| |
|

This overlay will guide you through the buttons:

सूत उवाच ।
बलेः पुत्रशतं त्वासीन्महाबलपराक्रमम् । तेषां प्रधानो द्युतिमान् बाणो नाम महाबलः ॥ १८.१॥
बलेः पुत्र-शतम् तु आसीत् महा-बल-पराक्रमम् । तेषाम् प्रधानः द्युतिमान् बाणः नाम महा-बलः ॥ १८।१॥
baleḥ putra-śatam tu āsīt mahā-bala-parākramam . teṣām pradhānaḥ dyutimān bāṇaḥ nāma mahā-balaḥ .. 18.1..
सोऽतीव शंकरे भक्तो राजा राज्यमपालयत् । त्रैलोक्यं वशमानीय बाधयामास वासवम् ॥ १८.२॥
सः अतीव शंकरे भक्तः राजा राज्यम् अपालयत् । त्रैलोक्यम् वशम् आनीय बाधयामास वासवम् ॥ १८।२॥
saḥ atīva śaṃkare bhaktaḥ rājā rājyam apālayat . trailokyam vaśam ānīya bādhayāmāsa vāsavam .. 18.2..
ततः शक्रादयो देवा गत्वोचुः कृत्तिवाससम् । त्वदीयो बाधते ह्यस्मान् बाणो नाम महासुरः ॥ १८.३॥
ततस् शक्र-आदयः देवाः गत्वा ऊचुः कृत्तिवाससम् । त्वदीयः बाधते हि अस्मान् बाणः नाम महा-असुरः ॥ १८।३॥
tatas śakra-ādayaḥ devāḥ gatvā ūcuḥ kṛttivāsasam . tvadīyaḥ bādhate hi asmān bāṇaḥ nāma mahā-asuraḥ .. 18.3..
व्याहृतो दैवतैः सर्वैर्देवदेवो महेश्वरः । ददाह बाणस्य पुरं शरेणैकेन लीलया ॥ १८.४॥
व्याहृतः दैवतैः सर्वैः देवदेवः महेश्वरः । ददाह बाणस्य पुरम् शरेण एकेन लीलया ॥ १८।४॥
vyāhṛtaḥ daivataiḥ sarvaiḥ devadevaḥ maheśvaraḥ . dadāha bāṇasya puram śareṇa ekena līlayā .. 18.4..
दह्यमाने पुरे तस्मिन् बाणो रुद्रं त्रिशूलिनम् । ययौ शरणमीशानं गोपतिं नीललोहितम् ॥ १८.५॥
दह्यमाने पुरे तस्मिन् बाणः रुद्रम् त्रिशूलिनम् । ययौ शरणम् ईशानम् गोपतिम् नीललोहितम् ॥ १८।५॥
dahyamāne pure tasmin bāṇaḥ rudram triśūlinam . yayau śaraṇam īśānam gopatim nīlalohitam .. 18.5..
मूर्द्धन्याधाय तल्लिङ्गं शांभवं भीतवर्जितः । निर्गत्य तु पुरात् तस्मात् तुष्टाव परमेश्वरम् ॥ १८.६॥
मूर्द्धनि आधाय तत् लिङ्गम् शांभवम् भीत-वर्जितः । निर्गत्य तु पुरात् तस्मात् तुष्टाव परमेश्वरम् ॥ १८।६॥
mūrddhani ādhāya tat liṅgam śāṃbhavam bhīta-varjitaḥ . nirgatya tu purāt tasmāt tuṣṭāva parameśvaram .. 18.6..
संस्तुतो भगवानीशः शंकरो नीललोहितः । गाणपत्येन बाणं तं योजयामास भावतः ॥ १८.७॥
संस्तुतः भगवान् ईशः शंकरः नीललोहितः । गाणपत्येन बाणम् तम् योजयामास भावतः ॥ १८।७॥
saṃstutaḥ bhagavān īśaḥ śaṃkaraḥ nīlalohitaḥ . gāṇapatyena bāṇam tam yojayāmāsa bhāvataḥ .. 18.7..
अथाभवन् दनोः पुत्रास्ताराद्या श्चातिभीषणाः । तारस्तथा शम्बरश्च कपिलः शंकरस्तथा । स्वर्भानुर्वृषपर्वा च प्राधान्येन प्रकीर्तिताः ॥ १८.८॥
अथ अभवन् दनोः पुत्राः तार-आद्याः श्च अति भीषणाः । तारः तथा शम्बरः च कपिलः शंकरः तथा । स्वर्भानुः वृषपर्वा च प्राधान्येन प्रकीर्तिताः ॥ १८।८॥
atha abhavan danoḥ putrāḥ tāra-ādyāḥ śca ati bhīṣaṇāḥ . tāraḥ tathā śambaraḥ ca kapilaḥ śaṃkaraḥ tathā . svarbhānuḥ vṛṣaparvā ca prādhānyena prakīrtitāḥ .. 18.8..
सुरसायाः सहस्रं तु सर्पाणामभवद् द्विजाः । अनेकशिरसां तद्वत् खेचराणां महात्मनाम् ॥ १८.९॥
सुरसायाः सहस्रम् तु सर्पाणाम् अभवत् द्विजाः । अनेक-शिरसाम् तद्वत् खेचराणाम् महात्मनाम् ॥ १८।९॥
surasāyāḥ sahasram tu sarpāṇām abhavat dvijāḥ . aneka-śirasām tadvat khecarāṇām mahātmanām .. 18.9..
अरिष्टा जनयामास गन्धर्वाणां सहस्रकम् । अनन्ताद्या महानागाः काद्रवेयाः प्रकीर्तिताः ॥ १८.१॥
अरिष्टा जनयामास गन्धर्वाणाम् सहस्रकम् । अनन्त-आद्याः महा-नागाः काद्रवेयाः प्रकीर्तिताः ॥ १८।१॥
ariṣṭā janayāmāsa gandharvāṇām sahasrakam . ananta-ādyāḥ mahā-nāgāḥ kādraveyāḥ prakīrtitāḥ .. 18.1..
ताम्रा च जनयामास षट् कन्या द्विजपुंगवाः । शुकीं श्येनीं च भासीं च सुग्रीवां ग्रन्थिकां शुचिम् ॥ १८.११॥
ताम्रा च जनयामास षड् कन्याः द्विज-पुंगवाः । शुकीम् श्येनीम् च भासीम् च सु ग्रीवाम् ग्रन्थिकाम् शुचिम् ॥ १८।११॥
tāmrā ca janayāmāsa ṣaḍ kanyāḥ dvija-puṃgavāḥ . śukīm śyenīm ca bhāsīm ca su grīvām granthikām śucim .. 18.11..
गास्तथा जनयामास सुरभिर्महिषीस्तथा । इरा वृक्षलतावल्लीस्तृणजातीश्च सर्वशः ॥ १८.१२॥
गाः तथा जनयामास सुरभिः महिषीः तथा । इराः वृक्ष-लता-वल्लीः तृण-जातीः च सर्वशस् ॥ १८।१२॥
gāḥ tathā janayāmāsa surabhiḥ mahiṣīḥ tathā . irāḥ vṛkṣa-latā-vallīḥ tṛṇa-jātīḥ ca sarvaśas .. 18.12..
तथा वै यक्षरक्षांसि मुनिरप्सरसस्तथा । रक्षोगणं क्रोधवशाज्जनयामास सत्तमाः ॥ १८.१३॥
तथा वै यक्ष-रक्षांसि मुनिः अप्सरसः तथा । रक्षः-गणम् क्रोध-वशात् जनयामास सत्तमाः ॥ १८।१३॥
tathā vai yakṣa-rakṣāṃsi muniḥ apsarasaḥ tathā . rakṣaḥ-gaṇam krodha-vaśāt janayāmāsa sattamāḥ .. 18.13..
विनतायाश्च पुत्रौ द्वौ प्रख्यातौ गरुडारुणौ । तयोश्च गरुडो धीमान् तपस्तप्त्वा सुदुश्चरम् । प्रसादाच्छूनिलः प्राप्तो वाहनत्वं हरेः स्वयम् ॥ १८.१४॥
विनतायाः च पुत्रौ द्वौ प्रख्यातौ गरुड-अरुणौ । तयोः च गरुडः धीमान् तपः तप्त्वा सु दुश्चरम् । प्रसादात् शूनिलः प्राप्तः वाहन-त्वम् हरेः स्वयम् ॥ १८।१४॥
vinatāyāḥ ca putrau dvau prakhyātau garuḍa-aruṇau . tayoḥ ca garuḍaḥ dhīmān tapaḥ taptvā su duścaram . prasādāt śūnilaḥ prāptaḥ vāhana-tvam hareḥ svayam .. 18.14..
आराध्य तपसा रुद्रं महादेवं तथाऽरुणः । सारथ्ये कल्पितः पूर्वं प्रीतेनार्कस्य शंभुना ॥ १८.१५॥
आराध्य तपसा रुद्रम् महादेवम् तथा अरुणः । सारथ्ये कल्पितः पूर्वम् प्रीतेन अर्कस्य शंभुना ॥ १८।१५॥
ārādhya tapasā rudram mahādevam tathā aruṇaḥ . sārathye kalpitaḥ pūrvam prītena arkasya śaṃbhunā .. 18.15..
एते कश्यपदायादाः कीर्त्तिताः स्थाणुजङ्गमाः । वैवस्वतेऽन्तरेह्यस्मिञ्छृण्वतां पापनाशनाः ॥ १८.१६॥
एते कश्यप-दायादाः कीर्त्तिताः स्थाणु-जङ्गमाः । वैवस्वते अन्तरेहि अस्मिन् शृण्वताम् पाप-नाशनाः ॥ १८।१६॥
ete kaśyapa-dāyādāḥ kīrttitāḥ sthāṇu-jaṅgamāḥ . vaivasvate antarehi asmin śṛṇvatām pāpa-nāśanāḥ .. 18.16..
सप्तविंशतसुताः प्रोक्ताः सोमपत्न्याश्च सुव्रताः । अरिष्टनेमिपत्नीनामपत्यानीह षोडश ॥ १८.१७॥
सप्तविंशत्-सुताः प्रोक्ताः सोम-पत्न्याः च सुव्रताः । अरिष्टनेमि-पत्नीनाम् अपत्यानि इह षोडश ॥ १८।१७॥
saptaviṃśat-sutāḥ proktāḥ soma-patnyāḥ ca suvratāḥ . ariṣṭanemi-patnīnām apatyāni iha ṣoḍaśa .. 18.17..
बहुपुत्रस्य विदुषश्चतस्त्रो विद्युतः स्मृताः । तद्वदङ्गिरसः पुत्रा ऋषयो ब्रह्मसत्कृताः ॥ १८.१८॥
बहुपुत्रस्य विदुषः चतस्त्रः विद्युतः स्मृताः । तद्वत् अङ्गिरसः पुत्राः ऋषयः ब्रह्म-सत्कृताः ॥ १८।१८॥
bahuputrasya viduṣaḥ catastraḥ vidyutaḥ smṛtāḥ . tadvat aṅgirasaḥ putrāḥ ṛṣayaḥ brahma-satkṛtāḥ .. 18.18..
कुशाश्वस्य तु देवर्षेर्देवप्रहरणाः सुताः । एते युगसहस्त्रान्ते जायन्ते पुनरेव हि । मन्वन्तरेषु नियतं तुल्य कार्यैः स्वनामभिः ॥ १८.१९॥
कुशाश्वस्य तु देवर्षेः देव-प्रहरणाः सुताः । एते युग-सहस्त्र-अन्ते जायन्ते पुनर् एव हि । मन्वन्तरेषु नियतम् तुल्य-कार्यैः स्व-नामभिः ॥ १८।१९॥
kuśāśvasya tu devarṣeḥ deva-praharaṇāḥ sutāḥ . ete yuga-sahastra-ante jāyante punar eva hi . manvantareṣu niyatam tulya-kāryaiḥ sva-nāmabhiḥ .. 18.19..
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे अष्टादशोऽध्यायः॥ ॥
इति श्री-कूर्मपुराणे षट्साहस्त्र्याम् संहितायाम् पूर्व-विभागे अष्टादशः अध्यायः॥ ॥
iti śrī-kūrmapurāṇe ṣaṭsāhastryām saṃhitāyām pūrva-vibhāge aṣṭādaśaḥ adhyāyaḥ.. ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In