| |
|

This overlay will guide you through the buttons:

अथ वर्णाश्रमवर्णनम्। श्रीकूर्म उवाच ।
श्रृणुध्वमृषयः सर्वे यत्पृष्टोऽहं जगद्धितम् । वक्ष्यमाणं मया सर्वमिन्द्रद्युम्नाय भाषितम् ॥ २.१
śrṛṇudhvamṛṣayaḥ sarve yatpṛṣṭo'haṃ jagaddhitam . vakṣyamāṇaṃ mayā sarvamindradyumnāya bhāṣitam .. 2.1
भूतैर्भव्यैर्भविष्यद्भिश्चरितैरुपबृंहितम् । पुराणं पुण्यदं नृणां मोक्षधर्मानुकीर्तनम् ॥ २.२॥
bhūtairbhavyairbhaviṣyadbhiścaritairupabṛṃhitam . purāṇaṃ puṇyadaṃ nṛṇāṃ mokṣadharmānukīrtanam .. 2.2..
अहं नारायणो देवः पूर्वमासं न मे परम् । उपास्य विपुलां निद्रां भोगिशय्यां समाश्रितः ॥ २.३॥
ahaṃ nārāyaṇo devaḥ pūrvamāsaṃ na me param . upāsya vipulāṃ nidrāṃ bhogiśayyāṃ samāśritaḥ .. 2.3..
चिन्तयामि पुनः सृष्टिं निशान्ते प्रतिबुध्य तु । ततो मे सहसोत्पन्नः प्रसादो मुनिपुंगवा ॥ २.४॥
cintayāmi punaḥ sṛṣṭiṃ niśānte pratibudhya tu . tato me sahasotpannaḥ prasādo munipuṃgavā .. 2.4..
चतुर्मुखस्ततो जातो ब्रह्मा लोकपितामहः । तदन्तरेऽभवत् क्रोधः कस्माच्चित् कारणात् तदा ॥ २.५॥
caturmukhastato jāto brahmā lokapitāmahaḥ . tadantare'bhavat krodhaḥ kasmāccit kāraṇāt tadā .. 2.5..
आत्मनो मुनिशार्दूलास्तत्र देवो महेश्वरः । रुद्रः क्रोधात्मको जज्ञे शूलपाणिस्त्रिलोचनः ॥ २.६॥
ātmano muniśārdūlāstatra devo maheśvaraḥ . rudraḥ krodhātmako jajñe śūlapāṇistrilocanaḥ .. 2.6..
तेजसा सूर्यसंकाशस्त्रैलोक्यं संदहन्निव । ततः श्रीरभवद् देवि कमलायतलोचना॥ २.७॥
tejasā sūryasaṃkāśastrailokyaṃ saṃdahanniva . tataḥ śrīrabhavad devi kamalāyatalocanā.. 2.7..
सुरूपा सौम्यवदना मोहिनी सर्वदेहिनाम् । शुचिस्मिता सुप्रसन्ना मङ्गला महिमास्पदा ॥ २.८॥
surūpā saumyavadanā mohinī sarvadehinām . śucismitā suprasannā maṅgalā mahimāspadā .. 2.8..
दिव्यकान्तिसमायुक्ता दिव्यमाल्योपशोभिता । नारायणी महामाया मूलप्रकृतिरव्यया ॥ २.९॥
divyakāntisamāyuktā divyamālyopaśobhitā . nārāyaṇī mahāmāyā mūlaprakṛtiravyayā .. 2.9..
स्वधाम्ना पूरयन्तीदं मत्पार्श्वं समुपाविशत् । तां दृष्टवा भगवान् ब्रह्मा मामुवाच जगत्पतिम् ॥ २.१॥
svadhāmnā pūrayantīdaṃ matpārśvaṃ samupāviśat . tāṃ dṛṣṭavā bhagavān brahmā māmuvāca jagatpatim .. 2.1..
मोहायाशेषभूतानां नियोजय सुरूपिणीम् । येनेयं विपुला सृष्टिर्वर्द्धते मम माधव ॥ २.११॥
mohāyāśeṣabhūtānāṃ niyojaya surūpiṇīm . yeneyaṃ vipulā sṛṣṭirvarddhate mama mādhava .. 2.11..
तथोक्तोऽहं श्रियं देवीमब्रवं प्रहसन्निव । देवीदमखिलं विश्वं सदेवासुरमानुषम् ॥ २.१२॥
tathokto'haṃ śriyaṃ devīmabravaṃ prahasanniva . devīdamakhilaṃ viśvaṃ sadevāsuramānuṣam .. 2.12..
मोहयित्वा ममादेशात् संसारे विनिपातय । ज्ञानयोगरतान् दान्तान् ब्रह्मिष्ठान् ब्रह्मवादिनः ॥ २.१३॥
mohayitvā mamādeśāt saṃsāre vinipātaya . jñānayogaratān dāntān brahmiṣṭhān brahmavādinaḥ .. 2.13..
अक्रोधनान् सत्यपरान् दूरतः परिवर्जय । ध्यायिनो निर्ममान् शान्तान् धार्मिकान् वेदपारगान् ॥ २.१४॥
akrodhanān satyaparān dūrataḥ parivarjaya . dhyāyino nirmamān śāntān dhārmikān vedapāragān .. 2.14..
। याजिनस्तापसान् विप्रान् दूरतः परिवर्जय । वेदवेदान्तविज्ञानसंछिन्नाशेषसंशयान् ॥ २.१५॥
. yājinastāpasān viprān dūrataḥ parivarjaya . vedavedāntavijñānasaṃchinnāśeṣasaṃśayān .. 2.15..
महायज्ञपरान् विप्रान् दूरतः परिवर्जय । ये यजन्ति जपैर्होमैर्देवदेवं महेश्वरम् ॥ २.१६॥
mahāyajñaparān viprān dūrataḥ parivarjaya . ye yajanti japairhomairdevadevaṃ maheśvaram .. 2.16..
स्वाध्यायेनेज्यया दूरात् तान् प्रयत्नेन वर्जय । भक्तियोगसमायुक्तानीश्वरार्पितमानसान् ॥ २.१७॥
svādhyāyenejyayā dūrāt tān prayatnena varjaya . bhaktiyogasamāyuktānīśvarārpitamānasān .. 2.17..
प्राणायामादिषु रतान् दूरात् परिहरामलान् । प्रणवासक्तमनसो रुद्रजप्यपरायणान् ॥ २.१८॥
prāṇāyāmādiṣu ratān dūrāt pariharāmalān . praṇavāsaktamanaso rudrajapyaparāyaṇān .. 2.18..
अथर्वशिरसोऽध्येतृन् धर्मज्ञान् परिवर्जय । बहुनाऽत्र किमुक्तेन स्वधर्मपरिपालकान् ॥ २.१९॥
atharvaśiraso'dhyetṛn dharmajñān parivarjaya . bahunā'tra kimuktena svadharmaparipālakān .. 2.19..
ईश्वराराधनरतान् मन्नियोगान्न मोहय । एवं मया महामाया प्रेरिता हरिवल्लभा ॥ २.२॥
īśvarārādhanaratān manniyogānna mohaya . evaṃ mayā mahāmāyā preritā harivallabhā .. 2.2..
यथादेशं चकारासौ तस्माल्लक्ष्मीं समर्चयेत् । श्रियं ददाति विपुलां पुष्टिं मेधां यशो बलम् ॥ २.२१॥
yathādeśaṃ cakārāsau tasmāllakṣmīṃ samarcayet . śriyaṃ dadāti vipulāṃ puṣṭiṃ medhāṃ yaśo balam .. 2.21..
अर्चिता भगवत्पत्नी तस्माल्लक्ष्मीं समर्चयेत् । ततोऽसृजत् स भगवान् ब्रह्मा लोकपितामहः ॥ २.२२॥
arcitā bhagavatpatnī tasmāllakṣmīṃ samarcayet . tato'sṛjat sa bhagavān brahmā lokapitāmahaḥ .. 2.22..
चराचराणि भूतानि यथापूर्वं ममाज्ञया । मरीचिभृग्वङ्गिरसं पुलस्त्यं पुलहं क्रतुम् ॥ २.२३॥
carācarāṇi bhūtāni yathāpūrvaṃ mamājñayā . marīcibhṛgvaṅgirasaṃ pulastyaṃ pulahaṃ kratum .. 2.23..
दक्षमत्रिं वसिष्ठं च सोऽसृजद् योगविद्यया । नवैते ब्रह्मणः पुत्रा ब्रह्मणा ब्राह्मणोत्तमाः । २.२४॥ ॥
dakṣamatriṃ vasiṣṭhaṃ ca so'sṛjad yogavidyayā . navaite brahmaṇaḥ putrā brahmaṇā brāhmaṇottamāḥ . 2.24.. ..
ब्रह्मवादिन एवैते मरीच्याद्यास्तु साधकाः । ससर्ज ब्राह्मणान् वक्त्रात् क्षत्रियांश्च भुजाद् विभुः॥ २.२५॥
brahmavādina evaite marīcyādyāstu sādhakāḥ . sasarja brāhmaṇān vaktrāt kṣatriyāṃśca bhujād vibhuḥ.. 2.25..
वैश्यानूरुद्वयाद् देवः पादार्च्छूद्रान् पितामहः । यज्ञनिष्पत्तये ब्रह्मा शूद्रवर्जं ससर्ज ह ॥ २.२६॥
vaiśyānūrudvayād devaḥ pādārcchūdrān pitāmahaḥ . yajñaniṣpattaye brahmā śūdravarjaṃ sasarja ha .. 2.26..
गुप्तये सर्ववेदानां तेभ्यो यज्ञो हि निर्बभौ । ऋचो यजूंषि सामानि तथैवाथर्वणानि च । २.२७॥ ॥
guptaye sarvavedānāṃ tebhyo yajño hi nirbabhau . ṛco yajūṃṣi sāmāni tathaivātharvaṇāni ca . 2.27.. ..
ब्रह्मणः सहजं रूपं नित्यैषा शक्तिरव्यया । अनादिनिधना दिव्या वागुत्सृष्टा स्वयंभुवा ॥ २.२८॥
brahmaṇaḥ sahajaṃ rūpaṃ nityaiṣā śaktiravyayā . anādinidhanā divyā vāgutsṛṣṭā svayaṃbhuvā .. 2.28..
आदौ वेदमयी भूता यतः सर्वाः प्रवृत्तयः । अतोऽन्यानितु शास्त्राणिपृथिव्यांयानिकानिचित् ॥ २.२९॥
ādau vedamayī bhūtā yataḥ sarvāḥ pravṛttayaḥ . ato'nyānitu śāstrāṇipṛthivyāṃyānikānicit .. 2.29..
न तेषु रमते धीरः पाषण्डी तेन जायते । वेदार्थवित्तमैः कार्यं यत्स्मृतं मुनिभिः पुरा ॥ २.३॥
na teṣu ramate dhīraḥ pāṣaṇḍī tena jāyate . vedārthavittamaiḥ kāryaṃ yatsmṛtaṃ munibhiḥ purā .. 2.3..
स ज्ञेयः परमो धर्मो नान्यशास्त्रेषु संस्थितः । या वेदबाह्याः स्मृतयो याश्च काश्च कुदृष्टयः ॥ २.३१॥
sa jñeyaḥ paramo dharmo nānyaśāstreṣu saṃsthitaḥ . yā vedabāhyāḥ smṛtayo yāśca kāśca kudṛṣṭayaḥ .. 2.31..
सर्वास्ता निष्फलाः प्रेत्यतमोनिष्ठाहिताः स्मृताः । पूर्वकल्पे प्रजा जाताः सर्वबादाविवर्जिताः ॥ २.३२॥
sarvāstā niṣphalāḥ pretyatamoniṣṭhāhitāḥ smṛtāḥ . pūrvakalpe prajā jātāḥ sarvabādāvivarjitāḥ .. 2.32..
शुद्धान्तः करणाः सर्वाः स्वधर्मनिरताः सदा । ततः कालवशात् तासां रागद्वेषादिकोऽभवत् ॥ २.३३॥
śuddhāntaḥ karaṇāḥ sarvāḥ svadharmaniratāḥ sadā . tataḥ kālavaśāt tāsāṃ rāgadveṣādiko'bhavat .. 2.33..
अधर्मो मुनिशार्दूलाः स्वधर्मप्रतिबन्धकः । ततः सा सहजा सिद्धिस्तासां नातीव जायते । रजोमात्रात्मिकास्तासां सिद्धयोऽन्यास्तदाभवन् ॥ २.३३॥
adharmo muniśārdūlāḥ svadharmapratibandhakaḥ . tataḥ sā sahajā siddhistāsāṃ nātīva jāyate . rajomātrātmikāstāsāṃ siddhayo'nyāstadābhavan .. 2.33..
तासु क्षीणास्वशेषासु कालयोगेन ताः पुनः । वार्त्तोपायं पुनश्चक्रुर्हस्तसिद्धिं च कर्मजाम् । ततस्तासां विभुर्ब्रह्मा कर्माजीवमकल्पयत् ॥ २.३४॥
tāsu kṣīṇāsvaśeṣāsu kālayogena tāḥ punaḥ . vārttopāyaṃ punaścakrurhastasiddhiṃ ca karmajām . tatastāsāṃ vibhurbrahmā karmājīvamakalpayat .. 2.34..
स्वायंभुवो मनुः पूर्वं धर्मान् प्रोवाच धर्मदृक् । साक्षात् प्रजापतेर्मूर्तिर्निसृष्टा ब्रह्मणा द्विजाः । भृग्वादयस्तद्वदनाच्छ्रुत्वा धर्मानथोचिरे ॥ २.३५॥
svāyaṃbhuvo manuḥ pūrvaṃ dharmān provāca dharmadṛk . sākṣāt prajāpatermūrtirnisṛṣṭā brahmaṇā dvijāḥ . bhṛgvādayastadvadanācchrutvā dharmānathocire .. 2.35..
यजनं याजनं दानं ब्राह्मणस्य प्रतिग्रहमः । अध्यापनं चाध्ययनं षट् कर्माणि द्विजोत्तमाः ॥ २.३६॥
yajanaṃ yājanaṃ dānaṃ brāhmaṇasya pratigrahamaḥ . adhyāpanaṃ cādhyayanaṃ ṣaṭ karmāṇi dvijottamāḥ .. 2.36..
दानमध्ययनं यज्ञो धर्मः क्षत्रियवैश्ययोः । दण्डो युद्धं क्षत्रियस्य कृषिर्वैश्यस्य शस्यते ॥ २.३७॥
dānamadhyayanaṃ yajño dharmaḥ kṣatriyavaiśyayoḥ . daṇḍo yuddhaṃ kṣatriyasya kṛṣirvaiśyasya śasyate .. 2.37..
शुश्रूषैव द्विजातीनां शूद्राणां धर्मसाधनम् । कारुकर्म तथाजीवः पाकयज्ञाऽदि धर्मतः ॥ २.३८॥
śuśrūṣaiva dvijātīnāṃ śūdrāṇāṃ dharmasādhanam . kārukarma tathājīvaḥ pākayajñā'di dharmataḥ .. 2.38..
ततः स्थितेषु वर्णेषु स्थापयामास चाश्रमान् । गृहस्थं च वनस्थं च भिक्षुकं ब्रह्मचारिणम् ॥ २.३९॥
tataḥ sthiteṣu varṇeṣu sthāpayāmāsa cāśramān . gṛhasthaṃ ca vanasthaṃ ca bhikṣukaṃ brahmacāriṇam .. 2.39..
अग्नयोऽतिथिशुश्रूषा यज्ञो दानं सुरार्चनम् । गृहस्थस्य समासेन धर्मोऽयं मुनिपुंगवाः ॥ २.४॥
agnayo'tithiśuśrūṣā yajño dānaṃ surārcanam . gṛhasthasya samāsena dharmo'yaṃ munipuṃgavāḥ .. 2.4..
होमो मूलफलाशित्वं स्वाध्यायस्तप एव च । संविभागो यथान्यायं धर्मोऽयं वनवासिनाम् ॥ २.४१॥
homo mūlaphalāśitvaṃ svādhyāyastapa eva ca . saṃvibhāgo yathānyāyaṃ dharmo'yaṃ vanavāsinām .. 2.41..
भैक्षाशनं च मौनित्वं तपो ध्यानं विशेषतः । सम्यग्ज्ञानं च वैराग्यं धर्मोऽयं भिक्षुके मतः ॥ २.४२॥
bhaikṣāśanaṃ ca maunitvaṃ tapo dhyānaṃ viśeṣataḥ . samyagjñānaṃ ca vairāgyaṃ dharmo'yaṃ bhikṣuke mataḥ .. 2.42..
भिक्षाचर्या च शुश्रूषा गुरोः स्वाध्याय एव च । सन्ध्याकर्माग्निकार्यं च धर्मोऽयं ब्रह्मचारिणाम् ॥ २.४३॥
bhikṣācaryā ca śuśrūṣā guroḥ svādhyāya eva ca . sandhyākarmāgnikāryaṃ ca dharmo'yaṃ brahmacāriṇām .. 2.43..
ब्रह्मचारिवनस्थानां भिक्षुकाणां द्विजोत्तमाः । साधारणं ब्रह्मचर्यं प्रोवाच कमलोद्भवः ॥ २.४४॥
brahmacārivanasthānāṃ bhikṣukāṇāṃ dvijottamāḥ . sādhāraṇaṃ brahmacaryaṃ provāca kamalodbhavaḥ .. 2.44..
ऋतुकालाभिगामित्वं स्वदारेषु न चान्यतः । पर्ववर्जं गृहस्थस्य ब्रह्मचर्यमुदाहृतम् ॥ २.४५॥
ṛtukālābhigāmitvaṃ svadāreṣu na cānyataḥ . parvavarjaṃ gṛhasthasya brahmacaryamudāhṛtam .. 2.45..
आगर्भधारणादाज्ञा कार्या तेनाप्रमादतः । अकुर्वाणस्तु विप्रेन्द्रा भ्रूणहा तु प्रजायते ॥ २.४६॥
āgarbhadhāraṇādājñā kāryā tenāpramādataḥ . akurvāṇastu viprendrā bhrūṇahā tu prajāyate .. 2.46..
वेदाभ्यासोऽन्वहं शक्त्या श्राद्धं चातिथिपूजनम् । गृहस्थस्य परो धर्मो देवताभ्यर्चनं तथा ॥ २.४७॥
vedābhyāso'nvahaṃ śaktyā śrāddhaṃ cātithipūjanam . gṛhasthasya paro dharmo devatābhyarcanaṃ tathā .. 2.47..
वैवाह्ममग्निमिन्धीत सायं प्रातर्यथाविधि । देशान्तरगतो वाऽथ मृतपत्नीक एव च ॥ २.४८॥
vaivāhmamagnimindhīta sāyaṃ prātaryathāvidhi . deśāntaragato vā'tha mṛtapatnīka eva ca .. 2.48..
त्रयाणामाश्रमाणां तु गृहस्थो योनिरुच्यते । अन्ये तमुपजीवन्ति तस्माच्छ्रेयान् गृहाश्रमी ॥ २.४९॥
trayāṇāmāśramāṇāṃ tu gṛhastho yonirucyate . anye tamupajīvanti tasmācchreyān gṛhāśramī .. 2.49..
ऐकाश्रम्यं गृहस्थस्य चतुर्णां श्रुतिदर्शनात् । तस्माद् गार्हस्थ्यमेवैकं विज्ञेयं धर्मसाधनम् ॥ २.५॥
aikāśramyaṃ gṛhasthasya caturṇāṃ śrutidarśanāt . tasmād gārhasthyamevaikaṃ vijñeyaṃ dharmasādhanam .. 2.5..
परित्यजेदर्थकामौ यौ स्यातां धर्मवर्जितौ । सर्वलोकविरुद्धं च धर्ममप्याचरेन्न तु ॥ २.५१॥
parityajedarthakāmau yau syātāṃ dharmavarjitau . sarvalokaviruddhaṃ ca dharmamapyācarenna tu .. 2.51..
धर्मात् संजायते ह्यर्थो धर्मात् कामोऽभिजायते । धर्म एवापवर्गाय तस्माद् धर्मं समाश्रयेत् ॥ २.५२॥
dharmāt saṃjāyate hyartho dharmāt kāmo'bhijāyate . dharma evāpavargāya tasmād dharmaṃ samāśrayet .. 2.52..
धर्मश्चार्थश्च कामश्च त्रिवर्गस्त्रिगुणो मतः । सत्त्वं रजस्तमश्चेति तस्माद्धर्मं समाश्रयेत् ॥ २.५३॥
dharmaścārthaśca kāmaśca trivargastriguṇo mataḥ . sattvaṃ rajastamaśceti tasmāddharmaṃ samāśrayet .. 2.53..
ऊर्ध्वं गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसाः । जघन्यगुणवृत्तिस्था अधो गच्छन्ति तामसाः ॥ २.५४॥
ūrdhvaṃ gacchanti sattvasthā madhye tiṣṭhanti rājasāḥ . jaghanyaguṇavṛttisthā adho gacchanti tāmasāḥ .. 2.54..
यस्मिन् धर्मसमायुक्तावर्थकामौ व्यवस्थितौइह लोके सुखी भूत्वा प्रेत्यानन्त्याय कल्पते ॥ २.५५॥
yasmin dharmasamāyuktāvarthakāmau vyavasthitauiha loke sukhī bhūtvā pretyānantyāya kalpate .. 2.55..
धर्मात् संजायते मोक्षो ह्यर्थात् कामोऽभिजायते । एवं साधनसाध्यत्वं चातुर्विध्ये प्रदर्शितम् ॥ २.५६॥
dharmāt saṃjāyate mokṣo hyarthāt kāmo'bhijāyate . evaṃ sādhanasādhyatvaṃ cāturvidhye pradarśitam .. 2.56..
य एवं वेद धर्मार्थकाममोक्षस्य मानवः । माहात्म्यं चानुतिष्ठेत स चानन्त्याय कल्पते ॥ २.५७॥
ya evaṃ veda dharmārthakāmamokṣasya mānavaḥ . māhātmyaṃ cānutiṣṭheta sa cānantyāya kalpate .. 2.57..
तस्मादर्थं च कामं च त्यक्त्वा धर्मं समाश्रयेत् । धर्मात् संजायते सर्वमित्याहुर्ब्रह्मवादिनः ॥ २.५८॥
tasmādarthaṃ ca kāmaṃ ca tyaktvā dharmaṃ samāśrayet . dharmāt saṃjāyate sarvamityāhurbrahmavādinaḥ .. 2.58..
धर्मेण धार्यते सर्वं जगत् स्थावरजङ्गमम् । अनादिनिधना शक्तिः सैषा ब्राह्मी द्विजोत्तमाः ॥ २.५९॥
dharmeṇa dhāryate sarvaṃ jagat sthāvarajaṅgamam . anādinidhanā śaktiḥ saiṣā brāhmī dvijottamāḥ .. 2.59..
कर्मणा प्राप्यते धर्मो ज्ञानेन च न संशयः । तस्माज्ज्ञानेन सहितं कर्मयोगं समाचरेत् ॥ २.६॥
karmaṇā prāpyate dharmo jñānena ca na saṃśayaḥ . tasmājjñānena sahitaṃ karmayogaṃ samācaret .. 2.6..
प्रवृत्तं च निवृत्तं च द्विविधं कर्म वैदिकम् । ज्ञानपूर्वं निवृत्तं स्यात् प्रवृत्तं यदतोऽन्यथा ॥ २.६१॥
pravṛttaṃ ca nivṛttaṃ ca dvividhaṃ karma vaidikam . jñānapūrvaṃ nivṛttaṃ syāt pravṛttaṃ yadato'nyathā .. 2.61..
निवृत्तं सेवमानस्तु याति तत् परमं पदम् । तस्मान्निवृत्तं संसेव्यमन्यथा संसरेत् पुनः ॥ २.६२॥
nivṛttaṃ sevamānastu yāti tat paramaṃ padam . tasmānnivṛttaṃ saṃsevyamanyathā saṃsaret punaḥ .. 2.62..
क्षमा दमो दया दानमलोभस्त्याग एव च । आर्जवं चानसूया च तीर्थानुसरणं तथा ॥ २.६३॥
kṣamā damo dayā dānamalobhastyāga eva ca . ārjavaṃ cānasūyā ca tīrthānusaraṇaṃ tathā .. 2.63..
सत्यं सन्तोषमास्तिक्यं श्रद्धा चेन्द्रियनिग्रहः । देवताभ्यर्चनं पूजा ब्राह्मणानां विशेषतः ॥ २.६४॥
satyaṃ santoṣamāstikyaṃ śraddhā cendriyanigrahaḥ . devatābhyarcanaṃ pūjā brāhmaṇānāṃ viśeṣataḥ .. 2.64..
अहिंसा प्रियवादित्वमपैशुन्यमकल्कता । सामासिकमिमं धर्मं चातुर्वर्ण्येऽब्रवीन्मनुः ॥ २.६५॥
ahiṃsā priyavāditvamapaiśunyamakalkatā . sāmāsikamimaṃ dharmaṃ cāturvarṇye'bravīnmanuḥ .. 2.65..
प्राजापत्यं ब्राह्मणानां स्मृतं स्थानं क्रियावताम् । स्थानमैन्द्रं क्षत्रियाणां संग्रामेष्वपलायिनाम् ॥ २.६६॥
prājāpatyaṃ brāhmaṇānāṃ smṛtaṃ sthānaṃ kriyāvatām . sthānamaindraṃ kṣatriyāṇāṃ saṃgrāmeṣvapalāyinām .. 2.66..
वैश्यानां मारुतं स्थानं स्वधर्ममनुवर्तताम् । गान्धर्वं शूद्रजातीनां परिचारेण वर्तताम् ॥ २.६७॥
vaiśyānāṃ mārutaṃ sthānaṃ svadharmamanuvartatām . gāndharvaṃ śūdrajātīnāṃ paricāreṇa vartatām .. 2.67..
अष्टाशीतिसहस्त्राणामृषीणामूर्ध्वरेतसाम् । स्मृतं तेषां तु यत्स्थानं तदेव गुरुवासिनाम् ॥ २.६८॥
aṣṭāśītisahastrāṇāmṛṣīṇāmūrdhvaretasām . smṛtaṃ teṣāṃ tu yatsthānaṃ tadeva guruvāsinām .. 2.68..
सप्तर्षीणान्तु यत्स्थानं स्मृतं तद् वै वनौकसाम् । प्राजापत्यं गृहस्थानां स्थानमुक्तं स्वयंभुवा ॥ २.६९॥
saptarṣīṇāntu yatsthānaṃ smṛtaṃ tad vai vanaukasām . prājāpatyaṃ gṛhasthānāṃ sthānamuktaṃ svayaṃbhuvā .. 2.69..
यतीनां जितचित्तानां न्यासिनामूर्ध्वरेतसाम् । हैरण्यगर्भं तत्स्थानं यस्मान्नावर्त्तते पुनः ॥ २.७॥
yatīnāṃ jitacittānāṃ nyāsināmūrdhvaretasām . hairaṇyagarbhaṃ tatsthānaṃ yasmānnāvarttate punaḥ .. 2.7..
योगिनाममृतं स्थानं व्योमाख्यं परमक्षरम् । आनन्दमैश्वरं धाम सा काष्ठा सा परागतिः ॥ २.७१॥
yogināmamṛtaṃ sthānaṃ vyomākhyaṃ paramakṣaram . ānandamaiśvaraṃ dhāma sā kāṣṭhā sā parāgatiḥ .. 2.71..
ऋषच ऊचुः ।
भगवन् देवतारिघ्न हिरण्याक्षनिषूदन । चत्वारो ह्याश्रमाः प्रोक्ता योगिनामेक उच्यते ॥ २.७२॥
bhagavan devatārighna hiraṇyākṣaniṣūdana . catvāro hyāśramāḥ proktā yogināmeka ucyate .. 2.72..
श्रीकूर्म ऊवाच ।
सर्वकर्माणि संन्यस्य समाधिमचलं श्रितः । य आस्ते निश्चलो योगी स संन्यासी न पञ्चमः ॥ २.७३॥
sarvakarmāṇi saṃnyasya samādhimacalaṃ śritaḥ . ya āste niścalo yogī sa saṃnyāsī na pañcamaḥ .. 2.73..
सर्वेषामाश्रमाणां तु द्वैविध्यं श्रुतिदर्शितम् । ब्रह्मचार्युपकुर्वाणो नैष्ठिको ब्रह्मतत्परः ॥ २.७४॥
sarveṣāmāśramāṇāṃ tu dvaividhyaṃ śrutidarśitam . brahmacāryupakurvāṇo naiṣṭhiko brahmatatparaḥ .. 2.74..
योऽधीत्यविधिवद्वेदान् गृहस्थाश्रममाव्रजेत् । उपकुर्वाणको ज्ञेयो नैष्ठिको मरणान्तिकः ॥ २.७५॥
yo'dhītyavidhivadvedān gṛhasthāśramamāvrajet . upakurvāṇako jñeyo naiṣṭhiko maraṇāntikaḥ .. 2.75..
उदासीनः साधकश्च गृहस्थो द्विविधो भवेत् । कुटुम्बभरणा यत्तः साधकोऽसौ गृही भवेत् ॥ २.७६॥
udāsīnaḥ sādhakaśca gṛhastho dvividho bhavet . kuṭumbabharaṇā yattaḥ sādhako'sau gṛhī bhavet .. 2.76..
ऋणानित्रीण्यपाकृत्य त्यक्त्वा भार्याधनादिकम् । एकाकी यस्तु विचरेदुदासीनः स मौक्षिकः ॥ २.७७॥
ṛṇānitrīṇyapākṛtya tyaktvā bhāryādhanādikam . ekākī yastu vicaredudāsīnaḥ sa maukṣikaḥ .. 2.77..
तपस्तप्यति योऽरण्ये यजेद् देवान् जुहोति च । स्वाध्याये चैव निरतो वनस्थस्तापसो मतः ॥ २.७८॥
tapastapyati yo'raṇye yajed devān juhoti ca . svādhyāye caiva nirato vanasthastāpaso mataḥ .. 2.78..
तपसा कर्षितोऽत्यर्थं यस्तु ध्यानपरो भवेत् । सांन्यासिकः स विज्ञेयो वानप्रस्थाश्रमे स्थितः ॥ २.७९॥
tapasā karṣito'tyarthaṃ yastu dhyānaparo bhavet . sāṃnyāsikaḥ sa vijñeyo vānaprasthāśrame sthitaḥ .. 2.79..
योगाभ्यासरतो नित्यमारुरुक्षुर्जितेन्द्रियः । ज्ञानाय वर्तते भिक्षुः प्रोच्यते पारमेष्ठिकः ॥ २.८॥
yogābhyāsarato nityamārurukṣurjitendriyaḥ . jñānāya vartate bhikṣuḥ procyate pārameṣṭhikaḥ .. 2.8..
यस्त्वात्मरतिरेव स्यान्नित्यतृप्तो महामुनिः । सम्यग् दर्शनसंपन्नः स योगी भिक्षुरुच्यते ॥ २.८१॥
yastvātmaratireva syānnityatṛpto mahāmuniḥ . samyag darśanasaṃpannaḥ sa yogī bhikṣurucyate .. 2.81..
ज्ञानसंन्यासिनः केचिद् वेदसंन्यासिनोऽपरे । कर्मसन्यासिनः केचित् त्रिविधाः पारमेष्ठिकाः ॥ २.८२॥
jñānasaṃnyāsinaḥ kecid vedasaṃnyāsino'pare . karmasanyāsinaḥ kecit trividhāḥ pārameṣṭhikāḥ .. 2.82..
योगी च त्रिविधो ज्ञेयो भौतिकः सांख्य एव च । तृतीयोह्याश्रमी प्रोक्तो योगमुत्तममाश्रितः ॥ २.८३॥
yogī ca trividho jñeyo bhautikaḥ sāṃkhya eva ca . tṛtīyohyāśramī prokto yogamuttamamāśritaḥ .. 2.83..
प्रथमा भावना पूर्वे सांख्ये त्वक्षरभावना । तृतीये चान्तिमा प्रोक्ता भावना पारमेश्वरी ॥ २.८४॥
prathamā bhāvanā pūrve sāṃkhye tvakṣarabhāvanā . tṛtīye cāntimā proktā bhāvanā pārameśvarī .. 2.84..
तस्मादेतद् विजानीध्वमाश्रमाणां चतुष्टयम् । सर्वेषु वेदशास्त्रेषु पञ्चमो नोपपद्यते ॥ २.८५॥
tasmādetad vijānīdhvamāśramāṇāṃ catuṣṭayam . sarveṣu vedaśāstreṣu pañcamo nopapadyate .. 2.85..
एवं वर्णाश्रमान् सृष्ट्वा देवदेवो निरञ्जनः । दक्षादीन् प्राह विश्वात्मा सृजध्वं विविधाः प्रजाः ॥ २.८६॥
evaṃ varṇāśramān sṛṣṭvā devadevo nirañjanaḥ . dakṣādīn prāha viśvātmā sṛjadhvaṃ vividhāḥ prajāḥ .. 2.86..
ब्रह्मणो वचनात् पुत्रा दक्षाद्या मुनिसत्तमाः । असृजन्त प्रजाः सर्वे देवमानुषपूर्विकाः ॥ २.८७॥
brahmaṇo vacanāt putrā dakṣādyā munisattamāḥ . asṛjanta prajāḥ sarve devamānuṣapūrvikāḥ .. 2.87..
इत्येवं भगवान् ब्रह्मा स्रष्टुत्वे संव्यवस्थितः । अहं वै पालयामीदं संहरिष्यति शूलभृत् ॥ २.८८॥
ityevaṃ bhagavān brahmā sraṣṭutve saṃvyavasthitaḥ . ahaṃ vai pālayāmīdaṃ saṃhariṣyati śūlabhṛt .. 2.88..
तिस्त्रस्तु मूर्त्तयः प्रोक्ता ब्रह्मविष्णुमहेश्वराः । रजः सत्त्वतमोयोगात् परस्य परमात्मनः ॥ २.८९॥
tistrastu mūrttayaḥ proktā brahmaviṣṇumaheśvarāḥ . rajaḥ sattvatamoyogāt parasya paramātmanaḥ .. 2.89..
अन्योन्यमनुरक्तास्ते ह्यन्योन्यमुपजीविनः । अन्योन्यप्रणताश्चैव लीलया परमेश्वराः ॥ २.९॥
anyonyamanuraktāste hyanyonyamupajīvinaḥ . anyonyapraṇatāścaiva līlayā parameśvarāḥ .. 2.9..
ब्राह्मी माहेश्वरी चैव तथैवाक्षरभावना । तिस्रस्तु भावना रुद्रे वर्तन्ते सततं द्विजाः ॥ २.९१॥
brāhmī māheśvarī caiva tathaivākṣarabhāvanā . tisrastu bhāvanā rudre vartante satataṃ dvijāḥ .. 2.91..
प्रवर्तते मय्यजस्त्रमाद्या त्वक्षरभावना । द्वितीया ब्रह्मणः प्रोक्ता देवस्याक्षरभावना ॥ २.९२॥
pravartate mayyajastramādyā tvakṣarabhāvanā . dvitīyā brahmaṇaḥ proktā devasyākṣarabhāvanā .. 2.92..
अहं चैव महादेवो न भिन्नः परमार्थतः । विभज्यस्वेच्छयात्मानं सोऽन्तर्यामीश्वरः स्थितः ॥ २.९३॥
ahaṃ caiva mahādevo na bhinnaḥ paramārthataḥ . vibhajyasvecchayātmānaṃ so'ntaryāmīśvaraḥ sthitaḥ .. 2.93..
त्रैलोक्यमखिलं स्रष्टुं सदेवासुरमानुषम् । पुरुषः परतोऽव्यक्तो ब्रह्मत्वं समुपागमत् ॥ २.९४॥
trailokyamakhilaṃ sraṣṭuṃ sadevāsuramānuṣam . puruṣaḥ parato'vyakto brahmatvaṃ samupāgamat .. 2.94..
तस्माद् ब्रह्मा महादेवो विष्णुर्विश्वेश्वरः परः । एकस्यैव स्मृतास्तिस्रस्तद्वत्कार्यवशात् प्रभोः ॥ २.९५॥
tasmād brahmā mahādevo viṣṇurviśveśvaraḥ paraḥ . ekasyaiva smṛtāstisrastadvatkāryavaśāt prabhoḥ .. 2.95..
तस्मात् सर्वप्रयत्नेन वन्द्याः पूज्याः विशेषतः । यदीच्छेदचिरात् स्थानं यत्तन्मोक्षाख्यमव्ययम् ॥ २.९६॥
tasmāt sarvaprayatnena vandyāḥ pūjyāḥ viśeṣataḥ . yadīcchedacirāt sthānaṃ yattanmokṣākhyamavyayam .. 2.96..
वर्णाश्रमप्रयुक्तेन धर्मेण प्रीतिसंयुतः । पूजयेद् भावयुक्तेन यावज्जीवं प्रतिज्ञया ॥ २.९७॥
varṇāśramaprayuktena dharmeṇa prītisaṃyutaḥ . pūjayed bhāvayuktena yāvajjīvaṃ pratijñayā .. 2.97..
चतुर्णामाश्रमाणां तु प्रोक्तोऽयं विधिवद्द्विजाः । आश्रमो वैष्णवो ब्राह्मो हराश्रम इति त्रयः ॥ २.९८॥
caturṇāmāśramāṇāṃ tu prokto'yaṃ vidhivaddvijāḥ . āśramo vaiṣṇavo brāhmo harāśrama iti trayaḥ .. 2.98..
तल्लिंगधारी नियतं तद्भक्तजनवत्सलः । ध्यायेदथार्चयेदेतान् ब्रह्मविद्यापरायणः ॥ २.९९॥
talliṃgadhārī niyataṃ tadbhaktajanavatsalaḥ . dhyāyedathārcayedetān brahmavidyāparāyaṇaḥ .. 2.99..
सर्वेषामेव भक्तानां शंभोर्लिगमनुत्तमम् । सितेन भस्मना कार्यं ललाटे तु त्रिपुण्ड्रकम् ॥ २.१॥
sarveṣāmeva bhaktānāṃ śaṃbhorligamanuttamam . sitena bhasmanā kāryaṃ lalāṭe tu tripuṇḍrakam .. 2.1..
यस्तु नारायणं देवं प्रपन्नः परमं पदम् । धारयेत् सर्वदा शूलं ललाटे गन्धवारिभिः ॥ २.१०१॥
yastu nārāyaṇaṃ devaṃ prapannaḥ paramaṃ padam . dhārayet sarvadā śūlaṃ lalāṭe gandhavāribhiḥ .. 2.101..
प्रपन्ना ये जगद्बीजं ब्रह्माणं परमेष्ठिनम् । तेषां ललाटे तिलकं धारणीयं तु सर्वदा ॥ २.१०२॥
prapannā ye jagadbījaṃ brahmāṇaṃ parameṣṭhinam . teṣāṃ lalāṭe tilakaṃ dhāraṇīyaṃ tu sarvadā .. 2.102..
योऽसावनादिर्भूतादिः कालात्माऽसौ धृतो भवेत् । उपर्यधो भावयोगात् त्रिपुण्ड्रस्य तु धारणात् ॥ २.१०३॥
yo'sāvanādirbhūtādiḥ kālātmā'sau dhṛto bhavet . uparyadho bhāvayogāt tripuṇḍrasya tu dhāraṇāt .. 2.103..
यत्तत् प्रधानं त्रिगुणं ब्रह्मविष्णुशिवात्मकम् । धृतंन्तु त्रिशूलधरणाद् भवत्येव न संशयः ॥ २.१०४॥
yattat pradhānaṃ triguṇaṃ brahmaviṣṇuśivātmakam . dhṛtaṃntu triśūladharaṇād bhavatyeva na saṃśayaḥ .. 2.104..
ब्रह्मतेजोमयं शुक्लं यदेतन् मण्डलं रवेः । भवत्येव धृतं स्थानमैश्वरं तिलके कृते ॥ २.१०५॥
brahmatejomayaṃ śuklaṃ yadetan maṇḍalaṃ raveḥ . bhavatyeva dhṛtaṃ sthānamaiśvaraṃ tilake kṛte .. 2.105..
तस्मात् कार्यं त्रिशूलांकं तथा च तिलकं शुभम् । आयुष्यञ्चापि भक्तानां त्रयाणां विधिपूर्वकम् ॥ २.१०६॥
tasmāt kāryaṃ triśūlāṃkaṃ tathā ca tilakaṃ śubham . āyuṣyañcāpi bhaktānāṃ trayāṇāṃ vidhipūrvakam .. 2.106..
यजेत जुहुयादग्नौ जपेद् दद्याज्जितेन्द्रियः । शान्तो दान्तो जितक्रोधो वर्णाश्रमविधानवित् ॥ २.१०७॥
yajeta juhuyādagnau japed dadyājjitendriyaḥ . śānto dānto jitakrodho varṇāśramavidhānavit .. 2.107..
एवं परिचरेद् देवान् यावज्जीवं समाहितः । तेषां संस्थानमचलं सोऽचिरादधिगच्छति ॥ २.१०८॥
evaṃ paricared devān yāvajjīvaṃ samāhitaḥ . teṣāṃ saṃsthānamacalaṃ so'cirādadhigacchati .. 2.108..
इति श्रीकूर्मपुराणे वर्णाश्रमवर्णनं नामषट्साहस्त्र्यां संहितायां पूर्वविभागे द्वितीयोऽध्यायः ॥ २॥
iti śrīkūrmapurāṇe varṇāśramavarṇanaṃ nāmaṣaṭsāhastryāṃ saṃhitāyāṃ pūrvavibhāge dvitīyo'dhyāyaḥ .. 2..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In