| |
|

This overlay will guide you through the buttons:

सूत उवाच ।
त्रिधन्वा राजपुत्रस्तु धर्मेणापालयन्महीम् । तस्य पुत्रोऽभवद् विद्वांस्त्रय्यारुण इति स्मृतः ॥ २१.१॥
त्रिधन्वा राज-पुत्रः तु धर्मेण अपालयत् महीम् । तस्य पुत्रः अभवत् विद्वान् त्रय्यारुणः इति स्मृतः ॥ २१।१॥
tridhanvā rāja-putraḥ tu dharmeṇa apālayat mahīm . tasya putraḥ abhavat vidvān trayyāruṇaḥ iti smṛtaḥ .. 21.1..
तस्य सत्यव्रतो नाम कुमारोऽभून्महाबलः । भार्या सत्यधना नाम हरिश्चन्द्रमजीजनत् ॥ २१.२॥
तस्य सत्यव्रतः नाम कुमारः अभूत् महा-बलः । भार्या सत्यधना नाम हरिश्चन्द्रम् अजीजनत् ॥ २१।२॥
tasya satyavrataḥ nāma kumāraḥ abhūt mahā-balaḥ . bhāryā satyadhanā nāma hariścandram ajījanat .. 21.2..
हरिश्चन्द्रस्य पुत्रोऽभूद् रोहितो नाम वीर्यवान् । रोहितस्य वृकः पुत्रः तस्मात्बाहुरजायत॥ २१.३॥
हरिश्चन्द्रस्य पुत्रः अभूत् रोहितः नाम वीर्यवान् । रोहितस्य वृकः पुत्रः तस्मात् बाहुः अजायत॥ २१।३॥
hariścandrasya putraḥ abhūt rohitaḥ nāma vīryavān . rohitasya vṛkaḥ putraḥ tasmāt bāhuḥ ajāyata.. 21.3..
हरितो रोहितस्याथ धुन्धुस्तस्य सुतोऽभवत् । विजयश्च सुदेवश्च धुन्धुपुत्रौ बभूवतुः । विजयस्याभवत् पुत्रः कारुको नाम वीर्यवान् । सगरस्तस्य पुत्रौऽभूद् राजा परमधार्मिकः । द्वे भार्ये सगरस्यापि प्रभा भानुमती तथा ॥ २१.४॥
हरितः रोहितस्य अथ धुन्धुः तस्य सुतः अभवत् । विजयः च सुदेवः च धुन्धु-पुत्रौ बभूवतुः । विजयस्य अभवत् पुत्रः कारुकः नाम वीर्यवान् । सगरः तस्य पुत्रौ अभूत् राजा परम-धार्मिकः । द्वे भार्ये सगरस्य अपि प्रभा भानुमती तथा ॥ २१।४॥
haritaḥ rohitasya atha dhundhuḥ tasya sutaḥ abhavat . vijayaḥ ca sudevaḥ ca dhundhu-putrau babhūvatuḥ . vijayasya abhavat putraḥ kārukaḥ nāma vīryavān . sagaraḥ tasya putrau abhūt rājā parama-dhārmikaḥ . dve bhārye sagarasya api prabhā bhānumatī tathā .. 21.4..
ताभ्यामाराधितः वह्निः प्रादादौ वरमुत्तमम् । एकं भानुमती पुत्रमगृह्णादसमञ्जसम् ॥ २१.५॥
ताभ्याम् आराधितः वह्निः प्रादादौ वरम् उत्तमम् । एकम् भानुमती पुत्रम् अगृह्णात् असमञ्जसम् ॥ २१।५॥
tābhyām ārādhitaḥ vahniḥ prādādau varam uttamam . ekam bhānumatī putram agṛhṇāt asamañjasam .. 21.5..
प्रभा षष्टिसहस्त्रं तु पुत्राणां जगृहे शुभा । असमञ्सस्य तनयो ह्यंशुमान् नाम पार्थिवः ॥ २१.६॥
प्रभा षष्टि-सहस्त्रम् तु पुत्राणाम् जगृहे शुभा । असमञ्सस्य तनयः हि अंशुमान् नाम पार्थिवः ॥ २१।६॥
prabhā ṣaṣṭi-sahastram tu putrāṇām jagṛhe śubhā . asamañsasya tanayaḥ hi aṃśumān nāma pārthivaḥ .. 21.6..
तस्य पुत्रो दिलीपस्तु दिलीपात् तु भगीरथः । येन भागीरथी गङ्गा तपः कृत्वाऽवतारिता ॥ २१.७॥
तस्य पुत्रः दिलीपः तु दिलीपात् तु भगीरथः । येन भागीरथी गङ्गा तपः कृत्वा अवतारिता ॥ २१।७॥
tasya putraḥ dilīpaḥ tu dilīpāt tu bhagīrathaḥ . yena bhāgīrathī gaṅgā tapaḥ kṛtvā avatāritā .. 21.7..
प्रसादाद् देवदेवस्य महादेवस्य धीमतः । भगीरथस्य तपसा देवः प्रीतमना हरः॥ २१.८॥
प्रसादात् देवदेवस्य महादेवस्य धीमतः । भगीरथस्य तपसा देवः प्रीत-मनाः हरः॥ २१।८॥
prasādāt devadevasya mahādevasya dhīmataḥ . bhagīrathasya tapasā devaḥ prīta-manāḥ haraḥ.. 21.8..
बभार शिरसा गङ्गां सोमान्ते सोमभूषणः । भगीरथसुतश्चापि श्रुतो नाम बभूव ह ॥ २१.९॥
बभार शिरसा गङ्गाम् सोम-अन्ते सोम-भूषणः । भगीरथ-सुतः च अपि श्रुतः नाम बभूव ह ॥ २१।९॥
babhāra śirasā gaṅgām soma-ante soma-bhūṣaṇaḥ . bhagīratha-sutaḥ ca api śrutaḥ nāma babhūva ha .. 21.9..
नाभागस्तस्य दायादः सिन्धुद्वीपस्ततोऽभवत् । अयुतायुः सुतस्तस्य ऋतुपर्णस्तु तत्सुतः ॥ २१.१॥
नाभागः तस्य दायादः सिन्धुद्वीपः ततस् अभवत् । अयुतायुः सुतः तस्य ऋतुपर्णः तु तद्-सुतः ॥ २१।१॥
nābhāgaḥ tasya dāyādaḥ sindhudvīpaḥ tatas abhavat . ayutāyuḥ sutaḥ tasya ṛtuparṇaḥ tu tad-sutaḥ .. 21.1..
ऋतुपर्णस्य पुत्रोऽभूत् सुदासो नाम धार्मिकाः । सौदासस्तस्य तनयः ख्यातः कल्माषपादकः ॥ २१.११॥
ऋतुपर्णस्य पुत्रः अभूत् सुदासः नाम धार्मिकाः । सौदासः तस्य तनयः ख्यातः कल्माषपादकः ॥ २१।११॥
ṛtuparṇasya putraḥ abhūt sudāsaḥ nāma dhārmikāḥ . saudāsaḥ tasya tanayaḥ khyātaḥ kalmāṣapādakaḥ .. 21.11..
वसिष्ठस्तु महातेजाः क्षेत्रे कल्माषपादके । अश्मकं जनयामसा तमिक्ष्वाकुकुलध्वजम् ॥ २१.१२॥
वसिष्ठः तु महा-तेजाः क्षेत्रे कल्माषपादके । अश्मकम् जनयामसा तम् इक्ष्वाकु-कुल-ध्वजम् ॥ २१।१२॥
vasiṣṭhaḥ tu mahā-tejāḥ kṣetre kalmāṣapādake . aśmakam janayāmasā tam ikṣvāku-kula-dhvajam .. 21.12..
अश्मकस्योत्कलायां तु नकुलो नाम पार्थिवः । स हि रामभयाद् राजा वनं प्राप सुदुः खितः ॥ २१.१३॥
अश्मकस्य उत्कलायाम् तु नकुलः नाम पार्थिवः । स हि राम-भयात् राजा वनम् प्राप सु दुः खितः ॥ २१।१३॥
aśmakasya utkalāyām tu nakulaḥ nāma pārthivaḥ . sa hi rāma-bhayāt rājā vanam prāpa su duḥ khitaḥ .. 21.13..
विभ्रत् स नारीकवचं तस्माच्छतरथोऽभवत् । तस्माद् बिलिबिलिः श्रीमान्वृद्धशर्माचतत्सुतः ॥ २१.१४॥
विभ्रत् स नारी-कवचम् तस्मात् शतरथः अभवत् । तस्मात् बिलिबिलिः श्रीमान् वृद्धशर्मा आचत-सुतः ॥ २१।१४॥
vibhrat sa nārī-kavacam tasmāt śatarathaḥ abhavat . tasmāt bilibiliḥ śrīmān vṛddhaśarmā ācata-sutaḥ .. 21.14..
तस्माद् विश्वसहस्तस्मात् खट्वाङ्ग इति विश्रुतः । दीर्घबाहुः सुतस्तस्य रघुस्तस्मादजायत ॥ २१.१५॥
तस्मात् विश्वसहः तस्मात् खट्वाङ्गः इति विश्रुतः । दीर्घबाहुः सुतः तस्य रघुः तस्मात् अजायत ॥ २१।१५॥
tasmāt viśvasahaḥ tasmāt khaṭvāṅgaḥ iti viśrutaḥ . dīrghabāhuḥ sutaḥ tasya raghuḥ tasmāt ajāyata .. 21.15..
रघोरजः समुत्पन्नो राजा दशरथस्ततः । रामो दाशरथिर्वोरो धर्मज्ञो लोकविश्रुतः ॥ २१.१६॥
रघोः अजः समुत्पन्नः राजा दशरथः ततस् । रामः दाशरथिः वोरः धर्म-ज्ञः लोक-विश्रुतः ॥ २१।१६॥
raghoḥ ajaḥ samutpannaḥ rājā daśarathaḥ tatas . rāmaḥ dāśarathiḥ voraḥ dharma-jñaḥ loka-viśrutaḥ .. 21.16..
भरतो लक्ष्मणश्चैव शत्रुघ्नश्च महाबलः । सर्वे शक्रसमा युद्धे विष्णुशक्तिसमन्विताः ॥ २१.१७॥
भरतः लक्ष्मणः च एव शत्रुघ्नः च महा-बलः । सर्वे शक्र-समाः युद्धे विष्णु-शक्ति-समन्विताः ॥ २१।१७॥
bharataḥ lakṣmaṇaḥ ca eva śatrughnaḥ ca mahā-balaḥ . sarve śakra-samāḥ yuddhe viṣṇu-śakti-samanvitāḥ .. 21.17..
जज्ञे रावणनाशार्थं विष्णुरंशेन विश्वकृत् । रामस्य सुभगा भार्या जनकस्यात्मजा शुभा ॥ २१.१८॥
जज्ञे रावण-नाश-अर्थम् विष्णुः अंशेन विश्वकृत् । रामस्य सुभगा भार्या जनकस्य आत्मजा शुभा ॥ २१।१८॥
jajñe rāvaṇa-nāśa-artham viṣṇuḥ aṃśena viśvakṛt . rāmasya subhagā bhāryā janakasya ātmajā śubhā .. 21.18..
सीता त्रिलोकविख्याता शीलौदार्यगुणान्विता । तपसा तोषिता देवी जनकेन गिरीन्द्रजा ॥ २१.१९॥
सीता त्रिलोक-विख्याता शील-औदार्य-गुण-अन्विता । तपसा तोषिता देवी जनकेन गिरीन्द्रजा ॥ २१।१९॥
sītā triloka-vikhyātā śīla-audārya-guṇa-anvitā . tapasā toṣitā devī janakena girīndrajā .. 21.19..
प्रायच्छज्जानकीं सीतां राममेवाश्रितां पतिम् । प्रीतश्च भगवानीशस्त्रिशूली नीललोहितः ॥ २१.२॥
प्रायच्छत् जानकीम् सीताम् रामम् एव आश्रिताम् पतिम् । प्रीतः च भगवान् ईशः त्रिशूली नीललोहितः ॥ २१।२॥
prāyacchat jānakīm sītām rāmam eva āśritām patim . prītaḥ ca bhagavān īśaḥ triśūlī nīlalohitaḥ .. 21.2..
प्रददौ शत्रुनाशार्थं जनकायाद्भुतं धनुः । स राजा जनको विद्वान् दातुकामः सुतामिमाम् ।॥ २१.२१॥
प्रददौ शत्रु-नाश-अर्थम् जनकाय अद्भुतम् धनुः । स राजा जनकः विद्वान् दातु-कामः सुताम् इमाम् ।॥ २१।२१॥
pradadau śatru-nāśa-artham janakāya adbhutam dhanuḥ . sa rājā janakaḥ vidvān dātu-kāmaḥ sutām imām ... 21.21..
अघोषयदमित्रघ्नो लोकेऽस्मिन् द्विजपुंगवाः । इदं धनुः समादातुं यः शक्नोति जगत्त्रये । २१.२२॥ २१.२२॥
अघोषयत् अमित्र-घ्नः लोके अस्मिन् द्विज-पुंगवाः । इदम् धनुः समादातुम् यः शक्नोति जगत्त्रये । २१।२२॥ २१।२२॥
aghoṣayat amitra-ghnaḥ loke asmin dvija-puṃgavāḥ . idam dhanuḥ samādātum yaḥ śaknoti jagattraye . 21.22.. 21.22..
देवो वा दानवो वाऽपि स सीतां लब्धुमर्हति । विज्ञाय रामो बलवान् जनकस्य गृहं प्रभुः ॥ २१.२३॥
देवः वा दानवः वा अपि स सीताम् लब्धुम् अर्हति । विज्ञाय रामः बलवान् जनकस्य गृहम् प्रभुः ॥ २१।२३॥
devaḥ vā dānavaḥ vā api sa sītām labdhum arhati . vijñāya rāmaḥ balavān janakasya gṛham prabhuḥ .. 21.23..
भञ्जयामास चादाय गत्वाऽसौ लीलयैव हि । उद्ववाह च तां कन्यां पार्वतीमिव शंकरः ॥ २१.२४॥
भञ्जयामास च आदाय गत्वा असौ लीलया एव हि । उद्ववाह च ताम् कन्याम् पार्वतीम् इव शंकरः ॥ २१।२४॥
bhañjayāmāsa ca ādāya gatvā asau līlayā eva hi . udvavāha ca tām kanyām pārvatīm iva śaṃkaraḥ .. 21.24..
रामः परमधर्मात्मा सेनामिव च षण्मुखः । ततो बहुतिथे काले राजा दशरथः स्वयम् ॥ २१.२५॥
रामः परम-धर्म-आत्मा सेनाम् इव च षण्मुखः । ततस् बहुतिथे काले राजा दशरथः स्वयम् ॥ २१।२५॥
rāmaḥ parama-dharma-ātmā senām iva ca ṣaṇmukhaḥ . tatas bahutithe kāle rājā daśarathaḥ svayam .. 21.25..
रामं ज्येष्ठं सुतं वीरं राजानं कर्तुमारभत् । तस्याथ पत्नी सुभगा कैकेयी चारुभाषिणी॥ २१.२६॥
रामम् ज्येष्ठम् सुतम् वीरम् राजानम् कर्तुम् आरभत् । तस्य अथ पत्नी सुभगा कैकेयी चारु-भाषिणी॥ २१।२६॥
rāmam jyeṣṭham sutam vīram rājānam kartum ārabhat . tasya atha patnī subhagā kaikeyī cāru-bhāṣiṇī.. 21.26..
निवारयामास पतिं प्राह संभ्रान्तमानसा । मत्सुतं भरतं वीरं राजानं कर्त्तुमर्हसि ।॥ २१.२७॥
निवारयामास पतिम् प्राह संभ्रान्त-मानसा । मद्-सुतम् भरतम् वीरम् राजानम् कर्त्तुम् अर्हसि ।॥ २१।२७॥
nivārayāmāsa patim prāha saṃbhrānta-mānasā . mad-sutam bharatam vīram rājānam karttum arhasi ... 21.27..
पूर्वमेव वरो यस्माद् दत्तो मे भवता यतः । स तस्या वचनं श्रुत्वा राजा दुःखितमानसः ॥ २१.२८॥
पूर्वम् एव वरः यस्मात् दत्तः मे भवता यतस् । स तस्याः वचनम् श्रुत्वा राजा दुःखित-मानसः ॥ २१।२८॥
pūrvam eva varaḥ yasmāt dattaḥ me bhavatā yatas . sa tasyāḥ vacanam śrutvā rājā duḥkhita-mānasaḥ .. 21.28..
बाढमित्यब्रवीद् वाक्यं तथा रामोऽपि धर्मवित् । प्रणम्याथ पितुः पादौ लक्ष्मणेन सहाच्युतः॥ २१.२९॥
बाढम् इति अब्रवीत् वाक्यम् तथा रामः अपि धर्म-विद् । प्रणम्य अथ पितुः पादौ लक्ष्मणेन सह अच्युतः॥ २१।२९॥
bāḍham iti abravīt vākyam tathā rāmaḥ api dharma-vid . praṇamya atha pituḥ pādau lakṣmaṇena saha acyutaḥ.. 21.29..
ययौ वनं सपत्नीकः कृत्वा समयमात्मवान् । संवत्सराणां चत्वारि दश चैव महाबलः ॥ २१.३॥
ययौ वनम् स पत्नीकः कृत्वा समयम् आत्मवान् । संवत्सराणाम् चत्वारि दश च एव महा-बलः ॥ २१।३॥
yayau vanam sa patnīkaḥ kṛtvā samayam ātmavān . saṃvatsarāṇām catvāri daśa ca eva mahā-balaḥ .. 21.3..
उवास तत्र मतिमान् लक्ष्मणेन सह प्रभुः । कदाचिद् वसतोऽरण्ये रावणो नाम राक्षसः ॥ २१.३१॥
उवास तत्र मतिमान् लक्ष्मणेन सह प्रभुः । कदाचिद् वसतः अरण्ये रावणः नाम राक्षसः ॥ २१।३१॥
uvāsa tatra matimān lakṣmaṇena saha prabhuḥ . kadācid vasataḥ araṇye rāvaṇaḥ nāma rākṣasaḥ .. 21.31..
परिव्राजकवेषेण सीतां हृत्वा ययौ पुरीम् । अदृष्ट्वा लक्ष्मणो रामः सीतामाकुलितेन्द्रियौ ॥ २१.३२॥
परिव्राजक-वेषेण सीताम् हृत्वा ययौ पुरीम् । अ दृष्ट्वा लक्ष्मणः रामः सीताम् आकुलित-इन्द्रियौ ॥ २१।३२॥
parivrājaka-veṣeṇa sītām hṛtvā yayau purīm . a dṛṣṭvā lakṣmaṇaḥ rāmaḥ sītām ākulita-indriyau .. 21.32..
दुः खशोकाभिसंतप्तौ बभूवतुररिंदमौ । ततः कदाचित् कपिना सुग्रीवेण द्विजोत्तमाः ॥ २१.३३॥
दुः ख-शोक-अभिसंतप्तौ बभूवतुः अरिंदमौ । ततस् कदाचिद् कपिना सुग्रीवेण द्विजोत्तमाः ॥ २१।३३॥
duḥ kha-śoka-abhisaṃtaptau babhūvatuḥ ariṃdamau . tatas kadācid kapinā sugrīveṇa dvijottamāḥ .. 21.33..
वानराणामभूत् सख्यं रामस्याक्लिष्टकर्मणः । सुग्रीवस्यानुगो वीरो हनुमान्नाम वानरः॥ २१.३४॥
वानराणाम् अभूत् सख्यम् रामस्य अक्लिष्ट-कर्मणः । सुग्रीवस्य अनुगः वीरः हनुमान् नाम वानरः॥ २१।३४॥
vānarāṇām abhūt sakhyam rāmasya akliṣṭa-karmaṇaḥ . sugrīvasya anugaḥ vīraḥ hanumān nāma vānaraḥ.. 21.34..
वायुपुत्रौ महातेजा रामस्यासीत् प्रियः सदा । स कृत्वा परमं धैर्यं रामाय कृतनिश्चयः ॥ २१.३५॥
वायुपुत्रौ महा-तेजाः रामस्य आसीत् प्रियः सदा । स कृत्वा परमम् धैर्यम् रामाय कृत-निश्चयः ॥ २१।३५॥
vāyuputrau mahā-tejāḥ rāmasya āsīt priyaḥ sadā . sa kṛtvā paramam dhairyam rāmāya kṛta-niścayaḥ .. 21.35..
आनयिष्यामि तां सीतामित्युक्त्वा विचचार ह । महीं सागरपर्यन्तां सीतादर्शनतत्परः ॥ २१.३६॥
आनयिष्यामि ताम् सीताम् इति उक्त्वा विचचार ह । महीम् सागर-पर्यन्ताम् सीता-दर्शन-तत्परः ॥ २१।३६॥
ānayiṣyāmi tām sītām iti uktvā vicacāra ha . mahīm sāgara-paryantām sītā-darśana-tatparaḥ .. 21.36..
जगाम रावणपुरीं लङ्कां सागरसंस्थिताम् । तत्राथ निर्जने देशे वृक्ष्मूले शुचिस्मिताम् ॥ २१.३७॥
जगाम रावण-पुरीम् लङ्काम् सागर-संस्थिताम् । तत्र अथ निर्जने देशे वृक्ष्-मूले शुचि-स्मिताम् ॥ २१।३७॥
jagāma rāvaṇa-purīm laṅkām sāgara-saṃsthitām . tatra atha nirjane deśe vṛkṣ-mūle śuci-smitām .. 21.37..
अपश्यदमलां सीतां राक्षसीभिः समावृताम् । अश्रुपूर्णेक्षणां हृद्यां संस्मरन्तीमनिन्दिताम् ॥ २१.३८॥
अपश्यत् अमलाम् सीताम् राक्षसीभिः समावृताम् । अश्रु-पूर्ण-ईक्षणाम् हृद्याम् संस्मरन्तीम् अनिन्दिताम् ॥ २१।३८॥
apaśyat amalām sītām rākṣasībhiḥ samāvṛtām . aśru-pūrṇa-īkṣaṇām hṛdyām saṃsmarantīm aninditām .. 21.38..
राममिन्दीवरश्यामं लक्ष्मणं चात्मसंस्थितम् । निवेदयित्वा चात्मानं सीतायै रहसि स्वयम् ॥ २१.३९॥
रामम् इन्दीवर-श्यामम् लक्ष्मणम् च आत्म-संस्थितम् । निवेदयित्वा च आत्मानम् सीतायै रहसि स्वयम् ॥ २१।३९॥
rāmam indīvara-śyāmam lakṣmaṇam ca ātma-saṃsthitam . nivedayitvā ca ātmānam sītāyai rahasi svayam .. 21.39..
असंशयाय प्रददावस्यै रामाङ्गुलीयकम् । दृष्ट्वाऽङ्गुलीयकं सीता पत्युः परमशोभनम् ॥ २१.४॥
असंशयाय प्रददौ अस्यै राम-अङ्गुलीयकम् । दृष्ट्वा अङ्गुलीयकम् सीता पत्युः परम-शोभनम् ॥ २१।४॥
asaṃśayāya pradadau asyai rāma-aṅgulīyakam . dṛṣṭvā aṅgulīyakam sītā patyuḥ parama-śobhanam .. 21.4..
मेने समागतं रामं प्रीतिविस्फारितेक्षणा । समाश्वास्य तदा सीतां दृष्ट्वा रामस्य चान्तिकम् ॥ २१.४१॥
मेने समागतम् रामम् प्रीति-विस्फारित-ईक्षणा । समाश्वास्य तदा सीताम् दृष्ट्वा रामस्य च अन्तिकम् ॥ २१।४१॥
mene samāgatam rāmam prīti-visphārita-īkṣaṇā . samāśvāsya tadā sītām dṛṣṭvā rāmasya ca antikam .. 21.41..
नयिष्ये त्वां महाबाहुरुक्त्वा रामं ययौ पुनः । निवेदयित्वा रामाय सीतादर्शनमात्मवान् ॥ २१.४२॥
नयिष्ये त्वाम् महा-बाहुः उक्त्वा रामम् ययौ पुनर् । निवेदयित्वा रामाय सीता-दर्शनम् आत्मवान् ॥ २१।४२॥
nayiṣye tvām mahā-bāhuḥ uktvā rāmam yayau punar . nivedayitvā rāmāya sītā-darśanam ātmavān .. 21.42..
तस्थौ रामेण पुरतो लक्ष्मणेन च पूजितः । ततः स रामो बलवान् सार्द्धं हनुमता स्वयम् ॥ २१.४३॥
तस्थौ रामेण पुरतस् लक्ष्मणेन च पूजितः । ततस् स रामः बलवान् सार्द्धम् हनुमता स्वयम् ॥ २१।४३॥
tasthau rāmeṇa puratas lakṣmaṇena ca pūjitaḥ . tatas sa rāmaḥ balavān sārddham hanumatā svayam .. 21.43..
लक्ष्मणेन च युद्धाय बुद्धिं चक्रे हि रक्षसाम् । कृत्वाऽथ वानरशतैर्लङ्कामार्गं महोदधेः ॥ २१.४४॥
लक्ष्मणेन च युद्धाय बुद्धिम् चक्रे हि रक्षसाम् । कृत्वा अथ वानर-शतैः लङ्का-मार्गम् महा-उदधेः ॥ २१।४४॥
lakṣmaṇena ca yuddhāya buddhim cakre hi rakṣasām . kṛtvā atha vānara-śataiḥ laṅkā-mārgam mahā-udadheḥ .. 21.44..
सेतुं परमधर्मात्मा रावणं हतवान् प्रभुः । सपत्नीकं च ससुतं सभ्रातृकमरिन्दमः ॥ २१.४५॥
सेतुम् परम-धर्म-आत्मा रावणम् हतवान् प्रभुः । स पत्नीकम् च स सुतम् स भ्रातृकम् अरिन्दमः ॥ २१।४५॥
setum parama-dharma-ātmā rāvaṇam hatavān prabhuḥ . sa patnīkam ca sa sutam sa bhrātṛkam arindamaḥ .. 21.45..
आनयामास तां सीतां वायुपुत्रसहायवान् । सेतुमध्ये महादेवमीशानं कृत्तिवाससम् ॥ २१.४६॥
आनयामास ताम् सीताम् वायुपुत्र-सहायवान् । सेतु-मध्ये महादेवम् ईशानम् कृत्तिवाससम् ॥ २१।४६॥
ānayāmāsa tām sītām vāyuputra-sahāyavān . setu-madhye mahādevam īśānam kṛttivāsasam .. 21.46..
स्थापयामास लिङ्गस्थं पूजयामास राघवः । तस्य देवो महादेवः पार्वत्या सह शंकरः ॥ २१.४७॥
स्थापयामास लिङ्ग-स्थम् पूजयामास राघवः । तस्य देवः महादेवः पार्वत्या सह शंकरः ॥ २१।४७॥
sthāpayāmāsa liṅga-stham pūjayāmāsa rāghavaḥ . tasya devaḥ mahādevaḥ pārvatyā saha śaṃkaraḥ .. 21.47..
प्रत्यक्षमेव भगवान् दत्तवान् वरमुत्तमम् । यत् त्वया स्थापितं लिङ्गं द्रक्ष्यन्तीह द्विजातयः ॥ २१.४८॥
प्रत्यक्षम् एव भगवान् दत्तवान् वरम् उत्तमम् । यत् त्वया स्थापितम् लिङ्गम् द्रक्ष्यन्ति इह द्विजातयः ॥ २१।४८॥
pratyakṣam eva bhagavān dattavān varam uttamam . yat tvayā sthāpitam liṅgam drakṣyanti iha dvijātayaḥ .. 21.48..
महापातकसंयुक्तास्तेषां पापं विनंक्ष्यति । अन्यानि चैव पापानि स्नातस्यात्र महोदधौ ॥ २१.४९॥
महापातक-संयुक्ताः तेषाम् पापम् विनंक्ष्यति । अन्यानि च एव पापानि स्नातस्य अत्र महा-उदधौ ॥ २१।४९॥
mahāpātaka-saṃyuktāḥ teṣām pāpam vinaṃkṣyati . anyāni ca eva pāpāni snātasya atra mahā-udadhau .. 21.49..
दर्शनादेव लिङ्गस्य नाशं यान्ति न संशयः । यावत् स्थास्यन्ति गिरयो यावदेषा च मेदिनी ॥ २१.५॥
दर्शनात् एव लिङ्गस्य नाशम् यान्ति न संशयः । यावत् स्थास्यन्ति गिरयः यावत् एषा च मेदिनी ॥ २१।५॥
darśanāt eva liṅgasya nāśam yānti na saṃśayaḥ . yāvat sthāsyanti girayaḥ yāvat eṣā ca medinī .. 21.5..
यावत् सेतुश्च तावच्च स्थास्याम्यत्र तिरोहितः । स्नानं दानं जपः श्राद्धं भविष्यत्यक्षयं महत् ॥ २१.५१॥
यावत् सेतुः च तावत् च स्थास्यामि अत्र तिरोहितः । स्नानम् दानम् जपः श्राद्धम् भविष्यति अक्षयम् महत् ॥ २१।५१॥
yāvat setuḥ ca tāvat ca sthāsyāmi atra tirohitaḥ . snānam dānam japaḥ śrāddham bhaviṣyati akṣayam mahat .. 21.51..
स्मरणादेव लिङ्गस्य दिनपापं प्रणश्यति । इत्युक्त्वा भगवाञ्छंभुः परिष्वज्य तु राघवम् ॥ २१.५२॥
स्मरणात् एव लिङ्गस्य दिन-पापम् प्रणश्यति । इति उक्त्वा भगवान् शंभुः परिष्वज्य तु राघवम् ॥ २१।५२॥
smaraṇāt eva liṅgasya dina-pāpam praṇaśyati . iti uktvā bhagavān śaṃbhuḥ pariṣvajya tu rāghavam .. 21.52..
सनन्दी सगणो रुद्रस्तत्रैवान्तरधीयत । रामोऽपि पालयामास राज्यं धर्मपरायणः ॥ २१.५३॥
स नन्दी स गणः रुद्रः तत्र एव अन्तरधीयत । रामः अपि पालयामास राज्यम् धर्म-परायणः ॥ २१।५३॥
sa nandī sa gaṇaḥ rudraḥ tatra eva antaradhīyata . rāmaḥ api pālayāmāsa rājyam dharma-parāyaṇaḥ .. 21.53..
अभिषिक्तो महातेजा भरतेन महाबलः । विशेषाढ् ब्राह्मणान् सर्वान् पूजयामसचेश्वरम् ॥ २१.५४॥
अभिषिक्तः महा-तेजाः भरतेन महा-बलः । विशेषाढ् ब्राह्मणान् सर्वान् पूजयामसच च ईश्वरम् ॥ २१।५४॥
abhiṣiktaḥ mahā-tejāḥ bharatena mahā-balaḥ . viśeṣāḍh brāhmaṇān sarvān pūjayāmasaca ca īśvaram .. 21.54..
यज्ञेन यज्ञहन्तारमश्वमेधेन शंकरम् । रामस्य तनयो जज्ञे कुश इत्यभिविश्रुतः ॥ २१.५५॥
यज्ञेन यज्ञहन्तारम् अश्वमेधेन शंकरम् । रामस्य तनयः जज्ञे कुशः इति अभिविश्रुतः ॥ २१।५५॥
yajñena yajñahantāram aśvamedhena śaṃkaram . rāmasya tanayaḥ jajñe kuśaḥ iti abhiviśrutaḥ .. 21.55..
लवश्च सुमहाभागः सर्वतत्त्वार्थवित् सुधीः । अतिथिस्तु कुशाज्जज्ञे निषधस्तत्सुतोऽभवत् ॥ २१.५६॥
लवः च सु महाभागः सर्व-तत्त्व-अर्थ-विद् सुधीः । अतिथिः तु कुशात् जज्ञे निषधः तद्-सुतः अभवत् ॥ २१।५६॥
lavaḥ ca su mahābhāgaḥ sarva-tattva-artha-vid sudhīḥ . atithiḥ tu kuśāt jajñe niṣadhaḥ tad-sutaḥ abhavat .. 21.56..
नलस्तु निषधस्याभून्नभास्तमादजायत । नभसः पुण्डरीकाक्षः क्षेमधन्वा च तत्सुतः ॥ २१.५७॥
नलः तु निषधस्य अभूत् नभाः तमात् अजायत । नभसः पुण्डरीकाक्षः क्षेमधन्वा च तद्-सुतः ॥ २१।५७॥
nalaḥ tu niṣadhasya abhūt nabhāḥ tamāt ajāyata . nabhasaḥ puṇḍarīkākṣaḥ kṣemadhanvā ca tad-sutaḥ .. 21.57..
तस्य पुत्रोऽभवद् वीरो देवानीकः प्रतापवान् । अहीनगुस्तस्य सुतो सहस्वांस्तत्सुतोऽभवत् ॥ २१.५८॥
तस्य पुत्रः अभवत् वीरः देवानीकः प्रतापवान् । अहीनगुः तस्य सुतः सहस्वान् तद्-सुतः अभवत् ॥ २१।५८॥
tasya putraḥ abhavat vīraḥ devānīkaḥ pratāpavān . ahīnaguḥ tasya sutaḥ sahasvān tad-sutaḥ abhavat .. 21.58..
तस्माच्चन्द्रावलोकस्तु तारापीडस्तु तत्सुतः । तारापीडाच्चन्द्रगिरिर्भानुवित्तस्ततोऽभवत् ॥ २१.५९॥
तस्मात् चन्द्रावलोकः तु तारापीडः तु तद्-सुतः । तारापीडात् चन्द्रगिरिः भानुवित्तः ततस् अभवत् ॥ २१।५९॥
tasmāt candrāvalokaḥ tu tārāpīḍaḥ tu tad-sutaḥ . tārāpīḍāt candragiriḥ bhānuvittaḥ tatas abhavat .. 21.59..
श्रुतायुरभवत् तस्मादेते इक्ष्वाकुवंशजाः । सर्वे प्राधान्यतः प्रोक्ताः समासेन द्विजोत्तमाः ॥ २१.६॥
श्रुतायुः अभवत् तस्मात् एते इक्ष्वाकु-वंश-जाः । सर्वे प्राधान्यतः प्रोक्ताः समासेन द्विजोत्तमाः ॥ २१।६॥
śrutāyuḥ abhavat tasmāt ete ikṣvāku-vaṃśa-jāḥ . sarve prādhānyataḥ proktāḥ samāsena dvijottamāḥ .. 21.6..
य इमं श्रृणुयान्नित्यमिक्ष्वाकोर्वंशमुत्तमम् । सर्वपापविनिर्मुक्तो स्वर्गलोके महीयते ॥ २१.६१॥
यः इमम् श्रृणुयात् नित्यम् इक्ष्वाकोः वंशम् उत्तमम् । सर्व-पाप-विनिर्मुक्तः स्वर्ग-लोके महीयते ॥ २१।६१॥
yaḥ imam śrṛṇuyāt nityam ikṣvākoḥ vaṃśam uttamam . sarva-pāpa-vinirmuktaḥ svarga-loke mahīyate .. 21.61..
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे एकविशोऽध्यायः॥ ॥
इति श्री-कूर्मपुराणे षट्साहस्त्र्याम् संहितायाम् पूर्व-विभागे एकविशः अध्यायः॥ ॥
iti śrī-kūrmapurāṇe ṣaṭsāhastryām saṃhitāyām pūrva-vibhāge ekaviśaḥ adhyāyaḥ.. ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In