| |
|

This overlay will guide you through the buttons:

अथ वर्णाश्रमवर्णनम्। श्रीकूर्म उवाच ।
श्रृणुध्वमृषयः सर्वे यत्पृष्टोऽहं जगद्धितम् । वक्ष्यमाणं मया सर्वमिन्द्रद्युम्नाय भाषितम् ॥ २.१
श्रृणुध्वम् ऋषयः सर्वे यत् पृष्टः अहम् जगत्-हितम् । वक्ष्यमाणम् मया सर्वम् इन्द्रद्युम्नाय भाषितम् ॥ २।१
śrṛṇudhvam ṛṣayaḥ sarve yat pṛṣṭaḥ aham jagat-hitam . vakṣyamāṇam mayā sarvam indradyumnāya bhāṣitam .. 2.1
भूतैर्भव्यैर्भविष्यद्भिश्चरितैरुपबृंहितम् । पुराणं पुण्यदं नृणां मोक्षधर्मानुकीर्तनम् ॥ २.२॥
भूतैः भव्यैः भविष्यद्भिः चरितैः उपबृंहितम् । पुराणम् पुण्य-दम् नृणाम् मोक्ष-धर्म-अनुकीर्तनम् ॥ २।२॥
bhūtaiḥ bhavyaiḥ bhaviṣyadbhiḥ caritaiḥ upabṛṃhitam . purāṇam puṇya-dam nṛṇām mokṣa-dharma-anukīrtanam .. 2.2..
अहं नारायणो देवः पूर्वमासं न मे परम् । उपास्य विपुलां निद्रां भोगिशय्यां समाश्रितः ॥ २.३॥
अहम् नारायणः देवः पूर्वम् आसम् न मे परम् । उपास्य विपुलाम् निद्राम् भोगि-शय्याम् समाश्रितः ॥ २।३॥
aham nārāyaṇaḥ devaḥ pūrvam āsam na me param . upāsya vipulām nidrām bhogi-śayyām samāśritaḥ .. 2.3..
चिन्तयामि पुनः सृष्टिं निशान्ते प्रतिबुध्य तु । ततो मे सहसोत्पन्नः प्रसादो मुनिपुंगवा ॥ २.४॥
चिन्तयामि पुनर् सृष्टिम् निशा-अन्ते प्रतिबुध्य तु । ततस् मे सहसा उत्पन्नः प्रसादः मुनि-पुंगवा ॥ २।४॥
cintayāmi punar sṛṣṭim niśā-ante pratibudhya tu . tatas me sahasā utpannaḥ prasādaḥ muni-puṃgavā .. 2.4..
चतुर्मुखस्ततो जातो ब्रह्मा लोकपितामहः । तदन्तरेऽभवत् क्रोधः कस्माच्चित् कारणात् तदा ॥ २.५॥
चतुर्मुखः ततस् जातः ब्रह्मा लोकपितामहः । तद्-अन्तरे अभवत् क्रोधः कश्चितः कारणात् तदा ॥ २।५॥
caturmukhaḥ tatas jātaḥ brahmā lokapitāmahaḥ . tad-antare abhavat krodhaḥ kaścitaḥ kāraṇāt tadā .. 2.5..
आत्मनो मुनिशार्दूलास्तत्र देवो महेश्वरः । रुद्रः क्रोधात्मको जज्ञे शूलपाणिस्त्रिलोचनः ॥ २.६॥
आत्मनः मुनि-शार्दूलाः तत्र देवः महेश्वरः । रुद्रः क्रोध-आत्मकः जज्ञे शूलपाणिः त्रिलोचनः ॥ २।६॥
ātmanaḥ muni-śārdūlāḥ tatra devaḥ maheśvaraḥ . rudraḥ krodha-ātmakaḥ jajñe śūlapāṇiḥ trilocanaḥ .. 2.6..
तेजसा सूर्यसंकाशस्त्रैलोक्यं संदहन्निव । ततः श्रीरभवद् देवि कमलायतलोचना॥ २.७॥
तेजसा सूर्य-संकाशः त्रैलोक्यम् संदहन् इव । ततस् श्रीः अभवत् देवि कमल-आयत-लोचना॥ २।७॥
tejasā sūrya-saṃkāśaḥ trailokyam saṃdahan iva . tatas śrīḥ abhavat devi kamala-āyata-locanā.. 2.7..
सुरूपा सौम्यवदना मोहिनी सर्वदेहिनाम् । शुचिस्मिता सुप्रसन्ना मङ्गला महिमास्पदा ॥ २.८॥
सुरूपा सौम्य-वदना मोहिनी सर्व-देहिनाम् । शुचि-स्मिता सु प्रसन्ना मङ्गला महिम-आस्पदा ॥ २।८॥
surūpā saumya-vadanā mohinī sarva-dehinām . śuci-smitā su prasannā maṅgalā mahima-āspadā .. 2.8..
दिव्यकान्तिसमायुक्ता दिव्यमाल्योपशोभिता । नारायणी महामाया मूलप्रकृतिरव्यया ॥ २.९॥
दिव्य-कान्ति-समायुक्ता दिव्य-माल्य-उपशोभिता । नारायणी महामाया मूलप्रकृतिः अव्यया ॥ २।९॥
divya-kānti-samāyuktā divya-mālya-upaśobhitā . nārāyaṇī mahāmāyā mūlaprakṛtiḥ avyayā .. 2.9..
स्वधाम्ना पूरयन्तीदं मत्पार्श्वं समुपाविशत् । तां दृष्टवा भगवान् ब्रह्मा मामुवाच जगत्पतिम् ॥ २.१॥
स्व-धाम्ना पूरयन्ती इदम् मद्-पार्श्वम् समुपाविशत् । ताम् दृष्टवा भगवान् ब्रह्मा माम् उवाच जगत्पतिम् ॥ २।१॥
sva-dhāmnā pūrayantī idam mad-pārśvam samupāviśat . tām dṛṣṭavā bhagavān brahmā mām uvāca jagatpatim .. 2.1..
मोहायाशेषभूतानां नियोजय सुरूपिणीम् । येनेयं विपुला सृष्टिर्वर्द्धते मम माधव ॥ २.११॥
मोहाय अशेष-भूतानाम् नियोजय सुरूपिणीम् । येन इयम् विपुला सृष्टिः वर्द्धते मम माधव ॥ २।११॥
mohāya aśeṣa-bhūtānām niyojaya surūpiṇīm . yena iyam vipulā sṛṣṭiḥ varddhate mama mādhava .. 2.11..
तथोक्तोऽहं श्रियं देवीमब्रवं प्रहसन्निव । देवीदमखिलं विश्वं सदेवासुरमानुषम् ॥ २.१२॥
तथा उक्तः अहम् श्रियम् देवीम् अब्रवम् प्रहसन् इव । देवि इदम् अखिलम् विश्वम् स देव-असुर-मानुषम् ॥ २।१२॥
tathā uktaḥ aham śriyam devīm abravam prahasan iva . devi idam akhilam viśvam sa deva-asura-mānuṣam .. 2.12..
मोहयित्वा ममादेशात् संसारे विनिपातय । ज्ञानयोगरतान् दान्तान् ब्रह्मिष्ठान् ब्रह्मवादिनः ॥ २.१३॥
मोहयित्वा मम आदेशात् संसारे विनिपातय । ज्ञान-योग-रतान् दान्तान् ब्रह्मिष्ठान् ब्रह्म-वादिनः ॥ २।१३॥
mohayitvā mama ādeśāt saṃsāre vinipātaya . jñāna-yoga-ratān dāntān brahmiṣṭhān brahma-vādinaḥ .. 2.13..
अक्रोधनान् सत्यपरान् दूरतः परिवर्जय । ध्यायिनो निर्ममान् शान्तान् धार्मिकान् वेदपारगान् ॥ २.१४॥
अक्रोधनान् सत्य-परान् दूरतस् परिवर्जय । ध्यायिनः निर्ममान् शान्तान् धार्मिकान् वेदपारगान् ॥ २।१४॥
akrodhanān satya-parān dūratas parivarjaya . dhyāyinaḥ nirmamān śāntān dhārmikān vedapāragān .. 2.14..
। याजिनस्तापसान् विप्रान् दूरतः परिवर्जय । वेदवेदान्तविज्ञानसंछिन्नाशेषसंशयान् ॥ २.१५॥
। याजिनः तापसान् विप्रान् दूरतस् परिवर्जय । वेद-वेदान्त-विज्ञान-संछिन्न-अशेष-संशयान् ॥ २।१५॥
. yājinaḥ tāpasān viprān dūratas parivarjaya . veda-vedānta-vijñāna-saṃchinna-aśeṣa-saṃśayān .. 2.15..
महायज्ञपरान् विप्रान् दूरतः परिवर्जय । ये यजन्ति जपैर्होमैर्देवदेवं महेश्वरम् ॥ २.१६॥
महायज्ञ-परान् विप्रान् दूरतस् परिवर्जय । ये यजन्ति जपैः होमैः देवदेवम् महेश्वरम् ॥ २।१६॥
mahāyajña-parān viprān dūratas parivarjaya . ye yajanti japaiḥ homaiḥ devadevam maheśvaram .. 2.16..
स्वाध्यायेनेज्यया दूरात् तान् प्रयत्नेन वर्जय । भक्तियोगसमायुक्तानीश्वरार्पितमानसान् ॥ २.१७॥
स्वाध्यायेन इज्यया दूरात् तान् प्रयत्नेन वर्जय । भक्ति-योग-समायुक्तान् ईश्वर-अर्पित-मानसान् ॥ २।१७॥
svādhyāyena ijyayā dūrāt tān prayatnena varjaya . bhakti-yoga-samāyuktān īśvara-arpita-mānasān .. 2.17..
प्राणायामादिषु रतान् दूरात् परिहरामलान् । प्रणवासक्तमनसो रुद्रजप्यपरायणान् ॥ २.१८॥
प्राणायाम-आदिषु रतान् दूरात् परिहर अमलान् । प्रणव-आसक्त-मनसः रुद्र-जप्य-परायणान् ॥ २।१८॥
prāṇāyāma-ādiṣu ratān dūrāt parihara amalān . praṇava-āsakta-manasaḥ rudra-japya-parāyaṇān .. 2.18..
अथर्वशिरसोऽध्येतृन् धर्मज्ञान् परिवर्जय । बहुनाऽत्र किमुक्तेन स्वधर्मपरिपालकान् ॥ २.१९॥
अथर्वशिरसः अध्येतृन् धर्म-ज्ञान् परिवर्जय । बहुना अत्र किम् उक्तेन स्वधर्म-परिपालकान् ॥ २।१९॥
atharvaśirasaḥ adhyetṛn dharma-jñān parivarjaya . bahunā atra kim uktena svadharma-paripālakān .. 2.19..
ईश्वराराधनरतान् मन्नियोगान्न मोहय । एवं मया महामाया प्रेरिता हरिवल्लभा ॥ २.२॥
ईश्वर-आराधन-रतान् मद्-नियोगात् न मोहय । एवम् मया महामाया प्रेरिता हरिवल्लभा ॥ २।२॥
īśvara-ārādhana-ratān mad-niyogāt na mohaya . evam mayā mahāmāyā preritā harivallabhā .. 2.2..
यथादेशं चकारासौ तस्माल्लक्ष्मीं समर्चयेत् । श्रियं ददाति विपुलां पुष्टिं मेधां यशो बलम् ॥ २.२१॥
यथादेशम् चकार असौ तस्मात् लक्ष्मीम् समर्चयेत् । श्रियम् ददाति विपुलाम् पुष्टिम् मेधाम् यशः बलम् ॥ २।२१॥
yathādeśam cakāra asau tasmāt lakṣmīm samarcayet . śriyam dadāti vipulām puṣṭim medhām yaśaḥ balam .. 2.21..
अर्चिता भगवत्पत्नी तस्माल्लक्ष्मीं समर्चयेत् । ततोऽसृजत् स भगवान् ब्रह्मा लोकपितामहः ॥ २.२२॥
अर्चिता भगवत्-पत्नी तस्मात् लक्ष्मीम् समर्चयेत् । ततस् असृजत् स भगवान् ब्रह्मा लोकपितामहः ॥ २।२२॥
arcitā bhagavat-patnī tasmāt lakṣmīm samarcayet . tatas asṛjat sa bhagavān brahmā lokapitāmahaḥ .. 2.22..
चराचराणि भूतानि यथापूर्वं ममाज्ञया । मरीचिभृग्वङ्गिरसं पुलस्त्यं पुलहं क्रतुम् ॥ २.२३॥
चर-अचराणि भूतानि यथापूर्वम् मम आज्ञया । मरीचि-भृगु-अङ्गिरसम् पुलस्त्यम् पुलहम् क्रतुम् ॥ २।२३॥
cara-acarāṇi bhūtāni yathāpūrvam mama ājñayā . marīci-bhṛgu-aṅgirasam pulastyam pulaham kratum .. 2.23..
दक्षमत्रिं वसिष्ठं च सोऽसृजद् योगविद्यया । नवैते ब्रह्मणः पुत्रा ब्रह्मणा ब्राह्मणोत्तमाः । २.२४॥ ॥
दक्षम् अत्रिम् वसिष्ठम् च सः असृजत् योग-विद्यया । नवा एते ब्रह्मणः पुत्राः ब्रह्मणा ब्राह्मण-उत्तमाः । २।२४॥ ॥
dakṣam atrim vasiṣṭham ca saḥ asṛjat yoga-vidyayā . navā ete brahmaṇaḥ putrāḥ brahmaṇā brāhmaṇa-uttamāḥ . 2.24.. ..
ब्रह्मवादिन एवैते मरीच्याद्यास्तु साधकाः । ससर्ज ब्राह्मणान् वक्त्रात् क्षत्रियांश्च भुजाद् विभुः॥ २.२५॥
ब्रह्म-वादिनः एव एते मरीचि-आद्याः तु साधकाः । ससर्ज ब्राह्मणान् वक्त्रात् क्षत्रियान् च भुजात् विभुः॥ २।२५॥
brahma-vādinaḥ eva ete marīci-ādyāḥ tu sādhakāḥ . sasarja brāhmaṇān vaktrāt kṣatriyān ca bhujāt vibhuḥ.. 2.25..
वैश्यानूरुद्वयाद् देवः पादार्च्छूद्रान् पितामहः । यज्ञनिष्पत्तये ब्रह्मा शूद्रवर्जं ससर्ज ह ॥ २.२६॥
वैश्यान् ऊरु-द्वयात् देवः पादात् शूद्रान् पितामहः । यज्ञ-निष्पत्तये ब्रह्मा शूद्र-वर्जम् ससर्ज ह ॥ २।२६॥
vaiśyān ūru-dvayāt devaḥ pādāt śūdrān pitāmahaḥ . yajña-niṣpattaye brahmā śūdra-varjam sasarja ha .. 2.26..
गुप्तये सर्ववेदानां तेभ्यो यज्ञो हि निर्बभौ । ऋचो यजूंषि सामानि तथैवाथर्वणानि च । २.२७॥ ॥
गुप्तये सर्व-वेदानाम् तेभ्यः यज्ञः हि निर्बभौ । ऋचः यजूंषि सामानि तथा एव आथर्वणानि च । २।२७॥ ॥
guptaye sarva-vedānām tebhyaḥ yajñaḥ hi nirbabhau . ṛcaḥ yajūṃṣi sāmāni tathā eva ātharvaṇāni ca . 2.27.. ..
ब्रह्मणः सहजं रूपं नित्यैषा शक्तिरव्यया । अनादिनिधना दिव्या वागुत्सृष्टा स्वयंभुवा ॥ २.२८॥
ब्रह्मणः सहजम् रूपम् नित्या एषा शक्तिः अव्यया । अन् आदि-निधना दिव्या वाच् उत्सृष्टा स्वयंभुवा ॥ २।२८॥
brahmaṇaḥ sahajam rūpam nityā eṣā śaktiḥ avyayā . an ādi-nidhanā divyā vāc utsṛṣṭā svayaṃbhuvā .. 2.28..
आदौ वेदमयी भूता यतः सर्वाः प्रवृत्तयः । अतोऽन्यानितु शास्त्राणिपृथिव्यांयानिकानिचित् ॥ २.२९॥
आदौ वेद-मयी भूता यतस् सर्वाः प्रवृत्तयः । अतस् अन्यानि तु शास्त्राणि पृथिव्याम् यानि कानिचिद् ॥ २।२९॥
ādau veda-mayī bhūtā yatas sarvāḥ pravṛttayaḥ . atas anyāni tu śāstrāṇi pṛthivyām yāni kānicid .. 2.29..
न तेषु रमते धीरः पाषण्डी तेन जायते । वेदार्थवित्तमैः कार्यं यत्स्मृतं मुनिभिः पुरा ॥ २.३॥
न तेषु रमते धीरः पाषण्डी तेन जायते । वेद-अर्थ-वित्तमैः कार्यम् यत् स्मृतम् मुनिभिः पुरा ॥ २।३॥
na teṣu ramate dhīraḥ pāṣaṇḍī tena jāyate . veda-artha-vittamaiḥ kāryam yat smṛtam munibhiḥ purā .. 2.3..
स ज्ञेयः परमो धर्मो नान्यशास्त्रेषु संस्थितः । या वेदबाह्याः स्मृतयो याश्च काश्च कुदृष्टयः ॥ २.३१॥
स ज्ञेयः परमः धर्मः न अन्य-शास्त्रेषु संस्थितः । याः वेद-बाह्याः स्मृतयः याः च काः च कुदृष्टयः ॥ २।३१॥
sa jñeyaḥ paramaḥ dharmaḥ na anya-śāstreṣu saṃsthitaḥ . yāḥ veda-bāhyāḥ smṛtayaḥ yāḥ ca kāḥ ca kudṛṣṭayaḥ .. 2.31..
सर्वास्ता निष्फलाः प्रेत्यतमोनिष्ठाहिताः स्मृताः । पूर्वकल्पे प्रजा जाताः सर्वबादाविवर्जिताः ॥ २.३२॥
सर्वाः ताः निष्फलाः प्रेत्य तमः-निष्ठा-हिताः स्मृताः । पूर्व-कल्पे प्रजाः जाताः ॥ २।३२॥
sarvāḥ tāḥ niṣphalāḥ pretya tamaḥ-niṣṭhā-hitāḥ smṛtāḥ . pūrva-kalpe prajāḥ jātāḥ .. 2.32..
शुद्धान्तः करणाः सर्वाः स्वधर्मनिरताः सदा । ततः कालवशात् तासां रागद्वेषादिकोऽभवत् ॥ २.३३॥
शुद्ध-अन्तः करणाः सर्वाः स्वधर्म-निरताः सदा । ततस् काल-वशात् तासाम् राग-द्वेष-आदिकः अभवत् ॥ २।३३॥
śuddha-antaḥ karaṇāḥ sarvāḥ svadharma-niratāḥ sadā . tatas kāla-vaśāt tāsām rāga-dveṣa-ādikaḥ abhavat .. 2.33..
अधर्मो मुनिशार्दूलाः स्वधर्मप्रतिबन्धकः । ततः सा सहजा सिद्धिस्तासां नातीव जायते । रजोमात्रात्मिकास्तासां सिद्धयोऽन्यास्तदाभवन् ॥ २.३३॥
अधर्मः मुनि-शार्दूलाः स्वधर्म-प्रतिबन्धकः । ततस् सा सहजा सिद्धिः तासाम् ना अतीव जायते । रजः-मात्र-आत्मिकाः तासाम् सिद्धयः अन्याः तदा अभवन् ॥ २।३३॥
adharmaḥ muni-śārdūlāḥ svadharma-pratibandhakaḥ . tatas sā sahajā siddhiḥ tāsām nā atīva jāyate . rajaḥ-mātra-ātmikāḥ tāsām siddhayaḥ anyāḥ tadā abhavan .. 2.33..
तासु क्षीणास्वशेषासु कालयोगेन ताः पुनः । वार्त्तोपायं पुनश्चक्रुर्हस्तसिद्धिं च कर्मजाम् । ततस्तासां विभुर्ब्रह्मा कर्माजीवमकल्पयत् ॥ २.३४॥
तासु क्षीणासु अशेषासु काल-योगेन ताः पुनर् । वार्त्ता-उपायम् पुनर् चक्रुः हस्त-सिद्धिम् च कर्म-जाम् । ततस् तासाम् विभुः ब्रह्मा कर्माजीवम् अकल्पयत् ॥ २।३४॥
tāsu kṣīṇāsu aśeṣāsu kāla-yogena tāḥ punar . vārttā-upāyam punar cakruḥ hasta-siddhim ca karma-jām . tatas tāsām vibhuḥ brahmā karmājīvam akalpayat .. 2.34..
स्वायंभुवो मनुः पूर्वं धर्मान् प्रोवाच धर्मदृक् । साक्षात् प्रजापतेर्मूर्तिर्निसृष्टा ब्रह्मणा द्विजाः । भृग्वादयस्तद्वदनाच्छ्रुत्वा धर्मानथोचिरे ॥ २.३५॥
स्वायंभुवः मनुः पूर्वम् धर्मान् प्रोवाच धर्म-दृश् । साक्षात् प्रजापतेः मूर्तिः निसृष्टा ब्रह्मणा द्विजाः । भृगु-आदयः तद्-वदनात् श्रुत्वा धर्मान् अथ ऊचिरे ॥ २।३५॥
svāyaṃbhuvaḥ manuḥ pūrvam dharmān provāca dharma-dṛś . sākṣāt prajāpateḥ mūrtiḥ nisṛṣṭā brahmaṇā dvijāḥ . bhṛgu-ādayaḥ tad-vadanāt śrutvā dharmān atha ūcire .. 2.35..
यजनं याजनं दानं ब्राह्मणस्य प्रतिग्रहमः । अध्यापनं चाध्ययनं षट् कर्माणि द्विजोत्तमाः ॥ २.३६॥
यजनम् याजनम् दानम् ब्राह्मणस्य । अध्यापनम् च अध्ययनम् षड् कर्माणि द्विजोत्तमाः ॥ २।३६॥
yajanam yājanam dānam brāhmaṇasya . adhyāpanam ca adhyayanam ṣaḍ karmāṇi dvijottamāḥ .. 2.36..
दानमध्ययनं यज्ञो धर्मः क्षत्रियवैश्ययोः । दण्डो युद्धं क्षत्रियस्य कृषिर्वैश्यस्य शस्यते ॥ २.३७॥
दानम् अध्ययनम् यज्ञः धर्मः क्षत्रिय-वैश्ययोः । दण्डः युद्धम् क्षत्रियस्य कृषिः वैश्यस्य शस्यते ॥ २।३७॥
dānam adhyayanam yajñaḥ dharmaḥ kṣatriya-vaiśyayoḥ . daṇḍaḥ yuddham kṣatriyasya kṛṣiḥ vaiśyasya śasyate .. 2.37..
शुश्रूषैव द्विजातीनां शूद्राणां धर्मसाधनम् । कारुकर्म तथाजीवः पाकयज्ञाऽदि धर्मतः ॥ २.३८॥
शुश्रूषा एव द्विजातीनाम् शूद्राणाम् धर्म-साधनम् । कारु-कर्म तथा आजीवः पाकयज्ञ-आदि धर्मतः ॥ २।३८॥
śuśrūṣā eva dvijātīnām śūdrāṇām dharma-sādhanam . kāru-karma tathā ājīvaḥ pākayajña-ādi dharmataḥ .. 2.38..
ततः स्थितेषु वर्णेषु स्थापयामास चाश्रमान् । गृहस्थं च वनस्थं च भिक्षुकं ब्रह्मचारिणम् ॥ २.३९॥
ततस् स्थितेषु वर्णेषु स्थापयामास च आश्रमान् । गृहस्थम् च वनस्थम् च भिक्षुकम् ब्रह्मचारिणम् ॥ २।३९॥
tatas sthiteṣu varṇeṣu sthāpayāmāsa ca āśramān . gṛhastham ca vanastham ca bhikṣukam brahmacāriṇam .. 2.39..
अग्नयोऽतिथिशुश्रूषा यज्ञो दानं सुरार्चनम् । गृहस्थस्य समासेन धर्मोऽयं मुनिपुंगवाः ॥ २.४॥
अग्नयः अतिथि-शुश्रूषा यज्ञः दानम् सुर-अर्चनम् । गृहस्थस्य समासेन धर्मः अयम् मुनि-पुंगवाः ॥ २।४॥
agnayaḥ atithi-śuśrūṣā yajñaḥ dānam sura-arcanam . gṛhasthasya samāsena dharmaḥ ayam muni-puṃgavāḥ .. 2.4..
होमो मूलफलाशित्वं स्वाध्यायस्तप एव च । संविभागो यथान्यायं धर्मोऽयं वनवासिनाम् ॥ २.४१॥
होमः मूल-फल-आशि-त्वम् स्वाध्यायः तपः एव च । संविभागः यथान्यायम् धर्मः अयम् वनवासिनाम् ॥ २।४१॥
homaḥ mūla-phala-āśi-tvam svādhyāyaḥ tapaḥ eva ca . saṃvibhāgaḥ yathānyāyam dharmaḥ ayam vanavāsinām .. 2.41..
भैक्षाशनं च मौनित्वं तपो ध्यानं विशेषतः । सम्यग्ज्ञानं च वैराग्यं धर्मोऽयं भिक्षुके मतः ॥ २.४२॥
भैक्ष-अशनम् च मौनि-त्वम् तपः ध्यानम् विशेषतः । सम्यक् ज्ञानम् च वैराग्यम् धर्मः अयम् भिक्षुके मतः ॥ २।४२॥
bhaikṣa-aśanam ca mauni-tvam tapaḥ dhyānam viśeṣataḥ . samyak jñānam ca vairāgyam dharmaḥ ayam bhikṣuke mataḥ .. 2.42..
भिक्षाचर्या च शुश्रूषा गुरोः स्वाध्याय एव च । सन्ध्याकर्माग्निकार्यं च धर्मोऽयं ब्रह्मचारिणाम् ॥ २.४३॥
भिक्षा-चर्या च शुश्रूषा गुरोः स्वाध्यायः एव च । सन्ध्या-कर्म अग्नि-कार्यम् च धर्मः अयम् ब्रह्मचारिणाम् ॥ २।४३॥
bhikṣā-caryā ca śuśrūṣā guroḥ svādhyāyaḥ eva ca . sandhyā-karma agni-kāryam ca dharmaḥ ayam brahmacāriṇām .. 2.43..
ब्रह्मचारिवनस्थानां भिक्षुकाणां द्विजोत्तमाः । साधारणं ब्रह्मचर्यं प्रोवाच कमलोद्भवः ॥ २.४४॥
ब्रह्मचारि-वनस्थानाम् भिक्षुकाणाम् द्विजोत्तमाः । साधारणम् ब्रह्मचर्यम् प्रोवाच कमलोद्भवः ॥ २।४४॥
brahmacāri-vanasthānām bhikṣukāṇām dvijottamāḥ . sādhāraṇam brahmacaryam provāca kamalodbhavaḥ .. 2.44..
ऋतुकालाभिगामित्वं स्वदारेषु न चान्यतः । पर्ववर्जं गृहस्थस्य ब्रह्मचर्यमुदाहृतम् ॥ २.४५॥
ऋतु-काल-अभिगामि-त्वम् स्व-दारेषु न च अन्यतस् । पर्व-वर्जम् गृहस्थस्य ब्रह्मचर्यम् उदाहृतम् ॥ २।४५॥
ṛtu-kāla-abhigāmi-tvam sva-dāreṣu na ca anyatas . parva-varjam gṛhasthasya brahmacaryam udāhṛtam .. 2.45..
आगर्भधारणादाज्ञा कार्या तेनाप्रमादतः । अकुर्वाणस्तु विप्रेन्द्रा भ्रूणहा तु प्रजायते ॥ २.४६॥
आ गर्भ-धारणात् आज्ञा कार्या तेन अप्रमादतः । अकुर्वाणः तु विप्र-इन्द्राः भ्रूण-हा तु प्रजायते ॥ २।४६॥
ā garbha-dhāraṇāt ājñā kāryā tena apramādataḥ . akurvāṇaḥ tu vipra-indrāḥ bhrūṇa-hā tu prajāyate .. 2.46..
वेदाभ्यासोऽन्वहं शक्त्या श्राद्धं चातिथिपूजनम् । गृहस्थस्य परो धर्मो देवताभ्यर्चनं तथा ॥ २.४७॥
वेद-अभ्यासः अन्वहम् शक्त्या श्राद्धम् च अतिथि-पूजनम् । गृहस्थस्य परः धर्मः देवता-अभ्यर्चनम् तथा ॥ २।४७॥
veda-abhyāsaḥ anvaham śaktyā śrāddham ca atithi-pūjanam . gṛhasthasya paraḥ dharmaḥ devatā-abhyarcanam tathā .. 2.47..
वैवाह्ममग्निमिन्धीत सायं प्रातर्यथाविधि । देशान्तरगतो वाऽथ मृतपत्नीक एव च ॥ २.४८॥
वैवाह्मम् अग्निम् इन्धीत सायम् प्रातर् यथाविधि । देश-अन्तर-गतः वा अथ मृत-पत्नीकः एव च ॥ २।४८॥
vaivāhmam agnim indhīta sāyam prātar yathāvidhi . deśa-antara-gataḥ vā atha mṛta-patnīkaḥ eva ca .. 2.48..
त्रयाणामाश्रमाणां तु गृहस्थो योनिरुच्यते । अन्ये तमुपजीवन्ति तस्माच्छ्रेयान् गृहाश्रमी ॥ २.४९॥
त्रयाणाम् आश्रमाणाम् तु गृहस्थः योनिः उच्यते । अन्ये तम् उपजीवन्ति तस्मात् श्रेयान् गृहाश्रमी ॥ २।४९॥
trayāṇām āśramāṇām tu gṛhasthaḥ yoniḥ ucyate . anye tam upajīvanti tasmāt śreyān gṛhāśramī .. 2.49..
ऐकाश्रम्यं गृहस्थस्य चतुर्णां श्रुतिदर्शनात् । तस्माद् गार्हस्थ्यमेवैकं विज्ञेयं धर्मसाधनम् ॥ २.५॥
ऐकाश्रम्यम् गृहस्थस्य चतुर्णाम् श्रुति-दर्शनात् । तस्मात् गार्हस्थ्यम् एव एकम् विज्ञेयम् धर्म-साधनम् ॥ २।५॥
aikāśramyam gṛhasthasya caturṇām śruti-darśanāt . tasmāt gārhasthyam eva ekam vijñeyam dharma-sādhanam .. 2.5..
परित्यजेदर्थकामौ यौ स्यातां धर्मवर्जितौ । सर्वलोकविरुद्धं च धर्ममप्याचरेन्न तु ॥ २.५१॥
परित्यजेत् अर्थ-कामौ यौ स्याताम् धर्म-वर्जितौ । सर्व-लोक-विरुद्धम् च धर्मम् अपि आचरेत् न तु ॥ २।५१॥
parityajet artha-kāmau yau syātām dharma-varjitau . sarva-loka-viruddham ca dharmam api ācaret na tu .. 2.51..
धर्मात् संजायते ह्यर्थो धर्मात् कामोऽभिजायते । धर्म एवापवर्गाय तस्माद् धर्मं समाश्रयेत् ॥ २.५२॥
धर्मात् संजायते हि अर्थः धर्मात् कामः अभिजायते । धर्मः एव अपवर्गाय तस्मात् धर्मम् समाश्रयेत् ॥ २।५२॥
dharmāt saṃjāyate hi arthaḥ dharmāt kāmaḥ abhijāyate . dharmaḥ eva apavargāya tasmāt dharmam samāśrayet .. 2.52..
धर्मश्चार्थश्च कामश्च त्रिवर्गस्त्रिगुणो मतः । सत्त्वं रजस्तमश्चेति तस्माद्धर्मं समाश्रयेत् ॥ २.५३॥
धर्मः च अर्थः च कामः च त्रिवर्गः त्रिगुणः मतः । सत्त्वम् रजः तमः च इति तस्मात् धर्मम् समाश्रयेत् ॥ २।५३॥
dharmaḥ ca arthaḥ ca kāmaḥ ca trivargaḥ triguṇaḥ mataḥ . sattvam rajaḥ tamaḥ ca iti tasmāt dharmam samāśrayet .. 2.53..
ऊर्ध्वं गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसाः । जघन्यगुणवृत्तिस्था अधो गच्छन्ति तामसाः ॥ २.५४॥
ऊर्ध्वम् गच्छन्ति सत्त्व-स्थाः मध्ये तिष्ठन्ति राजसाः । जघन्य-गुण-वृत्ति-स्थाः अधस् गच्छन्ति तामसाः ॥ २।५४॥
ūrdhvam gacchanti sattva-sthāḥ madhye tiṣṭhanti rājasāḥ . jaghanya-guṇa-vṛtti-sthāḥ adhas gacchanti tāmasāḥ .. 2.54..
यस्मिन् धर्मसमायुक्तावर्थकामौ व्यवस्थितौइह लोके सुखी भूत्वा प्रेत्यानन्त्याय कल्पते ॥ २.५५॥
यस्मिन् धर्म-समायुक्तौ अर्थ-कामौ व्यवस्थितौ इह लोके सुखी भूत्वा प्रेत्य आनन्त्याय कल्पते ॥ २।५५॥
yasmin dharma-samāyuktau artha-kāmau vyavasthitau iha loke sukhī bhūtvā pretya ānantyāya kalpate .. 2.55..
धर्मात् संजायते मोक्षो ह्यर्थात् कामोऽभिजायते । एवं साधनसाध्यत्वं चातुर्विध्ये प्रदर्शितम् ॥ २.५६॥
धर्मात् संजायते मोक्षः हि अर्थात् कामः अभिजायते । एवम् साधन-साध्य-त्वम् चातुर्विध्ये प्रदर्शितम् ॥ २।५६॥
dharmāt saṃjāyate mokṣaḥ hi arthāt kāmaḥ abhijāyate . evam sādhana-sādhya-tvam cāturvidhye pradarśitam .. 2.56..
य एवं वेद धर्मार्थकाममोक्षस्य मानवः । माहात्म्यं चानुतिष्ठेत स चानन्त्याय कल्पते ॥ २.५७॥
यः एवम् वेद धर्म-अर्थ-काम-मोक्षस्य मानवः । माहात्म्यम् च अनुतिष्ठेत स च आनन्त्याय कल्पते ॥ २।५७॥
yaḥ evam veda dharma-artha-kāma-mokṣasya mānavaḥ . māhātmyam ca anutiṣṭheta sa ca ānantyāya kalpate .. 2.57..
तस्मादर्थं च कामं च त्यक्त्वा धर्मं समाश्रयेत् । धर्मात् संजायते सर्वमित्याहुर्ब्रह्मवादिनः ॥ २.५८॥
तस्मात् अर्थम् च कामम् च त्यक्त्वा धर्मम् समाश्रयेत् । धर्मात् संजायते सर्वम् इति आहुः ब्रह्म-वादिनः ॥ २।५८॥
tasmāt artham ca kāmam ca tyaktvā dharmam samāśrayet . dharmāt saṃjāyate sarvam iti āhuḥ brahma-vādinaḥ .. 2.58..
धर्मेण धार्यते सर्वं जगत् स्थावरजङ्गमम् । अनादिनिधना शक्तिः सैषा ब्राह्मी द्विजोत्तमाः ॥ २.५९॥
धर्मेण धार्यते सर्वम् जगत् स्थावर-जङ्गमम् । अनादिनिधना शक्तिः सा एषा ब्राह्मी द्विजोत्तमाः ॥ २।५९॥
dharmeṇa dhāryate sarvam jagat sthāvara-jaṅgamam . anādinidhanā śaktiḥ sā eṣā brāhmī dvijottamāḥ .. 2.59..
कर्मणा प्राप्यते धर्मो ज्ञानेन च न संशयः । तस्माज्ज्ञानेन सहितं कर्मयोगं समाचरेत् ॥ २.६॥
कर्मणा प्राप्यते धर्मः ज्ञानेन च न संशयः । तस्मात् ज्ञानेन सहितम् कर्म-योगम् समाचरेत् ॥ २।६॥
karmaṇā prāpyate dharmaḥ jñānena ca na saṃśayaḥ . tasmāt jñānena sahitam karma-yogam samācaret .. 2.6..
प्रवृत्तं च निवृत्तं च द्विविधं कर्म वैदिकम् । ज्ञानपूर्वं निवृत्तं स्यात् प्रवृत्तं यदतोऽन्यथा ॥ २.६१॥
प्रवृत्तम् च निवृत्तम् च द्विविधम् कर्म वैदिकम् । ज्ञान-पूर्वम् निवृत्तम् स्यात् प्रवृत्तम् यत् अतस् अन्यथा ॥ २।६१॥
pravṛttam ca nivṛttam ca dvividham karma vaidikam . jñāna-pūrvam nivṛttam syāt pravṛttam yat atas anyathā .. 2.61..
निवृत्तं सेवमानस्तु याति तत् परमं पदम् । तस्मान्निवृत्तं संसेव्यमन्यथा संसरेत् पुनः ॥ २.६२॥
निवृत्तम् सेवमानः तु याति तत् परमम् पदम् । तस्मात् निवृत्तम् संसेव्यम् अन्यथा संसरेत् पुनर् ॥ २।६२॥
nivṛttam sevamānaḥ tu yāti tat paramam padam . tasmāt nivṛttam saṃsevyam anyathā saṃsaret punar .. 2.62..
क्षमा दमो दया दानमलोभस्त्याग एव च । आर्जवं चानसूया च तीर्थानुसरणं तथा ॥ २.६३॥
क्षमा दमः दया दानम् अलोभः त्यागः एव च । आर्जवम् च अनसूया च तीर्थ-अनुसरणम् तथा ॥ २।६३॥
kṣamā damaḥ dayā dānam alobhaḥ tyāgaḥ eva ca . ārjavam ca anasūyā ca tīrtha-anusaraṇam tathā .. 2.63..
सत्यं सन्तोषमास्तिक्यं श्रद्धा चेन्द्रियनिग्रहः । देवताभ्यर्चनं पूजा ब्राह्मणानां विशेषतः ॥ २.६४॥
सत्यम् सन्तोषम् आस्तिक्यम् श्रद्धा च इन्द्रिय-निग्रहः । देवता-अभ्यर्चनम् पूजा ब्राह्मणानाम् विशेषतः ॥ २।६४॥
satyam santoṣam āstikyam śraddhā ca indriya-nigrahaḥ . devatā-abhyarcanam pūjā brāhmaṇānām viśeṣataḥ .. 2.64..
अहिंसा प्रियवादित्वमपैशुन्यमकल्कता । सामासिकमिमं धर्मं चातुर्वर्ण्येऽब्रवीन्मनुः ॥ २.६५॥
अहिंसा प्रिय-वादि-त्वम् अपैशुन्यम् अकल्क-ता । सामासिकम् इमम् धर्मम् चातुर्वर्ण्ये अब्रवीत् मनुः ॥ २।६५॥
ahiṃsā priya-vādi-tvam apaiśunyam akalka-tā . sāmāsikam imam dharmam cāturvarṇye abravīt manuḥ .. 2.65..
प्राजापत्यं ब्राह्मणानां स्मृतं स्थानं क्रियावताम् । स्थानमैन्द्रं क्षत्रियाणां संग्रामेष्वपलायिनाम् ॥ २.६६॥
प्राजापत्यम् ब्राह्मणानाम् स्मृतम् स्थानम् क्रियावताम् । स्थानम् ऐन्द्रम् क्षत्रियाणाम् संग्रामेषु अपलायिनाम् ॥ २।६६॥
prājāpatyam brāhmaṇānām smṛtam sthānam kriyāvatām . sthānam aindram kṣatriyāṇām saṃgrāmeṣu apalāyinām .. 2.66..
वैश्यानां मारुतं स्थानं स्वधर्ममनुवर्तताम् । गान्धर्वं शूद्रजातीनां परिचारेण वर्तताम् ॥ २.६७॥
वैश्यानाम् मारुतम् स्थानम् स्वधर्मम् अनुवर्तताम् । गान्धर्वम् शूद्र-जातीनाम् परिचारेण वर्तताम् ॥ २।६७॥
vaiśyānām mārutam sthānam svadharmam anuvartatām . gāndharvam śūdra-jātīnām paricāreṇa vartatām .. 2.67..
अष्टाशीतिसहस्त्राणामृषीणामूर्ध्वरेतसाम् । स्मृतं तेषां तु यत्स्थानं तदेव गुरुवासिनाम् ॥ २.६८॥
अष्टाशीति-सहस्त्राणाम् ऋषीणाम् ऊर्ध्वरेतसाम् । स्मृतम् तेषाम् तु यत् स्थानम् तत् एव गुरु-वासिनाम् ॥ २।६८॥
aṣṭāśīti-sahastrāṇām ṛṣīṇām ūrdhvaretasām . smṛtam teṣām tu yat sthānam tat eva guru-vāsinām .. 2.68..
सप्तर्षीणान्तु यत्स्थानं स्मृतं तद् वै वनौकसाम् । प्राजापत्यं गृहस्थानां स्थानमुक्तं स्वयंभुवा ॥ २.६९॥
सप्तर्षीणाम् तु यत् स्थानम् स्मृतम् तत् वै वनौकसाम् । प्राजापत्यम् गृहस्थानाम् स्थानम् उक्तम् स्वयंभुवा ॥ २।६९॥
saptarṣīṇām tu yat sthānam smṛtam tat vai vanaukasām . prājāpatyam gṛhasthānām sthānam uktam svayaṃbhuvā .. 2.69..
यतीनां जितचित्तानां न्यासिनामूर्ध्वरेतसाम् । हैरण्यगर्भं तत्स्थानं यस्मान्नावर्त्तते पुनः ॥ २.७॥
यतीनाम् जित-चित्तानाम् न्यासिनाम् ऊर्ध्वरेतसाम् । हैरण्यगर्भम् तत् स्थानम् यस्मात् न आवर्त्तते पुनर् ॥ २।७॥
yatīnām jita-cittānām nyāsinām ūrdhvaretasām . hairaṇyagarbham tat sthānam yasmāt na āvarttate punar .. 2.7..
योगिनाममृतं स्थानं व्योमाख्यं परमक्षरम् । आनन्दमैश्वरं धाम सा काष्ठा सा परागतिः ॥ २.७१॥
योगिनाम् अमृतम् स्थानम् व्योम-आख्यम् परम् अक्षरम् । आनन्दम् ऐश्वरम् धाम सा काष्ठा सा परागतिः ॥ २।७१॥
yoginām amṛtam sthānam vyoma-ākhyam param akṣaram . ānandam aiśvaram dhāma sā kāṣṭhā sā parāgatiḥ .. 2.71..
ऋषच ऊचुः ।
भगवन् देवतारिघ्न हिरण्याक्षनिषूदन । चत्वारो ह्याश्रमाः प्रोक्ता योगिनामेक उच्यते ॥ २.७२॥
भगवन् देवता-अरि-घ्न हिरण्याक्ष-निषूदन । चत्वारः हि आश्रमाः प्रोक्ताः योगिनाम् एकः उच्यते ॥ २।७२॥
bhagavan devatā-ari-ghna hiraṇyākṣa-niṣūdana . catvāraḥ hi āśramāḥ proktāḥ yoginām ekaḥ ucyate .. 2.72..
श्रीकूर्म ऊवाच ।
सर्वकर्माणि संन्यस्य समाधिमचलं श्रितः । य आस्ते निश्चलो योगी स संन्यासी न पञ्चमः ॥ २.७३॥
सर्व-कर्माणि संन्यस्य समाधिम् अचलम् श्रितः । यः आस्ते निश्चलः योगी स संन्यासी न पञ्चमः ॥ २।७३॥
sarva-karmāṇi saṃnyasya samādhim acalam śritaḥ . yaḥ āste niścalaḥ yogī sa saṃnyāsī na pañcamaḥ .. 2.73..
सर्वेषामाश्रमाणां तु द्वैविध्यं श्रुतिदर्शितम् । ब्रह्मचार्युपकुर्वाणो नैष्ठिको ब्रह्मतत्परः ॥ २.७४॥
सर्वेषाम् आश्रमाणाम् तु द्वैविध्यम् श्रुति-दर्शितम् । ब्रह्मचारी उपकुर्वाणः नैष्ठिकः ब्रह्म-तत्परः ॥ २।७४॥
sarveṣām āśramāṇām tu dvaividhyam śruti-darśitam . brahmacārī upakurvāṇaḥ naiṣṭhikaḥ brahma-tatparaḥ .. 2.74..
योऽधीत्यविधिवद्वेदान् गृहस्थाश्रममाव्रजेत् । उपकुर्वाणको ज्ञेयो नैष्ठिको मरणान्तिकः ॥ २.७५॥
यः अधीत्य विधिवत् वेदान् गृहस्थ-आश्रमम् आव्रजेत् । उपकुर्वाणकः ज्ञेयः नैष्ठिकः मरण-अन्तिकः ॥ २।७५॥
yaḥ adhītya vidhivat vedān gṛhastha-āśramam āvrajet . upakurvāṇakaḥ jñeyaḥ naiṣṭhikaḥ maraṇa-antikaḥ .. 2.75..
उदासीनः साधकश्च गृहस्थो द्विविधो भवेत् । कुटुम्बभरणा यत्तः साधकोऽसौ गृही भवेत् ॥ २.७६॥
उदासीनः साधकः च गृहस्थः द्विविधः भवेत् । कुटुम्ब-भरणाः यत्तः साधकः असौ गृही भवेत् ॥ २।७६॥
udāsīnaḥ sādhakaḥ ca gṛhasthaḥ dvividhaḥ bhavet . kuṭumba-bharaṇāḥ yattaḥ sādhakaḥ asau gṛhī bhavet .. 2.76..
ऋणानित्रीण्यपाकृत्य त्यक्त्वा भार्याधनादिकम् । एकाकी यस्तु विचरेदुदासीनः स मौक्षिकः ॥ २.७७॥
ऋणानि इत्रीणि अपाकृत्य त्यक्त्वा भार्या-धन-आदिकम् । एकाकी यः तु विचरेत् उदासीनः स मौक्षिकः ॥ २।७७॥
ṛṇāni itrīṇi apākṛtya tyaktvā bhāryā-dhana-ādikam . ekākī yaḥ tu vicaret udāsīnaḥ sa maukṣikaḥ .. 2.77..
तपस्तप्यति योऽरण्ये यजेद् देवान् जुहोति च । स्वाध्याये चैव निरतो वनस्थस्तापसो मतः ॥ २.७८॥
तपः तप्यति यः अरण्ये यजेत् देवान् जुहोति च । स्वाध्याये च एव निरतः वनस्थः तापसः मतः ॥ २।७८॥
tapaḥ tapyati yaḥ araṇye yajet devān juhoti ca . svādhyāye ca eva nirataḥ vanasthaḥ tāpasaḥ mataḥ .. 2.78..
तपसा कर्षितोऽत्यर्थं यस्तु ध्यानपरो भवेत् । सांन्यासिकः स विज्ञेयो वानप्रस्थाश्रमे स्थितः ॥ २.७९॥
तपसा कर्षितः अत्यर्थम् यः तु ध्यान-परः भवेत् । सांन्यासिकः स विज्ञेयः वानप्रस्थ-आश्रमे स्थितः ॥ २।७९॥
tapasā karṣitaḥ atyartham yaḥ tu dhyāna-paraḥ bhavet . sāṃnyāsikaḥ sa vijñeyaḥ vānaprastha-āśrame sthitaḥ .. 2.79..
योगाभ्यासरतो नित्यमारुरुक्षुर्जितेन्द्रियः । ज्ञानाय वर्तते भिक्षुः प्रोच्यते पारमेष्ठिकः ॥ २.८॥
योग-अभ्यास-रतः नित्यम् आरुरुक्षुः जित-इन्द्रियः । ज्ञानाय वर्तते भिक्षुः प्रोच्यते पारमेष्ठिकः ॥ २।८॥
yoga-abhyāsa-rataḥ nityam ārurukṣuḥ jita-indriyaḥ . jñānāya vartate bhikṣuḥ procyate pārameṣṭhikaḥ .. 2.8..
यस्त्वात्मरतिरेव स्यान्नित्यतृप्तो महामुनिः । सम्यग् दर्शनसंपन्नः स योगी भिक्षुरुच्यते ॥ २.८१॥
यः तु आत्म-रतिः एव स्यात् नित्य-तृप्तः महा-मुनिः । सम्यक् दर्शन-संपन्नः स योगी भिक्षुः उच्यते ॥ २।८१॥
yaḥ tu ātma-ratiḥ eva syāt nitya-tṛptaḥ mahā-muniḥ . samyak darśana-saṃpannaḥ sa yogī bhikṣuḥ ucyate .. 2.81..
ज्ञानसंन्यासिनः केचिद् वेदसंन्यासिनोऽपरे । कर्मसन्यासिनः केचित् त्रिविधाः पारमेष्ठिकाः ॥ २.८२॥
ज्ञान-संन्यासिनः केचिद् वेद-संन्यासिनः अपरे । कर्म-सन्यासिनः केचिद् त्रिविधाः पारमेष्ठिकाः ॥ २।८२॥
jñāna-saṃnyāsinaḥ kecid veda-saṃnyāsinaḥ apare . karma-sanyāsinaḥ kecid trividhāḥ pārameṣṭhikāḥ .. 2.82..
योगी च त्रिविधो ज्ञेयो भौतिकः सांख्य एव च । तृतीयोह्याश्रमी प्रोक्तो योगमुत्तममाश्रितः ॥ २.८३॥
योगी च त्रिविधः ज्ञेयः भौतिकः सांख्यः एव च । तृतीयः हि आश्रमी प्रोक्तः योगम् उत्तमम् आश्रितः ॥ २।८३॥
yogī ca trividhaḥ jñeyaḥ bhautikaḥ sāṃkhyaḥ eva ca . tṛtīyaḥ hi āśramī proktaḥ yogam uttamam āśritaḥ .. 2.83..
प्रथमा भावना पूर्वे सांख्ये त्वक्षरभावना । तृतीये चान्तिमा प्रोक्ता भावना पारमेश्वरी ॥ २.८४॥
प्रथमा भावना पूर्वे सांख्ये तु अक्षर-भावना । तृतीये च अन्तिमा प्रोक्ता भावना पारमेश्वरी ॥ २।८४॥
prathamā bhāvanā pūrve sāṃkhye tu akṣara-bhāvanā . tṛtīye ca antimā proktā bhāvanā pārameśvarī .. 2.84..
तस्मादेतद् विजानीध्वमाश्रमाणां चतुष्टयम् । सर्वेषु वेदशास्त्रेषु पञ्चमो नोपपद्यते ॥ २.८५॥
तस्मात् एतत् विजानीध्वम् आश्रमाणाम् चतुष्टयम् । सर्वेषु वेद-शास्त्रेषु पञ्चमः न उपपद्यते ॥ २।८५॥
tasmāt etat vijānīdhvam āśramāṇām catuṣṭayam . sarveṣu veda-śāstreṣu pañcamaḥ na upapadyate .. 2.85..
एवं वर्णाश्रमान् सृष्ट्वा देवदेवो निरञ्जनः । दक्षादीन् प्राह विश्वात्मा सृजध्वं विविधाः प्रजाः ॥ २.८६॥
एवम् वर्ण-आश्रमान् सृष्ट्वा देवदेवः निरञ्जनः । दक्ष-आदीन् प्राह विश्वात्मा सृजध्वम् विविधाः प्रजाः ॥ २।८६॥
evam varṇa-āśramān sṛṣṭvā devadevaḥ nirañjanaḥ . dakṣa-ādīn prāha viśvātmā sṛjadhvam vividhāḥ prajāḥ .. 2.86..
ब्रह्मणो वचनात् पुत्रा दक्षाद्या मुनिसत्तमाः । असृजन्त प्रजाः सर्वे देवमानुषपूर्विकाः ॥ २.८७॥
ब्रह्मणः वचनात् पुत्राः दक्ष-आद्याः मुनि-सत्तमाः । असृजन्त प्रजाः सर्वे देव-मानुष-पूर्विकाः ॥ २।८७॥
brahmaṇaḥ vacanāt putrāḥ dakṣa-ādyāḥ muni-sattamāḥ . asṛjanta prajāḥ sarve deva-mānuṣa-pūrvikāḥ .. 2.87..
इत्येवं भगवान् ब्रह्मा स्रष्टुत्वे संव्यवस्थितः । अहं वै पालयामीदं संहरिष्यति शूलभृत् ॥ २.८८॥
इति एवम् भगवान् ब्रह्मा स्रष्टु-त्वे संव्यवस्थितः । अहम् वै पालयामि इदम् संहरिष्यति शूलभृत् ॥ २।८८॥
iti evam bhagavān brahmā sraṣṭu-tve saṃvyavasthitaḥ . aham vai pālayāmi idam saṃhariṣyati śūlabhṛt .. 2.88..
तिस्त्रस्तु मूर्त्तयः प्रोक्ता ब्रह्मविष्णुमहेश्वराः । रजः सत्त्वतमोयोगात् परस्य परमात्मनः ॥ २.८९॥
तिस्त्रः तु मूर्त्तयः प्रोक्ताः ब्रह्म-विष्णु-महेश्वराः । रजः सत्त्व-तमः-योगात् परस्य परमात्मनः ॥ २।८९॥
tistraḥ tu mūrttayaḥ proktāḥ brahma-viṣṇu-maheśvarāḥ . rajaḥ sattva-tamaḥ-yogāt parasya paramātmanaḥ .. 2.89..
अन्योन्यमनुरक्तास्ते ह्यन्योन्यमुपजीविनः । अन्योन्यप्रणताश्चैव लीलया परमेश्वराः ॥ २.९॥
अन्योन्यम् अनुरक्ताः ते हि अन्योन्यम् उपजीविनः । अन्योन्य-प्रणताः च एव लीलया परमेश्वराः ॥ २।९॥
anyonyam anuraktāḥ te hi anyonyam upajīvinaḥ . anyonya-praṇatāḥ ca eva līlayā parameśvarāḥ .. 2.9..
ब्राह्मी माहेश्वरी चैव तथैवाक्षरभावना । तिस्रस्तु भावना रुद्रे वर्तन्ते सततं द्विजाः ॥ २.९१॥
ब्राह्मी माहेश्वरी च एव तथा एव अक्षर-भावना । तिस्रः तु भावनाः रुद्रे वर्तन्ते सततम् द्विजाः ॥ २।९१॥
brāhmī māheśvarī ca eva tathā eva akṣara-bhāvanā . tisraḥ tu bhāvanāḥ rudre vartante satatam dvijāḥ .. 2.91..
प्रवर्तते मय्यजस्त्रमाद्या त्वक्षरभावना । द्वितीया ब्रह्मणः प्रोक्ता देवस्याक्षरभावना ॥ २.९२॥
प्रवर्तते मयि अजस्त्रम् आद्या तु अक्षर-भावना । द्वितीया ब्रह्मणः प्रोक्ता देवस्य अक्षर-भावना ॥ २।९२॥
pravartate mayi ajastram ādyā tu akṣara-bhāvanā . dvitīyā brahmaṇaḥ proktā devasya akṣara-bhāvanā .. 2.92..
अहं चैव महादेवो न भिन्नः परमार्थतः । विभज्यस्वेच्छयात्मानं सोऽन्तर्यामीश्वरः स्थितः ॥ २.९३॥
अहम् च एव महादेवः न भिन्नः परमार्थतः । विभज्य-स्व-इच्छया आत्मानम् सः अन्तर्यामी ईश्वरः स्थितः ॥ २।९३॥
aham ca eva mahādevaḥ na bhinnaḥ paramārthataḥ . vibhajya-sva-icchayā ātmānam saḥ antaryāmī īśvaraḥ sthitaḥ .. 2.93..
त्रैलोक्यमखिलं स्रष्टुं सदेवासुरमानुषम् । पुरुषः परतोऽव्यक्तो ब्रह्मत्वं समुपागमत् ॥ २.९४॥
त्रैलोक्यम् अखिलम् स्रष्टुम् स देव-असुर-मानुषम् । पुरुषः परतस् अव्यक्तः ब्रह्म-त्वम् समुपागमत् ॥ २।९४॥
trailokyam akhilam sraṣṭum sa deva-asura-mānuṣam . puruṣaḥ paratas avyaktaḥ brahma-tvam samupāgamat .. 2.94..
तस्माद् ब्रह्मा महादेवो विष्णुर्विश्वेश्वरः परः । एकस्यैव स्मृतास्तिस्रस्तद्वत्कार्यवशात् प्रभोः ॥ २.९५॥
तस्मात् ब्रह्मा महादेवः विष्णुः विश्वेश्वरः परः । एकस्य एव स्मृताः तिस्रः तद्वत् कार्य-वशात् प्रभोः ॥ २।९५॥
tasmāt brahmā mahādevaḥ viṣṇuḥ viśveśvaraḥ paraḥ . ekasya eva smṛtāḥ tisraḥ tadvat kārya-vaśāt prabhoḥ .. 2.95..
तस्मात् सर्वप्रयत्नेन वन्द्याः पूज्याः विशेषतः । यदीच्छेदचिरात् स्थानं यत्तन्मोक्षाख्यमव्ययम् ॥ २.९६॥
तस्मात् सर्व-प्रयत्नेन वन्द्याः पूज्याः विशेषतः । यदि इच्छेत् अचिरात् स्थानम् यत् तत् मोक्ष-आख्यम् अव्ययम् ॥ २।९६॥
tasmāt sarva-prayatnena vandyāḥ pūjyāḥ viśeṣataḥ . yadi icchet acirāt sthānam yat tat mokṣa-ākhyam avyayam .. 2.96..
वर्णाश्रमप्रयुक्तेन धर्मेण प्रीतिसंयुतः । पूजयेद् भावयुक्तेन यावज्जीवं प्रतिज्ञया ॥ २.९७॥
वर्ण-आश्रम-प्रयुक्तेन धर्मेण प्रीति-संयुतः । पूजयेत् भाव-युक्तेन यावज्जीवम् प्रतिज्ञया ॥ २।९७॥
varṇa-āśrama-prayuktena dharmeṇa prīti-saṃyutaḥ . pūjayet bhāva-yuktena yāvajjīvam pratijñayā .. 2.97..
चतुर्णामाश्रमाणां तु प्रोक्तोऽयं विधिवद्द्विजाः । आश्रमो वैष्णवो ब्राह्मो हराश्रम इति त्रयः ॥ २.९८॥
चतुर्णाम् आश्रमाणाम् तु प्रोक्तः अयम् विधिवत् द्विजाः । आश्रमः वैष्णवः ब्राह्मः हर-आश्रमः इति त्रयः ॥ २।९८॥
caturṇām āśramāṇām tu proktaḥ ayam vidhivat dvijāḥ . āśramaḥ vaiṣṇavaḥ brāhmaḥ hara-āśramaḥ iti trayaḥ .. 2.98..
तल्लिंगधारी नियतं तद्भक्तजनवत्सलः । ध्यायेदथार्चयेदेतान् ब्रह्मविद्यापरायणः ॥ २.९९॥
तद्-लिंग-धारी नियतम् तद्-भक्त-जन-वत्सलः । ध्यायेत् अथ अर्चयेत् एतान् ब्रह्म-विद्या-परायणः ॥ २।९९॥
tad-liṃga-dhārī niyatam tad-bhakta-jana-vatsalaḥ . dhyāyet atha arcayet etān brahma-vidyā-parāyaṇaḥ .. 2.99..
सर्वेषामेव भक्तानां शंभोर्लिगमनुत्तमम् । सितेन भस्मना कार्यं ललाटे तु त्रिपुण्ड्रकम् ॥ २.१॥
सर्वेषाम् एव भक्तानाम् शंभोः लिगम् अनुत्तमम् । सितेन भस्मना कार्यम् ललाटे तु त्रिपुण्ड्रकम् ॥ २।१॥
sarveṣām eva bhaktānām śaṃbhoḥ ligam anuttamam . sitena bhasmanā kāryam lalāṭe tu tripuṇḍrakam .. 2.1..
यस्तु नारायणं देवं प्रपन्नः परमं पदम् । धारयेत् सर्वदा शूलं ललाटे गन्धवारिभिः ॥ २.१०१॥
यः तु नारायणम् देवम् प्रपन्नः परमम् पदम् । धारयेत् सर्वदा शूलम् ललाटे गन्ध-वारिभिः ॥ २।१०१॥
yaḥ tu nārāyaṇam devam prapannaḥ paramam padam . dhārayet sarvadā śūlam lalāṭe gandha-vāribhiḥ .. 2.101..
प्रपन्ना ये जगद्बीजं ब्रह्माणं परमेष्ठिनम् । तेषां ललाटे तिलकं धारणीयं तु सर्वदा ॥ २.१०२॥
प्रपन्नाः ये जगद्बीजम् ब्रह्माणम् परमेष्ठिनम् । तेषाम् ललाटे तिलकम् धारणीयम् तु सर्वदा ॥ २।१०२॥
prapannāḥ ye jagadbījam brahmāṇam parameṣṭhinam . teṣām lalāṭe tilakam dhāraṇīyam tu sarvadā .. 2.102..
योऽसावनादिर्भूतादिः कालात्माऽसौ धृतो भवेत् । उपर्यधो भावयोगात् त्रिपुण्ड्रस्य तु धारणात् ॥ २.१०३॥
यः असौ अनादिः भूत-आदिः काल-आत्मा असौ धृतः भवेत् । उपरि अधस् भाव-योगात् त्रिपुण्ड्रस्य तु धारणात् ॥ २।१०३॥
yaḥ asau anādiḥ bhūta-ādiḥ kāla-ātmā asau dhṛtaḥ bhavet . upari adhas bhāva-yogāt tripuṇḍrasya tu dhāraṇāt .. 2.103..
यत्तत् प्रधानं त्रिगुणं ब्रह्मविष्णुशिवात्मकम् । धृतंन्तु त्रिशूलधरणाद् भवत्येव न संशयः ॥ २.१०४॥
यत् तत् प्रधानम् त्रिगुणम् ब्रह्म-विष्णु-शिव-आत्मकम् । त्रिशूल-धरणात् भवति एव न संशयः ॥ २।१०४॥
yat tat pradhānam triguṇam brahma-viṣṇu-śiva-ātmakam . triśūla-dharaṇāt bhavati eva na saṃśayaḥ .. 2.104..
ब्रह्मतेजोमयं शुक्लं यदेतन् मण्डलं रवेः । भवत्येव धृतं स्थानमैश्वरं तिलके कृते ॥ २.१०५॥
ब्रह्म-तेजः-मयम् शुक्लम् यत् एतत् मण्डलम् रवेः । भवति एव धृतम् स्थानम् ऐश्वरम् तिलके कृते ॥ २।१०५॥
brahma-tejaḥ-mayam śuklam yat etat maṇḍalam raveḥ . bhavati eva dhṛtam sthānam aiśvaram tilake kṛte .. 2.105..
तस्मात् कार्यं त्रिशूलांकं तथा च तिलकं शुभम् । आयुष्यञ्चापि भक्तानां त्रयाणां विधिपूर्वकम् ॥ २.१०६॥
तस्मात् कार्यम् त्रिशूल-अंकम् तथा च तिलकम् शुभम् । आयुष्यम् च अपि भक्तानाम् त्रयाणाम् विधि-पूर्वकम् ॥ २।१०६॥
tasmāt kāryam triśūla-aṃkam tathā ca tilakam śubham . āyuṣyam ca api bhaktānām trayāṇām vidhi-pūrvakam .. 2.106..
यजेत जुहुयादग्नौ जपेद् दद्याज्जितेन्द्रियः । शान्तो दान्तो जितक्रोधो वर्णाश्रमविधानवित् ॥ २.१०७॥
यजेत जुहुयात् अग्नौ जपेत् दद्यात् जित-इन्द्रियः । शान्तः दान्तः जित-क्रोधः वर्ण-आश्रम-विधान-विद् ॥ २।१०७॥
yajeta juhuyāt agnau japet dadyāt jita-indriyaḥ . śāntaḥ dāntaḥ jita-krodhaḥ varṇa-āśrama-vidhāna-vid .. 2.107..
एवं परिचरेद् देवान् यावज्जीवं समाहितः । तेषां संस्थानमचलं सोऽचिरादधिगच्छति ॥ २.१०८॥
एवम् परिचरेत् देवान् यावज्जीवम् समाहितः । तेषाम् संस्थानम् अचलम् सः अचिरात् अधिगच्छति ॥ २।१०८॥
evam paricaret devān yāvajjīvam samāhitaḥ . teṣām saṃsthānam acalam saḥ acirāt adhigacchati .. 2.108..
इति श्रीकूर्मपुराणे वर्णाश्रमवर्णनं नामषट्साहस्त्र्यां संहितायां पूर्वविभागे द्वितीयोऽध्यायः ॥ २॥
इति श्री-कूर्मपुराणे वर्णाश्रमवर्णनम् नाम षट्साहस्त्र्याम् संहितायाम् पूर्व-विभागे द्वितीयः अध्यायः ॥ २॥
iti śrī-kūrmapurāṇe varṇāśramavarṇanam nāma ṣaṭsāhastryām saṃhitāyām pūrva-vibhāge dvitīyaḥ adhyāyaḥ .. 2..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In