| |
|

This overlay will guide you through the buttons:

भृगोः ख्यात्यां समुत्पन्ना लक्ष्मीर्नारायणप्रिया । देवौ धाताविधातारौ मेरोर्जामातरौ शुभौ ॥ १३.१॥
भृगोः ख्यात्याम् समुत्पन्ना लक्ष्मीः नारायण-प्रिया । देवौ धाताविधातारौ मेरोः जामातरौ शुभौ ॥ १३।१॥
bhṛgoḥ khyātyām samutpannā lakṣmīḥ nārāyaṇa-priyā . devau dhātāvidhātārau meroḥ jāmātarau śubhau .. 13.1..
आयतिर्नियतिश्चैव र्मेरोः कन्ये महात्मनः । धाताविधात्रोस्ते भार्य्ये तयोर्जातौ सुतावुभौ ॥ १३.२॥
आयतिः नियतिः च एव र्मेरोः कन्ये महात्मनः । धाताविधात्रोः ते भार्ये तयोः जातौ सुतौ उभौ ॥ १३।२॥
āyatiḥ niyatiḥ ca eva rmeroḥ kanye mahātmanaḥ . dhātāvidhātroḥ te bhārye tayoḥ jātau sutau ubhau .. 13.2..
प्राणश्चैव मृकण्डुश्च मार्कण्डेयो मृकण्डुतः । तथा वेदशिरा नाम प्राणस्य द्युतिमान् सुतः ॥ १३.३॥
प्राणः च एव मृकण्डुः च मार्कण्डेयः मृकण्डुतः । तथा वेदशिराः नाम प्राणस्य द्युतिमान् सुतः ॥ १३।३॥
prāṇaḥ ca eva mṛkaṇḍuḥ ca mārkaṇḍeyaḥ mṛkaṇḍutaḥ . tathā vedaśirāḥ nāma prāṇasya dyutimān sutaḥ .. 13.3..
मरीचेरपि संभूतिः पौर्णमासमसूयत । कन्याचतुष्टयं चैव सर्वलक्षणसंयुतम् ॥ १३.४॥
मरीचेः अपि संभूतिः पौर्णमासम् असूयत । कन्या-चतुष्टयम् च एव सर्व-लक्षण-संयुतम् ॥ १३।४॥
marīceḥ api saṃbhūtiḥ paurṇamāsam asūyata . kanyā-catuṣṭayam ca eva sarva-lakṣaṇa-saṃyutam .. 13.4..
तुष्टिर्ज्येष्ठा तथा वृष्टिः कृष्टिश्चापचितिस्तथा । विरजाः पर्वश्चैव पौर्णमासस्य तौ सुतौ ॥ १३.५॥
तुष्टिः ज्येष्ठा तथा वृष्टिः कृष्टिः च अपचितिः तथा । विरजाः पर्वः च एव पौर्णमासस्य तौ सुतौ ॥ १३।५॥
tuṣṭiḥ jyeṣṭhā tathā vṛṣṭiḥ kṛṣṭiḥ ca apacitiḥ tathā . virajāḥ parvaḥ ca eva paurṇamāsasya tau sutau .. 13.5..
क्षमा तु सुषुवे पुत्रान् पुलहस्य प्रजापतेः । कर्दमं च वरीयांसं सहिष्णुं मुनिसत्तमम् ॥ १३.६॥
क्षमा तु सुषुवे पुत्रान् पुलहस्य प्रजापतेः । कर्दमम् च वरीयांसम् सहिष्णुम् मुनि-सत्तमम् ॥ १३।६॥
kṣamā tu suṣuve putrān pulahasya prajāpateḥ . kardamam ca varīyāṃsam sahiṣṇum muni-sattamam .. 13.6..
तथैव च कनीयासं तपोनिर्द्धूतकल्पषम् । अनसूया तथैवात्रेर्जज्ञे पुत्रानकल्पषान् ॥ १३.७॥
तथा एव च कनीयासम् तपः-निर्द्धूत-कल्पषम् । अनसूया तथा एव अत्रेः जज्ञे पुत्रान् अकल्पषान् ॥ १३।७॥
tathā eva ca kanīyāsam tapaḥ-nirddhūta-kalpaṣam . anasūyā tathā eva atreḥ jajñe putrān akalpaṣān .. 13.7..
सोमं दुर्वाससं चैव दत्तात्रेयं च योगिनम् । स्मृतिश्चाङ्गिरसः पुत्रीर्जज्ञे लक्षणसंयुताः ॥ १३.८॥
सोमम् दुर्वाससम् च एव दत्तात्रेयम् च योगिनम् । स्मृतिः च अङ्गिरसः पुत्रीः जज्ञे लक्षण-संयुताः ॥ १३।८॥
somam durvāsasam ca eva dattātreyam ca yoginam . smṛtiḥ ca aṅgirasaḥ putrīḥ jajñe lakṣaṇa-saṃyutāḥ .. 13.8..
सिनीवालीं कुहूं चैव राकामनुमतीमपि । प्रीत्यां पुलस्त्यो भगवान् दम्भोजिमसृजत् प्रभुः ॥ १३.९॥
सिनीवालीम् कुहूम् च एव राकाम् अनुमतीम् अपि । प्रीत्याम् पुलस्त्यः भगवान् दम्भोजिम् असृजत् प्रभुः ॥ १३।९॥
sinīvālīm kuhūm ca eva rākām anumatīm api . prītyām pulastyaḥ bhagavān dambhojim asṛjat prabhuḥ .. 13.9..
पूर्वजन्मनि सोऽगस्त्यः स्मृतः स्वायंभुवेऽन्तरे । वेदबाहुस्तथा कन्या सन्नति नाम नामतः ॥ १३.१॥
पूर्व-जन्मनि सः अगस्त्यः स्मृतः स्वायंभुवे अन्तरे । वेदबाहुः तथा कन्या सन्नति नाम नामतः ॥ १३।१॥
pūrva-janmani saḥ agastyaḥ smṛtaḥ svāyaṃbhuve antare . vedabāhuḥ tathā kanyā sannati nāma nāmataḥ .. 13.1..
पुत्राणां षष्टिसाहस्त्रं संततिः सुषुवे क्रतोः । ते चोर्ध्वरेतसः सर्वे वालखिल्या इति स्मृताः ॥ १३.११॥
पुत्राणाम् षष्टि-साहस्त्रम् संततिः सुषुवे क्रतोः । ते च ऊर्ध्वरेतसः सर्वे वालखिल्याः इति स्मृताः ॥ १३।११॥
putrāṇām ṣaṣṭi-sāhastram saṃtatiḥ suṣuve kratoḥ . te ca ūrdhvaretasaḥ sarve vālakhilyāḥ iti smṛtāḥ .. 13.11..
वसिष्ठश्च तथोर्ज्जायां सप्तपुत्रानजीजनत् । कन्यां च पुण्डरीकाक्षां सर्वेशोभासमन्विताम् ॥ १३.१२॥
वसिष्ठः च सप्त-पुत्रान् अजीजनत् । कन्याम् च पुण्डरीकाक्षाम् सर्व-ईश-उभा-समन्विताम् ॥ १३।१२॥
vasiṣṭhaḥ ca sapta-putrān ajījanat . kanyām ca puṇḍarīkākṣām sarva-īśa-ubhā-samanvitām .. 13.12..
रजोमात्रोर्द्ध्वबाहुश्च सवनश्चानगस्तथा । *सुतपाः शुक्र इत्येते सप्त पुत्रा महौजसः ॥ १३.१३॥
रजोमात्र-ऊर्द्ध्वबाहुः च सवनः च अनगः तथा । सुतपाः शुक्रः इति एते सप्त पुत्राः महा-ओजसः ॥ १३।१३॥
rajomātra-ūrddhvabāhuḥ ca savanaḥ ca anagaḥ tathā . sutapāḥ śukraḥ iti ete sapta putrāḥ mahā-ojasaḥ .. 13.13..
योऽसौ रुद्रात्मको वह्निर्ब्रह्मणस्तनयो द्विजाः । स्वाहा तस्मात् सुतान् लेभे त्रीनुदारान् महौजसः ॥ १३.१४॥
यः असौ रुद्र-आत्मकः वह्निः ब्रह्मणः तनयः द्विजाः । स्वाहा तस्मात् सुतान् लेभे त्रीन् उदारान् महा-ओजसः ॥ १३।१४॥
yaḥ asau rudra-ātmakaḥ vahniḥ brahmaṇaḥ tanayaḥ dvijāḥ . svāhā tasmāt sutān lebhe trīn udārān mahā-ojasaḥ .. 13.14..
पावकः पवमानश्च शुचिरग्निश्च ते त्रयः । निर्मथ्यः पवमानः स्याद् वैद्युतः पावकः स्मृतः ॥ १३.१५॥
पावकः पवमानः च शुचिः अग्निः च ते त्रयः । निर्मथ्यः पवमानः स्यात् वैद्युतः पावकः स्मृतः ॥ १३।१५॥
pāvakaḥ pavamānaḥ ca śuciḥ agniḥ ca te trayaḥ . nirmathyaḥ pavamānaḥ syāt vaidyutaḥ pāvakaḥ smṛtaḥ .. 13.15..
यश्चासौ तपते सूर्यः शुचिरग्निस्त्वसौ स्मृतः । तेषां तु संततावन्ये चत्वारिंशच्च पञ्च च ॥ १३.१६॥
यः च असौ तपते सूर्यः शुचिः अग्निः तु असौ स्मृतः । तेषाम् तु संततौ अन्ये चत्वारिंशत् च पञ्च च ॥ १३।१६॥
yaḥ ca asau tapate sūryaḥ śuciḥ agniḥ tu asau smṛtaḥ . teṣām tu saṃtatau anye catvāriṃśat ca pañca ca .. 13.16..
पावकः पवमानश्च शुचिस्तेषां पिता च यः । एते चैकोनपञ्चाशद् वह्नयः परिकीर्तिताः ॥ १३.१७॥
पावकः पवमानः च शुचिः तेषाम् पिता च यः । एते च एकोनपञ्चाशत् वह्नयः परिकीर्तिताः ॥ १३।१७॥
pāvakaḥ pavamānaḥ ca śuciḥ teṣām pitā ca yaḥ . ete ca ekonapañcāśat vahnayaḥ parikīrtitāḥ .. 13.17..
सर्वे तपस्विनः प्रोक्ताः सर्वे यज्ञेषु भागिनः । रुद्रात्मकाः स्मृताः सर्वे त्रिपुण्ड्राङ्कितमस्तकाः ॥ १३.१८॥
सर्वे तपस्विनः प्रोक्ताः सर्वे यज्ञेषु भागिनः । रुद्र-आत्मकाः स्मृताः सर्वे त्रिपुण्ड्र-अङ्कित-मस्तकाः ॥ १३।१८॥
sarve tapasvinaḥ proktāḥ sarve yajñeṣu bhāginaḥ . rudra-ātmakāḥ smṛtāḥ sarve tripuṇḍra-aṅkita-mastakāḥ .. 13.18..
अयज्वानश्च यज्वानः पितरो ब्रह्मणः सुताः । अग्निष्वात्ता बर्हिषदो द्विधा तेषां व्यवस्थितिः ॥ १३.१९॥
अयज्वानः च यज्वानः पितरः ब्रह्मणः सुताः । अग्निष्वात्ताः बर्हिषदः द्विधा तेषाम् व्यवस्थितिः ॥ १३।१९॥
ayajvānaḥ ca yajvānaḥ pitaraḥ brahmaṇaḥ sutāḥ . agniṣvāttāḥ barhiṣadaḥ dvidhā teṣām vyavasthitiḥ .. 13.19..
तेभ्यः स्वधा सुतां जज्ञे मेनां वैतरणीं तथा । ते उभे ब्रह्मवादिन्यौ योगिन्यौ मुनिसत्तमाः ॥ १३.२॥
तेभ्यः स्वधा सुताम् जज्ञे मेनाम् वैतरणीम् तथा । ते उभे ब्रह्म-वादिन्यौ योगिन्यौ मुनि-सत्तमाः ॥ १३।२॥
tebhyaḥ svadhā sutām jajñe menām vaitaraṇīm tathā . te ubhe brahma-vādinyau yoginyau muni-sattamāḥ .. 13.2..
असूत मेना मैनाकं क्रौञ्चं तस्यानुजस्तथा । गङ्गा हिमवतो जज्ञे सर्वलोकैकपावनी ॥ १३.२१॥
असूत मेना मैनाकम् क्रौञ्चम् तस्य अनुजः तथा । गङ्गा हिमवतः जज्ञे सर्व-लोक-एक-पावनी ॥ १३।२१॥
asūta menā mainākam krauñcam tasya anujaḥ tathā . gaṅgā himavataḥ jajñe sarva-loka-eka-pāvanī .. 13.21..
स्वयोगाग्निबलाद् देवीं पुत्रीं लेभे महेश्वरीं । यथावत् कथितं पूर्वं देव्या माहात्म्यमुत्तमम् ॥ १३.२२॥
स्व-योग-अग्नि-बलात् देवीम् पुत्रीम् लेभे महेश्वरीम् । यथावत् कथितम् पूर्वम् देव्याः माहात्म्यम् उत्तमम् ॥ १३।२२॥
sva-yoga-agni-balāt devīm putrīm lebhe maheśvarīm . yathāvat kathitam pūrvam devyāḥ māhātmyam uttamam .. 13.22..
धारिणी मेरुराजस्य पत्नी पद्मसमानना। देवौ दाताविधातारौ मेरोर्जामातरावुभौ॥ १३.२३॥
धारिणी मेरु-राजस्य पत्नी पद्म-सम-आनना। देवौ दाताविधातारौ मेरोः जामातरौ उभौ॥ १३।२३॥
dhāriṇī meru-rājasya patnī padma-sama-ānanā. devau dātāvidhātārau meroḥ jāmātarau ubhau.. 13.23..
एषा दक्षस्य कन्यानां मय़पत्यानुसंततिः । व्याख्याता भवतामद्य मनोः सृष्टिं निबोधत ॥ १३.२४॥
एषा दक्षस्य कन्यानाम् । व्याख्याता भवताम् अद्य मनोः सृष्टिम् निबोधत ॥ १३।२४॥
eṣā dakṣasya kanyānām . vyākhyātā bhavatām adya manoḥ sṛṣṭim nibodhata .. 13.24..
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे त्रयोद्दशोऽध्यायः। ॥ ॥
इति श्री-कूर्मपुराणे षट्साहस्त्र्याम् संहितायाम् पूर्व-विभागे त्रयोद्दशः अध्यायः। ॥ ॥
iti śrī-kūrmapurāṇe ṣaṭsāhastryām saṃhitāyām pūrva-vibhāge trayoddaśaḥ adhyāyaḥ. .. ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In