| |
|

This overlay will guide you through the buttons:

अथ दक्षयज्ञविध्वंसनम्।। नैमिषेया ऊचुः ।
देवानां दानवानां च गन्धर्वोरगरक्षसाम् । उत्पत्तिं विस्तरात् ब्रूहि सूत वैवस्वतेऽन्तरे ॥ १५.१॥
देवानाम् दानवानाम् च गन्धर्व-उरग-रक्षसाम् । उत्पत्तिम् विस्तरात् ब्रूहि सूत वैवस्वते अन्तरे ॥ १५।१॥
devānām dānavānām ca gandharva-uraga-rakṣasām . utpattim vistarāt brūhi sūta vaivasvate antare .. 15.1..
स शप्तः शंभुना पूर्वं दक्षः प्राचेतसो नृपः । किमकार्षोन्महाबुद्धे श्रोतुमिच्छाम सांप्रतम् ॥ १५.२॥
स शप्तः शंभुना पूर्वम् दक्षः प्राचेतसः नृपः । किम् अकार्षोत् महाबुद्धे श्रोतुम् इच्छाम सांप्रतम् ॥ १५।२॥
sa śaptaḥ śaṃbhunā pūrvam dakṣaḥ prācetasaḥ nṛpaḥ . kim akārṣot mahābuddhe śrotum icchāma sāṃpratam .. 15.2..
सूत उवाच ।
वक्ष्ये नारायणेनोक्तं पूर्वकल्पानुषङ्गिकम् । त्रिकालबद्धं पापघ्नं प्रजासर्गस्य विस्तरम् ॥ १५.३॥
वक्ष्ये नारायणेन उक्तम् पूर्व-कल्प-आनुषङ्गिकम् । त्रि-काल-बद्धम् पाप-घ्नम् प्रजा-सर्गस्य विस्तरम् ॥ १५।३॥
vakṣye nārāyaṇena uktam pūrva-kalpa-ānuṣaṅgikam . tri-kāla-baddham pāpa-ghnam prajā-sargasya vistaram .. 15.3..
स शप्तः शंभुना पूर्वं दक्षः प्राचेतसो नृपः । विनिन्द्य पूर्ववैरेण गङ्गाद्वरेऽयजद् भवम् ॥ १५.४॥
स शप्तः शंभुना पूर्वम् दक्षः प्राचेतसः नृपः । विनिन्द्य पूर्व-वैरेण गङ्गाद्वरे अयजत् भवम् ॥ १५।४॥
sa śaptaḥ śaṃbhunā pūrvam dakṣaḥ prācetasaḥ nṛpaḥ . vinindya pūrva-vaireṇa gaṅgādvare ayajat bhavam .. 15.4..
देवाश्च सर्वे भागार्थमाहूता विष्णुना सह । सहैव मुनिभिः सर्वैरागता मुनिपुंगवाः ॥ १५.५॥
देवाः च सर्वे भाग-अर्थम् आहूताः विष्णुना सह । सह एव मुनिभिः सर्वैः आगताः मुनि-पुंगवाः ॥ १५।५॥
devāḥ ca sarve bhāga-artham āhūtāḥ viṣṇunā saha . saha eva munibhiḥ sarvaiḥ āgatāḥ muni-puṃgavāḥ .. 15.5..
दृष्ट्वा देवकुलं कृत्स्नं शंकरेण विनागतम् । दधीचो नाम विप्रर्षिः प्राचेतसमथाब्रवीत् ॥ १५.६॥
दृष्ट्वा देवकुलम् कृत्स्नम् शंकरेण विना आगतम् । दधीचः नाम विप्रर्षिः प्राचेतसम् अथ अब्रवीत् ॥ १५।६॥
dṛṣṭvā devakulam kṛtsnam śaṃkareṇa vinā āgatam . dadhīcaḥ nāma viprarṣiḥ prācetasam atha abravīt .. 15.6..
दधीच उवाच ।
ब्रह्माद्यस्तु पिशाचान्ता यस्याज्ञानुविधायिनः । स देवः सांप्रतं रुद्रो विधिना किं न पूज्यते ॥ १५.७॥
ब्रह्म-आद्यः तु पिशाच-अन्ताः यस्य आज्ञा-अनुविधायिनः । स देवः सांप्रतम् रुद्रः विधिना किम् न पूज्यते ॥ १५।७॥
brahma-ādyaḥ tu piśāca-antāḥ yasya ājñā-anuvidhāyinaḥ . sa devaḥ sāṃpratam rudraḥ vidhinā kim na pūjyate .. 15.7..
दक्ष उवाच ।
सर्वेष्वेव हि यज्ञेषु न भागः परिकल्पितः । न मन्त्रा भार्यया सार्द्धं शंकरस्येति नेज्यते ॥ १५.८॥
सर्वेषु एव हि यज्ञेषु न भागः परिकल्पितः । न मन्त्राः भार्यया सार्द्धम् शंकरस्य इति न इज्यते ॥ १५।८॥
sarveṣu eva hi yajñeṣu na bhāgaḥ parikalpitaḥ . na mantrāḥ bhāryayā sārddham śaṃkarasya iti na ijyate .. 15.8..
विहस्य दक्षं कुपितो वचः प्राह महामुनिः । श्रृण्वतां सर्वदेवानां सर्वज्ञानमयः स्वयम् ॥ १५.९॥
विहस्य दक्षम् कुपितः वचः प्राह महा-मुनिः । श्रृण्वताम् सर्व-देवानाम् सर्व-ज्ञान-मयः स्वयम् ॥ १५।९॥
vihasya dakṣam kupitaḥ vacaḥ prāha mahā-muniḥ . śrṛṇvatām sarva-devānām sarva-jñāna-mayaḥ svayam .. 15.9..
दधीच उवाच ।
यतः प्रवृत्तिर्विश्वात्मा यश्चास्य परमेश्वरः । संपूज्यते सर्वयज्ञैर्विदित्वा किन्न शंकरः ॥ १५.१॥
यतस् प्रवृत्तिः विश्वात्मा यः च अस्य परमेश्वरः । संपूज्यते सर्व-यज्ञैः विदित्वा किम् न शंकरः ॥ १५।१॥
yatas pravṛttiḥ viśvātmā yaḥ ca asya parameśvaraḥ . saṃpūjyate sarva-yajñaiḥ viditvā kim na śaṃkaraḥ .. 15.1..
न ह्यं शंकरो रुद्रः संहर्त्ता तामसो हरः । नग्नः कपाली विदितो विश्वात्मा नोपपद्यते ॥ १५.११॥
न शंकरः रुद्रः संहर्त्ता तामसः हरः । नग्नः कपाली विदितः विश्वात्मा न उपपद्यते ॥ १५।११॥
na śaṃkaraḥ rudraḥ saṃharttā tāmasaḥ haraḥ . nagnaḥ kapālī viditaḥ viśvātmā na upapadyate .. 15.11..
ईश्वरो हि जगत्स्रष्टा प्रभुर्नारायणः स्वराट् । सत्त्वात्मकोऽसौ भगवानिज्यते सर्वकर्मसु ॥ १५.१२॥
ईश्वरः हि जगत्स्रष्टा प्रभुः नारायणः स्वराज् । सत्त्व-आत्मकः असौ भगवान् इज्यते सर्व-कर्मसु ॥ १५।१२॥
īśvaraḥ hi jagatsraṣṭā prabhuḥ nārāyaṇaḥ svarāj . sattva-ātmakaḥ asau bhagavān ijyate sarva-karmasu .. 15.12..
दधीच उवाच ।
किं त्वया भगवानेष सहस्त्रांशुर्न दृश्यते । सर्वलोकैकसंहर्त्ता कालात्मा परमेश्वरः ॥ १५.१३॥
किम् त्वया भगवान् एष सहस्त्रांशुः न दृश्यते । ॥ १५।१३॥
kim tvayā bhagavān eṣa sahastrāṃśuḥ na dṛśyate . .. 15.13..
यं गृणन्तीह विद्वांसो धार्मिका ब्रह्मवादिनः । सोऽयं साक्षी तीव्ररोचिः कालात्मा शांकरीतनुः ॥ १५.१४॥
यम् गृणन्ति इह विद्वांसः धार्मिकाः ब्रह्म-वादिनः । सः अयम् साक्षी तीव्र-रोचिः काल-आत्मा शांकरी-तनुः ॥ १५।१४॥
yam gṛṇanti iha vidvāṃsaḥ dhārmikāḥ brahma-vādinaḥ . saḥ ayam sākṣī tīvra-rociḥ kāla-ātmā śāṃkarī-tanuḥ .. 15.14..
एष रुद्रो महादेवः कपर्दो च घृणी हरः । आदित्यो भगवान् सूर्यो नीलग्रीवो विलोहितः ॥ १५.१५॥
एष रुद्रः महादेवः च घृणी हरः । आदित्यः भगवान् सूर्यः नीलग्रीवः विलोहितः ॥ १५।१५॥
eṣa rudraḥ mahādevaḥ ca ghṛṇī haraḥ . ādityaḥ bhagavān sūryaḥ nīlagrīvaḥ vilohitaḥ .. 15.15..
संस्तूयते सहस्रांशुः सामगाध्वर्युहोतृभिः । पश्यैनं विश्वकर्माणं रुद्रमूर्ति त्रयीमयम् ॥ १५.१६॥
संस्तूयते सहस्रांशुः सामग-अध्वर्यु-होतृभिः । पश्य एनम् विश्वकर्माणम् रुद्र-मूर्ति त्रयी-मयम् ॥ १५।१६॥
saṃstūyate sahasrāṃśuḥ sāmaga-adhvaryu-hotṛbhiḥ . paśya enam viśvakarmāṇam rudra-mūrti trayī-mayam .. 15.16..
दक्ष उवाच ।
य एते द्वादशादित्या आगता यज्ञभागिनः । सर्वे सूर्या इति ज्ञेया न ह्यान्यो विद्यते रविः ॥ १५.१७॥
ये एते द्वादश आदित्याः आगताः यज्ञ-भागिनः । सर्वे सूर्याः इति ज्ञेयाः न विद्यते रविः ॥ १५।१७॥
ye ete dvādaśa ādityāḥ āgatāḥ yajña-bhāginaḥ . sarve sūryāḥ iti jñeyāḥ na vidyate raviḥ .. 15.17..
एवमुक्ते तु मुनयः समायाता दिदृक्षवः । बाढमित्यब्रुवन् दक्षं तस्य साहाय्यकारिणः ॥ १५.१८॥
एवम् उक्ते तु मुनयः समायाताः दिदृक्षवः । बाढम् इति अब्रुवन् दक्षम् तस्य साहाय्य-कारिणः ॥ १५।१८॥
evam ukte tu munayaḥ samāyātāḥ didṛkṣavaḥ . bāḍham iti abruvan dakṣam tasya sāhāyya-kāriṇaḥ .. 15.18..
तमसाविष्टमनसो न पश्यन्ति वृषध्वजम् । सहस्त्रशोऽथ शतशो भूय एव विनिन्द्यते ॥ १५.१९॥
तमसा आविष्ट-मनसः न पश्यन्ति वृषध्वजम् । सहस्त्रशस् अथ शतशस् भूयस् एव विनिन्द्यते ॥ १५।१९॥
tamasā āviṣṭa-manasaḥ na paśyanti vṛṣadhvajam . sahastraśas atha śataśas bhūyas eva vinindyate .. 15.19..
निन्दन्तो वैदिकान् मन्त्रान् सर्वभूतपतिं हरम् । अपूजयन् दक्षवाक्यं मोहिता विष्णुमायया ॥ १५.२॥
निन्दन्तः वैदिकान् मन्त्रान् सर्व-भूत-पतिम् हरम् । अपूजयन् दक्ष-वाक्यम् मोहिताः विष्णु-मायया ॥ १५।२॥
nindantaḥ vaidikān mantrān sarva-bhūta-patim haram . apūjayan dakṣa-vākyam mohitāḥ viṣṇu-māyayā .. 15.2..
देवाश्च सर्वे भागार्थमागता वासवादयः । नापश्यन् देवमीशानमृते नारायणं हरिम् ॥ १५.२१॥
देवाः च सर्वे भाग-अर्थम् आगताः वासव-आदयः । न अपश्यन् देवम् ईशानम् ऋते नारायणम् हरिम् ॥ १५।२१॥
devāḥ ca sarve bhāga-artham āgatāḥ vāsava-ādayaḥ . na apaśyan devam īśānam ṛte nārāyaṇam harim .. 15.21..
हिरण्यगर्भो भगवान् ब्रह्मा ब्रह्मविदां वरः । पश्यतामेव सर्वेषां क्षणादन्तरधीयत ॥ १५.२२॥
हिरण्यगर्भः भगवान् ब्रह्मा ब्रह्म-विदाम् वरः । पश्यताम् एव सर्वेषाम् क्षणात् अन्तरधीयत ॥ १५।२२॥
hiraṇyagarbhaḥ bhagavān brahmā brahma-vidām varaḥ . paśyatām eva sarveṣām kṣaṇāt antaradhīyata .. 15.22..
अन्तर्हिते भगवति दक्षो नारायणं हरिम् । रक्षकं जगतां देवं जगाम शरणं स्वयम् ॥ १५.२३॥
अन्तर्हिते भगवति दक्षः नारायणम् हरिम् । रक्षकम् जगताम् देवम् जगाम शरणम् स्वयम् ॥ १५।२३॥
antarhite bhagavati dakṣaḥ nārāyaṇam harim . rakṣakam jagatām devam jagāma śaraṇam svayam .. 15.23..
प्रवर्त्तयामास च तं यज्ञं दक्षोऽथ निर्भयः । रक्षते भगवान् विष्णुः शरणागतरक्षकः ॥ १५.२४॥
प्रवर्त्तयामास च तम् यज्ञम् दक्षः अथ निर्भयः । रक्षते भगवान् विष्णुः शरण-आगत-रक्षकः ॥ १५।२४॥
pravarttayāmāsa ca tam yajñam dakṣaḥ atha nirbhayaḥ . rakṣate bhagavān viṣṇuḥ śaraṇa-āgata-rakṣakaḥ .. 15.24..
पुनः प्राह च तं दक्षं दधीचो भगवानृषिः । संप्रेक्ष्यर्षिगणान् देवान् सर्वान् वै रुद्रविद्विषः ॥ १५.२५॥
पुनर् प्राह च तम् दक्षम् दधीचः भगवान् ऋषिः । संप्रेक्ष्य ऋषि-गणान् देवान् सर्वान् वै रुद्र-विद्विषः ॥ १५।२५॥
punar prāha ca tam dakṣam dadhīcaḥ bhagavān ṛṣiḥ . saṃprekṣya ṛṣi-gaṇān devān sarvān vai rudra-vidviṣaḥ .. 15.25..
अपूज्यपूजने चैव पूज्यानां चाप्यपूजने । नरः पापमवाप्नोति महद् वै नात्र संशयः ॥ १५.२६॥
अ पूज्य-पूजने च एव पूज्यानाम् च अपि अपूजने । नरः पापम् अवाप्नोति महत् वै न अत्र संशयः ॥ १५।२६॥
a pūjya-pūjane ca eva pūjyānām ca api apūjane . naraḥ pāpam avāpnoti mahat vai na atra saṃśayaḥ .. 15.26..
असतां प्रग्रहो यत्र सतां चैव विमानना । दण्डो दैवकृतस्तत्र सद्यः पतति दारुणः ॥ १५.२७॥
असताम् प्रग्रहः यत्र सताम् च एव विमानना । दण्डः दैव-कृतः तत्र सद्यस् पतति दारुणः ॥ १५।२७॥
asatām pragrahaḥ yatra satām ca eva vimānanā . daṇḍaḥ daiva-kṛtaḥ tatra sadyas patati dāruṇaḥ .. 15.27..
एवमुक्त्वा तु विप्रर्षिः शशापेश्वरविद्विषः । समागतान् ब्राह्मणांस्तान् दक्षसाहाय्यकारिणः ॥ १५.२८॥
एवम् उक्त्वा तु विप्रर्षिः शशाप ईश्वर-विद्विषः । समागतान् ब्राह्मणान् तान् दक्ष-साहाय्य-कारिणः ॥ १५।२८॥
evam uktvā tu viprarṣiḥ śaśāpa īśvara-vidviṣaḥ . samāgatān brāhmaṇān tān dakṣa-sāhāyya-kāriṇaḥ .. 15.28..
यस्माद् बहिष्कृता वेदात्भवद्भिः परमेश्वरः । विनिन्दितो महादेवः शंकरो लोकवन्दितः ॥ १५.२९॥
यस्मात् बहिष्कृताः वेदात् भवद्भिः परमेश्वरः । विनिन्दितः महादेवः शंकरः लोक-वन्दितः ॥ १५।२९॥
yasmāt bahiṣkṛtāḥ vedāt bhavadbhiḥ parameśvaraḥ . vininditaḥ mahādevaḥ śaṃkaraḥ loka-vanditaḥ .. 15.29..
भविष्यध्वं त्रयीबाह्याः सर्वेऽपीश्वरविद्विषः । निन्दन्तो ह्यैश्वरं मार्गं कुशास्त्रासक्तमानसाः ॥ १५.३॥
भविष्यध्वम् त्रयी-बाह्याः सर्वे अपि ईश्वर-विद्विषः । निन्दन्तः हि ऐश्वरम् मार्गम् कुशास्त्र-आसक्त-मानसाः ॥ १५।३॥
bhaviṣyadhvam trayī-bāhyāḥ sarve api īśvara-vidviṣaḥ . nindantaḥ hi aiśvaram mārgam kuśāstra-āsakta-mānasāḥ .. 15.3..
मिथ्याधीतसमाचारा मिथ्याज्ञानप्रलापिनः । प्राप्य घोरं कलियुगं कलिजैः किल पीडिताः ॥ १५.३१॥
मिथ्या अधीत-समाचाराः मिथ्या ज्ञान-प्रलापिनः । प्राप्य घोरम् कलि-युगम् कलि-जैः किल पीडिताः ॥ १५।३१॥
mithyā adhīta-samācārāḥ mithyā jñāna-pralāpinaḥ . prāpya ghoram kali-yugam kali-jaiḥ kila pīḍitāḥ .. 15.31..
त्यक्त्वा तपोबलं कृत्स्नं गच्छध्वं नरकान् पुनः । भविष्यति हृषीकेशः स्वाश्रितोऽपि पराङ्मुखः ॥ १५.३२॥
त्यक्त्वा तपः-बलम् कृत्स्नम् गच्छध्वम् नरकान् पुनर् । भविष्यति हृषीकेशः स्व-आश्रितः अपि पराङ्मुखः ॥ १५।३२॥
tyaktvā tapaḥ-balam kṛtsnam gacchadhvam narakān punar . bhaviṣyati hṛṣīkeśaḥ sva-āśritaḥ api parāṅmukhaḥ .. 15.32..
एवमुक्त्वा तु विप्रर्षिर्विरराम तपोनिधिः । जगाम मनसा रुद्रमशेषाघविनाशनम् ॥ १५.३३॥
एवम् उक्त्वा तु विप्रर्षिः विरराम तपः-निधिः । जगाम मनसा रुद्रम् अशेष-अघ-विनाशनम् ॥ १५।३३॥
evam uktvā tu viprarṣiḥ virarāma tapaḥ-nidhiḥ . jagāma manasā rudram aśeṣa-agha-vināśanam .. 15.33..
एतस्मिन्नन्तरे देवी महादेवं महेश्वरम् । पतिं पशुपतिं देवं ज्ञात्वैतत् प्राह सर्वदृक् ॥ १५.३४॥
एतस्मिन् अन्तरे देवी महादेवम् महेश्वरम् । पतिम् पशुपतिम् देवम् ज्ञात्वा एतत् प्राह सर्व-दृश् ॥ १५।३४॥
etasmin antare devī mahādevam maheśvaram . patim paśupatim devam jñātvā etat prāha sarva-dṛś .. 15.34..
देव्युवाच ।
दक्षो यज्ञेन यजते पिता मे पूर्वजन्मनि । विनिन्द्य भवतो भावमात्मानं चापि शंकर ॥ १५.३५॥
दक्षः यज्ञेन यजते पिता मे पूर्व-जन्मनि । विनिन्द्य भवतः भावम् आत्मानम् च अपि शंकर ॥ १५।३५॥
dakṣaḥ yajñena yajate pitā me pūrva-janmani . vinindya bhavataḥ bhāvam ātmānam ca api śaṃkara .. 15.35..
देवाः सहर्षिभिश्चासंस्तत्र साहाय्यकारिणः । विनाशयाशु तं यज्ञं वरमेकं वृणोम्यहम् ॥ १५.३६॥
देवाः सह ऋषिभिः च आसन् तत्र साहाय्य-कारिणः । विनाशय आशु तम् यज्ञम् वरम् एकम् वृणोमि अहम् ॥ १५।३६॥
devāḥ saha ṛṣibhiḥ ca āsan tatra sāhāyya-kāriṇaḥ . vināśaya āśu tam yajñam varam ekam vṛṇomi aham .. 15.36..
एवं विज्ञापितो देव्या देवदेव परः प्रभुः । ससर्ज सहसा रुद्रं दक्षयज्ञजिघांसया ॥ १५.३७॥
एवम् विज्ञापितः देव्या देवदेव परः प्रभुः । ससर्ज सहसा रुद्रम् दक्ष-यज्ञ-जिघांसया ॥ १५।३७॥
evam vijñāpitaḥ devyā devadeva paraḥ prabhuḥ . sasarja sahasā rudram dakṣa-yajña-jighāṃsayā .. 15.37..
सहस्रशीर्षपादं च सहस्राक्षं महाभुजम् । सहस्त्रपाणिं दुर्धर्षं युगान्तानलसन्निभम् ॥ १५.३८॥
सहस्र-शीर्ष-पादम् च सहस्र-अक्षम् महा-भुजम् । सहस्त्र-पाणिम् दुर्धर्षम् युग-अन्त-अनल-सन्निभम् ॥ १५।३८॥
sahasra-śīrṣa-pādam ca sahasra-akṣam mahā-bhujam . sahastra-pāṇim durdharṣam yuga-anta-anala-sannibham .. 15.38..
दंष्ट्राकरालं दुष्प्रेक्ष्यं शङ्खचक्रगदाधरम् । दण्डहस्तं महानादं शार्ङ्गिणं भूतिभूषणम् ॥ १५.३९॥
दंष्ट्रा-करालम् दुष्प्रेक्ष्यम् शङ्ख-चक्र-गदा-धरम् । दण्ड-हस्तम् महा-नादम् शार्ङ्गिणम् भूतिभूषणम् ॥ १५।३९॥
daṃṣṭrā-karālam duṣprekṣyam śaṅkha-cakra-gadā-dharam . daṇḍa-hastam mahā-nādam śārṅgiṇam bhūtibhūṣaṇam .. 15.39..
वीरभद्र इति ख्यातं देवदेवसमन्वितम् । स जातमात्रो देवेशमुपतस्थे कृताञ्जलिः ॥ १५.४॥
वीरभद्रः इति ख्यातम् देव-देव-समन्वितम् । स जात-मात्रः देवेशम् उपतस्थे कृताञ्जलिः ॥ १५।४॥
vīrabhadraḥ iti khyātam deva-deva-samanvitam . sa jāta-mātraḥ deveśam upatasthe kṛtāñjaliḥ .. 15.4..
तमाह दक्षस्य मखं विनाशय शिवोऽस्तु ते । विनिन्द्य मां स यजते गङ्गाद्वारे गणेश्वर ॥ १५.४१॥
तम् आह दक्षस्य मखम् विनाशय शिवः अस्तु ते । विनिन्द्य माम् स यजते गङ्गाद्वारे गणेश्वर ॥ १५।४१॥
tam āha dakṣasya makham vināśaya śivaḥ astu te . vinindya mām sa yajate gaṅgādvāre gaṇeśvara .. 15.41..
ततो बन्धुप्रयुक्तेन सिंहेनैकेन लीलया । वीरभद्रेण दक्षस्य विनाशमगमत् क्रतुः ॥ १५.४२॥
ततस् बन्धु-प्रयुक्तेन सिंहेन एकेन लीलया । वीरभद्रेण दक्षस्य विनाशम् अगमत् क्रतुः ॥ १५।४२॥
tatas bandhu-prayuktena siṃhena ekena līlayā . vīrabhadreṇa dakṣasya vināśam agamat kratuḥ .. 15.42..
मन्युना चोमया सृष्टा भद्रकाली महेश्वरी । तया च सार्द्धं वृषभं समारुह्य ययौ गणः ॥ १५.४३॥
मन्युना च उमया सृष्टा भद्रकाली महेश्वरी । तया च सार्द्धम् वृषभम् समारुह्य ययौ गणः ॥ १५।४३॥
manyunā ca umayā sṛṣṭā bhadrakālī maheśvarī . tayā ca sārddham vṛṣabham samāruhya yayau gaṇaḥ .. 15.43..
अन्ये सहस्रशो रुद्रा निसृष्टास्तेन धीमता । रोमजा इति विख्यातास्तस्य साहाय्यकारिणः ॥ १५.४४॥
अन्ये सहस्रशस् रुद्राः निसृष्टाः तेन धीमता । रोम-जाः इति विख्याताः तस्य साहाय्य-कारिणः ॥ १५।४४॥
anye sahasraśas rudrāḥ nisṛṣṭāḥ tena dhīmatā . roma-jāḥ iti vikhyātāḥ tasya sāhāyya-kāriṇaḥ .. 15.44..
शूलशक्तिगदाहस्ताष्टङ्कोपलकरास्तथा । कालाग्निरुद्रसंकाशा नादयन्तो दिशो दश ॥ १५.४५॥
शूल-शक्ति-गदा-हस्ताः टङ्क-उपल-कराः तथा । कालाग्नि-रुद्र-संकाशाः नादयन्तः दिशः दश ॥ १५।४५॥
śūla-śakti-gadā-hastāḥ ṭaṅka-upala-karāḥ tathā . kālāgni-rudra-saṃkāśāḥ nādayantaḥ diśaḥ daśa .. 15.45..
सर्वे वृषभमारूढाः सभार्याश्चातिभीषणाः । समावृत्य गणश्रेष्ठं ययुर्दक्षमखं प्रति ॥ १५.४६॥
सर्वे वृषभम् आरूढाः स भार्याः च अति भीषणाः । समावृत्य गण-श्रेष्ठम् ययुः दक्ष-मखम् प्रति ॥ १५।४६॥
sarve vṛṣabham ārūḍhāḥ sa bhāryāḥ ca ati bhīṣaṇāḥ . samāvṛtya gaṇa-śreṣṭham yayuḥ dakṣa-makham prati .. 15.46..
सर्वे शंप्राप्य तं देशं गङ्गाद्वारमिति श्रुतम् । ददृशुर्यज्ञदेशं तं दक्षस्यामिततेजसः ॥ १५.४७॥
सर्वे तम् देशम् गङ्गाद्वारम् इति श्रुतम् । ददृशुः यज्ञ-देशम् तम् दक्षस्य अमित-तेजसः ॥ १५।४७॥
sarve tam deśam gaṅgādvāram iti śrutam . dadṛśuḥ yajña-deśam tam dakṣasya amita-tejasaḥ .. 15.47..
देवाङ्गनासहस्त्राढ्यमप्सरोगीतनादितम् । वेणुवीणानिनादाढ्यं वेदवादाभिनादितम् ॥ १५.४८॥
देव-अङ्गना-सहस्त्र-आढ्यम् अप्सरः-गीत-नादितम् । वेणु-वीणा-निनाद-आढ्यम् वेद-वाद-अभिनादितम् ॥ १५।४८॥
deva-aṅganā-sahastra-āḍhyam apsaraḥ-gīta-nāditam . veṇu-vīṇā-nināda-āḍhyam veda-vāda-abhināditam .. 15.48..
दृष्ट्वा सहर्षिभिर्देवैः समासीनं प्रजापतिम् ॥ १५.४९॥
दृष्ट्वा सह ऋषिभिः देवैः समासीनम् प्रजापतिम् ॥ १५।४९॥
dṛṣṭvā saha ṛṣibhiḥ devaiḥ samāsīnam prajāpatim .. 15.49..
उवाच भद्रया रुद्रैर्वीरभद्रः स्मयन्निव ॥ १५.५॥
उवाच भद्रया रुद्रैः वीरभद्रः स्मयन् इव ॥ १५।५॥
uvāca bhadrayā rudraiḥ vīrabhadraḥ smayan iva .. 15.5..
वयं ह्यनुचराः सर्वे शर्वस्यामिततेजसः । भागाभिलिप्सया भागान् प्राप्ता यच्छध्वमीप्सितान् ॥ १५.५१॥
वयम् हि अनुचराः सर्वे शर्वस्य अमित-तेजसः । भाग-अभिलिप्सया भागान् प्राप्ताः यच्छध्वम् ईप्सितान् ॥ १५।५१॥
vayam hi anucarāḥ sarve śarvasya amita-tejasaḥ . bhāga-abhilipsayā bhāgān prāptāḥ yacchadhvam īpsitān .. 15.51..
अथ चेत् कस्यचिदियमाज्ञा मुनिसुरोत्तमाः । भागो भवद्भ्यो देयस्तु नास्मभ्यमिति कथ्यताम् । १५.५२॥ ॥
अथ चेद् कस्यचिद् इयम् आज्ञा मुनि-सुर-उत्तमाः । भागः भवद्भ्यः देयः तु न अस्मभ्यम् इति कथ्यताम् । १५।५२॥ ॥
atha ced kasyacid iyam ājñā muni-sura-uttamāḥ . bhāgaḥ bhavadbhyaḥ deyaḥ tu na asmabhyam iti kathyatām . 15.52.. ..
तं ब्रूताज्ञापयति यो वेत्स्यामो हि वयं ततः । एवमुक्ता गणेशेन प्रजापतिपुरः सराः॥ १५.५३॥
तम् ब्रूत आज्ञापयति यः वेत्स्यामः हि वयम् ततस् । एवम् उक्ता गणेशेन प्रजापति-पुरस् सराः॥ १५।५३॥
tam brūta ājñāpayati yaḥ vetsyāmaḥ hi vayam tatas . evam uktā gaṇeśena prajāpati-puras sarāḥ.. 15.53..
देवा ऊचुः
नेज्यते र्यज्ञभागेन न च मन्त्रा इति प्रभुः । मन्त्रा ऊचुः सुरा यूयं तमोपहतचेतसः ॥ १५.५४॥
न इज्यते न च मन्त्राः इति प्रभुः । मन्त्राः ऊचुः सुराः यूयम् तम-उपहत-चेतसः ॥ १५।५४॥
na ijyate na ca mantrāḥ iti prabhuḥ . mantrāḥ ūcuḥ surāḥ yūyam tama-upahata-cetasaḥ .. 15.54..
येनाध्वरस्य राजानं पूजयध्वं महेश्वरम् । ईश्वरः सर्वभूतानां सर्वभूततनुर्हरः ॥ १५.५५॥
येन अध्वरस्य राजानम् पूजयध्वम् महेश्वरम् । ईश्वरः सर्व-भूतानाम् सर्व-भूत-तनुः हरः ॥ १५।५५॥
yena adhvarasya rājānam pūjayadhvam maheśvaram . īśvaraḥ sarva-bhūtānām sarva-bhūta-tanuḥ haraḥ .. 15.55..
पूज्यते सर्वयज्ञेषु सर्वाभ्युदसिद्धिदः । एवमुक्त्वा महीशानं मायया नष्टचेतनाः॥ १५.५६॥
पूज्यते सर्व-यज्ञेषु सर्व-अभ्युद-सिद्धि-दः । एवम् उक्त्वा महीशानम् मायया नष्ट-चेतनाः॥ १५।५६॥
pūjyate sarva-yajñeṣu sarva-abhyuda-siddhi-daḥ . evam uktvā mahīśānam māyayā naṣṭa-cetanāḥ.. 15.56..
न मेनिरे ययुर्मन्त्रा देवान् मुक्त्वा स्वमालयम् । ततः स रुद्रो भगवान् सभार्यः सगणेश्वरः ॥ १५.५७॥
न मेनिरे ययुः मन्त्राः देवान् मुक्त्वा स्वम् आलयम् । ततस् स रुद्रः भगवान् स भार्यः स गणेश्वरः ॥ १५।५७॥
na menire yayuḥ mantrāḥ devān muktvā svam ālayam . tatas sa rudraḥ bhagavān sa bhāryaḥ sa gaṇeśvaraḥ .. 15.57..
स्पृशन् कराभ्यां ब्रह्मर्षि दधीचं प्राह देवताः । मन्त्राः प्रमाणं न कृता युष्माभिर्बलदर्पितैः ॥ १५.५८॥
स्पृशन् कराभ्याम् ब्रह्मर्षि दधीचम् प्राह देवताः । मन्त्राः प्रमाणम् न कृताः युष्माभिः बल-दर्पितैः ॥ १५।५८॥
spṛśan karābhyām brahmarṣi dadhīcam prāha devatāḥ . mantrāḥ pramāṇam na kṛtāḥ yuṣmābhiḥ bala-darpitaiḥ .. 15.58..
यस्मात् प्रसह्य तस्माद् वो नाशयाम्यद्य गर्वितान्। इत्युक्त्वा यज्ञशालां तां ददाह गणपुंगवः॥ १५.५९॥
यस्मात् प्रसह्य तस्मात् वः नाशयामि अद्य गर्वितान्। इति उक्त्वा यज्ञ-शालाम् ताम् ददाह गण-पुंगवः॥ १५।५९॥
yasmāt prasahya tasmāt vaḥ nāśayāmi adya garvitān. iti uktvā yajña-śālām tām dadāha gaṇa-puṃgavaḥ.. 15.59..
गणेश्वराश्च संक्रुद्धा यूपानुत्पाट्य चिक्षिपुः । प्रस्तोत्रा सह होत्रा च अश्वं चैव गणेश्वराः॥ १५.६॥
गणेश्वराः च संक्रुद्धाः यूपान् उत्पाट्य चिक्षिपुः । प्रस्तोत्रा सह होत्रा च अश्वम् च एव गण-ईश्वराः॥ १५।६॥
gaṇeśvarāḥ ca saṃkruddhāḥ yūpān utpāṭya cikṣipuḥ . prastotrā saha hotrā ca aśvam ca eva gaṇa-īśvarāḥ.. 15.6..
गृहीत्वा भीषणाः सर्वे गङ्गास्त्रोतसि चिक्षिपुः । वीरभद्रोऽपि दीप्तात्मा शक्रस्योद्यच्छतं करम् ॥ १५.६१॥
गृहीत्वा भीषणाः सर्वे गङ्गाः त्रोतसि चिक्षिपुः । वीरभद्रः अपि दीप्त-आत्मा शक्रस्य उद्यत् शतम् करम् ॥ १५।६१॥
gṛhītvā bhīṣaṇāḥ sarve gaṅgāḥ trotasi cikṣipuḥ . vīrabhadraḥ api dīpta-ātmā śakrasya udyat śatam karam .. 15.61..
व्यष्टम्भयददीनात्मा तथाऽन्येषां दिवौकसाम् । भगस्य नेत्रे चोत्पाट्य कराग्रेणैव लीलया ॥ १५.६२॥
व्यष्टम्भयत् अदीन-आत्मा तथा अन्येषाम् दिवौकसाम् । भगस्य नेत्रे च उत्पाट्य कर-अग्रेण एव लीलया ॥ १५।६२॥
vyaṣṭambhayat adīna-ātmā tathā anyeṣām divaukasām . bhagasya netre ca utpāṭya kara-agreṇa eva līlayā .. 15.62..
निहत्य मुष्टिना दन्तान् पूष्णश्चैवमपातयत् । तथा चन्द्रमसं देवं पादाङ्गुष्ठेन लीलया ॥ १५.६३॥
निहत्य मुष्टिना दन्तान् पूष्णः च एवम् अपातयत् । तथा चन्द्रमसम् देवम् पादाङ्गुष्ठेन लीलया ॥ १५।६३॥
nihatya muṣṭinā dantān pūṣṇaḥ ca evam apātayat . tathā candramasam devam pādāṅguṣṭhena līlayā .. 15.63..
धर्षयामास बलवान् स्मयमानो गणेश्वरः । वह्नेर्हस्तद्वयं छित्त्वा जिह्वामुत्पाट्य लीलया ॥ १५.६४॥
धर्षयामास बलवान् स्मयमानः गणेश्वरः । वह्नेः हस्त-द्वयम् छित्त्वा जिह्वाम् उत्पाट्य लीलया ॥ १५।६४॥
dharṣayāmāsa balavān smayamānaḥ gaṇeśvaraḥ . vahneḥ hasta-dvayam chittvā jihvām utpāṭya līlayā .. 15.64..
जघान मूर्ध्नि पादेन मुनीनपि मुनीश्वराः । तथा विष्णुं सहरुडं समायान्तं महाबलः ॥ १५.६५॥
जघान मूर्ध्नि पादेन मुनीन् अपि मुनि-ईश्वराः । तथा विष्णुम् सहरुडम् समायान्तम् महा-बलः ॥ १५।६५॥
jaghāna mūrdhni pādena munīn api muni-īśvarāḥ . tathā viṣṇum saharuḍam samāyāntam mahā-balaḥ .. 15.65..
विव्याध निशेतैर्बाणैः स्तम्भयित्वा सुदर्शनम् । समालोक्य महाबाहुरागत्य गरुडो गणम् ॥ १५.६६॥
विव्याध निशा-इतैः बाणैः स्तम्भयित्वा सुदर्शनम् । समालोक्य महा-बाहुः आगत्य गरुडः गणम् ॥ १५।६६॥
vivyādha niśā-itaiḥ bāṇaiḥ stambhayitvā sudarśanam . samālokya mahā-bāhuḥ āgatya garuḍaḥ gaṇam .. 15.66..
जघान पक्षैः सहसा ननादाम्बुनिधिर्यथा । ततः सहस्त्रशो भद्रः ससर्ज गरुडान् स्वयम् ॥ १५.६७॥
जघान पक्षैः सहसा ननाद अम्बुनिधिः यथा । ततस् सहस्त्रशस् भद्रः ससर्ज गरुडान् स्वयम् ॥ १५।६७॥
jaghāna pakṣaiḥ sahasā nanāda ambunidhiḥ yathā . tatas sahastraśas bhadraḥ sasarja garuḍān svayam .. 15.67..
वैनतेयादभ्यधिकान् गरुडं ते प्रदुद्रुवुः । तान् दृष्ट्वा गरुडो धीमान् पलायत महाजवः ॥ १५.६८॥
वैनतेयात् अभ्यधिकान् गरुडम् ते प्रदुद्रुवुः । तान् दृष्ट्वा गरुडः धीमान् पलायत महा-जवः ॥ १५।६८॥
vainateyāt abhyadhikān garuḍam te pradudruvuḥ . tān dṛṣṭvā garuḍaḥ dhīmān palāyata mahā-javaḥ .. 15.68..
विसृज्य माधवं वेगात् तदद्भुतमिवाभवत् । अन्तर्हिते वैनतेये भगवान् पद्मसंभवः ॥ १५.६९॥
विसृज्य माधवम् वेगात् तत् अद्भुतम् इव अभवत् । अन्तर्हिते वैनतेये भगवान् पद्मसंभवः ॥ १५।६९॥
visṛjya mādhavam vegāt tat adbhutam iva abhavat . antarhite vainateye bhagavān padmasaṃbhavaḥ .. 15.69..
आगत्य वारयामास वीरभद्रं च केशवम् । प्रसादयामास च तं गौरवात् परमेष्ठिनः ॥ १५.७॥
आगत्य वारयामास वीरभद्रम् च केशवम् । प्रसादयामास च तम् गौरवात् परमेष्ठिनः ॥ १५।७॥
āgatya vārayāmāsa vīrabhadram ca keśavam . prasādayāmāsa ca tam gauravāt parameṣṭhinaḥ .. 15.7..
संस्तूय भगवानीशं साम्बस्तत्रागमत् स्वयम् । वीक्ष्य देवाधिदेवं तमुमां सर्वगणैर्वृताम् ॥ १५.७१॥
संस्तूय भगवान् ईशम् स अम्बः तत्र अगमत् स्वयम् । वीक्ष्य देव-अधिदेवम् तम् उमाम् सर्व-गणैः वृताम् ॥ १५।७१॥
saṃstūya bhagavān īśam sa ambaḥ tatra agamat svayam . vīkṣya deva-adhidevam tam umām sarva-gaṇaiḥ vṛtām .. 15.71..
तुष्टाव भगवान् ब्रह्मा दक्षः सर्वे दिवौकसः । विशेषात् पार्वतीं देवीमीश्वरार्द्धशरीरिणीम् ॥ १५.७२॥
तुष्टाव भगवान् ब्रह्मा दक्षः सर्वे दिवौकसः । विशेषात् पार्वतीम् देवीम् ईश्वर-अर्द्ध-शरीरिणीम् ॥ १५।७२॥
tuṣṭāva bhagavān brahmā dakṣaḥ sarve divaukasaḥ . viśeṣāt pārvatīm devīm īśvara-arddha-śarīriṇīm .. 15.72..
स्तोत्रैर्नानाविधैर्दक्षः प्रणम्य च कृताञ्जलिः । ततो भगवती देवी प्रहसन्ती महेश्वरम् ॥ १५.७३॥
स्तोत्रैः नानाविधैः दक्षः प्रणम्य च कृताञ्जलिः । ततस् भगवती देवी प्रहसन्ती महेश्वरम् ॥ १५।७३॥
stotraiḥ nānāvidhaiḥ dakṣaḥ praṇamya ca kṛtāñjaliḥ . tatas bhagavatī devī prahasantī maheśvaram .. 15.73..
प्रसन्नमानसा रुद्रं वचः प्राह घृणानिधिः । त्वमेव जगतः स्त्रष्टा शासिता चैव रक्षकः ॥ १५.७४॥
प्रसन्न-मानसा रुद्रम् वचः प्राह घृणा-निधिः । त्वम् एव जगतः स्त्रष्टा शासिता च एव रक्षकः ॥ १५।७४॥
prasanna-mānasā rudram vacaḥ prāha ghṛṇā-nidhiḥ . tvam eva jagataḥ straṣṭā śāsitā ca eva rakṣakaḥ .. 15.74..
अनुग्राह्यो भगवता दक्षश्चापि दिवौकसः । ततः प्रहस्य भगवान् कपर्दी नीललोहितः ॥ १५.७५॥
अनुग्राह्यः भगवता दक्षः च अपि दिवौकसः । ततस् प्रहस्य भगवान् कपर्दी नीललोहितः ॥ १५।७५॥
anugrāhyaḥ bhagavatā dakṣaḥ ca api divaukasaḥ . tatas prahasya bhagavān kapardī nīlalohitaḥ .. 15.75..
उवाच प्रणतान् देवान् प्राचेतसमथो हरः । गच्छध्वं देवताः सर्वाः प्रसन्नो भवतामहम् ॥ १५.७६॥
उवाच प्रणतान् देवान् प्राचेतसम् अथो हरः । गच्छध्वम् देवताः सर्वाः प्रसन्नः भवताम् अहम् ॥ १५।७६॥
uvāca praṇatān devān prācetasam atho haraḥ . gacchadhvam devatāḥ sarvāḥ prasannaḥ bhavatām aham .. 15.76..
संपूज्यः सर्वयज्ञेषु न निन्द्योऽहं विशेषतः । त्वं चापि श्रृणु मे दक्ष वचनं सर्वरक्षणम् ॥ १५.७७॥
संपूज्यः सर्व-यज्ञेषु न निन्द्यः अहम् विशेषतः । त्वम् च अपि श्रृणु मे दक्ष वचनम् सर्व-रक्षणम् ॥ १५।७७॥
saṃpūjyaḥ sarva-yajñeṣu na nindyaḥ aham viśeṣataḥ . tvam ca api śrṛṇu me dakṣa vacanam sarva-rakṣaṇam .. 15.77..
त्यक्त्वा लोकैषणामेतां मद्भक्तो भव यत्नतः । भविष्यसि गणेशानः कल्पान्तेऽनुग्रहान्मम ॥ १५.७८॥
त्यक्त्वा लोक-एषणाम् एताम् मद्-भक्तः भव यत्नतः । भविष्यसि गणेशानः कल्प-अन्ते अनुग्रहान् मम ॥ १५।७८॥
tyaktvā loka-eṣaṇām etām mad-bhaktaḥ bhava yatnataḥ . bhaviṣyasi gaṇeśānaḥ kalpa-ante anugrahān mama .. 15.78..
तावत् तिष्ठ ममादेशात् स्वाधिकारेषु निर्वृतः । एवमुक्त्वा स भगवान् सपत्नीकः सहानुगः ॥ १५.७९॥
तावत् तिष्ठ मम आदेशात् स्व-अधिकारेषु निर्वृतः । एवम् उक्त्वा स भगवान् स पत्नीकः सह अनुगः ॥ १५।७९॥
tāvat tiṣṭha mama ādeśāt sva-adhikāreṣu nirvṛtaḥ . evam uktvā sa bhagavān sa patnīkaḥ saha anugaḥ .. 15.79..
अदर्शनमनुप्राप्तो दक्षस्यामिततेजसः । अन्तर्हिते महादेवे शंकरे पद्मसंभवः ॥ १५.८॥
अदर्शनम् अनुप्राप्तः दक्षस्य अमित-तेजसः । अन्तर्हिते महादेवे शंकरे पद्मसंभवः ॥ १५।८॥
adarśanam anuprāptaḥ dakṣasya amita-tejasaḥ . antarhite mahādeve śaṃkare padmasaṃbhavaḥ .. 15.8..
व्याजहार स्वयं दक्षमशेषजगतो हितम् ॥ ॥
व्याजहार स्वयम् दक्षम् अशेष-जगतः हितम् ॥ ॥
vyājahāra svayam dakṣam aśeṣa-jagataḥ hitam .. ..
ब्रह्मोवाच ।
किं तवापगतो मोहः प्रसन्ने वृषभध्वजे ॥ १५.८१॥
किम् तव अपगतः मोहः प्रसन्ने वृषभध्वजे ॥ १५।८१॥
kim tava apagataḥ mohaḥ prasanne vṛṣabhadhvaje .. 15.81..
यदाचष्टे स्वयं देवः पालयैतदतन्द्रितः । सर्वेषामेव भूतानां हृद्येष वसतीश्वरः ॥ १५.८२॥
यत् आचष्टे स्वयम् देवः पालय एतत् अतन्द्रितः । सर्वेषाम् एव भूतानाम् हृदि एष वसति ईश्वरः ॥ १५।८२॥
yat ācaṣṭe svayam devaḥ pālaya etat atandritaḥ . sarveṣām eva bhūtānām hṛdi eṣa vasati īśvaraḥ .. 15.82..
पश्यन्त्येनं ब्रह्मभूता विद्वांसो वेदवादिनः । स आत्मा सर्वभूतानां स बीजं परमा गतिः ॥ १५.८३॥
पश्यन्ति एनम् ब्रह्म-भूताः विद्वांसः वेद-वादिनः । सः आत्मा सर्व-भूतानाम् स बीजम् परमा गतिः ॥ १५।८३॥
paśyanti enam brahma-bhūtāḥ vidvāṃsaḥ veda-vādinaḥ . saḥ ātmā sarva-bhūtānām sa bījam paramā gatiḥ .. 15.83..
स्तूयते वैदिकैर्मन्त्रैर्देवदेवो महेश्वरः । तमर्चयति यो रुद्रं स्वात्मन्येकं सनातनम् ॥ १५.८४॥
स्तूयते वैदिकैः मन्त्रैः देवदेवः महेश्वरः । तम् अर्चयति यः रुद्रम् स्व-आत्मनि एकम् सनातनम् ॥ १५।८४॥
stūyate vaidikaiḥ mantraiḥ devadevaḥ maheśvaraḥ . tam arcayati yaḥ rudram sva-ātmani ekam sanātanam .. 15.84..
चेतसा भावयुक्तेन स याति परमं पदम् । तस्मादनादिमध्यान्तं विज्ञाय परमेश्वरम् ॥ १५.८५॥
चेतसा भाव-युक्तेन स याति परमम् पदम् । तस्मात् अनादि-मध्य-अन्तम् विज्ञाय परमेश्वरम् ॥ १५।८५॥
cetasā bhāva-yuktena sa yāti paramam padam . tasmāt anādi-madhya-antam vijñāya parameśvaram .. 15.85..
कर्मणा मनसा वाचा समाराधय यत्नतः । यत्नात् परिहरेशस्य निन्दामात्मविनाशनीम् ॥ १५.८६॥
कर्मणा मनसा वाचा समाराधय यत्नतः । यत्नात् परिहर ईशस्य निन्दाम् आत्म-विनाशनीम् ॥ १५।८६॥
karmaṇā manasā vācā samārādhaya yatnataḥ . yatnāt parihara īśasya nindām ātma-vināśanīm .. 15.86..
भवन्ति सर्वदोषाय निन्दकस्य क्रिया यतः । यस्तु चैष महायोगी रक्षको विष्णुरव्ययः ॥ १५.८७॥
भवन्ति सर्व-दोषाय निन्दकस्य क्रियाः यतस् । यः तु च एष महा-योगी रक्षकः विष्णुः अव्ययः ॥ १५।८७॥
bhavanti sarva-doṣāya nindakasya kriyāḥ yatas . yaḥ tu ca eṣa mahā-yogī rakṣakaḥ viṣṇuḥ avyayaḥ .. 15.87..
स देवदेवो भगवान् महादेवो न संशयः । मन्यन्ते ये जगद्योनिं विभिन्नं विष्णुमीश्वरात् ॥ १५.८८॥
स देवदेवः भगवान् महादेवः न संशयः । मन्यन्ते ये जगद्योनिम् विभिन्नम् विष्णुम् ईश्वरात् ॥ १५।८८॥
sa devadevaḥ bhagavān mahādevaḥ na saṃśayaḥ . manyante ye jagadyonim vibhinnam viṣṇum īśvarāt .. 15.88..
मोहादवेदनिष्ठत्वात् ते यान्ति नरकं नराः । वेदानुवर्तिनो रुद्रं देवं नारायणं तथा ॥ १५.८९॥
मोहात् अ वेद-निष्ठ-त्वात् ते यान्ति नरकम् नराः । वेद-अनुवर्तिनः रुद्रम् देवम् नारायणम् तथा ॥ १५।८९॥
mohāt a veda-niṣṭha-tvāt te yānti narakam narāḥ . veda-anuvartinaḥ rudram devam nārāyaṇam tathā .. 15.89..
एकीभावेन पश्यन्ति मुक्तिभाजो भवन्ति ते । यो विष्णुः स स्वयं रुद्रो यो रुद्रः स जनार्दनः ॥ १५.९॥
एकीभावेन पश्यन्ति मुक्ति-भाजः भवन्ति ते । यः विष्णुः स स्वयम् रुद्रः यः रुद्रः स जनार्दनः ॥ १५।९॥
ekībhāvena paśyanti mukti-bhājaḥ bhavanti te . yaḥ viṣṇuḥ sa svayam rudraḥ yaḥ rudraḥ sa janārdanaḥ .. 15.9..
इति मत्वा यजेद् देवं स याति परमां गतिम् । सृजत्येष जगत्सर्वं विष्णुस्तत् पश्यतीश्वरः ॥ १५.९१॥
इति मत्वा यजेत् देवम् स याति परमाम् गतिम् । सृजति एष जगत् सर्वम् विष्णुः तत् पश्यति ईश्वरः ॥ १५।९१॥
iti matvā yajet devam sa yāti paramām gatim . sṛjati eṣa jagat sarvam viṣṇuḥ tat paśyati īśvaraḥ .. 15.91..
इत्थं जगत् सर्वमिदं रुद्रनारायणोद्भवम् । तस्मात् त्यक्त्वा हरेर्निन्दां विष्णावपि समाहितः ॥ १५.९२॥
इत्थम् जगत् सर्वम् इदम् रुद्र-नारायण-उद्भवम् । तस्मात् त्यक्त्वा हरेः निन्दाम् विष्णौ अपि समाहितः ॥ १५।९२॥
ittham jagat sarvam idam rudra-nārāyaṇa-udbhavam . tasmāt tyaktvā hareḥ nindām viṣṇau api samāhitaḥ .. 15.92..
समाश्रय्महादेवं शरण्यं ब्रह्मवादिनाम् । उपश्रुत्याथ वचनं विरिञ्चस्य प्रजापतिः ॥ १५.९३॥
समाश्रय महादेवम् शरण्यम् ब्रह्म-वादिनाम् । उपश्रुत्या अथ वचनम् विरिञ्चस्य प्रजापतिः ॥ १५।९३॥
samāśraya mahādevam śaraṇyam brahma-vādinām . upaśrutyā atha vacanam viriñcasya prajāpatiḥ .. 15.93..
जगाम शरणं देवं गोपतिं कृत्तिवाससम् । येऽन्ये शापाग्निनिर्दग्धा दधीचस्य महर्षयः ॥ १५.९४॥
जगाम शरणम् देवम् गोपतिम् कृत्तिवाससम् । ये अन्ये शाप-अग्नि-निर्दग्धाः दधीचस्य महा-ऋषयः ॥ १५।९४॥
jagāma śaraṇam devam gopatim kṛttivāsasam . ye anye śāpa-agni-nirdagdhāḥ dadhīcasya mahā-ṛṣayaḥ .. 15.94..
द्विषन्तो मोहिता देवं संबभूवुः कलिष्वथ । त्यक्त्वा तपोबलं कृत्स्नं विप्राणां कुलसंभवाः॥ १५.९५॥
द्विषन्तः मोहिताः देवम् संबभूवुः कलिषु अथ । त्यक्त्वा तपः-बलम् कृत्स्नम् विप्राणाम् कुल-संभवाः॥ १५।९५॥
dviṣantaḥ mohitāḥ devam saṃbabhūvuḥ kaliṣu atha . tyaktvā tapaḥ-balam kṛtsnam viprāṇām kula-saṃbhavāḥ.. 15.95..
पूर्वसंस्कारमहात्म्याद् ब्रह्मणो वचनादिह । मुक्तशापास्ततः सर्वे कल्पान्ते रौरवादिषु ॥ १५.९६॥
पूर्व-संस्कार-महात्म्यात् ब्रह्मणः वचनात् इह । मुक्त-शापाः ततस् सर्वे कल्प-अन्ते रौरव-आदिषु ॥ १५।९६॥
pūrva-saṃskāra-mahātmyāt brahmaṇaḥ vacanāt iha . mukta-śāpāḥ tatas sarve kalpa-ante raurava-ādiṣu .. 15.96..
निपात्यमानाः कालेन संप्राप्यादित्यवर्चसम् । ब्रह्माणं जगतामीशमनुज्ञाताः स्वयंभुवा ॥ १५.९७॥
निपात्यमानाः कालेन संप्राप्य आदित्य-वर्चसम् । ब्रह्माणम् जगताम् ईशम् अनुज्ञाताः स्वयंभुवा ॥ १५।९७॥
nipātyamānāḥ kālena saṃprāpya āditya-varcasam . brahmāṇam jagatām īśam anujñātāḥ svayaṃbhuvā .. 15.97..
समाराध्य तपोयोगादीशानं त्रिदशाधिपम् । भविष्यन्ति यथा पूर्वं शंकरस्य प्रसादतः ॥ १५.९८॥
समाराध्य तपः-योगात् ईशानम् त्रिदशाधिपम् । भविष्यन्ति यथा पूर्वम् शंकरस्य प्रसादतः ॥ १५।९८॥
samārādhya tapaḥ-yogāt īśānam tridaśādhipam . bhaviṣyanti yathā pūrvam śaṃkarasya prasādataḥ .. 15.98..
एतद्वः कथितं सर्वं दक्षयज्ञनिषूदनम् । श्रृणुध्वं दक्षपुत्रीणां सर्वासां चैव संततिम् ॥ १५.९९॥
एतत् वः कथितम् सर्वम् दक्ष-यज्ञ-निषूदनम् । श्रृणुध्वम् दक्ष-पुत्रीणाम् सर्वासाम् च एव संततिम् ॥ १५।९९॥
etat vaḥ kathitam sarvam dakṣa-yajña-niṣūdanam . śrṛṇudhvam dakṣa-putrīṇām sarvāsām ca eva saṃtatim .. 15.99..
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पञ्चदशोध्यायः ॥ ॥
इति श्री-कूर्मपुराणे षट्साहस्त्र्याम् संहितायाम् पञ्चदशः अध्यायः ॥ ॥
iti śrī-kūrmapurāṇe ṣaṭsāhastryām saṃhitāyām pañcadaśaḥ adhyāyaḥ .. ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In