadā . samārādhaya bhāvena tatas yāsyasi tat padam .. 12.29..
न वै पश्यन्ति तत्तत्त्वं मोहिता मम मायया । अनाद्यनन्तं परमं महेश्वरमजं शिवम् ॥ १२.२९१॥
न वै पश्यन्ति तत् तत्त्वम् मोहिताः मम मायया । अनादि-अनन्तम् परमम् महेश्वरम् अजम् शिवम् ॥ १२।२९१॥
na vai paśyanti tat tattvam mohitāḥ mama māyayā . anādi-anantam paramam maheśvaram ajam śivam .. 12.291..
सर्वभूतात्मभूतस्थं सर्वाधारं निरञ्जनम् । नित्यानन्दं निराभासं निर्गुणं तमसः परम् ॥ १२.२९२॥
सर्व-भूत-आत्म-भूत-स्थम् सर्व-आधारम् निरञ्जनम् । ॥ १२।२९२॥
sarva-bhūta-ātma-bhūta-stham sarva-ādhāram nirañjanam . .. 12.292..
अद्वैतमचलं ब्रह्म निष्कलं निष्प्रपञ्चकम् । स्वसंवेद्यमवेद्यं तत् परे व्योम्नि व्यवस्थितम् ॥ १२.२९३॥
अद्वैतम् अचलम् ब्रह्म निष्कलम् निष्प्रपञ्चकम् । स्व-संवेद्यम् अवेद्यम् तत् परे व्योम्नि व्यवस्थितम् ॥ १२।२९३॥
advaitam acalam brahma niṣkalam niṣprapañcakam . sva-saṃvedyam avedyam tat pare vyomni vyavasthitam .. 12.293..
सूक्ष्मेण तमसा नित्यं वेष्टिता मम मायया । संसारसागरे घोरे जायन्ते च पुनः पुनः ॥ १२.२९४॥
सूक्ष्मेण तमसा नित्यम् वेष्टिताः मम मायया । संसार-सागरे घोरे जायन्ते च पुनर् पुनर् ॥ १२।२९४॥
sūkṣmeṇa tamasā nityam veṣṭitāḥ mama māyayā . saṃsāra-sāgare ghore jāyante ca punar punar .. 12.294..
भक्त्या त्वनन्यया राजन् सम्यग् ज्ञानेन चैव हि । अन्वेष्टव्यं हि तद् ब्रह्म जन्मबन्धनिवृत्तये ॥ १२.२९५॥
भक्त्या तु अनन्यया राजन् सम्यक् ज्ञानेन च एव हि । अन्वेष्टव्यम् हि तत् ब्रह्म जन्म-बन्ध-निवृत्तये ॥ १२।२९५॥
bhaktyā tu ananyayā rājan samyak jñānena ca eva hi . anveṣṭavyam hi tat brahma janma-bandha-nivṛttaye .. 12.295..
अहंकारं च मात्सर्यं कामं क्रोधपरिग्रहम् । अधर्माभिनिवेशं च त्यक्त्वा वैराग्यमास्थितः ॥ १२.२९६॥
अहंकारम् च मात्सर्यम् कामम् क्रोध-परिग्रहम् । अधर्म-अभिनिवेशम् च त्यक्त्वा वैराग्यम् आस्थितः ॥ १२।२९६॥
ahaṃkāram ca mātsaryam kāmam krodha-parigraham . adharma-abhiniveśam ca tyaktvā vairāgyam āsthitaḥ .. 12.296..
सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि । अन्वीक्ष्य चात्मनात्मानं ब्रह्मभूयाय कल्पते ॥ १२.२९७॥
सर्व-भूतेषु च आत्मानम् सर्व-भूतानि च आत्मनि । अन्वीक्ष्य च आत्मना आत्मानम् ब्रह्म-भूयाय कल्पते ॥ १२।२९७॥
sarva-bhūteṣu ca ātmānam sarva-bhūtāni ca ātmani . anvīkṣya ca ātmanā ātmānam brahma-bhūyāya kalpate .. 12.297..
ब्रह्मभूतः प्रसन्नात्मा सर्वभूताभयप्रदः । ऐश्वरीं परमां भक्तिं विन्देतानन्यगामिनीम् ॥ १२.२९८॥
ब्रह्म-भूतः प्रसन्न-आत्मा सर्व-भूत-अभय-प्रदः । ऐश्वरीम् परमाम् भक्तिम् विन्देत अनन्य-गामिनीम् ॥ १२।२९८॥
brahma-bhūtaḥ prasanna-ātmā sarva-bhūta-abhaya-pradaḥ . aiśvarīm paramām bhaktim vindeta ananya-gāminīm .. 12.298..
वीक्षते तत्परं तत्त्वमैश्वरं ब्रह्मनिष्कलम् । सर्वसंसारनिर्मुक्तो ब्रह्मणेयवावतिष्ठते ॥ १२.२९९॥
वीक्षते तत् परम् तत्त्वम् ऐश्वरम् ब्रह्म-निष्कलम् । सर्व-संसार-निर्मुक्तः ब्रह्मणेयवा अवतिष्ठते ॥ १२।२९९॥
vīkṣate tat param tattvam aiśvaram brahma-niṣkalam . sarva-saṃsāra-nirmuktaḥ brahmaṇeyavā avatiṣṭhate .. 12.299..
ब्रह्मणो हि प्रतिष्ठाऽयं परस्य परमः शिवः । अनन्यश्चाव्ययस्चैकश्चात्माधारो महेश्वरः ॥ १२.३॥
ब्रह्मणः हि प्रतिष्ठा अयम् परस्य परमः शिवः । अनन्यः च अव्ययः च एकः च आत्म-आधारः महेश्वरः ॥ १२।३॥
brahmaṇaḥ hi pratiṣṭhā ayam parasya paramaḥ śivaḥ . ananyaḥ ca avyayaḥ ca ekaḥ ca ātma-ādhāraḥ maheśvaraḥ .. 12.3..
ज्ञानेन कर्मयोगेन भक्तियोगेन वा नृप । सर्वसंसारमुक्त्यर्थमीश्वरं शरणं व्रज॥ १२.३०१॥
ज्ञानेन कर्म-योगेन भक्ति-योगेन वा नृप । सर्व-संसार-मुक्ति-अर्थम् ईश्वरम् शरणम् व्रज॥ १२।३०१॥
jñānena karma-yogena bhakti-yogena vā nṛpa . sarva-saṃsāra-mukti-artham īśvaram śaraṇam vraja.. 12.301..
एष गुह्योपदेशस्ते मया दत्तो गिरीश्वर । अन्वीक्ष्य चैतदखिलं यथेष्टं कर्त्तुमर्हसि ॥ १२.३०२॥
एष गुह्य-उपदेशः ते मया दत्तः गिरीश्वर । अन्वीक्ष्य च एतत् अखिलम् यथा इष्टम् कर्त्तुम् अर्हसि ॥ १२।३०२॥
eṣa guhya-upadeśaḥ te mayā dattaḥ girīśvara . anvīkṣya ca etat akhilam yathā iṣṭam karttum arhasi .. 12.302..
अहं वै याचिता देवैः संजाता परमेश्वरात् । विनिन्द्य दक्षं पितरं महेश्वरविनिन्दकम् ॥ १२.३०३॥
अहम् वै याचिता देवैः संजाता परमेश्वरात् । विनिन्द्य दक्षम् पितरम् महेश्वर-विनिन्दकम् ॥ १२।३०३॥
aham vai yācitā devaiḥ saṃjātā parameśvarāt . vinindya dakṣam pitaram maheśvara-vinindakam .. 12.303..
धर्मसंस्थापनार्थाय तवाराधनकारणात् । मेनादेहसमुत्पन्ना त्वामेव पितरं श्रिता ॥ १२.३०४॥
धर्म-संस्थापन-अर्थाय तव आराधन-कारणात् । मेना-देह-समुत्पन्ना त्वाम् एव पितरम् श्रिता ॥ १२।३०४॥
dharma-saṃsthāpana-arthāya tava ārādhana-kāraṇāt . menā-deha-samutpannā tvām eva pitaram śritā .. 12.304..
स त्वं नियोगाद्देवस्य ब्रह्मणः परमात्मनः । प्रिदास्यसे मां रुद्राय स्वयंवरसमागमे ॥ १२.३०५॥
स त्वम् नियोगात् देवस्य ब्रह्मणः परमात्मनः । माम् रुद्राय स्वयंवर-समागमे ॥ १२।३०५॥
sa tvam niyogāt devasya brahmaṇaḥ paramātmanaḥ . mām rudrāya svayaṃvara-samāgame .. 12.305..
तत्संबन्धाच्च ते राजन् सर्वे देवाः सवासवाः । त्वां नमस्यन्ति वै तात प्रसीदति च शंकरः ॥ १२.३०६॥
तद्-संबन्धात् च ते राजन् सर्वे देवाः स वासवाः । त्वाम् नमस्यन्ति वै तात प्रसीदति च शंकरः ॥ १२।३०६॥
tad-saṃbandhāt ca te rājan sarve devāḥ sa vāsavāḥ . tvām namasyanti vai tāta prasīdati ca śaṃkaraḥ .. 12.306..
तस्मात्सर्वप्रयत्नेन मां विद्धीश्वरगोचराम् । संपूज्य देवमीशानं शरण्यं शरणं व्रज ॥ १२.३०७॥
तस्मात् सर्व-प्रयत्नेन माम् विद्धि ईश्वर-गोचराम् । संपूज्य देवम् ईशानम् शरण्यम् शरणम् व्रज ॥ १२।३०७॥
tasmāt sarva-prayatnena mām viddhi īśvara-gocarām . saṃpūjya devam īśānam śaraṇyam śaraṇam vraja .. 12.307..
स एवमुक्तो भगवान् देवदेव्या गिरीश्वरः । प्रणम्य शिरसा देवीं प्राञ्जलिः पुनरब्रवीत् ॥ १२.३०८॥
सः एवम् उक्तः भगवान् देवदेव्या गिरीश्वरः । प्रणम्य शिरसा देवीम् प्राञ्जलिः पुनर् अब्रवीत् ॥ १२।३०८॥
saḥ evam uktaḥ bhagavān devadevyā girīśvaraḥ . praṇamya śirasā devīm prāñjaliḥ punar abravīt .. 12.308..
विस्तरेण महेशानि योगं माहेश्वरं परम् । ज्ञानं वै चात्मनो योगं साधनानि प्रचक्ष्व मे ॥ १२.३०९॥
विस्तरेण महेशानि योगम् माहेश्वरम् परम् । ज्ञानम् वै च आत्मनः योगम् साधनानि प्रचक्ष्व मे ॥ १२।३०९॥
vistareṇa maheśāni yogam māheśvaram param . jñānam vai ca ātmanaḥ yogam sādhanāni pracakṣva me .. 12.309..
तस्यैतत् परमं ज्ञानमात्मयोगमुत्तमम् । यथावद् व्याजहारेशासाधनानिच विस्तरात् ॥ १२.३१॥
तस्य एतत् परमम् ज्ञानम् आत्म-योगम् उत्तमम् । यथावत् व्याजहार ईशा-साधनानि च विस्तरात् ॥ १२।३१॥
tasya etat paramam jñānam ātma-yogam uttamam . yathāvat vyājahāra īśā-sādhanāni ca vistarāt .. 12.31..
निशम्य वदनाम्भोजाद् गिरीन्द्रो लोकपूजितः । लोकमातुः परं ज्ञानं योगासक्तोऽभवत्पुनः ॥ १२.३११॥
निशम्य वदन-अम्भोजात् गिरीन्द्रः लोक-पूजितः । लोकमातुः परम् ज्ञानम् योग-आसक्तः अभवत् पुनर् ॥ १२।३११॥
niśamya vadana-ambhojāt girīndraḥ loka-pūjitaḥ . lokamātuḥ param jñānam yoga-āsaktaḥ abhavat punar .. 12.311..
प्रददौ च महेशाय पार्वतीं भाग्यगौरवात् । नियोगाद्ब्रह्मणः साध्वीं देवानां चैव संनिधौ ॥ १२.३१२॥
प्रददौ च महेशाय पार्वतीम् भाग्य-गौरवात् । नियोगात् ब्रह्मणः साध्वीम् देवानाम् च एव संनिधौ ॥ १२।३१२॥
pradadau ca maheśāya pārvatīm bhāgya-gauravāt . niyogāt brahmaṇaḥ sādhvīm devānām ca eva saṃnidhau .. 12.312..
य इमं पठतेऽध्यायं देव्या माहात्म्यकीर्तनम् । शिवस्य संनिधौ भक्त्या सुचिस्तद्भावभावितः ॥ १२.३१३॥
यः इमम् पठते अध्यायम् देव्याः माहात्म्य-कीर्तनम् । शिवस्य संनिधौ भक्त्या सुचिः तद्-भाव-भावितः ॥ १२।३१३॥
yaḥ imam paṭhate adhyāyam devyāḥ māhātmya-kīrtanam . śivasya saṃnidhau bhaktyā suciḥ tad-bhāva-bhāvitaḥ .. 12.313..
सर्वपापविनिर्मुक्तो दिव्ययोगसमन्वितः । उल्लङ्घ्य ब्रह्मणो लोकं देव्याः स्थानमवाप्नुयात् ॥ १२.३१४॥
सर्व-पाप-विनिर्मुक्तः दिव्य-योग-समन्वितः । उल्लङ्घ्य ब्रह्मणः लोकम् देव्याः स्थानम् अवाप्नुयात् ॥ १२।३१४॥
sarva-pāpa-vinirmuktaḥ divya-yoga-samanvitaḥ . ullaṅghya brahmaṇaḥ lokam devyāḥ sthānam avāpnuyāt .. 12.314..
यश्चैतत् पठति स्तोत्रं ब्राह्मणानां समीपतः । समाहितमनाः सोऽपि सर्वपापैः प्रमुच्यते ॥ १२.३१५॥
यः च एतत् पठति स्तोत्रम् ब्राह्मणानाम् समीपतस् । समाहित-मनाः सः अपि सर्व-पापैः प्रमुच्यते ॥ १२।३१५॥
yaḥ ca etat paṭhati stotram brāhmaṇānām samīpatas . samāhita-manāḥ saḥ api sarva-pāpaiḥ pramucyate .. 12.315..
नाम्नामष्टसहस्रं तु देव्या यत् समुदीरितम् । ज्ञात्वाऽर्कमण्डलगतां संभाव्य परमेश्वरीम् ॥ १२.३१६॥
नाम्नाम् अष्ट-सहस्रम् तु देव्याः यत् समुदीरितम् । ज्ञात्वा अर्क-मण्डल-गताम् संभाव्य परमेश्वरीम् ॥ १२।३१६॥
nāmnām aṣṭa-sahasram tu devyāḥ yat samudīritam . jñātvā arka-maṇḍala-gatām saṃbhāvya parameśvarīm .. 12.316..
अभ्यर्च्य गन्धपुष्पाद्यैर्भक्तियोगसमन्वितः । संस्मरन्परमं भावं देव्या माहेश्वरं परम् ॥ १२.३१७॥
अभ्यर्च्य गन्ध-पुष्प-आद्यैः भक्ति-योग-समन्वितः । संस्मरन् परमम् भावम् देव्याः माहेश्वरम् परम् ॥ १२।३१७॥
abhyarcya gandha-puṣpa-ādyaiḥ bhakti-yoga-samanvitaḥ . saṃsmaran paramam bhāvam devyāḥ māheśvaram param .. 12.317..
अनन्यमानसो नित्यं जपेदामरणाद् द्विजः । सोऽन्तकाले स्मृतिं लब्ध्वा परं ब्रह्माधिगच्छति ॥ १२.३१८॥
अन् अन्य-मानसः नित्यम् जपेत् आमरणात् द्विजः । सः अन्त-काले स्मृतिम् लब्ध्वा परम् ब्रह्म अधिगच्छति ॥ १२।३१८॥
an anya-mānasaḥ nityam japet āmaraṇāt dvijaḥ . saḥ anta-kāle smṛtim labdhvā param brahma adhigacchati .. 12.318..
अथवा जायते विप्रो ब्राह्मणानां कुले शुचौ । पूर्वसंस्कारमाहात्म्याद् ब्रह्मविद्यामवाप्नुयात् ॥ १२.३१९॥
अथवा जायते विप्रः ब्राह्मणानाम् कुले शुचौ । पूर्व-संस्कार-माहात्म्यात् ब्रह्म-विद्याम् अवाप्नुयात् ॥ १२।३१९॥
athavā jāyate vipraḥ brāhmaṇānām kule śucau . pūrva-saṃskāra-māhātmyāt brahma-vidyām avāpnuyāt .. 12.319..
संप्राप्य योगं परमं दिव्यं तत् पारमेश्वरम् । शान्तः सर्वगातो भूत्वा शिवसायुज्यमाप्नुयात् ॥ १२.३२॥
संप्राप्य योगम् परमम् दिव्यम् तत् पारमेश्वरम् । शान्तः सर्व-गातः भूत्वा शिव-सायुज्यम् आप्नुयात् ॥ १२।३२॥
saṃprāpya yogam paramam divyam tat pārameśvaram . śāntaḥ sarva-gātaḥ bhūtvā śiva-sāyujyam āpnuyāt .. 12.32..
प्रत्येकं चाथ नामानि जुहुयात् सवनत्रयम् । पूतनादिकृतैर्दोषैर्ग्रहदोषैश्च मुच्यते ॥ १२.३२१॥
प्रत्येकम् च अथ नामानि जुहुयात् सवन-त्रयम् । पूतना-आदि-कृतैः दोषैः ग्रह-दोषैः च मुच्यते ॥ १२।३२१॥
pratyekam ca atha nāmāni juhuyāt savana-trayam . pūtanā-ādi-kṛtaiḥ doṣaiḥ graha-doṣaiḥ ca mucyate .. 12.321..
जपेद् वाऽहरहर्नित्यं संवत्सरमतन्द्रितः । श्रीकामः पार्वतीं देवीं पूजयित्वा विधानतः ॥ १२.३२२॥
जपेत् वा अहरहर् नित्यम् संवत्सरम् अतन्द्रितः । श्री-कामः पार्वतीम् देवीम् पूजयित्वा विधानतः ॥ १२।३२२॥
japet vā aharahar nityam saṃvatsaram atandritaḥ . śrī-kāmaḥ pārvatīm devīm pūjayitvā vidhānataḥ .. 12.322..
संपूज्य पार्श्वतः शंभुं त्रिनेत्रं भक्तिसंयुतः । लभते महतीं लक्ष्मीं महादेवप्रसादतः ॥ १२.३२३॥
संपूज्य पार्श्वतस् शंभुम् त्रिनेत्रम् भक्ति-संयुतः । लभते महतीम् लक्ष्मीम् महादेव-प्रसादतः ॥ १२।३२३॥
saṃpūjya pārśvatas śaṃbhum trinetram bhakti-saṃyutaḥ . labhate mahatīm lakṣmīm mahādeva-prasādataḥ .. 12.323..
तस्मात् सर्वप्रयत्नेन जप्तव्यं हि द्विजातिभिः । सर्वपापापनोदार्थं देव्या नाम सहस्त्रकम् ॥ १२.३२४॥
तस्मात् सर्व-प्रयत्नेन जप्तव्यम् हि द्विजातिभिः । सर्व-पाप-अपनोद-अर्थम् देव्याः नाम सहस्त्रकम् ॥ १२।३२४॥
tasmāt sarva-prayatnena japtavyam hi dvijātibhiḥ . sarva-pāpa-apanoda-artham devyāḥ nāma sahastrakam .. 12.324..
प्रसङ्गात् कथितं विप्रा देव्या माहात्म्यमुत्तमम् । अतः परं प्रजासर्गं भृग्वादीनां निबोधत ॥ १२.३२५॥
प्रसङ्गात् कथितम् विप्राः देव्याः माहात्म्यम् उत्तमम् । अतस् परम् प्रजा-सर्गम् भृगु-आदीनाम् निबोधत ॥ १२।३२५॥
prasaṅgāt kathitam viprāḥ devyāḥ māhātmyam uttamam . atas param prajā-sargam bhṛgu-ādīnām nibodhata .. 12.325..
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे द्वादशोऽध्यायः ॥ १२॥
इति श्री-कूर्मपुराणे षट्साहस्त्र्याम् संहितायाम् पूर्व-विभागे द्वादशः अध्यायः ॥ १२॥
iti śrī-kūrmapurāṇe ṣaṭsāhastryām saṃhitāyām pūrva-vibhāge dvādaśaḥ adhyāyaḥ .. 12..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In