| |
|

This overlay will guide you through the buttons:

सूत उवाच ।
अदितिः सुषुवे पुत्रमादित्यं कश्यपात् प्रभुम् । तस्यादित्यस्य चैवासीद् भार्याणां तु चतुष्टयम् ॥ २०.१॥
अदितिः सुषुवे पुत्रम् आदित्यम् कश्यपात् प्रभुम् । तस्य आदित्यस्य च एव आसीत् भार्याणाम् तु चतुष्टयम् ॥ २०।१॥
aditiḥ suṣuve putram ādityam kaśyapāt prabhum . tasya ādityasya ca eva āsīt bhāryāṇām tu catuṣṭayam .. 20.1..
संज्ञा राज्ञी प्रभा छाया पुत्रांस्तासां निबोधत । संज्ञा त्वाष्ट्री च सुषुवे सूर्यान्मनुमनुत्तमम् ॥ २०.२॥
संज्ञा राज्ञी प्रभा छाया पुत्रान् तासाम् निबोधत । संज्ञा त्वाष्ट्री च सुषुवे सूर्यात् मनुम् अनुत्तमम् ॥ २०।२॥
saṃjñā rājñī prabhā chāyā putrān tāsām nibodhata . saṃjñā tvāṣṭrī ca suṣuve sūryāt manum anuttamam .. 20.2..
यमं च यमुनां चैव राज्ञी रैवंतमेव च । प्रभा प्रभातमादित्याच्छाया सावर्णिमात्मजम् ॥ २०.३॥
यमम् च यमुनाम् च एव राज्ञी रैवंतम् एव च । प्रभा प्रभातम् आदित्यात् छाया सावर्णिम् आत्मजम् ॥ २०।३॥
yamam ca yamunām ca eva rājñī raivaṃtam eva ca . prabhā prabhātam ādityāt chāyā sāvarṇim ātmajam .. 20.3..
शनिं च तपतीं चैव विष्टिं चैव यथाक्रमम् । मनोस्तु प्रथमस्यासन् नव पुत्रास्तु तत्समाः ॥ २०.४॥
शनिम् च तपतीम् च एव विष्टिम् च एव यथाक्रमम् । मनोः तु प्रथमस्य आसन् नव पुत्राः तु तद्-समाः ॥ २०।४॥
śanim ca tapatīm ca eva viṣṭim ca eva yathākramam . manoḥ tu prathamasya āsan nava putrāḥ tu tad-samāḥ .. 20.4..
इक्ष्वाकुश्चैव नाभागो धृष्टः शर्यातिरेव च । नरिष्यन्तश्च नाभागो ह्यरिष्टः करुषस्तथा ॥ २०.५॥
इक्ष्वाकुः च एव नाभागः धृष्टः शर्यातिः एव च । नरिष्यन्तः च नाभागः हि अरिष्टः करुषः तथा ॥ २०।५॥
ikṣvākuḥ ca eva nābhāgaḥ dhṛṣṭaḥ śaryātiḥ eva ca . nariṣyantaḥ ca nābhāgaḥ hi ariṣṭaḥ karuṣaḥ tathā .. 20.5..
पृषध्रश्च महातेजा नवैते शक्रसन्निभाः । इला ज्येष्ठा वरिष्ठा च सोमवंशंविवृद्धये ॥ २०.६॥
पृषध्रः च महा-तेजाः नवा एते शक्र-सन्निभाः । इला ज्येष्ठा वरिष्ठा च सोम-वंशं विवृद्धये ॥ २०।६॥
pṛṣadhraḥ ca mahā-tejāḥ navā ete śakra-sannibhāḥ . ilā jyeṣṭhā variṣṭhā ca soma-vaṃśaṃ vivṛddhaye .. 20.6..
बुधस्य गत्वा भवनं सोमपुत्रेण संगता । असूत सोमजाद्देवी पुरूरवसमुत्तमम् ॥ २०.७॥
बुधस्य गत्वा भवनम् सोमपुत्रेण संगता । असूत सोम-जात् देवी पुरूरवसम् उत्तमम् ॥ २०।७॥
budhasya gatvā bhavanam somaputreṇa saṃgatā . asūta soma-jāt devī purūravasam uttamam .. 20.7..
पितॄणां तृप्तिकर्त्तारं बुधादिति हि नः श्रुतम् । प्राप्य पुत्रं सुविमलं सुद्युम्न इति विश्रुतं ॥ २०.८॥
पितॄणाम् तृप्ति-कर्त्तारम् बुधात् इति हि नः श्रुतम् । प्राप्य पुत्रम् सु विमलम् सुद्युम्नः इति विश्रुतम् ॥ २०।८॥
pitṝṇām tṛpti-karttāram budhāt iti hi naḥ śrutam . prāpya putram su vimalam sudyumnaḥ iti viśrutam .. 20.8..
इला पुत्रत्रयं लेभे पुनः स्त्रीत्वमविन्दत । उत्कलश्च गयश्चैव विनताश्वस्तथैव च ॥ २०.९॥
इला पुत्र-त्रयम् लेभे पुनर् स्त्री-त्वम् अविन्दत । उत्कलः च गयः च एव विनताश्वः तथा एव च ॥ २०।९॥
ilā putra-trayam lebhe punar strī-tvam avindata . utkalaḥ ca gayaḥ ca eva vinatāśvaḥ tathā eva ca .. 20.9..
सर्वे तेऽप्रतिमप्रख्याः प्रपन्नाः कमलोद्भवम् । इक्ष्वाकोश्चाभवद् वीरो विकुक्षिर्नाम पार्थिवः ॥ २०.१॥
सर्वे ते अप्रतिम-प्रख्याः प्रपन्नाः कमलोद्भवम् । इक्ष्वाकोः च अभवत् वीरः विकुक्षिः नाम पार्थिवः ॥ २०।१॥
sarve te apratima-prakhyāḥ prapannāḥ kamalodbhavam . ikṣvākoḥ ca abhavat vīraḥ vikukṣiḥ nāma pārthivaḥ .. 20.1..
ज्येष्ठः पुत्र स तस्यासीद्दश पञ्च च तत्सुताः । तेषांज्येष्ठः ककुत्स्थोऽभूत् काकुत्स्थो हि सुयोधनः ॥ २०.११॥
ज्येष्ठः पुत्र स तस्य आसीत् दश पञ्च च तद्-सुताः । तेषाम् ज्येष्ठः ककुत्स्थः अभूत् काकुत्स्थः हि सुयोधनः ॥ २०।११॥
jyeṣṭhaḥ putra sa tasya āsīt daśa pañca ca tad-sutāḥ . teṣām jyeṣṭhaḥ kakutsthaḥ abhūt kākutsthaḥ hi suyodhanaḥ .. 20.11..
सुयोधनात् पृथुः श्रीमान् विश्वकश्च पृथोः सुतः । विश्वकादार्द्रको धीमान् युवनाश्वस्तु तत्सुतः ॥ २०.१२॥
सुयोधनात् पृथुः श्रीमान् विश्वकः च पृथोः सुतः । विश्वकात् आर्द्रकः धीमान् युवनाश्वः तु तद्-सुतः ॥ २०।१२॥
suyodhanāt pṛthuḥ śrīmān viśvakaḥ ca pṛthoḥ sutaḥ . viśvakāt ārdrakaḥ dhīmān yuvanāśvaḥ tu tad-sutaḥ .. 20.12..
स गोकर्णमनुप्राप्य युवनाश्वः प्रतापवान् । दृष्ट्वा सौ गौतमं विप्रं तपन्तमनलप्रभम् ॥ २०.१३॥
स गोकर्णम् अनुप्राप्य युवनाश्वः प्रतापवान् । दृष्ट्वा सौ गौतमम् विप्रम् तपन्तम् अनल-प्रभम् ॥ २०।१३॥
sa gokarṇam anuprāpya yuvanāśvaḥ pratāpavān . dṛṣṭvā sau gautamam vipram tapantam anala-prabham .. 20.13..
प्रणम्य दण्डवद् भूमौ पुत्रकामो महीपतिः । अपृच्छत् कर्मणा केन धार्मिकं प्राप्नुयां सुतम् ॥ २०.१४॥
प्रणम्य दण्ड-वत् भूमौ पुत्र-कामः महीपतिः । अपृच्छत् कर्मणा केन धार्मिकम् प्राप्नुयाम् सुतम् ॥ २०।१४॥
praṇamya daṇḍa-vat bhūmau putra-kāmaḥ mahīpatiḥ . apṛcchat karmaṇā kena dhārmikam prāpnuyām sutam .. 20.14..
गौतम उवाच ।
आराध्य पूर्वपुरुषं नारायणमनामयम् । अनादिनिधनं देवं धार्मिकं प्राप्नुयात् सुतम् ॥ २०.१५॥
आराध्य पूर्वपुरुषम् नारायणम् अनामयम् । अन् आदि-निधनम् देवम् धार्मिकम् प्राप्नुयात् सुतम् ॥ २०।१५॥
ārādhya pūrvapuruṣam nārāyaṇam anāmayam . an ādi-nidhanam devam dhārmikam prāpnuyāt sutam .. 20.15..
यस्य पुत्रः स्वयं ब्रह्मा पौत्रः स्यान्नीललोहितः .। तमादिकृष्णमीशानमाराध्याप्नोति सत्सुतम् ॥ २०.१६॥
यस्य पुत्रः स्वयम् ब्रह्मा पौत्रः स्यात् नीललोहितः ॥ तम् आदिकृष्णम् ईशानम् आराध्य आप्नोति सत्-सुतम् ॥ २०।१६॥
yasya putraḥ svayam brahmā pautraḥ syāt nīlalohitaḥ .. tam ādikṛṣṇam īśānam ārādhya āpnoti sat-sutam .. 20.16..
न यस्य भगवान् ब्रह्मा प्रभावं वेत्ति तत्त्वतःतमाराध्य हृषीकेशं प्राप्नुयाद्धार्मिकं सुतम् ॥ २०.१७॥
न यस्य भगवान् ब्रह्मा प्रभावम् वेत्ति तत्त्वतः तम् आराध्य हृषीकेशम् प्राप्नुयात् धार्मिकम् सुतम् ॥ २०।१७॥
na yasya bhagavān brahmā prabhāvam vetti tattvataḥ tam ārādhya hṛṣīkeśam prāpnuyāt dhārmikam sutam .. 20.17..
स गौतमवचः श्रुत्वा युवनाश्वो महीपतिः । आराधयन्हृषीकेशं वासुदेवं सनातनम् ॥ २०.१८॥
स गौतम-वचः श्रुत्वा युवनाश्वः महीपतिः । आराधयन् हृषीकेशम् वासुदेवम् सनातनम् ॥ २०।१८॥
sa gautama-vacaḥ śrutvā yuvanāśvaḥ mahīpatiḥ . ārādhayan hṛṣīkeśam vāsudevam sanātanam .. 20.18..
तस्य पुत्रोऽभवद् वीरः सावस्तिरिति विश्रुतः । निर्मिता येन सावस्तिर्गौडदेशे महापुरी ॥ २०.१९॥
तस्य पुत्रः अभवत् वीरः सावस्तिः इति विश्रुतः । निर्मिता येन सा अवस्तिः गौड-देशे महा-पुरी ॥ २०।१९॥
tasya putraḥ abhavat vīraḥ sāvastiḥ iti viśrutaḥ . nirmitā yena sā avastiḥ gauḍa-deśe mahā-purī .. 20.19..
तस्माच्च बृहदश्वोऽभूत् तस्मात् कुवलयाश्वकः । धुन्धुमारत्वमगमद् धुन्धुं हत्वा महासुरम् ॥ २०.२॥
तस्मात् च बृहदश्वः अभूत् तस्मात् कुवलयाश्वकः । धुन्धुमार-त्वम् अगमत् धुन्धुम् हत्वा महा-असुरम् ॥ २०।२॥
tasmāt ca bṛhadaśvaḥ abhūt tasmāt kuvalayāśvakaḥ . dhundhumāra-tvam agamat dhundhum hatvā mahā-asuram .. 20.2..
धुन्धुमारस्य तनयास्त्रयः प्रोक्ता द्विजोत्तमाः । दृढाश्वश्चैव दण्डाश्वः कपिलाश्वस्तथैव च ॥ २०.२१॥
धुन्धुमारस्य तनयाः त्रयः प्रोक्ताः द्विजोत्तमाः । दृढाश्वः च एव दण्डाश्वः कपिलाश्वः तथा एव च ॥ २०।२१॥
dhundhumārasya tanayāḥ trayaḥ proktāḥ dvijottamāḥ . dṛḍhāśvaḥ ca eva daṇḍāśvaḥ kapilāśvaḥ tathā eva ca .. 20.21..
दृढाश्वस्य प्रमोदस्तु हर्यश्वस्तस्य चात्मजः । हर्यश्वस्य निकुम्भस्तु निकुम्भात् संहताश्वकः ॥ २०.२२॥
दृढाश्वस्य प्रमोदः तु हर्यश्वः तस्य च आत्मजः । हर्यश्वस्य निकुम्भः तु निकुम्भात् संहताश्वकः ॥ २०।२२॥
dṛḍhāśvasya pramodaḥ tu haryaśvaḥ tasya ca ātmajaḥ . haryaśvasya nikumbhaḥ tu nikumbhāt saṃhatāśvakaḥ .. 20.22..
कृताश्वोऽथ रणाश्वश्च संहताश्वस्य वै सुतौ । युवनाश्वो रणाश्वस्य शक्रतुल्यबलो युधि ॥ २०.२३॥
कृताश्वः अथ रणाश्वः च संहताश्वस्य वै सुतौ । युवनाश्वः रणाश्वस्य शक्र-तुल्य-बलः युधि ॥ २०।२३॥
kṛtāśvaḥ atha raṇāśvaḥ ca saṃhatāśvasya vai sutau . yuvanāśvaḥ raṇāśvasya śakra-tulya-balaḥ yudhi .. 20.23..
कृत्वा तु वारुणीमिष्टिमृषीणां वै प्रसादतः । लेभे त्वप्रतिमं पुत्रं विष्णुभक्तमनुत्तमम् ॥ २०.२४॥
कृत्वा तु वारुणीम् इष्टिम् ऋषीणाम् वै प्रसादतः । लेभे तु अप्रतिमम् पुत्रम् विष्णु-भक्तम् अनुत्तमम् ॥ २०।२४॥
kṛtvā tu vāruṇīm iṣṭim ṛṣīṇām vai prasādataḥ . lebhe tu apratimam putram viṣṇu-bhaktam anuttamam .. 20.24..
मान्धातारं महाप्राज्ञं सर्वशस्रभृतां वरम् । मान्धातुः पुरुकुत्सोऽभूदम्बरीषश्च वीर्यवान् ॥ २०.२५॥
मान्धातारम् महा-प्राज्ञम् सर्व-शस्रभृताम् वरम् । मान्धातुः पुरुकुत्सः अभूत् अम्बरीषः च वीर्यवान् ॥ २०।२५॥
māndhātāram mahā-prājñam sarva-śasrabhṛtām varam . māndhātuḥ purukutsaḥ abhūt ambarīṣaḥ ca vīryavān .. 20.25..
मुचुकुन्दश्च पुण्यात्मा सर्वे शक्रसमा युधि । अम्बरीषस्य दायादो युवनाश्वोऽपरः स्मृतः ॥ २०.२६॥
मुचुकुन्दः च पुण्य-आत्मा सर्वे शक्र-समाः युधि । अम्बरीषस्य दायादः युवनाश्वः अपरः स्मृतः ॥ २०।२६॥
mucukundaḥ ca puṇya-ātmā sarve śakra-samāḥ yudhi . ambarīṣasya dāyādaḥ yuvanāśvaḥ aparaḥ smṛtaḥ .. 20.26..
हरितो युवनाश्वस्य हारितस्तत्सुतोऽभवत् । पुरुकुत्सस्य दायादस्त्रसदस्युर्महायशाः ॥ २०.२७॥
हरितः युवनाश्वस्य हारितः तद्-सुतः अभवत् । पुरुकुत्सस्य दायादः त्रसदस्युः महा-यशाः ॥ २०।२७॥
haritaḥ yuvanāśvasya hāritaḥ tad-sutaḥ abhavat . purukutsasya dāyādaḥ trasadasyuḥ mahā-yaśāḥ .. 20.27..
नर्मदायां समुत्पन्नः संभूतिस्तत्सुतोऽभवत् । विष्णुवृद्धः सुतस्तस्य त्वनरण्योऽभवत्ततः । बृहदशवोऽनरण्यस्य हर्यश्वस्तत्सुतोऽभवत् ॥ २०.२८॥
नर्मदायाम् समुत्पन्नः संभूतिः तद्-सुतः अभवत् । विष्णुवृद्धः सुतः तस्य तु अनरण्यः अभवत् ततस् । बृहदशवः अनरण्यस्य हर्यश्वः तद्-सुतः अभवत् ॥ २०।२८॥
narmadāyām samutpannaḥ saṃbhūtiḥ tad-sutaḥ abhavat . viṣṇuvṛddhaḥ sutaḥ tasya tu anaraṇyaḥ abhavat tatas . bṛhadaśavaḥ anaraṇyasya haryaśvaḥ tad-sutaḥ abhavat .. 20.28..
सोऽतीव धार्मिको राजा कर्दमस्य प्रजापतेः । प्रसादाद्धार्मिकं पुत्रं लेभे सूर्यपरायणम् ॥ २०.२९॥
सः अतीव धार्मिकः राजा कर्दमस्य प्रजापतेः । प्रसादात् धार्मिकम् पुत्रम् लेभे सूर्य-परायणम् ॥ २०।२९॥
saḥ atīva dhārmikaḥ rājā kardamasya prajāpateḥ . prasādāt dhārmikam putram lebhe sūrya-parāyaṇam .. 20.29..
स तु सूर्यं समभ्यर्च्य राजा वसुमनाः शुभम् । लेभे त्वप्रतिमं पुत्रं त्रिधन्वानमरिंदमम् ॥ २०.३॥
स तु सूर्यम् समभ्यर्च्य राजा वसुमनाः शुभम् । लेभे तु अप्रतिमम् पुत्रम् त्रिधन्वानम् अरिंदमम् ॥ २०।३॥
sa tu sūryam samabhyarcya rājā vasumanāḥ śubham . lebhe tu apratimam putram tridhanvānam ariṃdamam .. 20.3..
अयजच्चाश्वमेधेन शत्रून् जित्वा द्विजोत्तमाः । स्वाध्यायवान् दानशीलस्तितिक्षुर्धर्मतत्परः ॥ २०.३१॥
अयजत् च अश्वमेधेन शत्रून् जित्वा द्विजोत्तमाः । स्वाध्यायवान् दान-शीलः तितिक्षुः धर्म-तत्परः ॥ २०।३१॥
ayajat ca aśvamedhena śatrūn jitvā dvijottamāḥ . svādhyāyavān dāna-śīlaḥ titikṣuḥ dharma-tatparaḥ .. 20.31..
ऋषयस्तु समाजग्मुर्यज्ञवाटं महात्मनः । वसिष्ठकश्यपमुखा देवाश्चेन्द्रपुरोगमाः ॥ २०.३२॥
ऋषयः तु समाजग्मुः यज्ञ-वाटम् महात्मनः । वसिष्ठ-कश्यप-मुखाः देवाः च इन्द्र-पुरोगमाः ॥ २०।३२॥
ṛṣayaḥ tu samājagmuḥ yajña-vāṭam mahātmanaḥ . vasiṣṭha-kaśyapa-mukhāḥ devāḥ ca indra-purogamāḥ .. 20.32..
तान् प्रणम्य महाराजः पप्रच्छ विनयान्वितः । समाप्य विधिवद् यज्ञं वसिष्ठादीन् द्विजोत्तमान् ॥ २०.३३॥
तान् प्रणम्य महा-राजः पप्रच्छ विनय-अन्वितः । समाप्य विधिवत् यज्ञम् वसिष्ठ-आदीन् द्विजोत्तमान् ॥ २०।३३॥
tān praṇamya mahā-rājaḥ papraccha vinaya-anvitaḥ . samāpya vidhivat yajñam vasiṣṭha-ādīn dvijottamān .. 20.33..
वसुमना उवाच ।
किंस्विच्छेयस्करतरं लोकेऽस्मिन् ब्राह्मणर्षभाः । यज्ञस्तपो वा संन्यासो ब्रूत मे सर्ववेदिनः ॥ २०.३४॥
किम् स्विद् शेयस्करतरम् लोके अस्मिन् ब्राह्मण-ऋषभाः । यज्ञः तपः वा संन्यासः ब्रूत मे सर्व-वेदिनः ॥ २०।३४॥
kim svid śeyaskarataram loke asmin brāhmaṇa-ṛṣabhāḥ . yajñaḥ tapaḥ vā saṃnyāsaḥ brūta me sarva-vedinaḥ .. 20.34..
वसिष्ठ उवाच ।
अधीत्य वेदान् विधिवत् पुत्रानुत्पाद्य धर्मतः । इष्ट्वा यज्ञेश्वरं यज्ञैर्गच्छेद वनमथात्मवान् ॥ २०.३५॥
अधीत्य वेदान् विधिवत् पुत्रान् उत्पाद्य धर्मतः । इष्ट्वा यज्ञेश्वरम् यज्ञैः गच्छेद वनम् अथ आत्मवान् ॥ २०।३५॥
adhītya vedān vidhivat putrān utpādya dharmataḥ . iṣṭvā yajñeśvaram yajñaiḥ gaccheda vanam atha ātmavān .. 20.35..
पुलस्त्य उवाच ।
आराध्य तपसा देवं योगिनं परमेष्ठिनम् । प्रव्रजेद् विधिवद् यज्ञैरिष्ट्वा पूर्वं सुरोत्तमान् ॥ २०.३६॥
आराध्य तपसा देवम् योगिनम् परमेष्ठिनम् । प्रव्रजेत् विधिवत् यज्ञैः इष्ट्वा पूर्वम् सुर-उत्तमान् ॥ २०।३६॥
ārādhya tapasā devam yoginam parameṣṭhinam . pravrajet vidhivat yajñaiḥ iṣṭvā pūrvam sura-uttamān .. 20.36..
पुलह उवाच ।
यमाहुरेकं पुरुषं पुराणं परमेश्वरम् । तमाराध्य सहस्त्रांशुं तपसा मोक्षमाप्नुयात् ॥ २०.३७॥
यम् आहुः एकम् पुरुषम् पुराणम् परमेश्वरम् । तम् आराध्य सहस्त्रांशुम् तपसा मोक्षम् आप्नुयात् ॥ २०।३७॥
yam āhuḥ ekam puruṣam purāṇam parameśvaram . tam ārādhya sahastrāṃśum tapasā mokṣam āpnuyāt .. 20.37..
जमदग्निरुवाच ।
अजस्य नाभावध्येकमीश्वरेण समर्पितम् । बीजं भगवता येन स देवस्तपसेज्यते ॥ २०.३८॥
अजस्य नाभौ अधि एकम् ईश्वरेण समर्पितम् । बीजम् भगवता येन स देवः तपसा इज्यते ॥ २०।३८॥
ajasya nābhau adhi ekam īśvareṇa samarpitam . bījam bhagavatā yena sa devaḥ tapasā ijyate .. 20.38..
विश्वामित्र उवाच ।
योऽग्निः सर्वात्मकोऽनन्तः स्वयंभूर्विश्वतोमुखः । स रुद्रस्तपसोग्रेण पूज्यते नेतरैर्मखैः ॥ २०.३९॥
यः अग्निः सर्व-आत्मकः अनन्तः स्वयंभूः विश्वतोमुखः । स रुद्रः तपसा उग्रेण पूज्यते न इतरैः मखैः ॥ २०।३९॥
yaḥ agniḥ sarva-ātmakaḥ anantaḥ svayaṃbhūḥ viśvatomukhaḥ . sa rudraḥ tapasā ugreṇa pūjyate na itaraiḥ makhaiḥ .. 20.39..
भरद्वाज उवाच ।
यो यज्ञैरिज्यते देवो जातवेदाः सनातनः । स सर्वदैवततनुः पूज्यते परमेश्वरः ॥ २०.४॥
यः यज्ञैः इज्यते देवः जातवेदाः सनातनः । स सर्व-दैवत-तनुः पूज्यते परमेश्वरः ॥ २०।४॥
yaḥ yajñaiḥ ijyate devaḥ jātavedāḥ sanātanaḥ . sa sarva-daivata-tanuḥ pūjyate parameśvaraḥ .. 20.4..
अत्रिरुवाच ।
यतः सर्वमिदं जातं यस्यापत्यं प्रजापतिः । तपः सुमहदास्थाय पूज्यते स महेश्वरः ॥ २०.४१॥
यतस् सर्वम् इदम् जातम् यस्य अपत्यम् प्रजापतिः । तपः सु महत् आस्थाय पूज्यते स महेश्वरः ॥ २०।४१॥
yatas sarvam idam jātam yasya apatyam prajāpatiḥ . tapaḥ su mahat āsthāya pūjyate sa maheśvaraḥ .. 20.41..
गौतम उवाच ।
यतः प्रधानपुरुषौ यस्य शक्तिमयं जगत् । स देवदेवस्तपसा पूजनीयः सनातनः ॥ २०.४२॥
यतस् प्रधान-पुरुषौ यस्य शक्ति-मयम् जगत् । स देवदेवः तपसा पूजनीयः सनातनः ॥ २०।४२॥
yatas pradhāna-puruṣau yasya śakti-mayam jagat . sa devadevaḥ tapasā pūjanīyaḥ sanātanaḥ .. 20.42..
कश्यप उवाच ।
सहस्त्रनयनो देवः साक्षी शम्भुः प्रजापतिः । प्रसीदति महायोगी पूजितस्तपसा परः ॥ २०.४३॥
। प्रसीदति महा-योगी पूजितः तपसा परः ॥ २०।४३॥
. prasīdati mahā-yogī pūjitaḥ tapasā paraḥ .. 20.43..
क्रतुरुवाच
प्राप्ताध्ययनयज्ञस्य लब्धपुत्रस्य चैव हि । नान्तरेण तपः कश्चिद्धर्मः शास्त्रेषु दृश्यते ॥ २०.४४॥
प्राप्त-अध्ययन-यज्ञस्य लब्ध-पुत्रस्य च एव हि । न अन्तरेण तपः कश्चिद् धर्मः शास्त्रेषु दृश्यते ॥ २०।४४॥
prāpta-adhyayana-yajñasya labdha-putrasya ca eva hi . na antareṇa tapaḥ kaścid dharmaḥ śāstreṣu dṛśyate .. 20.44..
इत्याकर्ण्य स राजर्षिस्तान् प्रणम्यातिहृष्टधीः । विसर्जयित्वा संपूज्य त्रिधन्वानमथाब्रवीत् ॥ २०.४५॥
इति आकर्ण्य स राजर्षिः तान् प्रणम्य अति हृष्ट-धीः । विसर्जयित्वा संपूज्य त्रिधन्वानम् अथा अब्रवीत् ॥ २०।४५॥
iti ākarṇya sa rājarṣiḥ tān praṇamya ati hṛṣṭa-dhīḥ . visarjayitvā saṃpūjya tridhanvānam athā abravīt .. 20.45..
आराधयिष्ये तपसा देवमेकाक्षराह्वयम् । प्राणं बृहन्तं पुरुषमादित्यान्तरसंस्थितम् ॥ २०.४६॥
आराधयिष्ये तपसा देवम् एकाक्षर-आह्वयम् । प्राणम् बृहन्तम् पुरुषम् आदित्य-अन्तर-संस्थितम् ॥ २०।४६॥
ārādhayiṣye tapasā devam ekākṣara-āhvayam . prāṇam bṛhantam puruṣam āditya-antara-saṃsthitam .. 20.46..
त्वं तु धर्मरतो नित्यं पालयैतदतन्द्रितः । चातुर्वर्ण्यसमायुक्तमशेषं क्षितिमण्डलम् ॥ २०.४७॥
त्वम् तु धर्म-रतः नित्यम् पालय एतत् अतन्द्रितः । चातुर्वर्ण्य-समायुक्तम् अशेषम् क्षिति-मण्डलम् ॥ २०।४७॥
tvam tu dharma-rataḥ nityam pālaya etat atandritaḥ . cāturvarṇya-samāyuktam aśeṣam kṣiti-maṇḍalam .. 20.47..
एवमुक्त्वा स तद्राज्यं निधायात्मभवे नृपः । जगामारण्यमनघस्तपस्तप्तुमनुत्तमम् ॥ २०.४८॥
एवम् उक्त्वा स तत् राज्यम् निधाय आत्मभवे नृपः । जगाम अरण्यम् अनघः तपः तप्तुम् अनुत्तमम् ॥ २०।४८॥
evam uktvā sa tat rājyam nidhāya ātmabhave nṛpaḥ . jagāma araṇyam anaghaḥ tapaḥ taptum anuttamam .. 20.48..
हिमवच्छिखरे रम्ये देवदारुवने शुभे । कन्दमूलफलाहारैरुत्पन्नैरयजत् सुरान् ॥ २०.४९॥
हिमवत्-शिखरे रम्ये देवदारु-वने शुभे । कन्द-मूल-फल-आहारैः उत्पन्नैः अयजत् सुरान् ॥ २०।४९॥
himavat-śikhare ramye devadāru-vane śubhe . kanda-mūla-phala-āhāraiḥ utpannaiḥ ayajat surān .. 20.49..
संवत्सरशतं साग्रं तपोनिर्द्धूतकल्मषः । जजाप मनसा देवीं सावित्रीं वेदमातरम् ॥ २०.५॥
संवत्सर-शतम् साग्रम् तपः-निर्द्धूत-कल्मषः । जजाप मनसा देवीम् सावित्रीम् वेदमातरम् ॥ २०।५॥
saṃvatsara-śatam sāgram tapaḥ-nirddhūta-kalmaṣaḥ . jajāpa manasā devīm sāvitrīm vedamātaram .. 20.5..
तस्यैवं जपतो देवः स्वयंभूः परमेश्वरः । हिरण्यगर्भो विश्वात्मा तं देशमगमत् स्वयम् ॥ २०.५१॥
तस्य एवम् जपतः देवः स्वयंभूः परमेश्वरः । हिरण्यगर्भः विश्वात्मा तम् देशम् अगमत् स्वयम् ॥ २०।५१॥
tasya evam japataḥ devaḥ svayaṃbhūḥ parameśvaraḥ . hiraṇyagarbhaḥ viśvātmā tam deśam agamat svayam .. 20.51..
दृष्ट्वा देवं समायान्तं ब्रह्माणं विश्वतोमुखम् । ननाम शिरसा तस्य पादयोर्नाम कीर्त्तयन् ॥ २०.५२॥
दृष्ट्वा देवम् समायान्तम् ब्रह्माणम् विश्वतोमुखम् । ननाम शिरसा तस्य पादयोः नाम कीर्त्तयन् ॥ २०।५२॥
dṛṣṭvā devam samāyāntam brahmāṇam viśvatomukham . nanāma śirasā tasya pādayoḥ nāma kīrttayan .. 20.52..
नमो देवाधिदेवाय ब्रह्मणे परमात्मने । हिर्ण्यमूर्त्तये तुभ्यं सहस्राक्षाय वेधसे ॥ २०.५३॥
नमः देव-अधिदेवाय ब्रह्मणे परमात्मने । हिर्ण्य-मूर्त्तये तुभ्यम् सहस्राक्षाय वेधसे ॥ २०।५३॥
namaḥ deva-adhidevāya brahmaṇe paramātmane . hirṇya-mūrttaye tubhyam sahasrākṣāya vedhase .. 20.53..
नमो धात्रे विधात्रे च नमो वेदात्ममूर्त्तये । सांख्ययोगाधिगम्याय नमस्ते ज्ञानमूर्त्तये ॥ २०.५४॥
नमः धात्रे विधात्रे च नमः वेद-आत्म-मूर्त्तये । सांख्य-योग-अधिगम्याय नमः ते ज्ञान-मूर्त्तये ॥ २०।५४॥
namaḥ dhātre vidhātre ca namaḥ veda-ātma-mūrttaye . sāṃkhya-yoga-adhigamyāya namaḥ te jñāna-mūrttaye .. 20.54..
नमस्त्रिमूर्त्तये तुभ्यं स्त्रष्ट्रे सर्वार्थवेदिने । पुरुषाय पुराणाय योगिनां गुरवे नमः ॥ २०.५५॥
नमः त्रिमूर्त्तये तुभ्यम् स्त्रष्ट्रे सर्व-अर्थ-वेदिने । पुरुषाय पुराणाय योगिनाम् गुरवे नमः ॥ २०।५५॥
namaḥ trimūrttaye tubhyam straṣṭre sarva-artha-vedine . puruṣāya purāṇāya yoginām gurave namaḥ .. 20.55..
ततः प्रसन्नो भगवान् विरिञ्चो विश्वभावनः । वरं वरय भद्रं ते वरदोऽस्मीत्यभाषत ॥ २०.५६॥
ततस् प्रसन्नः भगवान् विरिञ्चः विश्वभावनः । वरम् वरय भद्रम् ते वर-दः अस्मि इति अभाषत ॥ २०।५६॥
tatas prasannaḥ bhagavān viriñcaḥ viśvabhāvanaḥ . varam varaya bhadram te vara-daḥ asmi iti abhāṣata .. 20.56..
राजोवाच
जपेयं देवदेवेश गायत्रीं वेदमातरम् । भूयो वर्षशतं साग्रं तावदायुर्भवेन्मम ॥ २०.५७॥
जपेयम् देवदेवेश गायत्रीम् वेदमातरम् । भूयस् वर्ष-शतम् साग्रम् तावत् आयुः भवेत् मम ॥ २०।५७॥
japeyam devadeveśa gāyatrīm vedamātaram . bhūyas varṣa-śatam sāgram tāvat āyuḥ bhavet mama .. 20.57..
बाढमित्याह विश्वात्मा समालोक्य नराधिपम् । स्पृष्ट्वा कराभ्यां सुप्रीतस्तत्रैवान्तरधीयत ॥ २०.५८॥
बाढम् इति आह विश्वात्मा समालोक्य नराधिपम् । स्पृष्ट्वा कराभ्याम् सु प्रीतः तत्र एव अन्तरधीयत ॥ २०।५८॥
bāḍham iti āha viśvātmā samālokya narādhipam . spṛṣṭvā karābhyām su prītaḥ tatra eva antaradhīyata .. 20.58..
सोऽपि लब्धवरः श्रीमान् जजापातिप्रसन्नधीः । शान्तस्त्रिषवणस्नायी कन्दमूलफलाशनः ॥ २०.५९॥
सः अपि लब्ध-वरः श्रीमान् जजाप अतिप्रसन्न-धीः । शान्तः त्रिषवण-स्नायी कन्द-मूल-फल-अशनः ॥ २०।५९॥
saḥ api labdha-varaḥ śrīmān jajāpa atiprasanna-dhīḥ . śāntaḥ triṣavaṇa-snāyī kanda-mūla-phala-aśanaḥ .. 20.59..
तस्य पूर्णे वर्षशते भगवानुग्रदीधितिः । प्रादुरासीन्महायोगी भानोर्मण्डलमध्यतः ॥ २०.६॥
तस्य पूर्णे वर्ष-शते भगवान् उग्र-दीधितिः । प्रादुरासीत् महा-योगी भानोः मण्डल-मध्यतस् ॥ २०।६॥
tasya pūrṇe varṣa-śate bhagavān ugra-dīdhitiḥ . prādurāsīt mahā-yogī bhānoḥ maṇḍala-madhyatas .. 20.6..
तं दृष्ट्वा वेदविदुषं मण्डलस्थं सनातनम् । स्वयंभुवमनाद्यन्तं ब्रह्माणं विस्मयं गतः ॥ २०.६१॥
तम् दृष्ट्वा मण्डल-स्थम् सनातनम् । स्वयंभुवम् अनाद्यन्तम् ब्रह्माणम् विस्मयम् गतः ॥ २०।६१॥
tam dṛṣṭvā maṇḍala-stham sanātanam . svayaṃbhuvam anādyantam brahmāṇam vismayam gataḥ .. 20.61..
तुष्टाव वैदिकैर्मन्त्रैः सावित्र्या च विशेषतः । क्षणादपश्यत् पुरुषं तमेव परमेश्वरम् ॥ २०.६२॥
तुष्टाव वैदिकैः मन्त्रैः सावित्र्या च विशेषतः । क्षणात् अपश्यत् पुरुषम् तम् एव परमेश्वरम् ॥ २०।६२॥
tuṣṭāva vaidikaiḥ mantraiḥ sāvitryā ca viśeṣataḥ . kṣaṇāt apaśyat puruṣam tam eva parameśvaram .. 20.62..
चतुर्मुखं जटामौलिमष्टहस्तं त्रिलोचनम् । चन्द्रावयवलक्षमाणं नरनारीतनुं हरम् ॥ २०.६३॥
चतुर्मुखम् जटा-मौलिम् अष्ट-हस्तम् त्रिलोचनम् । चन्द्र-अवयव-लक्षमाणम् नर-नारी-तनुम् हरम् ॥ २०।६३॥
caturmukham jaṭā-maulim aṣṭa-hastam trilocanam . candra-avayava-lakṣamāṇam nara-nārī-tanum haram .. 20.63..
भासयन्तं जगत् कृत्स्नं नीलकण्ठं स्वरश्मिभिः । रक्ताम्बरधरं रक्तं रक्तमाल्यानुलेपनम् ॥ २०.६४॥
भासयन्तम् जगत् कृत्स्नम् नीलकण्ठम् स्व-रश्मिभिः । रक्त-अम्बर-धरम् रक्तम् रक्त-माल्य-अनुलेपनम् ॥ २०।६४॥
bhāsayantam jagat kṛtsnam nīlakaṇṭham sva-raśmibhiḥ . rakta-ambara-dharam raktam rakta-mālya-anulepanam .. 20.64..
तद्भावभावितो दृष्ट्वा सद्भावेन परेण हि । ननाम शिरसा रुद्रं सावित्र्यानेन चैव हि ॥ २०.६५॥
तद्-भाव-भावितः दृष्ट्वा सद्भावेन परेण हि । ननाम शिरसा रुद्रम् सावित्र्या अनेन च एव हि ॥ २०।६५॥
tad-bhāva-bhāvitaḥ dṛṣṭvā sadbhāvena pareṇa hi . nanāma śirasā rudram sāvitryā anena ca eva hi .. 20.65..
नमस्ते नीलकण्ठाय भास्वते परमेष्ठिने । त्रयीमयाय रुद्राय कालरूपाय हेतवे ॥ २०.६६॥
नमः ते नीलकण्ठाय भास्वते परमेष्ठिने । त्रयी-मयाय रुद्राय काल-रूपाय हेतवे ॥ २०।६६॥
namaḥ te nīlakaṇṭhāya bhāsvate parameṣṭhine . trayī-mayāya rudrāya kāla-rūpāya hetave .. 20.66..
तदा प्राह महादेवो राजानं प्रीतमानसः । इमानि मे रहस्यानि नामानि श्रृणु चानघ ॥ २०.६७॥
तदा प्राह महादेवः राजानम् प्रीत-मानसः । इमानि मे रहस्यानि नामानि श्रृणु च अनघ ॥ २०।६७॥
tadā prāha mahādevaḥ rājānam prīta-mānasaḥ . imāni me rahasyāni nāmāni śrṛṇu ca anagha .. 20.67..
सर्ववेदेषु गीतानि संसारशमनानि तु । नमस्कुरुष्व नृपते एभिर्मां सततं शुचिः ॥ २०.६८॥
सर्व-वेदेषु गीतानि संसार-शमनानि तु । नमस्कुरुष्व नृपते एभिः माम् सततम् शुचिः ॥ २०।६८॥
sarva-vedeṣu gītāni saṃsāra-śamanāni tu . namaskuruṣva nṛpate ebhiḥ mām satatam śuciḥ .. 20.68..
अध्यायं शतरुद्रीयं यजुषां सारमुद्धृतम् । जपस्वानन्यचेतस्को मय्यासक्तमना नृप ॥ २०.६९॥
अध्यायम् शतरुद्रीयम् यजुषाम् सारम् उद्धृतम् । जपस्व अन् अन्य-चेतस्कः मयि आसक्त-मनाः नृप ॥ २०।६९॥
adhyāyam śatarudrīyam yajuṣām sāram uddhṛtam . japasva an anya-cetaskaḥ mayi āsakta-manāḥ nṛpa .. 20.69..
ब्रह्मचारी मिताहारो भस्मनिष्ठः समाहितः । जपेदामरणाद् रुद्रं स याति परमं पदम् ॥ २०.७॥
ब्रह्मचारी मित-आहारः भस्म-निष्ठः समाहितः । जपेत् आमरणात् रुद्रम् स याति परमम् पदम् ॥ २०।७॥
brahmacārī mita-āhāraḥ bhasma-niṣṭhaḥ samāhitaḥ . japet āmaraṇāt rudram sa yāti paramam padam .. 20.7..
इत्युक्त्वा भगवान् रुद्रो भक्तानुग्रहकाम्यया । पुनः संवत्सरशतं राज्ञे ह्यायुरकल्पयत् ॥ २०.७१॥
इति उक्त्वा भगवान् रुद्रः भक्त-अनुग्रह-काम्यया । पुनर् संवत्सर-शतम् राज्ञे हि आयुः अकल्पयत् ॥ २०।७१॥
iti uktvā bhagavān rudraḥ bhakta-anugraha-kāmyayā . punar saṃvatsara-śatam rājñe hi āyuḥ akalpayat .. 20.71..
दत्त्वाऽस्मै तत् परं ज्ञानं वैराग्यं परमेश्वरः । क्षणादन्तर्दधे रुद्रस्तदद्भुतमिवाभवत् ॥ २०.७२॥
दत्त्वा अस्मै तत् परम् ज्ञानम् वैराग्यम् परमेश्वरः । क्षणात् अन्तर्दधे रुद्रः तत् अद्भुतम् इव अभवत् ॥ २०।७२॥
dattvā asmai tat param jñānam vairāgyam parameśvaraḥ . kṣaṇāt antardadhe rudraḥ tat adbhutam iva abhavat .. 20.72..
राजाऽपि तपसा रुद्रं जजापानन्यमानसः । भस्मच्छन्नस्त्रिषवणं स्नात्वा शान्तः समाहितः ॥ २०.७३॥
राजा अपि तपसा रुद्रम् जजाप अनन्य-मानसः । भस्म-छन्नः त्रिषवणम् स्नात्वा शान्तः समाहितः ॥ २०।७३॥
rājā api tapasā rudram jajāpa ananya-mānasaḥ . bhasma-channaḥ triṣavaṇam snātvā śāntaḥ samāhitaḥ .. 20.73..
जपतस्तस्य नृपतेः पूर्णे वर्षशते पुनः । योगप्रवृत्तिरभवत् कालात् कालात्मकं परम् ॥ २०.७४॥
जपतः तस्य नृपतेः पूर्णे वर्ष-शते पुनर् । योग-प्रवृत्तिः अभवत् कालात् काल-आत्मकम् परम् ॥ २०।७४॥
japataḥ tasya nṛpateḥ pūrṇe varṣa-śate punar . yoga-pravṛttiḥ abhavat kālāt kāla-ātmakam param .. 20.74..
विवेशैतद् वेदसारं स्थानं वै परमेष्ठिनः । भानोः सुमण्डलं शुभ्रं ततो यातो महेश्वरम् ॥ २०.७५॥
विवेश एतत् वेद-सारम् स्थानम् वै परमेष्ठिनः । भानोः सु मण्डलम् शुभ्रम् ततस् यातः महेश्वरम् ॥ २०।७५॥
viveśa etat veda-sāram sthānam vai parameṣṭhinaḥ . bhānoḥ su maṇḍalam śubhram tatas yātaḥ maheśvaram .. 20.75..
यः पठेच्छृणुयाद्वापि राज्ञश्चरितमुत्तमम् । सर्वपापविनिर्मुक्तो ब्रह्मलोके महीयते ॥ २०.७६॥
यः पठेत् शृणुयात् वा अपि राज्ञः चरितम् उत्तमम् । सर्व-पाप-विनिर्मुक्तः ब्रह्म-लोके महीयते ॥ २०।७६॥
yaḥ paṭhet śṛṇuyāt vā api rājñaḥ caritam uttamam . sarva-pāpa-vinirmuktaḥ brahma-loke mahīyate .. 20.76..
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे विंशोऽध्यायः ॥ ॥
इति श्री-कूर्मपुराणे षट्साहस्त्र्याम् संहितायाम् पूर्व-विभागे विंशः अध्यायः ॥ ॥
iti śrī-kūrmapurāṇe ṣaṭsāhastryām saṃhitāyām pūrva-vibhāge viṃśaḥ adhyāyaḥ .. ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In