| |
|

This overlay will guide you through the buttons:

सूत उवाच ।
जयध्वजस्य पुत्रोऽभूत् तालजङ्घ इति स्मृतः । शतपुत्रास्तु तस्यासन् तालजङ्घाः प्रकीर्तिताः ॥ २३.१॥
जयध्वजस्य पुत्रः अभूत् तालजङ्घः इति स्मृतः । शत-पुत्राः तु तस्य आसन् तालजङ्घाः प्रकीर्तिताः ॥ २३।१॥
jayadhvajasya putraḥ abhūt tālajaṅghaḥ iti smṛtaḥ . śata-putrāḥ tu tasya āsan tālajaṅghāḥ prakīrtitāḥ .. 23.1..
तेषां ज्येष्ठो महावीर्यो वीतिहोत्रोऽभवन्नृपः । वृषप्रभृतयश्चान्ये यादवाः पुण्यकर्मिणः ॥ २३.२॥
तेषाम् ज्येष्ठः महा-वीर्यः वीतिहोत्रः अभवत् नृपः । वृष-प्रभृतयः च अन्ये यादवाः पुण्य-कर्मिणः ॥ २३।२॥
teṣām jyeṣṭhaḥ mahā-vīryaḥ vītihotraḥ abhavat nṛpaḥ . vṛṣa-prabhṛtayaḥ ca anye yādavāḥ puṇya-karmiṇaḥ .. 23.2..
वृषो वंशकरस्तेषां तस्य पुत्रोऽभवन्मधुः । मधोः पुत्रशतं त्वासीद् वृषणस्तस्य वंशभाक् ॥ २३.३॥
वृषः वंश-करः तेषाम् तस्य पुत्रः अभवत् मधुः । मधोः पुत्र-शतम् तु आसीत् वृषणः तस्य वंश-भाज् ॥ २३।३॥
vṛṣaḥ vaṃśa-karaḥ teṣām tasya putraḥ abhavat madhuḥ . madhoḥ putra-śatam tu āsīt vṛṣaṇaḥ tasya vaṃśa-bhāj .. 23.3..
वीतिहोत्रसुतश्चापि विश्रुतोऽनन्त इत्युत । दुर्जयस्तस्य पुत्रोऽभूत् सर्वशास्त्रविशारदः ॥ २३.४॥
वीतिहोत्र-सुतः च अपि विश्रुतः अनन्तः इति उत । दुर्जयः तस्य पुत्रः अभूत् सर्व-शास्त्र-विशारदः ॥ २३।४॥
vītihotra-sutaḥ ca api viśrutaḥ anantaḥ iti uta . durjayaḥ tasya putraḥ abhūt sarva-śāstra-viśāradaḥ .. 23.4..
तस्य भार्या रूपवती गुणैः सर्वैरलंकृता । पतिव्रतासीत् पतिना स्वधर्मपरिपालिका ॥ २३.५॥
तस्य भार्या रूपवती गुणैः सर्वैः अलंकृता । पतिव्रता आसीत् पतिना स्वधर्म-परिपालिका ॥ २३।५॥
tasya bhāryā rūpavatī guṇaiḥ sarvaiḥ alaṃkṛtā . pativratā āsīt patinā svadharma-paripālikā .. 23.5..
स कदाचिन्महाभागः कालिन्दीतीरसंस्थिताम् । अपश्यदुर्वशीं देवीं गायन्तीं मधुरस्वनाम् ॥ २३.६॥
स कदाचिद् महाभागः कालिन्दी-तीर-संस्थिताम् । अपश्यत् उर्वशीम् देवीम् गायन्तीम् मधुर-स्वनाम् ॥ २३।६॥
sa kadācid mahābhāgaḥ kālindī-tīra-saṃsthitām . apaśyat urvaśīm devīm gāyantīm madhura-svanām .. 23.6..
ततः कामाहतमनास्तत्समीपमुपेत्य वै । प्रोवाच सुचिरं कालं देवि रन्तुं मयाऽर्हसि ॥ २३.७॥
ततस् काम् आहत-मनाः तद्-समीपम् उपेत्य वै । प्रोवाच सु चिरम् कालम् देवि रन्तुम् मया अर्हसि ॥ २३।७॥
tatas kām āhata-manāḥ tad-samīpam upetya vai . provāca su ciram kālam devi rantum mayā arhasi .. 23.7..
सा देवी नृपतिं दृष्ट्वा रूपलावण्यसंयुतम् । रेमे तेन चिरं कालं कामदेवमिवापरम् ॥ २३.८॥
सा देवी नृपतिम् दृष्ट्वा रूप-लावण्य-संयुतम् । रेमे तेन चिरम् कालम् कामदेवम् इव अपरम् ॥ २३।८॥
sā devī nṛpatim dṛṣṭvā rūpa-lāvaṇya-saṃyutam . reme tena ciram kālam kāmadevam iva aparam .. 23.8..
कालात् प्रबुद्धो राजा तामुर्वशीं प्राह शोभनाम् । गमिष्यामि पुरीं रम्यां हसन्ती साऽब्रवीद् वचः ॥ २३.९॥
कालात् प्रबुद्धः राजा ताम् उर्वशीम् प्राह शोभनाम् । गमिष्यामि पुरीम् रम्याम् हसन्ती सा अब्रवीत् वचः ॥ २३।९॥
kālāt prabuddhaḥ rājā tām urvaśīm prāha śobhanām . gamiṣyāmi purīm ramyām hasantī sā abravīt vacaḥ .. 23.9..
न ह्यनेनोपभोगेन भवता राजसुन्दर । प्रीतिः संजायते मह्यं स्थातव्यं वत्सरं पुनः ॥ २३.१॥
न हि अनेन उपभोगेन भवता राज-सुन्दर । प्रीतिः संजायते मह्यम् स्थातव्यम् वत्सरम् पुनर् ॥ २३।१॥
na hi anena upabhogena bhavatā rāja-sundara . prītiḥ saṃjāyate mahyam sthātavyam vatsaram punar .. 23.1..
तामब्रवीत् स मतिमान् गत्वा शीघ्रतरं पुरीम् । आगमिष्यामि भूयोऽत्र तन्मेऽनुज्ञातुमर्हसि ॥ २३.११॥
ताम् अब्रवीत् स मतिमान् गत्वा शीघ्रतरम् पुरीम् । आगमिष्यामि भूयस् अत्र तत् मे अनुज्ञातुम् अर्हसि ॥ २३।११॥
tām abravīt sa matimān gatvā śīghrataram purīm . āgamiṣyāmi bhūyas atra tat me anujñātum arhasi .. 23.11..
तमब्रवीत् सा सुभगा तथा कुरु विशांपते । नान्ययाऽप्सरसा तावद् रन्तव्यं भवता पुनः ॥ २३.१२॥
तम् अब्रवीत् सा सुभगा तथा कुरु विशाम् पते । न अन्यया अप्सरसा तावत् रन्तव्यम् भवता पुनर् ॥ २३।१२॥
tam abravīt sā subhagā tathā kuru viśām pate . na anyayā apsarasā tāvat rantavyam bhavatā punar .. 23.12..
ओमित्युक्त्वा ययौ तूर्णं पुरीं परमशोभनाम् । गत्वा पतिव्रतां पत्नीं दृष्ट्वा बीतोऽभवन्नृपः ॥ २३.१३॥
ओम् इति उक्त्वा ययौ तूर्णम् पुरीम् परम-शोभनाम् । गत्वा पतिव्रताम् पत्नीम् दृष्ट्वा बीतः अभवत् नृपः ॥ २३।१३॥
om iti uktvā yayau tūrṇam purīm parama-śobhanām . gatvā pativratām patnīm dṛṣṭvā bītaḥ abhavat nṛpaḥ .. 23.13..
संप्रेक्ष्य सा गुणवती भार्या तस्य पतिव्रता । भीतं प्रसन्नया प्राह वाचा पीनपयोधरा ॥ २३.१४॥
संप्रेक्ष्य सा गुणवती भार्या तस्य पतिव्रता । भीतम् प्रसन्नया प्राह वाचा पीन-पयोधरा ॥ २३।१४॥
saṃprekṣya sā guṇavatī bhāryā tasya pativratā . bhītam prasannayā prāha vācā pīna-payodharā .. 23.14..
स्वामिन् किमत्र भवतो भीतिरद्य प्रवर्तते । तद् ब्रूहि मे यथा तत्त्वं न राज्ञां कीर्त्तयेत्विदम् ॥ २३.१५॥
स्वामिन् किम् अत्र भवतः भीतिः अद्य प्रवर्तते । तत् ब्रूहि मे यथा तत्त्वम् न राज्ञाम् कीर्त्तयेतु इदम् ॥ २३।१५॥
svāmin kim atra bhavataḥ bhītiḥ adya pravartate . tat brūhi me yathā tattvam na rājñām kīrttayetu idam .. 23.15..
स तस्या वाक्यमाकर्ण्य लज्जावनतमानसः । नोवाच किञ्चिन्नृपतिर्ज्ञानदृष्ट्या विवेद सा ॥ २३.१६॥
स तस्याः वाक्यम् आकर्ण्य लज्जा-अवनत-मानसः । न उवाच किञ्चिद् नृपतिः ज्ञान-दृष्ट्या विवेद सा ॥ २३।१६॥
sa tasyāḥ vākyam ākarṇya lajjā-avanata-mānasaḥ . na uvāca kiñcid nṛpatiḥ jñāna-dṛṣṭyā viveda sā .. 23.16..
न भेतव्यं त्वया स्वामिन् कार्यं पापविशोधनम् । भीते त्वयि महाराज राष्ट्रं ते नाशमेष्यति ॥ २३.१७॥
न भेतव्यम् त्वया स्वामिन् कार्यम् पाप-विशोधनम् । भीते त्वयि महा-राज राष्ट्रम् ते नाशम् एष्यति ॥ २३।१७॥
na bhetavyam tvayā svāmin kāryam pāpa-viśodhanam . bhīte tvayi mahā-rāja rāṣṭram te nāśam eṣyati .. 23.17..
तदा स राजा द्युतिमान् निर्गत्य तु पुरात्ततः । गत्वा कण्वाश्रमं पुण्यं दृष्ट्वा तत्र महामुनिम् ॥ २३.१८॥
तदा स राजा द्युतिमान् निर्गत्य तु पुरात् ततस् । गत्वा कण्व-आश्रमम् पुण्यम् दृष्ट्वा तत्र महा-मुनिम् ॥ २३।१८॥
tadā sa rājā dyutimān nirgatya tu purāt tatas . gatvā kaṇva-āśramam puṇyam dṛṣṭvā tatra mahā-munim .. 23.18..
निशम्य कण्ववदनात् प्रायश्चित्तविधिं शुभम् । जगाम हिमवत्पृष्ठं समुद्दिश्य महाबलः ॥ २३.१९॥
निशम्य कण्व-वदनात् प्रायश्चित्त-विधिम् शुभम् । जगाम हिमवत्-पृष्ठम् समुद्दिश्य महा-बलः ॥ २३।१९॥
niśamya kaṇva-vadanāt prāyaścitta-vidhim śubham . jagāma himavat-pṛṣṭham samuddiśya mahā-balaḥ .. 23.19..
सोऽपश्यत् पथि राजेन्द्रो गन्धर्ववरमुत्तमम् । भ्राजमानं श्रिया व्योम्नि भूषितं दिव्यमालया ॥ २३.२॥
सः अपश्यत् पथि राज-इन्द्रः गन्धर्व-वरम् उत्तमम् । भ्राजमानम् श्रिया व्योम्नि भूषितम् दिव्य-मालया ॥ २३।२॥
saḥ apaśyat pathi rāja-indraḥ gandharva-varam uttamam . bhrājamānam śriyā vyomni bhūṣitam divya-mālayā .. 23.2..
वीक्ष्य मालाममित्रघ्नः सस्माराप्सरसां वराम् । उर्वशीं तां मनश्चक्रे तस्या एवेयमर्हति ॥ २३.२१॥
वीक्ष्य मालाम् अमित्र-घ्नः सस्मार अप्सरसाम् वराम् । उर्वशीम् ताम् मनः चक्रे तस्याः एव इयम् अर्हति ॥ २३।२१॥
vīkṣya mālām amitra-ghnaḥ sasmāra apsarasām varām . urvaśīm tām manaḥ cakre tasyāḥ eva iyam arhati .. 23.21..
सोऽतीव कामुको राजा गन्धर्वेणाथ तेन हि । चकार सुमहद् युद्धं मालामादातुमुद्यतः ॥ २३.२२॥
सः अतीव कामुकः राजा गन्धर्वेण अथ तेन हि । चकार सु महत् युद्धम् मालाम् आदातुम् उद्यतः ॥ २३।२२॥
saḥ atīva kāmukaḥ rājā gandharveṇa atha tena hi . cakāra su mahat yuddham mālām ādātum udyataḥ .. 23.22..
विजित्य समरे मालां गृहीत्वा दुर्जयो द्विजाः । जगाम तामप्सरसं कालिन्दीं द्रष्टुमादरात् ॥ २३.२३॥
विजित्य समरे मालाम् गृहीत्वा दुर्जयः द्विजाः । जगाम ताम् अप्सरसम् कालिन्दीम् द्रष्टुम् आदरात् ॥ २३।२३॥
vijitya samare mālām gṛhītvā durjayaḥ dvijāḥ . jagāma tām apsarasam kālindīm draṣṭum ādarāt .. 23.23..
अदृष्ट्वाऽप्सरसं तत्र कामबाणाभिपीडितः । बभ्राम सकलां पृथ्वीं सप्तद्वीपसमन्विताम् ॥ २३.२४॥
अ दृष्ट्वा अप्सरसम् तत्र काम-बाण-अभिपीडितः । बभ्राम सकलाम् पृथ्वीम् सप्त-द्वीप-समन्विताम् ॥ २३।२४॥
a dṛṣṭvā apsarasam tatra kāma-bāṇa-abhipīḍitaḥ . babhrāma sakalām pṛthvīm sapta-dvīpa-samanvitām .. 23.24..
आक्रम्य हिमवत्पार्श्वमुर्वशीदर्शनोत्सुकः । जगाम शैलप्रवरं हेमकूटमिति श्रुतम् ॥ २३.२५॥
आक्रम्य हिमवत्-पार्श्वम् उर्वशी-दर्शन-उत्सुकः । जगाम शैल-प्रवरम् हेमकूटम् इति श्रुतम् ॥ २३।२५॥
ākramya himavat-pārśvam urvaśī-darśana-utsukaḥ . jagāma śaila-pravaram hemakūṭam iti śrutam .. 23.25..
तत्र तत्राप्सरोवर्या दृष्ट्वा तं सिंहविक्रमम् । कामं संदधिरे घोरं भूषितं चित्रमालया ॥ २२३.२६॥
तत्र तत्र अप्सरः-वर्याः दृष्ट्वा तम् सिंह-विक्रमम् । कामम् संदधिरे घोरम् भूषितम् चित्र-मालया ॥ २२३।२६॥
tatra tatra apsaraḥ-varyāḥ dṛṣṭvā tam siṃha-vikramam . kāmam saṃdadhire ghoram bhūṣitam citra-mālayā .. 223.26..
संस्मरन्नुर्वशीवाक्यं तस्यां संसक्तमानसः । न पश्यति स्म ताः सर्वागिरिश्रृङ्गाणिजग्मिवान् ॥ २३.२७॥
संस्मरन् उर्वशी-वाक्यम् तस्याम् संसक्त-मानसः । न पश्यति स्म ताः सर्वा गिरि-श्रृङ्गाणि जग्मिवान् ॥ २३।२७॥
saṃsmaran urvaśī-vākyam tasyām saṃsakta-mānasaḥ . na paśyati sma tāḥ sarvā giri-śrṛṅgāṇi jagmivān .. 23.27..
तत्राप्यप्सरसं दिव्यामदृष्ट्वा कामपीडितः । देवलोकं महामेरुं ययौ देवपराक्रमः ॥ २३.२८॥
तत्र अपि अप्सरसम् दिव्याम् अ दृष्ट्वा काम-पीडितः । देव-लोकम् महा-मेरुम् ययौ देव-पराक्रमः ॥ २३।२८॥
tatra api apsarasam divyām a dṛṣṭvā kāma-pīḍitaḥ . deva-lokam mahā-merum yayau deva-parākramaḥ .. 23.28..
स तत्र मानसं नाम सरस्त्रैलोक्यविश्रुतम् । भेजे श्रृङ्गाण्यतिक्रम्य स्वबाहुबलभावितः ॥ २३.२९॥
स तत्र मानसम् नाम सरः त्रैलोक्य-विश्रुतम् । भेजे श्रृङ्गाणि अतिक्रम्य स्व-बाहु-बल-भावितः ॥ २३।२९॥
sa tatra mānasam nāma saraḥ trailokya-viśrutam . bheje śrṛṅgāṇi atikramya sva-bāhu-bala-bhāvitaḥ .. 23.29..
स तस्य तीरे सुभगां चरन्तीमतिलालसाम् । दृष्टवाननवद्याङ्गीं तस्यै मालां ददौ पुनः ॥ २३.३॥
स तस्य तीरे सुभगाम् चरन्तीम् अति लालसाम् । दृष्टवान् अनवद्य-अङ्गीम् तस्यै मालाम् ददौ पुनर् ॥ २३।३॥
sa tasya tīre subhagām carantīm ati lālasām . dṛṣṭavān anavadya-aṅgīm tasyai mālām dadau punar .. 23.3..
स मालया तदा देवीं भूषितां प्रेक्ष्य मोहितः । रेमे कृतार्थमात्मानं जानानः सुचिरं तया ॥ २३.३१॥
स मालया तदा देवीम् भूषिताम् प्रेक्ष्य मोहितः । रेमे कृतार्थम् आत्मानम् जानानः सु चिरम् तया ॥ २३।३१॥
sa mālayā tadā devīm bhūṣitām prekṣya mohitaḥ . reme kṛtārtham ātmānam jānānaḥ su ciram tayā .. 23.31..
अथोर्वशी राजवर्यं रतान्ते वाक्यमब्रवीत् । किं कृतं भवता पूर्वं पुरीं गत्वा वृथा नृप ॥ २३.३२॥
अथ उर्वशी राज-वर्यम् रत-अन्ते वाक्यम् अब्रवीत् । किम् कृतम् भवता पूर्वम् पुरीम् गत्वा वृथा नृप ॥ २३।३२॥
atha urvaśī rāja-varyam rata-ante vākyam abravīt . kim kṛtam bhavatā pūrvam purīm gatvā vṛthā nṛpa .. 23.32..
स तस्यै सर्वमाचष्ट पत्न्या यत् समुदीरितम् । कण्वस्य दर्शनं चैव मालापहरणं तथा ॥ २३.३३॥
स तस्यै सर्वम् आचष्ट पत्न्या यत् समुदीरितम् । कण्वस्य दर्शनम् च एव माला-अपहरणम् तथा ॥ २३।३३॥
sa tasyai sarvam ācaṣṭa patnyā yat samudīritam . kaṇvasya darśanam ca eva mālā-apaharaṇam tathā .. 23.33..
श्रुत्वैतद् व्याहृतं तेन गच्छेत्याह हितैषिणी । शापं दास्यति ते कण्वो ममापि भवतः प्रिया ॥ २३.३४॥
श्रुत्वा एतत् व्याहृतम् तेन गच्छ इति आह हित-एषिणी । शापम् दास्यति ते कण्वः मम अपि भवतः प्रिया ॥ २३।३४॥
śrutvā etat vyāhṛtam tena gaccha iti āha hita-eṣiṇī . śāpam dāsyati te kaṇvaḥ mama api bhavataḥ priyā .. 23.34..
तयाऽसकृन्महाराजः प्रोक्तोऽपि मदमोहितः । न तत्यजाथ तत्पार्श्वं तत्र संन्यस्तमानसः ॥ २३.३५॥
तया असकृत् महा-राजः प्रोक्तः अपि मद-मोहितः । न तत्यज अथ तद्-पार्श्वम् तत्र संन्यस्त-मानसः ॥ २३।३५॥
tayā asakṛt mahā-rājaḥ proktaḥ api mada-mohitaḥ . na tatyaja atha tad-pārśvam tatra saṃnyasta-mānasaḥ .. 23.35..
ततोर्वशी कामरूपा राज्ञे स्वं रूपमुत्कटम् । सुरोमशं पिङ्गलाक्षं दर्शयामास सर्वदा ॥ २३.३६॥
ततस् उर्वशी कामरूपा राज्ञे स्वम् रूपम् उत्कटम् । सु रोमशम् पिङ्गल-अक्षम् दर्शयामास सर्वदा ॥ २३।३६॥
tatas urvaśī kāmarūpā rājñe svam rūpam utkaṭam . su romaśam piṅgala-akṣam darśayāmāsa sarvadā .. 23.36..
तस्यां विरक्तचेतस्कः स्मृत्वा कण्वाभिभाषितम् । धिङ्मामिति विनिश्चित्यतपः कर्त्तुं समारभत् ॥ २३.३७॥
तस्याम् विरक्त-चेतस्कः स्मृत्वा कण्व-अभिभाषितम् । धिक् माम् इति विनिश्चित्य तपः कर्त्तुम् समारभत् ॥ २३।३७॥
tasyām virakta-cetaskaḥ smṛtvā kaṇva-abhibhāṣitam . dhik mām iti viniścitya tapaḥ karttum samārabhat .. 23.37..
संवत्सरद्वादशकं कन्दमूलफलाशनः । भूय एव द्वादशकं वायुभक्षोऽभवन्नृपः ॥ २३.३८॥
संवत्सर-द्वादशकम् कन्द-मूल-फल-अशनः । भूयस् एव द्वादशकम् वायुभक्षः अभवत् नृपः ॥ २३।३८॥
saṃvatsara-dvādaśakam kanda-mūla-phala-aśanaḥ . bhūyas eva dvādaśakam vāyubhakṣaḥ abhavat nṛpaḥ .. 23.38..
गत्वा कण्वाश्रमं भीत्या तस्मै सर्वं न्यवेदयत् । वासमप्सरसा भूयस्तपोयोगमनुत्तमम् ॥ २३.३९॥
गत्वा कण्व-आश्रमम् भीत्या तस्मै सर्वम् न्यवेदयत् । वासम् अप्सरसा भूयस् तपः-योगम् अनुत्तमम् ॥ २३।३९॥
gatvā kaṇva-āśramam bhītyā tasmai sarvam nyavedayat . vāsam apsarasā bhūyas tapaḥ-yogam anuttamam .. 23.39..
वीक्ष्य तं राजशार्दूलं प्रसन्नो भगवानृषिः । कर्त्तुकामो हि निर्बोजं तस्याघमिदमब्रवीत् ॥ २३.४॥
वीक्ष्य तम् राज-शार्दूलम् प्रसन्नः भगवान् ऋषिः । कर्त्तु-कामः हि निर्बोजम् तस्य अघम् इदम् अब्रवीत् ॥ २३।४॥
vīkṣya tam rāja-śārdūlam prasannaḥ bhagavān ṛṣiḥ . karttu-kāmaḥ hi nirbojam tasya agham idam abravīt .. 23.4..
गच्छ वाराणसीं दिव्यामीश्वराध्युषितां पुरीम् । आस्ते मोचयितुं लोकं तत्र देवो महेश्वरः ॥ २३.४१॥
गच्छ वाराणसीम् दिव्याम् ईश्वर-अध्युषिताम् पुरीम् । आस्ते मोचयितुम् लोकम् तत्र देवः महेश्वरः ॥ २३।४१॥
gaccha vārāṇasīm divyām īśvara-adhyuṣitām purīm . āste mocayitum lokam tatra devaḥ maheśvaraḥ .. 23.41..
स्नात्वा संतर्प्य विधिवद् गङ्गायांदेवताः पितॄन् । दृष्ट्वा विश्वेश्वरं लिङ्गंकिल्बिषान्मोक्ष्यसेऽखिलात् ॥ २३.४२॥
स्नात्वा संतर्प्य विधिवत् गङ्गायाम् देवताः पितॄन् । दृष्ट्वा विश्वेश्वरम् लिङ्गम् किल्बिषात् मोक्ष्यसे अखिलात् ॥ २३।४२॥
snātvā saṃtarpya vidhivat gaṅgāyām devatāḥ pitṝn . dṛṣṭvā viśveśvaram liṅgam kilbiṣāt mokṣyase akhilāt .. 23.42..
प्रणम्य शिरसा कण्वमनुज्ञाप्य च दुर्जयः । वाराणस्यां हरं दृष्ट्वा पापान्मुक्तोऽभवत् ततः ॥ २३.४३॥
प्रणम्य शिरसा कण्वम् अनुज्ञाप्य च दुर्जयः । वाराणस्याम् हरम् दृष्ट्वा पापात् मुक्तः अभवत् ततस् ॥ २३।४३॥
praṇamya śirasā kaṇvam anujñāpya ca durjayaḥ . vārāṇasyām haram dṛṣṭvā pāpāt muktaḥ abhavat tatas .. 23.43..
जगाम स्वपुरीं शुभ्रां पालयामास मेदिनीम् । याजयामास तं कण्वो याचितो घृणया मुनिः ॥ २३.४४॥
जगाम स्व-पुरीम् शुभ्राम् पालयामास मेदिनीम् । याजयामास तम् कण्वः याचितः घृणया मुनिः ॥ २३।४४॥
jagāma sva-purīm śubhrām pālayāmāsa medinīm . yājayāmāsa tam kaṇvaḥ yācitaḥ ghṛṇayā muniḥ .. 23.44..
तस्य पुत्रोऽथ मतिमान् सुप्रतीक इति श्रुतः । बभूव जातमात्रं तं राजानमुपतस्थिरे ॥ २३.४५॥
तस्य पुत्रः अथ मतिमान् सुप्रतीकः इति श्रुतः । बभूव जात-मात्रम् तम् राजानम् उपतस्थिरे ॥ २३।४५॥
tasya putraḥ atha matimān supratīkaḥ iti śrutaḥ . babhūva jāta-mātram tam rājānam upatasthire .. 23.45..
उर्वश्यां च महावीर्याः सप्त देवसुतोपमाः । कन्या जगृहिरे सर्वा गन्धर्व्यो दयिता द्विजाः ॥ २३.४६॥
उर्वश्याम् च महा-वीर्याः सप्त देव-सुत-उपमाः । कन्याः जगृहिरे सर्वाः गन्धर्व्यः दयिताः द्विजाः ॥ २३।४६॥
urvaśyām ca mahā-vīryāḥ sapta deva-suta-upamāḥ . kanyāḥ jagṛhire sarvāḥ gandharvyaḥ dayitāḥ dvijāḥ .. 23.46..
एष व कथितः सम्यक् सहस्रजित उत्तमः । वंशः पापहरो नृणां क्रोष्टोरपि निबोधत ॥ २३.४७॥
एष वः कथितः सम्यक् सहस्रजितः उत्तमः । वंशः पाप-हरः नृणाम् क्रोष्टोः अपि निबोधत ॥ २३।४७॥
eṣa vaḥ kathitaḥ samyak sahasrajitaḥ uttamaḥ . vaṃśaḥ pāpa-haraḥ nṛṇām kroṣṭoḥ api nibodhata .. 23.47..
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे त्रयोविशोऽध्यायः॥ ॥
इति श्री-कूर्मपुराणे षट्साहस्त्र्याम् संहितायाम् पूर्व-विभागे त्रयोविशः अध्यायः॥ ॥
iti śrī-kūrmapurāṇe ṣaṭsāhastryām saṃhitāyām pūrva-vibhāge trayoviśaḥ adhyāyaḥ.. ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In