| |
|

This overlay will guide you through the buttons:

रोमहर्षण उवाच ।
ऐलः पुरूरवाश्चाथ राजा राज्यमपालयत् । तस्य पुत्रा बभूवुर्हि षडिन्द्रसमतेजसः ॥ २२.१॥
ऐलः पुरूरवाः च अथ राजा राज्यम् अपालयत् । तस्य पुत्राः बभूवुः हि षट् इन्द्र-सम-तेजसः ॥ २२।१॥
ailaḥ purūravāḥ ca atha rājā rājyam apālayat . tasya putrāḥ babhūvuḥ hi ṣaṭ indra-sama-tejasaḥ .. 22.1..
आयुर्मायुरमायुश्चर्विश्वायुश्चैव वीर्यवान् । शतायुश्च श्रुतायुश्च दिव्याश्चैवोर्वशीसुताः ॥ २२.२॥
आयुः मायुः अमायुः च र्विश्वायुः च एव वीर्यवान् । शतायुः च श्रुतायुः च दिव्याः च एव उर्वशी-सुताः ॥ २२।२॥
āyuḥ māyuḥ amāyuḥ ca rviśvāyuḥ ca eva vīryavān . śatāyuḥ ca śrutāyuḥ ca divyāḥ ca eva urvaśī-sutāḥ .. 22.2..
आयुषस्तनया वीराः पञ्चैवासन् महौजसः । स्वर्भानुतनयायां वै प्रभायामिति नः श्रुतम् ॥ २२.३॥
आयुषः तनयाः वीराः पञ्च एव आसन् महा-ओजसः । स्वर्भानु-तनयायाम् वै प्रभायाम् इति नः श्रुतम् ॥ २२।३॥
āyuṣaḥ tanayāḥ vīrāḥ pañca eva āsan mahā-ojasaḥ . svarbhānu-tanayāyām vai prabhāyām iti naḥ śrutam .. 22.3..
नहुषः प्रथमस्तेषां धर्मज्ञो लोकविश्रुतः । नहुषस्य तु दायादाः षडिन्द्रोपमतेजसः ॥ २२.४॥
नहुषः प्रथमः तेषाम् धर्म-ज्ञः लोक-विश्रुतः । नहुषस्य तु दायादाः षट् इन्द्र-उपम-तेजसः ॥ २२।४॥
nahuṣaḥ prathamaḥ teṣām dharma-jñaḥ loka-viśrutaḥ . nahuṣasya tu dāyādāḥ ṣaṭ indra-upama-tejasaḥ .. 22.4..
उत्पन्नाः पितृकन्यायां विरजायां महाबलाः । यतिर्ययातिः संयातिरायातिः पञ्चकोऽश्वकः ॥ २२.५॥
उत्पन्नाः पितृ-कन्यायाम् विरजायाम् महा-बलाः । यतिः ययातिः संयातिः आयातिः पञ्चकः अश्वकः ॥ २२।५॥
utpannāḥ pitṛ-kanyāyām virajāyām mahā-balāḥ . yatiḥ yayātiḥ saṃyātiḥ āyātiḥ pañcakaḥ aśvakaḥ .. 22.5..
तेषां ययातिः पञ्चानां महाबलपराक्रमः । देवयानीमुशनसः सुतां भार्यामवाप सः ॥ २२.६॥
तेषाम् ययातिः पञ्चानाम् महा-बल-पराक्रमः । देवयानीम् उशनसः सुताम् भार्याम् अवाप सः ॥ २२।६॥
teṣām yayātiḥ pañcānām mahā-bala-parākramaḥ . devayānīm uśanasaḥ sutām bhāryām avāpa saḥ .. 22.6..
शर्मिष्ठामासुरीं चैव तनयां वृषपर्वणः । यदुं च तुर्वसुं चैव देवयानी व्यजायत ॥ २२.७॥
शर्मिष्ठाम् आसुरीम् च एव तनयाम् वृषपर्वणः । यदुम् च तुर्वसुम् च एव देवयानी व्यजायत ॥ २२।७॥
śarmiṣṭhām āsurīm ca eva tanayām vṛṣaparvaṇaḥ . yadum ca turvasum ca eva devayānī vyajāyata .. 22.7..
द्रुह्युं चानुं च पूरुं च शर्मिष्ठा चाप्यजीजनत् । सोऽभ्यषिञ्चदतिक्रम्य ज्येष्ठं यदुमनिन्दितम्॥ २२.८॥
द्रुह्युम् च अनुम् च पूरुम् च शर्मिष्ठा च अपि अजीजनत् । सः अभ्यषिञ्चत् अतिक्रम्य ज्येष्ठम् यदुम् अनिन्दितम्॥ २२।८॥
druhyum ca anum ca pūrum ca śarmiṣṭhā ca api ajījanat . saḥ abhyaṣiñcat atikramya jyeṣṭham yadum aninditam.. 22.8..
पुरुमेव कनीयांसं पितुर्वचनपालकम् । दिशि दक्षिणपूर्वस्यां तुर्वसुं पुत्रमादिशत्॥ २२.९॥
पुरुम् एव कनीयांसम् पितुः वचन-पालकम् । दिशि तुर्वसुम् पुत्रम् आदिशत्॥ २२।९॥
purum eva kanīyāṃsam pituḥ vacana-pālakam . diśi turvasum putram ādiśat.. 22.9..
दक्षिणापरयो राजा यदुं ज्येष्ठं न्ययोजयत् । प्रतीच्यामुत्तारायां च द्रुह्युं चानुमकल्पयत् ॥ २२.१॥
दक्षिणा-परयोः राजा यदुम् ज्येष्ठम् न्ययोजयत् । प्रतीच्याम् उत्तारायाम् च द्रुह्युम् च अनुम् अकल्पयत् ॥ २२।१॥
dakṣiṇā-parayoḥ rājā yadum jyeṣṭham nyayojayat . pratīcyām uttārāyām ca druhyum ca anum akalpayat .. 22.1..
तैरियं पृथिवी सर्वा धर्मतः परिपालिता । राजाऽपि दारसहितो नवं प्राप महायशाः ॥ २२.११॥
तैः इयम् पृथिवी सर्वा धर्मतः परिपालिता । राजा अपि दार-सहितः नवम् प्राप महा-यशाः ॥ २२।११॥
taiḥ iyam pṛthivī sarvā dharmataḥ paripālitā . rājā api dāra-sahitaḥ navam prāpa mahā-yaśāḥ .. 22.11..
यदोरप्यभवन् पुत्राः पञ्च देवसुतोपमाः । सहस्त्रजित् तथाज्येष्ठः क्रोषटुर्नीलोऽजिनोरघुः ॥ २२.१२॥
यदोः अपि अभवन् पुत्राः पञ्च देव-सुत-उपमाः । सहस्त्रजित् तथा अज्येष्ठः क्रोषटुः नीलः अजिन-उरघुः ॥ २२।१२॥
yadoḥ api abhavan putrāḥ pañca deva-suta-upamāḥ . sahastrajit tathā ajyeṣṭhaḥ kroṣaṭuḥ nīlaḥ ajina-uraghuḥ .. 22.12..
सहस्त्रजित्सुतस्तद्वच्छतजिन्नाम पार्थिवः । सुताः शतजितोऽप्यासंस्त्रयः परमधार्मिकाः ॥ २२.१३॥
सहस्त्रजित्-सुतः तद्वत् शतजित् नाम पार्थिवः । सुताः शतजितः अपि आसन् त्रयः परम-धार्मिकाः ॥ २२।१३॥
sahastrajit-sutaḥ tadvat śatajit nāma pārthivaḥ . sutāḥ śatajitaḥ api āsan trayaḥ parama-dhārmikāḥ .. 22.13..
हैहयश्च हयश्चैव राजा वेणुहयश्च यः। हैहयस्याभवत् पुत्रो धर्म इत्यभिविश्रुतः ॥ २२.१४॥
हैहयः च हयः च एव राजा वेणुहयः च यः। हैहयस्य अभवत् पुत्रः धर्मः इति अभिविश्रुतः ॥ २२।१४॥
haihayaḥ ca hayaḥ ca eva rājā veṇuhayaḥ ca yaḥ. haihayasya abhavat putraḥ dharmaḥ iti abhiviśrutaḥ .. 22.14..
तस्य पुत्रोऽभवद् विप्रा धर्मनेत्रः प्रतापवान् । धर्मनेत्रस्य कीर्त्तिस्तु संजितस्तत्सुतोऽभवत् ॥ २२.१५॥
तस्य पुत्रः अभवत् विप्राः धर्मनेत्रः प्रतापवान् । धर्मनेत्रस्य कीर्त्तिः तु संजितः तद्-सुतः अभवत् ॥ २२।१५॥
tasya putraḥ abhavat viprāḥ dharmanetraḥ pratāpavān . dharmanetrasya kīrttiḥ tu saṃjitaḥ tad-sutaḥ abhavat .. 22.15..
महिष्मान् संजितस्याभूद् भद्रश्रेण्यस्तदन्वयः । भद्रश्रेण्यस्य दायादो दुर्दमो नाम पार्थिवः ॥ २२.१६॥
महिष्मान् संजितस्य अभूत् भद्रश्रेण्यः तद्-अन्वयः । भद्रश्रेण्यस्य दायादः दुर्दमः नाम पार्थिवः ॥ २२।१६॥
mahiṣmān saṃjitasya abhūt bhadraśreṇyaḥ tad-anvayaḥ . bhadraśreṇyasya dāyādaḥ durdamaḥ nāma pārthivaḥ .. 22.16..
दुर्दमस्य सुतो धीमान् धनको नाम वीर्यवान् । अन्धकस्य तु दायादाश्चत्वारो लोकसम्मताः ॥ २२.१७॥
दुर्दमस्य सुतः धीमान् धनकः नाम वीर्यवान् । अन्धकस्य तु दायादाः चत्वारः लोक-सम्मताः ॥ २२।१७॥
durdamasya sutaḥ dhīmān dhanakaḥ nāma vīryavān . andhakasya tu dāyādāḥ catvāraḥ loka-sammatāḥ .. 22.17..
कृतवीर्यः कृताग्निश्च कृतवर्मा तथैव च । कृतौजाश्च चतुर्थोऽभूत् कार्त्तवीर्योऽर्जुनोऽभवत् ॥ २२.१८॥
कृतवीर्यः कृताग्निः च कृतवर्मा तथा एव च । कृतौजाः च चतुर्थः अभूत् कार्त्तवीर्यः अर्जुनः अभवत् ॥ २२।१८॥
kṛtavīryaḥ kṛtāgniḥ ca kṛtavarmā tathā eva ca . kṛtaujāḥ ca caturthaḥ abhūt kārttavīryaḥ arjunaḥ abhavat .. 22.18..
सहत्रबाहुर्द्युतिमान् धनुर्वेदविदां वरः । तस्य रामोऽभवन्मृत्युर्जामदग्न्यो जनार्दनः ॥ २२.१९॥
सहत्रबाहुः द्युतिमान् धनुर्वेद-विदाम् वरः । तस्य रामः अभवत् मृत्युः जामदग्न्यः जनार्दनः ॥ २२।१९॥
sahatrabāhuḥ dyutimān dhanurveda-vidām varaḥ . tasya rāmaḥ abhavat mṛtyuḥ jāmadagnyaḥ janārdanaḥ .. 22.19..
तस्य पुत्रशतान्यासन् पञ्च तत्र महारथाः । कृतास्त्रा बलिनः शूरा धर्मात्मानो मनस्विनः ॥ २२.२॥
तस्य पुत्र-शतानि आसन् पञ्च तत्र महा-रथाः । कृतास्त्राः बलिनः शूराः धर्म-आत्मानः मनस्विनः ॥ २२।२॥
tasya putra-śatāni āsan pañca tatra mahā-rathāḥ . kṛtāstrāḥ balinaḥ śūrāḥ dharma-ātmānaḥ manasvinaḥ .. 22.2..
शूरश्च शूरसेनश्च धृष्णः कृष्णस्तथैव च । जयध्वजश्च बलवान् नारायणपरो नृपः ॥ २२.२१॥
शूरः च शूरसेनः च धृष्णः कृष्णः तथा एव च । जयध्वजः च बलवान् नारायण-परः नृपः ॥ २२।२१॥
śūraḥ ca śūrasenaḥ ca dhṛṣṇaḥ kṛṣṇaḥ tathā eva ca . jayadhvajaḥ ca balavān nārāyaṇa-paraḥ nṛpaḥ .. 22.21..
शूरसेनादयः सर्वे चत्वारः प्रथितौजसः । रुद्रभक्ता महात्मानः पूजयन्ति स्म शंकरम् ॥ २२.२२॥
शूरसेन-आदयः सर्वे चत्वारः प्रथित-ओजसः । रुद्र-भक्ताः महात्मानः पूजयन्ति स्म शंकरम् ॥ २२।२२॥
śūrasena-ādayaḥ sarve catvāraḥ prathita-ojasaḥ . rudra-bhaktāḥ mahātmānaḥ pūjayanti sma śaṃkaram .. 22.22..
जयध्वजस्तु मतिमान् देवं नारायणं हरिम् । जगाम शरणं विष्णुं दैवतं धर्मतत्परः ॥ २२.२३॥
जयध्वजः तु मतिमान् देवम् नारायणम् हरिम् । जगाम शरणम् विष्णुम् दैवतम् धर्म-तत्परः ॥ २२।२३॥
jayadhvajaḥ tu matimān devam nārāyaṇam harim . jagāma śaraṇam viṣṇum daivatam dharma-tatparaḥ .. 22.23..
तमूचुरितरे पुत्रा नायं धर्मस्तवानघ । ईश्वराराधनरतः पिताऽस्माकमिति श्रुतिः ॥ २२.२४॥
तम् ऊचुः इतरे पुत्राः न अयम् धर्मः तव अनघ । ईश्वर-आराधन-रतः पिता अस्माकम् इति श्रुतिः ॥ २२।२४॥
tam ūcuḥ itare putrāḥ na ayam dharmaḥ tava anagha . īśvara-ārādhana-rataḥ pitā asmākam iti śrutiḥ .. 22.24..
तानब्रवीन्महातेजा एष धर्मः परो मम । विष्णोरंशेन संभूता राजानो ये महीतले ॥ २२.२५॥
तान् अब्रवीत् महा-तेजाः एष धर्मः परः मम । विष्णोः अंशेन संभूताः राजानः ये मही-तले ॥ २२।२५॥
tān abravīt mahā-tejāḥ eṣa dharmaḥ paraḥ mama . viṣṇoḥ aṃśena saṃbhūtāḥ rājānaḥ ye mahī-tale .. 22.25..
राज्यं पालयिताऽवश्यं भगवान् पुरुषोत्तमः । पूजनीयो यतो विष्णुः पालको जगतो हरिः ॥ २२.२६॥
राज्यम् पालयिता अवश्यम् भगवान् पुरुषोत्तमः । पूजनीयः यतस् विष्णुः पालकः जगतः हरिः ॥ २२।२६॥
rājyam pālayitā avaśyam bhagavān puruṣottamaḥ . pūjanīyaḥ yatas viṣṇuḥ pālakaḥ jagataḥ hariḥ .. 22.26..
सात्त्विकी राजसी चैव तामसी च स्वयंभुवः । तिस्त्रस्तु मूर्त्तयः प्रोक्ताः सृष्टिस्थित्यन्तहेतवः ॥ २२.२७॥
सात्त्विकी राजसी च एव तामसी च स्वयंभुवः । तिस्त्रः तु मूर्त्तयः प्रोक्ताः सृष्टि-स्थिति-अन्त-हेतवः ॥ २२।२७॥
sāttvikī rājasī ca eva tāmasī ca svayaṃbhuvaḥ . tistraḥ tu mūrttayaḥ proktāḥ sṛṣṭi-sthiti-anta-hetavaḥ .. 22.27..
सत्त्वात्मा भगवान् विष्णुः संस्थापयति सर्वदा । सृजेद् ब्रह्मा रजोमूर्त्तिः संहरेत् तामसो हरः ॥ २२.२८॥
सत्त्व-आत्मा भगवान् विष्णुः संस्थापयति सर्वदा । सृजेत् ब्रह्मा रजोमूर्त्तिः संहरेत् तामसः हरः ॥ २२।२८॥
sattva-ātmā bhagavān viṣṇuḥ saṃsthāpayati sarvadā . sṛjet brahmā rajomūrttiḥ saṃharet tāmasaḥ haraḥ .. 22.28..
तस्मान्महीपतीनां तु राज्यं पालयतामयम् । आराध्यो भगवान् विष्णुः केशवः केशिमर्दनः ॥ २२.२९॥
तस्मात् महीपतीनाम् तु राज्यम् पालयताम् अयम् । आराध्यः भगवान् विष्णुः केशवः केशि-मर्दनः ॥ २२।२९॥
tasmāt mahīpatīnām tu rājyam pālayatām ayam . ārādhyaḥ bhagavān viṣṇuḥ keśavaḥ keśi-mardanaḥ .. 22.29..
निशम्य तस्य वचनं भ्रातरोऽन्ये मनस्विनः । प्रोचुः संहारकृद् रुद्रः पूजनीयो मुमुक्षुभिः ॥ २२.३॥
निशम्य तस्य वचनम् भ्रातरः अन्ये मनस्विनः । प्रोचुः संहार-कृत् रुद्रः पूजनीयः मुमुक्षुभिः ॥ २२।३॥
niśamya tasya vacanam bhrātaraḥ anye manasvinaḥ . procuḥ saṃhāra-kṛt rudraḥ pūjanīyaḥ mumukṣubhiḥ .. 22.3..
अयं हि भगवान् रुद्रः सर्वं जगदिदं शिवः । तमोगुणं समाश्रित्य कल्पान्ते संहरेत् प्रभुः ॥ २२.३१॥
अयम् हि भगवान् रुद्रः सर्वम् जगत् इदम् शिवः । तमः-गुणम् समाश्रित्य कल्प-अन्ते संहरेत् प्रभुः ॥ २२।३१॥
ayam hi bhagavān rudraḥ sarvam jagat idam śivaḥ . tamaḥ-guṇam samāśritya kalpa-ante saṃharet prabhuḥ .. 22.31..
या सा घोरतमा मूर्त्तिरस्य तेजोमयी परा । संहरेद् विद्यया सर्वं संसारं शूलभृत्तया ॥ २२.३२॥
या सा घोरतमा मूर्त्तिः अस्य तेजः-मयी परा । संहरेत् विद्यया सर्वम् संसारम् शूलभृत्-तया ॥ २२।३२॥
yā sā ghoratamā mūrttiḥ asya tejaḥ-mayī parā . saṃharet vidyayā sarvam saṃsāram śūlabhṛt-tayā .. 22.32..
ततस्तानब्रवीद् राजा विचिन्त्यासौ जयध्वजः । सत्त्वेन मुच्यते जन्तुः सत्त्वात्मा भगवान् हरिः ॥ २२.३३॥
ततस् तान् अब्रवीत् राजा विचिन्त्य असौ जयध्वजः । सत्त्वेन मुच्यते जन्तुः सत्त्व-आत्मा भगवान् हरिः ॥ २२।३३॥
tatas tān abravīt rājā vicintya asau jayadhvajaḥ . sattvena mucyate jantuḥ sattva-ātmā bhagavān hariḥ .. 22.33..
तमूचुर्भ्रातरो रुद्रः सेवितः सात्त्विकैर्जनैः । मोचयेत् सत्त्वसंयुक्तः पूजयेत्सततं हरम् ॥ २२.३४॥
तम् ऊचुः भ्रातरः रुद्रः सेवितः सात्त्विकैः जनैः । मोचयेत् सत्त्व-संयुक्तः पूजयेत् सततम् हरम् ॥ २२।३४॥
tam ūcuḥ bhrātaraḥ rudraḥ sevitaḥ sāttvikaiḥ janaiḥ . mocayet sattva-saṃyuktaḥ pūjayet satatam haram .. 22.34..
अथाब्रवीद् राजपुत्रः प्रहसन् वै जयध्वजः । स्वधर्मो मुक्तये पन्था नान्यो मुनिभिरष्यते ॥ २२.३५॥
अथा अब्रवीत् राज-पुत्रः प्रहसन् वै जयध्वजः । स्वधर्मः मुक्तये पन्थाः ना अन्यः मुनिभिः अष्यते ॥ २२।३५॥
athā abravīt rāja-putraḥ prahasan vai jayadhvajaḥ . svadharmaḥ muktaye panthāḥ nā anyaḥ munibhiḥ aṣyate .. 22.35..
तथा च वैष्णवीं शक्ति र्नृपाणान् दधतां सदा । आराधनं परो धर्मो पुरारेरमितौजसः ॥ २२.३६॥
तथा च वैष्णवीम् शक्तिः र्नृपाणान् दधताम् सदा । आराधनम् परः पुरारेः अमित-ओजसः ॥ २२।३६॥
tathā ca vaiṣṇavīm śaktiḥ rnṛpāṇān dadhatām sadā . ārādhanam paraḥ purāreḥ amita-ojasaḥ .. 22.36..
तमब्रवीद् राजपुत्रः कृष्णो मतिमतां वरः । यदर्जुनोऽस्मज्जनकः स धर्मं कृतवानिति ॥ २२.३७॥
तम् अब्रवीत् राज-पुत्रः कृष्णः मतिमताम् वरः । यत् अर्जुनः अस्मद्-जनकः स धर्मम् कृतवान् इति ॥ २२।३७॥
tam abravīt rāja-putraḥ kṛṣṇaḥ matimatām varaḥ . yat arjunaḥ asmad-janakaḥ sa dharmam kṛtavān iti .. 22.37..
एवं विवादे वितते शूरसेनोऽब्रवीद् वचः । प्रमाणमृषयो ह्यत्र ब्रूयुस्ते यत् तथैव तत् ॥ २२.३८॥
एवम् विवादे वितते शूरसेनः अब्रवीत् वचः । प्रमाणम् ऋषयः हि अत्र ब्रूयुः ते यत् तथा एव तत् ॥ २२।३८॥
evam vivāde vitate śūrasenaḥ abravīt vacaḥ . pramāṇam ṛṣayaḥ hi atra brūyuḥ te yat tathā eva tat .. 22.38..
ततस्ते राजशार्दूलाः पप्रच्छुर्ब्रह्मवादिनः । गत्वा सर्वे सुसंरब्धाः सप्तर्षीणां तदाश्रमम् ॥ २२.३९॥
ततस् ते राज-शार्दूलाः पप्रच्छुः ब्रह्म-वादिनः । गत्वा सर्वे सु संरब्धाः सप्तर्षीणाम् तदा आश्रमम् ॥ २२।३९॥
tatas te rāja-śārdūlāḥ papracchuḥ brahma-vādinaḥ . gatvā sarve su saṃrabdhāḥ saptarṣīṇām tadā āśramam .. 22.39..
तानब्रुवंस्ते मुनयो वसिष्ठाद्या यथार्थतः । या यस्याभिमता पुंसः सा हि तस्यैव देवता ॥ २२.४॥
तान् अब्रुवन् ते मुनयः वसिष्ठ-आद्याः यथार्थतः । या यस्य अभिमता पुंसः सा हि तस्य एव देवता ॥ २२।४॥
tān abruvan te munayaḥ vasiṣṭha-ādyāḥ yathārthataḥ . yā yasya abhimatā puṃsaḥ sā hi tasya eva devatā .. 22.4..
किन्तु कार्यविशेषेण पूजिताश्चेष्टदा नृणाम् । विशेषात् सर्वदा नायं नियमो ह्यन्यथा नृपाः ॥ २२.४१॥
किन्तु कार्य-विशेषेण पूजिताः च इष्ट-दाः नृणाम् । विशेषात् सर्वदा न अयम् नियमः हि अन्यथा नृपाः ॥ २२।४१॥
kintu kārya-viśeṣeṇa pūjitāḥ ca iṣṭa-dāḥ nṛṇām . viśeṣāt sarvadā na ayam niyamaḥ hi anyathā nṛpāḥ .. 22.41..
नृपाणां दैवतं विष्णुस्तथैव च पुरंदरः । विप्राणामग्निरादित्यो ब्रह्मा चैव पिनाकधृक् ॥ २२.४२॥
नृपाणाम् दैवतम् विष्णुः तथा एव च पुरंदरः । विप्राणाम् अग्निः आदित्यः ब्रह्मा च एव पिनाकधृक् ॥ २२।४२॥
nṛpāṇām daivatam viṣṇuḥ tathā eva ca puraṃdaraḥ . viprāṇām agniḥ ādityaḥ brahmā ca eva pinākadhṛk .. 22.42..
देवानां दैवतं विष्णुर्दानवानां त्रिशूलभृत् । गन्धर्वाणां तथा सोमो यक्षाणामपि कथ्यते ॥ २२.४३॥
देवानाम् दैवतम् विष्णुः दानवानाम् त्रिशूलभृत् । गन्धर्वाणाम् तथा सोमः यक्षाणाम् अपि कथ्यते ॥ २२।४३॥
devānām daivatam viṣṇuḥ dānavānām triśūlabhṛt . gandharvāṇām tathā somaḥ yakṣāṇām api kathyate .. 22.43..
विद्याधराणां वाग्देवी सिद्धानां भगवान्हरिः। रक्षसां शंकरो रुद्रः किंनराणां च पार्वती ॥ २२.४४॥
विद्याधराणाम् वाग्देवी सिद्धानाम् भगवान् हरिः। रक्षसाम् शंकरः रुद्रः किंनराणाम् च पार्वती ॥ २२।४४॥
vidyādharāṇām vāgdevī siddhānām bhagavān hariḥ. rakṣasām śaṃkaraḥ rudraḥ kiṃnarāṇām ca pārvatī .. 22.44..
ऋषीणां दैवतं ब्रह्मा महादेवस्त्रिशूलभृत् । मनूनां स्यादुमा देवी तथा विष्णुः सभास्करः ॥ २२.४५॥
ऋषीणाम् दैवतम् ब्रह्मा महादेवः त्रिशूलभृत् । मनूनाम् स्यात् उमा देवी तथा विष्णुः स भास्करः ॥ २२।४५॥
ṛṣīṇām daivatam brahmā mahādevaḥ triśūlabhṛt . manūnām syāt umā devī tathā viṣṇuḥ sa bhāskaraḥ .. 22.45..
गृहस्थानां च सर्वे स्युर्ब्रह्मा वै ब्रह्मचारिणाम् । वैखानसानामर्कः स्याद् यतीनां च महेश्वरः ॥ २२.४६॥
गृहस्थानाम् च सर्वे स्युः ब्रह्मा वै ब्रह्मचारिणाम् । वैखानसानाम् अर्कः स्यात् यतीनाम् च महेश्वरः ॥ २२।४६॥
gṛhasthānām ca sarve syuḥ brahmā vai brahmacāriṇām . vaikhānasānām arkaḥ syāt yatīnām ca maheśvaraḥ .. 22.46..
भूतानां भगवान् रुद्रः कूष्माण्डानां विनायकः । सर्वेषां भगवान् ब्रह्मा देवदेवः प्रजापतिः ॥ २२.४७॥
भूतानाम् भगवान् रुद्रः कूष्माण्डानाम् विनायकः । सर्वेषाम् भगवान् ब्रह्मा देवदेवः प्रजापतिः ॥ २२।४७॥
bhūtānām bhagavān rudraḥ kūṣmāṇḍānām vināyakaḥ . sarveṣām bhagavān brahmā devadevaḥ prajāpatiḥ .. 22.47..
इत्येवं भगवान् ब्रह्मा स्वयं देवोह्यभाषत । तस्माज्जयध्वजो नूनं विष्ण्वाराधनमर्हति ॥ २२.४८॥
इति एवम् भगवान् ब्रह्मा स्वयम् देवः हि अभाषत । तस्मात् जयध्वजः नूनम् विष्णु-आराधनम् अर्हति ॥ २२।४८॥
iti evam bhagavān brahmā svayam devaḥ hi abhāṣata . tasmāt jayadhvajaḥ nūnam viṣṇu-ārādhanam arhati .. 22.48..
किंतु रुद्रेण तादात्म्यं बुध्वा पूज्यो हरिर्नरैः। अन्यथा नृपतेः शत्रुं न हरि संहरेद्यतः॥ २२.४९॥
किंतु रुद्रेण तादात्म्यम् बुध्वा पूज्यः हरिः नरैः। अन्यथा नृपतेः शत्रुम् न हरि संहरेत् यतस्॥ २२।४९॥
kiṃtu rudreṇa tādātmyam budhvā pūjyaḥ hariḥ naraiḥ. anyathā nṛpateḥ śatrum na hari saṃharet yatas.. 22.49..
तान् प्रणम्याथ ते जग्मुः पुरीं परमशोभनाम् । पालयाञ्चक्रिरे पृथ्वीं जित्वा सर्वरिपून् रणे ॥ २२.५॥
तान् प्रणम्य अथ ते जग्मुः पुरीम् परम-शोभनाम् । पालयाञ्चक्रिरे पृथ्वीम् जित्वा सर्व-रिपून् रणे ॥ २२।५॥
tān praṇamya atha te jagmuḥ purīm parama-śobhanām . pālayāñcakrire pṛthvīm jitvā sarva-ripūn raṇe .. 22.5..
ततः कदाचिद् विप्रेन्द्रा विदेहो नाम दानवः । भीषणः सर्वसत्त्वानां पुरीं तेषां समाययौ ॥ २२.५१॥
ततस् कदाचिद् विप्र-इन्द्राः विदेहः नाम दानवः । भीषणः सर्व-सत्त्वानाम् पुरीम् तेषाम् समाययौ ॥ २२।५१॥
tatas kadācid vipra-indrāḥ videhaḥ nāma dānavaḥ . bhīṣaṇaḥ sarva-sattvānām purīm teṣām samāyayau .. 22.51..
दंष्ट्राकरालो दीप्तात्मा युगान्तदहनोपमः । शूलमादाय सूर्याभं नादयन् वै दिशो दश ॥ २२.५२॥
दंष्ट्रा-करालः दीप्त-आत्मा युगान्त-दहन-उपमः । शूलम् आदाय सूर्य-आभम् नादयन् वै दिशः दश ॥ २२।५२॥
daṃṣṭrā-karālaḥ dīpta-ātmā yugānta-dahana-upamaḥ . śūlam ādāya sūrya-ābham nādayan vai diśaḥ daśa .. 22.52..
तन्नादश्रवणान्मर्त्यास्तत्र ये निवसन्ति ते । तत्यजुर्जोवितं त्वन्ये दुद्रुवुर्भयविह्वलाः ॥ २२.५३॥
तद्-नाद-श्रवणात् मर्त्याः तत्र ये निवसन्ति ते । तत्यजुः जोवितम् तु अन्ये दुद्रुवुः भय-विह्वलाः ॥ २२।५३॥
tad-nāda-śravaṇāt martyāḥ tatra ye nivasanti te . tatyajuḥ jovitam tu anye dudruvuḥ bhaya-vihvalāḥ .. 22.53..
ततः सर्वे सुसंयत्ताः कार्त्तवीर्यात्मजास्तदा । शूरसेनादयः पञ्च राजानस्तु महाबलाः॥ २२.५४॥
ततस् सर्वे सु संयत्ताः कार्त्तवीर्य-आत्मजाः तदा । शूरसेन-आदयः पञ्च राजानः तु महा-बलाः॥ २२।५४॥
tatas sarve su saṃyattāḥ kārttavīrya-ātmajāḥ tadā . śūrasena-ādayaḥ pañca rājānaḥ tu mahā-balāḥ.. 22.54..
युयुधुर्दानवं शक्तिगिरिकूटासिमुद्गरैः । तान् सर्वान् दानवो विप्राः शूलेन प्रहसन्निव॥ २२.५५॥
युयुधुः दानवम् शक्ति-गिरि-कूट-असि-मुद्गरैः । तान् सर्वान् दानवः विप्राः शूलेन प्रहसन् इव॥ २२।५५॥
yuyudhuḥ dānavam śakti-giri-kūṭa-asi-mudgaraiḥ . tān sarvān dānavaḥ viprāḥ śūlena prahasan iva.. 22.55..
युद्धाय कृतसंरम्भा विदेहं त्वभिदुद्रुवुः । शूरोऽस्त्रं प्राहिणोद् रौद्रं शूरसेनस्तु वारुणम् ॥ २२.५६॥
युद्धाय कृत-संरम्भाः विदेहम् तु अभिदुद्रुवुः । शूरः अस्त्रम् प्राहिणोत् रौद्रम् शूरसेनः तु वारुणम् ॥ २२।५६॥
yuddhāya kṛta-saṃrambhāḥ videham tu abhidudruvuḥ . śūraḥ astram prāhiṇot raudram śūrasenaḥ tu vāruṇam .. 22.56..
प्राजापत्यं तथा कृष्णो वायव्यं धृष्ण एव च । जयध्वजश्च कौबेरमैन्द्रमाग्नेयमेव च ॥ २२.५७॥
प्राजापत्यम् तथा कृष्णः वायव्यम् धृष्णः एव च । जयध्वजः च कौबेरम् ऐन्द्रम् आग्नेयम् एव च ॥ २२।५७॥
prājāpatyam tathā kṛṣṇaḥ vāyavyam dhṛṣṇaḥ eva ca . jayadhvajaḥ ca kauberam aindram āgneyam eva ca .. 22.57..
भञ्जयामास शूलेन तान्यस्त्राणि स दानवः । ततः कृष्णो महावीर्यो गदामादाय भीषणाम् ॥ २२.५८॥
भञ्जयामास शूलेन तानि अस्त्राणि स दानवः । ततस् कृष्णः महा-वीर्यः गदाम् आदाय भीषणाम् ॥ २२।५८॥
bhañjayāmāsa śūlena tāni astrāṇi sa dānavaḥ . tatas kṛṣṇaḥ mahā-vīryaḥ gadām ādāya bhīṣaṇām .. 22.58..
स्पृष्ट्वा मन्त्रेण तरसा चिक्षेप न ननाद च । संप्राप्य सा गादाऽस्योरो विदेहस्य शिलोपमम् ॥ २२.५९॥
स्पृष्ट्वा मन्त्रेण तरसा चिक्षेप न ननाद च । संप्राप्य सा गादा अस्य उरः विदेहस्य शिला-उपमम् ॥ २२।५९॥
spṛṣṭvā mantreṇa tarasā cikṣepa na nanāda ca . saṃprāpya sā gādā asya uraḥ videhasya śilā-upamam .. 22.59..
न दानवं चालयितुं शशाकान्तकसंनिभम् । दुद्रुवुस्ते भयग्रस्ता दृष्ट्वा तस्यातिपौरुषम् ॥ २२.६॥
न दानवम् चालयितुम् शशाक अन्तक-संनिभम् । दुद्रुवुः ते भय-ग्रस्ताः दृष्ट्वा तस्य अतिपौरुषम् ॥ २२।६॥
na dānavam cālayitum śaśāka antaka-saṃnibham . dudruvuḥ te bhaya-grastāḥ dṛṣṭvā tasya atipauruṣam .. 22.6..
जयध्वजस्तु मतिमान् सस्मार जगतः पतिम् । विष्णुं जयिष्णुं लोकादिमप्रमेयमनामयम् ॥ २२.६१॥
जयध्वजः तु मतिमान् सस्मार जगतः पतिम् । विष्णुम् जयिष्णुम् लोक-आदिम् अप्रमेयम् अनामयम् ॥ २२।६१॥
jayadhvajaḥ tu matimān sasmāra jagataḥ patim . viṣṇum jayiṣṇum loka-ādim aprameyam anāmayam .. 22.61..
त्रातारं पुरुषं पूर्वं श्रीपतिं पीतवाससम् । ततः प्रादुरभूच्चक्रं सूर्यायुतसमप्रभम् ॥ २२.६२॥
त्रातारम् पुरुषम् पूर्वम् श्रीपतिम् पीतवाससम् । ततस् प्रादुरभूत् चक्रम् सूर्य-अयुत-सम-प्रभम् ॥ २२।६२॥
trātāram puruṣam pūrvam śrīpatim pītavāsasam . tatas prādurabhūt cakram sūrya-ayuta-sama-prabham .. 22.62..
आदेशाद् वासुदेवस्य भक्तानुग्रहकारणात् । जग्राह जगतां योनिं स्मृत्वा नारायणं नृपः ॥ २२.६३॥
आदेशात् वासुदेवस्य भक्त-अनुग्रह-कारणात् । जग्राह जगताम् योनिम् स्मृत्वा नारायणम् नृपः ॥ २२।६३॥
ādeśāt vāsudevasya bhakta-anugraha-kāraṇāt . jagrāha jagatām yonim smṛtvā nārāyaṇam nṛpaḥ .. 22.63..
प्राहिणोद् वै विदेहाय दानवेभ्यो यथा हरिः । संप्राप्य तस्य घोरस्य स्कन्धदेशं सुदर्शनम् ॥ २२.६४॥
प्राहिणोत् वै विदेहाय दानवेभ्यः यथा हरिः । संप्राप्य तस्य घोरस्य स्कन्ध-देशम् सु दर्शनम् ॥ २२।६४॥
prāhiṇot vai videhāya dānavebhyaḥ yathā hariḥ . saṃprāpya tasya ghorasya skandha-deśam su darśanam .. 22.64..
पृथिव्यां पातयामास शिरोऽद्रिशिखराकृति । तस्मिन् हते देवरिपौ शूराद्या भ्रातरो नृपाः ॥ २२.६५॥
पृथिव्याम् पातयामास शिरः-अद्रि-शिखर-आकृति । तस्मिन् हते देव-रिपौ शूर-आद्याः भ्रातरः नृपाः ॥ २२।६५॥
pṛthivyām pātayāmāsa śiraḥ-adri-śikhara-ākṛti . tasmin hate deva-ripau śūra-ādyāḥ bhrātaraḥ nṛpāḥ .. 22.65..
तद्दि चक्रं पुरा विष्णुस्तपसाराध्य शंकरम्यस्मदवाप तत्तस्मादसुराणां विनाशकम्॥ २२.६६॥
तत् दि चक्रम् पुरा विष्णुः तपसा आराध्य शंकरम् यस्मत् अवाप तत् तस्मात् असुराणाम् विनाशकम्॥ २२।६६॥
tat di cakram purā viṣṇuḥ tapasā ārādhya śaṃkaram yasmat avāpa tat tasmāt asurāṇām vināśakam.. 22.66..
समाययुः पुरीं रम्यां भ्रातरं चाप्यपूजयन् । श्रुत्वाजगाम भगवान् जयध्वजपराक्रमम् ॥ २२.६७॥
समाययुः पुरीम् रम्याम् भ्रातरम् च अपि अपूजयन् । श्रुत्वा जगाम भगवान् जयध्वज-पराक्रमम् ॥ २२।६७॥
samāyayuḥ purīm ramyām bhrātaram ca api apūjayan . śrutvā jagāma bhagavān jayadhvaja-parākramam .. 22.67..
कार्त्तवीर्यसुतं द्रष्टुं विश्वामित्रो महामुनिः । तमागतमथो दृष्ट्वा राजा संभ्रान्तमानसः ॥ २२.६८॥
कार्त्तवीर्य-सुतम् द्रष्टुम् विश्वामित्रः महा-मुनिः । तम् आगतम् अथो दृष्ट्वा राजा संभ्रान्त-मानसः ॥ २२।६८॥
kārttavīrya-sutam draṣṭum viśvāmitraḥ mahā-muniḥ . tam āgatam atho dṛṣṭvā rājā saṃbhrānta-mānasaḥ .. 22.68..
समावेश्यासने रम्ये पूजयामास भावतः । उवाच भगवान् घोरः प्रसादाद् भवतोऽसुरः ॥ २२.६९॥
समावेश्य आसने रम्ये पूजयामास भावतः । उवाच भगवान् घोरः प्रसादात् भवतः असुरः ॥ २२।६९॥
samāveśya āsane ramye pūjayāmāsa bhāvataḥ . uvāca bhagavān ghoraḥ prasādāt bhavataḥ asuraḥ .. 22.69..
निपातितो मया संख्ये विदेहो दानवेश्वरः । त्वद्वाक्याच्छिन्नसंदेहो विष्णुं सत्यपराक्रमम्॥ २२.७॥
निपातितः मया संख्ये विदेहः दानव-ईश्वरः । त्वद्-वाक्यात् छिन्न-संदेहः विष्णुम् सत्य-पराक्रमम्॥ २२।७॥
nipātitaḥ mayā saṃkhye videhaḥ dānava-īśvaraḥ . tvad-vākyāt chinna-saṃdehaḥ viṣṇum satya-parākramam.. 22.7..
प्रपन्नः शरणं तेन प्रसादो मे कृतः शुभः । यक्ष्यामि परमेशानं विष्णुं पद्मदलेक्षणम् ॥ २२.७१॥
प्रपन्नः शरणम् तेन प्रसादः मे कृतः शुभः । यक्ष्यामि परमेशानम् विष्णुम् पद्म-दल-ईक्षणम् ॥ २२।७१॥
prapannaḥ śaraṇam tena prasādaḥ me kṛtaḥ śubhaḥ . yakṣyāmi parameśānam viṣṇum padma-dala-īkṣaṇam .. 22.71..
कथं केन विधानेन संपूज्यो हरिरीश्वरः । कोऽयं नारायणो देवः किंप्रभावश्च सुव्रत ॥ २२.७२॥
कथम् केन विधानेन संपूज्यः हरिः ईश्वरः । कः अयम् नारायणः देवः किंप्रभावः च सुव्रत ॥ २२।७२॥
katham kena vidhānena saṃpūjyaḥ hariḥ īśvaraḥ . kaḥ ayam nārāyaṇaḥ devaḥ kiṃprabhāvaḥ ca suvrata .. 22.72..
सर्वमेतन्ममाचक्ष्व परं कौतूहलं हि मे । जयध्वजस्य वचनं श्रुत्वा शान्तो मुनिस्ततः। .दृष्ट्वा हरौ परां भक्तिं विश्वामित्र उवाच ह॥ २२.७३॥
सर्वम् एतत् मम आचक्ष्व परम् कौतूहलम् हि मे । जयध्वजस्य वचनम् श्रुत्वा शान्तः मुनिः ततस्। ।दृष्ट्वा हरौ पराम् भक्तिम् विश्वामित्रः उवाच ह॥ २२।७३॥
sarvam etat mama ācakṣva param kautūhalam hi me . jayadhvajasya vacanam śrutvā śāntaḥ muniḥ tatas. .dṛṣṭvā harau parām bhaktim viśvāmitraḥ uvāca ha.. 22.73..
विश्वामित्र उवाच ।
यतः प्रवृत्तिर्भूतानां यस्मिन् सर्वं यतो जगत् ॥ २२.७४॥
यतस् प्रवृत्तिः भूतानाम् यस्मिन् सर्वम् यतस् जगत् ॥ २२।७४॥
yatas pravṛttiḥ bhūtānām yasmin sarvam yatas jagat .. 22.74..
स विष्णुः सर्वभूतात्मा तमाश्रित्य विमुच्यते ॥ २२.७५॥
स विष्णुः सर्व-भूत-आत्मा तम् आश्रित्य विमुच्यते ॥ २२।७५॥
sa viṣṇuḥ sarva-bhūta-ātmā tam āśritya vimucyate .. 22.75..
आनन्दं परमं व्योम स वै नारायण स्मृतः। .नित्योदितो निर्विकल्पो नित्यानन्दो नरञ्जनः॥ २२.७६॥
आनन्दम् परमम् व्योम स वै नारायण स्मृतः। ।॥ २२।७६॥
ānandam paramam vyoma sa vai nārāyaṇa smṛtaḥ. ... 22.76..
चतुर्व्यूहधरो विष्णुरव्यूहः प्रोच्यते स्वयम्। परमैत्मा परन्धाम परं व्योम परं पदम्॥ २२.७७॥
चतुर्-व्यूह-धरः विष्णुः अव्यूहः प्रोच्यते स्वयम्। परम-ऐत्मा परन्धाम परम् व्योम परम् पदम्॥ २२।७७॥
catur-vyūha-dharaḥ viṣṇuḥ avyūhaḥ procyate svayam. parama-aitmā parandhāma param vyoma param padam.. 22.77..
त्रिपादमक्षरं ब्रह्म तमाहुब्रह्मवादिनः। स वासुदेवो विश्वात्मा योगात्मा पुरुषोत्तमः॥ २२.७८॥
त्रि-पादम् अक्षरम् ब्रह्म तम् आहु ब्रह्म-वादिनः। स वासुदेवः विश्वात्मा योग-आत्मा पुरुषोत्तमः॥ २२।७८॥
tri-pādam akṣaram brahma tam āhu brahma-vādinaḥ. sa vāsudevaḥ viśvātmā yoga-ātmā puruṣottamaḥ.. 22.78..
यस्यांश सम्भवो ब्रह्मा रुद्रोऽपि परमेश्वरः। स्ववर्णाश्रमधर्मेण पुंसां यः पुरुषोत्तमः ॥ २२.७९॥
सम्भवः ब्रह्मा रुद्रः अपि परमेश्वरः। स्व-वर्ण-आश्रम-धर्मेण पुंसाम् यः पुरुषोत्तमः ॥ २२।७९॥
sambhavaḥ brahmā rudraḥ api parameśvaraḥ. sva-varṇa-āśrama-dharmeṇa puṃsām yaḥ puruṣottamaḥ .. 22.79..
अकामहतभावेन समाराध्यो न चान्यथा । एतावदुक्त्वा भगवान् विश्वामित्रो महातपाः॥ २२.८॥
अ काम-हत-भावेन समाराध्यः न च अन्यथा । एतावत् उक्त्वा भगवान् विश्वामित्रः महा-तपाः॥ २२।८॥
a kāma-hata-bhāvena samārādhyaḥ na ca anyathā . etāvat uktvā bhagavān viśvāmitraḥ mahā-tapāḥ.. 22.8..
शूराद्यैः पूजितो विप्रा जगामाथ स्वमालयम् । अथ शूरादयो देवमयजन्त महेश्वरम् ।॥ २२.८१॥
शूर-आद्यैः पूजितः विप्राः जगाम अथ स्वम् आलयम् । अथ शूर-आदयः देवम् अयजन्त महेश्वरम् ।॥ २२।८१॥
śūra-ādyaiḥ pūjitaḥ viprāḥ jagāma atha svam ālayam . atha śūra-ādayaḥ devam ayajanta maheśvaram ... 22.81..
यज्ञेन यज्ञगम्यं तं निष्कामा रुद्रमव्ययम् । तान् वसिष्ठस्तु भगवान् याजयामास धर्मवित् ॥ २२.८२॥
यज्ञेन यज्ञ-गम्यम् तम् निष्कामाः रुद्रम् अव्ययम् । तान् वसिष्ठः तु भगवान् याजयामास धर्म-विद् ॥ २२।८२॥
yajñena yajña-gamyam tam niṣkāmāḥ rudram avyayam . tān vasiṣṭhaḥ tu bhagavān yājayāmāsa dharma-vid .. 22.82..
गौतमोऽत्रिरगस्त्यश्च सर्वे रुद्रपरायणाः । विश्वामित्रस्तु भगवान् जयध्वजमरिंदमम्॥ २२.८३॥
गौतमः अत्रिः अगस्त्यः च सर्वे रुद्र-परायणाः । विश्वामित्रः तु भगवान् जयध्वजम् अरिंदमम्॥ २२।८३॥
gautamaḥ atriḥ agastyaḥ ca sarve rudra-parāyaṇāḥ . viśvāmitraḥ tu bhagavān jayadhvajam ariṃdamam.. 22.83..
याजयामास भूतादिमादिदेवं जनार्दनम् । तस्य यज्ञे महायोगी साक्षाद् देवः स्वयं हरिः॥ २२.८४॥
याजयामास भूतादिम् आदिदेवम् जनार्दनम् । तस्य यज्ञे महा-योगी साक्षात् देवः स्वयम् हरिः॥ २२।८४॥
yājayāmāsa bhūtādim ādidevam janārdanam . tasya yajñe mahā-yogī sākṣāt devaḥ svayam hariḥ.. 22.84..
आविरासीत् स भगवान् तदद्भुतमिवाभवत् । जयध्वजोऽपि तं विष्णुं रुद्रस्य परमां तनुम्। ॥ २२.८५॥
आविरासीत् स भगवान् तत् अद्भुतम् इव अभवत् । जयध्वजः अपि तम् विष्णुम् रुद्रस्य परमाम् तनुम्। ॥ २२।८५॥
āvirāsīt sa bhagavān tat adbhutam iva abhavat . jayadhvajaḥ api tam viṣṇum rudrasya paramām tanum. .. 22.85..
इत्येवं परमं बुद्ध्वा यत्नेनायजदच्युतम्। य इमं श्रृणुयान्नित्यं जयध्वजपराक्रमम् । ॥ २२.८६॥
इति एवम् परमम् बुद्ध्वा यत्नेन अयजत् अच्युतम्। यः इमम् श्रृणुयात् नित्यम् जयध्वज-पराक्रमम् । ॥ २२।८६॥
iti evam paramam buddhvā yatnena ayajat acyutam. yaḥ imam śrṛṇuyāt nityam jayadhvaja-parākramam . .. 22.86..
सर्वपापविमुक्तात्मा विष्णुलोकं स गच्छति ॥ २२.८७॥
सर्व-पाप-विमुक्त-आत्मा विष्णु-लोकम् स गच्छति ॥ २२।८७॥
sarva-pāpa-vimukta-ātmā viṣṇu-lokam sa gacchati .. 22.87..
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे द्वाविशोऽध्यायः॥ ॥
इति श्री-कूर्मपुराणे षट्साहस्त्र्याम् संहितायाम् पूर्व-विभागे द्वाविशः अध्यायः॥ ॥
iti śrī-kūrmapurāṇe ṣaṭsāhastryām saṃhitāyām pūrva-vibhāge dvāviśaḥ adhyāyaḥ.. ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In