| |
|

This overlay will guide you through the buttons:

सूत उवाच ।
क्रोष्टोरेकोऽभवत् पुत्रो वज्रवानिति विश्रुतः । तस्य पुत्रोऽभवतच्छान्तिः कुशिकस्तत्सुतोऽभवत् ॥ २४.१॥
क्रोष्टोः एकः अभवत् पुत्रः वज्रवान् इति विश्रुतः । तस्य पुत्रः अभवत तद्-शान्तिः कुशिकः तद्-सुतः अभवत् ॥ २४।१॥
kroṣṭoḥ ekaḥ abhavat putraḥ vajravān iti viśrutaḥ . tasya putraḥ abhavata tad-śāntiḥ kuśikaḥ tad-sutaḥ abhavat .. 24.1..
उशद्गोरभवत् पुत्रो नाम्ना चित्ररथो बली । अथ चैत्ररथिर्लोके शशबिन्दुरिति स्मृतः ॥ २४.२॥
उशद्गोः अभवत् पुत्रः नाम्ना चित्ररथः बली । अथ चैत्ररथिः लोके शशबिन्दुः इति स्मृतः ॥ २४।२॥
uśadgoḥ abhavat putraḥ nāmnā citrarathaḥ balī . atha caitrarathiḥ loke śaśabinduḥ iti smṛtaḥ .. 24.2..
तस्य पुत्रः पृथुयशा राजाऽभूद् धर्मतत्परः । पृथुकर्मा च तत्पुत्रस्तस्मात् पृथुजयोऽभवत् ॥ २४.३॥
तस्य पुत्रः पृथुयशाः राजा अभूत् धर्म-तत्परः । पृथुकर्मा च तद्-पुत्रः तस्मात् पृथुजयः अभवत् ॥ २४।३॥
tasya putraḥ pṛthuyaśāḥ rājā abhūt dharma-tatparaḥ . pṛthukarmā ca tad-putraḥ tasmāt pṛthujayaḥ abhavat .. 24.3..
पृथुकीर्तिरभूत् तस्मात् पृथुदानस्ततोऽभवत् । पृथुश्रवास्तस्य पुत्रस्तस्यासीत् पृथुसत्तमः ॥ २४.४॥
पृथुकीर्तिः अभूत् तस्मात् पृथुदानः ततस् अभवत् । पृथुश्रवाः तस्य पुत्रः तस्य आसीत् पृथुसत्तमः ॥ २४।४॥
pṛthukīrtiḥ abhūt tasmāt pṛthudānaḥ tatas abhavat . pṛthuśravāḥ tasya putraḥ tasya āsīt pṛthusattamaḥ .. 24.4..
उशनास्तस्य पुत्रोऽभूच्छतेषुस्तत्सुतोऽभवत् । तस्याभूद् रुक्मकवचः परावृतश्च तत्सुतः ॥ २४.५॥
उशनाः तस्य पुत्रः अभूत् शतेषुः तद्-सुतः अभवत् । तस्य अभूत् रुक्मकवचः परावृतः च तद्-सुतः ॥ २४।५॥
uśanāḥ tasya putraḥ abhūt śateṣuḥ tad-sutaḥ abhavat . tasya abhūt rukmakavacaḥ parāvṛtaḥ ca tad-sutaḥ .. 24.5..
परावृतः सुतो जज्ञे यामघो लोकविश्रुतः । तस्माद् विदर्भः संजज्ञे विदर्भात् क्रथकैशिकौ ॥ २४.६॥
परावृतः सुतः जज्ञे यामघः लोक-विश्रुतः । तस्मात् विदर्भः संजज्ञे विदर्भात् क्रथ-कैशिकौ ॥ २४।६॥
parāvṛtaḥ sutaḥ jajñe yāmaghaḥ loka-viśrutaḥ . tasmāt vidarbhaḥ saṃjajñe vidarbhāt kratha-kaiśikau .. 24.6..
रोमपादस्तृतीयस्तु बभ्रुस्तस्यात्मजो नृपः । धृतिस्तस्याभवत् पुत्रः संन्तस्तस्याप्यभूत् सुतः ॥ २४.७॥
रोमपादः तृतीयः तु बभ्रुः तस्य आत्मजः नृपः । धृतिः तस्य अभवत् पुत्रः संन्तः तस्य अपि अभूत् सुतः ॥ २४।७॥
romapādaḥ tṛtīyaḥ tu babhruḥ tasya ātmajaḥ nṛpaḥ . dhṛtiḥ tasya abhavat putraḥ saṃntaḥ tasya api abhūt sutaḥ .. 24.7..
संन्तस्य पुत्रो बलवान् नाम्ना विश्वसहः स्मृतः। तस्य पुत्रो महावीर्यः प्रजावान् कौशिक स्मृतः॥ २४.८॥
संन्तस्य पुत्रः बलवान् नाम्ना विश्वसहः स्मृतः। तस्य पुत्रः महा-वीर्यः प्रजावान् कौशिक स्मृतः॥ २४।८॥
saṃntasya putraḥ balavān nāmnā viśvasahaḥ smṛtaḥ. tasya putraḥ mahā-vīryaḥ prajāvān kauśika smṛtaḥ.. 24.8..
अभूत् तस्य सुतो धीमान् सुमन्तुस्तत्सुतोऽनलः । कैशिकस्य सुतश्चेदिश्चैद्यास्तस्याभवन् सुताः ॥ २४.९॥
अभूत् तस्य सुतः धीमान् सुमन्तुः तद्-सुतः अनलः । कैशिकस्य सुतः चेदिः चैद्याः तस्य अभवन् सुताः ॥ २४।९॥
abhūt tasya sutaḥ dhīmān sumantuḥ tad-sutaḥ analaḥ . kaiśikasya sutaḥ cediḥ caidyāḥ tasya abhavan sutāḥ .. 24.9..
तेषां प्रधानो द्युतिमान् वपुष्मांस्तत्सुतोऽभवत् । वपुष्मतो बृहन्मेधा श्रीदेवस्तत्सुतोऽभवत् ॥ २४.१॥
तेषाम् प्रधानः द्युतिमान् वपुष्मान् तद्-सुतः अभवत् । वपुष्मतः बृहन्मेधा श्रीदेवः तद्-सुतः अभवत् ॥ २४।१॥
teṣām pradhānaḥ dyutimān vapuṣmān tad-sutaḥ abhavat . vapuṣmataḥ bṛhanmedhā śrīdevaḥ tad-sutaḥ abhavat .. 24.1..
तस्य वीतरथो विप्रा रुद्रभक्तो महाबलः । क्रथस्याप्यभवत् कुन्ती वृष्णी तस्याभवत् सुतः ॥ २४.११॥
तस्य वीतरथः विप्राः रुद्र-भक्तः महा-बलः । क्रथस्य अपि अभवत् कुन्ती वृष्णी तस्य अभवत् सुतः ॥ २४।११॥
tasya vītarathaḥ viprāḥ rudra-bhaktaḥ mahā-balaḥ . krathasya api abhavat kuntī vṛṣṇī tasya abhavat sutaḥ .. 24.11..
तस्मान्नवरथो नाम बभुव सुमहाबलः। .कदाचिन्मृगयां यातो दृष्ट्वा राक्षसमूर्जितम् ॥ २४.१२॥
तस्मात् नवरथः नाम बभुव सु महा-बलः। ।कदाचिद् मृगयाम् यातः दृष्ट्वा राक्षसम् ऊर्जितम् ॥ २४।१२॥
tasmāt navarathaḥ nāma babhuva su mahā-balaḥ. .kadācid mṛgayām yātaḥ dṛṣṭvā rākṣasam ūrjitam .. 24.12..
दुद्राव महातविष्टो भयेन मुनिपुंगवाः । अन्वधावत संक्रुद्धो राक्षसस्तं महाबलः॥ २४.१३॥
दुद्राव महा-तविष्टः भयेन मुनि-पुंगवाः । अन्वधावत संक्रुद्धः राक्षसः तम् महा-बलः॥ २४।१३॥
dudrāva mahā-taviṣṭaḥ bhayena muni-puṃgavāḥ . anvadhāvata saṃkruddhaḥ rākṣasaḥ tam mahā-balaḥ.. 24.13..
दुर्योधनोऽग्निसंकाशः शूलासक्तमहाकरः । राजा नवरथो भीत्या नातिदूरादवस्थितम् ॥ २४.१४॥
दुर्योधनः अग्नि-संकाशः शूल-आसक्त-महा-करः । राजा नवरथः भीत्या न अति दूरात् अवस्थितम् ॥ २४।१४॥
duryodhanaḥ agni-saṃkāśaḥ śūla-āsakta-mahā-karaḥ . rājā navarathaḥ bhītyā na ati dūrāt avasthitam .. 24.14..
अपश्यत् परमं स्थानं सरस्वत्या सुगोपितम् । स तद्वेगेन महता संप्राप्य मतिमान् नृपः॥ २४.१५॥
अपश्यत् परमम् स्थानम् सरस्वत्या सु गोपितम् । स तत् वेगेन महता संप्राप्य मतिमान् नृपः॥ २४।१५॥
apaśyat paramam sthānam sarasvatyā su gopitam . sa tat vegena mahatā saṃprāpya matimān nṛpaḥ.. 24.15..
ववन्दे शिरसा दृष्ट्वा साक्षाद् देवीं सरस्वतीम् । तुष्टाव वाग्भिरिष्टाभिर्बद्धाञ्जलिरमित्रजित् ॥ २४.१६॥
ववन्दे शिरसा दृष्ट्वा साक्षात् देवीम् सरस्वतीम् । तुष्टाव वाग्भिः इष्टाभिः बद्धाञ्जलिः अमित्र-जित् ॥ २४।१६॥
vavande śirasā dṛṣṭvā sākṣāt devīm sarasvatīm . tuṣṭāva vāgbhiḥ iṣṭābhiḥ baddhāñjaliḥ amitra-jit .. 24.16..
पपात दण्डवद् भूमौ त्वामहं शरणं गतः । नमस्यामि महादेवीं साक्षाद् देवीं सरस्वतीम् ।॥ २४.१७॥
पपात दण्ड-वत् भूमौ त्वाम् अहम् शरणम् गतः । नमस्यामि महादेवीम् साक्षात् देवीम् सरस्वतीम् ।॥ २४।१७॥
papāta daṇḍa-vat bhūmau tvām aham śaraṇam gataḥ . namasyāmi mahādevīm sākṣāt devīm sarasvatīm ... 24.17..
वाग्देवतामनाद्यन्तामीश्वरीं ब्रह्मचारिणीम् । नमस्ये जगतां योनिं योगिनीं परमां कलाम् । ॥ २४.१८॥
वाग्देवताम् अनाद्यन्ताम् ईश्वरीम् ब्रह्मचारिणीम् । नमस्ये जगताम् योनिम् योगिनीम् परमाम् कलाम् । ॥ २४।१८॥
vāgdevatām anādyantām īśvarīm brahmacāriṇīm . namasye jagatām yonim yoginīm paramām kalām . .. 24.18..
हिरण्यगर्भमहिषीं त्रिनेत्रां चन्द्रशेखराम् । नमस्ये परमानन्दां चित्कलां ब्रह्मरूपिणीम् । ॥ २४.१९॥
हिरण्यगर्भ-महिषीम् त्रि-नेत्राम् चन्द्र-शेखराम् । नमस्ये परम-आनन्दाम् चित्-कलाम् ब्रह्म-रूपिणीम् । ॥ २४।१९॥
hiraṇyagarbha-mahiṣīm tri-netrām candra-śekharām . namasye parama-ānandām cit-kalām brahma-rūpiṇīm . .. 24.19..
पाहि मां परमेशानि भीतं शरणमागतम् । एतस्मिन्नन्तरे क्रुद्धो राजानं राक्षसेश्वरः ।॥ २४.२॥
पाहि माम् परमेशानि भीतम् शरणम् आगतम् । एतस्मिन् अन्तरे क्रुद्धः राजानम् राक्षसेश्वरः ।॥ २४।२॥
pāhi mām parameśāni bhītam śaraṇam āgatam . etasmin antare kruddhaḥ rājānam rākṣaseśvaraḥ ... 24.2..
हन्तुं समागतः स्थानं यत्र देवी सरस्वती । समुद्यम्य तदा शूलं प्रवेष्टुं बलदर्पितः ॥ २४.२१॥
हन्तुम् समागतः स्थानम् यत्र देवी सरस्वती । समुद्यम्य तदा शूलम् प्रवेष्टुम् बल-दर्पितः ॥ २४।२१॥
hantum samāgataḥ sthānam yatra devī sarasvatī . samudyamya tadā śūlam praveṣṭum bala-darpitaḥ .. 24.21..
त्रिलोकमातुस्तत्स्थानं शशाङ्कादित्यसंन्निभम् । तदन्तरे महद्भूतं युगान्तादित्यसन्निभम् ।॥ २४.२२॥
त्रिलोक-मातुः तत् स्थानम् शशाङ्क-आदित्य-संन्निभम् । तद्-अन्तरे महत् भूतम् युग-अन्त-आदित्य-सन्निभम् ।॥ २४।२२॥
triloka-mātuḥ tat sthānam śaśāṅka-āditya-saṃnnibham . tad-antare mahat bhūtam yuga-anta-āditya-sannibham ... 24.22..
शूलेनोरसि निर्भिद्य पातयामास तं भुवि । गच्छेत्याह महाराज न स्थातव्यं त्वया पुनः ॥ २४.२३॥
शूलेन उरसि निर्भिद्य पातयामास तम् भुवि । गच्छ इति आह महा-राज न स्थातव्यम् त्वया पुनर् ॥ २४।२३॥
śūlena urasi nirbhidya pātayāmāsa tam bhuvi . gaccha iti āha mahā-rāja na sthātavyam tvayā punar .. 24.23..
इदानीं निर्भयस्तूर्णं स्थानेऽस्मिन् राक्षसो हतः । ततः प्रणम्य हृष्टात्मा राजा नवरथः पराम् ॥ २४.२४॥
इदानीम् निर्भयः तूर्णम् स्थाने अस्मिन् राक्षसः हतः । ततस् प्रणम्य हृष्ट-आत्मा राजा नवरथः पराम् ॥ २४।२४॥
idānīm nirbhayaḥ tūrṇam sthāne asmin rākṣasaḥ hataḥ . tatas praṇamya hṛṣṭa-ātmā rājā navarathaḥ parām .. 24.24..
पुरीं जगाम विप्रेन्द्राः पुरंदरपुरोपमाम् । स्थापयामास देवेशीं तत्र भक्तिसमन्वितः ॥ २४.२५॥
पुरीम् जगाम विप्र-इन्द्राः पुरंदर-पुर-उपमाम् । स्थापयामास देवेशीम् तत्र भक्ति-समन्वितः ॥ २४।२५॥
purīm jagāma vipra-indrāḥ puraṃdara-pura-upamām . sthāpayāmāsa deveśīm tatra bhakti-samanvitaḥ .. 24.25..
ईजे च विविधैर्यज्ञैर्होमैर्देवीं सरस्वतीम् । तस्य चासीद् दशरथः पुत्रः परमधार्मिकः॥ २४.२६॥
ईजे च विविधैः यज्ञैः होमैः देवीम् सरस्वतीम् । तस्य च आसीत् दशरथः पुत्रः परम-धार्मिकः॥ २४।२६॥
īje ca vividhaiḥ yajñaiḥ homaiḥ devīm sarasvatīm . tasya ca āsīt daśarathaḥ putraḥ parama-dhārmikaḥ.. 24.26..
देव्या भक्तो महातेजाः शकुनिस्तस्य चात्मजः । तस्मात् करम्भः संभूतो देवरातोऽभवत् ततः ।॥ २४.२७॥
देव्याः भक्तः महा-तेजाः शकुनिः तस्य च आत्मजः । तस्मात् करम्भः संभूतः देवरातः अभवत् ततस् ।॥ २४।२७॥
devyāḥ bhaktaḥ mahā-tejāḥ śakuniḥ tasya ca ātmajaḥ . tasmāt karambhaḥ saṃbhūtaḥ devarātaḥ abhavat tatas ... 24.27..
ईजे स चाश्वमेधेन देवक्षत्रश्च तत्सुतः । मधुस्तस्य तु दायादस्तस्मात् कुरुवशोऽभवत् ॥ २४.२८॥
ईजे स च अश्वमेधेन देवक्षत्रः च तद्-सुतः । मधुः तस्य तु दायादः तस्मात् कुरुवशः अभवत् ॥ २४।२८॥
īje sa ca aśvamedhena devakṣatraḥ ca tad-sutaḥ . madhuḥ tasya tu dāyādaḥ tasmāt kuruvaśaḥ abhavat .. 24.28..
पुत्रद्वयमभूत् तस्य सुत्रामा चानुरेव च । अनोस्तु पुरुकुत्सोऽभूदंशुस्तस्य च रिक्थभाक्॥ २४.२९॥
पुत्र-द्वयम् अभूत् तस्य सुत्रामा च अनुः एव च । अनोः तु पुरुकुत्सः अभूत् अंशुः तस्य च रिक्थ-भाज्॥ २४।२९॥
putra-dvayam abhūt tasya sutrāmā ca anuḥ eva ca . anoḥ tu purukutsaḥ abhūt aṃśuḥ tasya ca riktha-bhāj.. 24.29..
अथांशोःरन्धको नाम विष्णुभक्तः प्रतापवान् । महात्मा दाननिरतो धनुर्वेदविदां वरः ॥ २४.३॥
अथ अंशोः रन्धकः नाम विष्णु-भक्तः प्रतापवान् । महात्मा दान-निरतः धनुर्वेद-विदाम् वरः ॥ २४।३॥
atha aṃśoḥ randhakaḥ nāma viṣṇu-bhaktaḥ pratāpavān . mahātmā dāna-nirataḥ dhanurveda-vidām varaḥ .. 24.3..
स नारदस्य वचनाद् वासुदेवार्चने रतः । शास्त्रं प्रवर्तयामास कुण्डगोलादिभिः श्रुतम् ॥ २४.३१॥
स नारदस्य वचनात् वासुदेव-अर्चने रतः । शास्त्रम् प्रवर्तयामास कुण्ड-गोल-आदिभिः श्रुतम् ॥ २४।३१॥
sa nāradasya vacanāt vāsudeva-arcane rataḥ . śāstram pravartayāmāsa kuṇḍa-gola-ādibhiḥ śrutam .. 24.31..
तस्य नाम्ना तु विख्यातं सात्त्वतं नाम शोभनम् । प्रवर्तते महाशास्त्रं कुण्डादीनां हितावहम् ॥ २४.३२॥
तस्य नाम्ना तु विख्यातम् सात्त्वतम् नाम शोभनम् । प्रवर्तते महा-शास्त्रम् कुण्ड-आदीनाम् हित-आवहम् ॥ २४।३२॥
tasya nāmnā tu vikhyātam sāttvatam nāma śobhanam . pravartate mahā-śāstram kuṇḍa-ādīnām hita-āvaham .. 24.32..
सात्त्वतस्तस्य पुत्रोऽभूत् सर्वशास्त्रविशारदः । पुण्यश्लोको महाराजस्तेन वै तत्प्रवर्तितम् ॥ २४.३३॥
सात्त्वतः तस्य पुत्रः अभूत् सर्व-शास्त्र-विशारदः । पुण्यश्लोकः महा-राजः तेन वै तत् प्रवर्तितम् ॥ २४।३३॥
sāttvataḥ tasya putraḥ abhūt sarva-śāstra-viśāradaḥ . puṇyaślokaḥ mahā-rājaḥ tena vai tat pravartitam .. 24.33..
सात्त्वतः सत्त्वसंपन्नः कौशल्यां सुषुवे सुतान् । अन्धकं वै महाभोजं वृष्णिं देवावृधं नृपम् ॥ २४.३४॥
सात्त्वतः सत्त्व-संपन्नः कौशल्याम् सुषुवे सुतान् । अन्धकम् वै महाभोजम् वृष्णिम् देवावृधम् नृपम् ॥ २४।३४॥
sāttvataḥ sattva-saṃpannaḥ kauśalyām suṣuve sutān . andhakam vai mahābhojam vṛṣṇim devāvṛdham nṛpam .. 24.34..
ज्येष्ठं च भजमानाख्यं धनुर्वेदविदां वरम् । तेषां देवावृधो राजा चचार परमं तपः ॥ २४.३५॥
ज्येष्ठम् च भजमान-आख्यम् धनुर्वेद-विदाम् वरम् । तेषाम् देवावृधः राजा चचार परमम् तपः ॥ २४।३५॥
jyeṣṭham ca bhajamāna-ākhyam dhanurveda-vidām varam . teṣām devāvṛdhaḥ rājā cacāra paramam tapaḥ .. 24.35..
पुत्रः सर्वगुणोपेतो मम भूयादिति प्रभुः । तस्य बभ्रुरिति ख्यातः पुण्यश्लोकोऽभवन्नृपः ॥ २४.३६॥
पुत्रः सर्व-गुण-उपेतः मम भूयात् इति प्रभुः । तस्य बभ्रुः इति ख्यातः पुण्य-श्लोकः अभवत् नृपः ॥ २४।३६॥
putraḥ sarva-guṇa-upetaḥ mama bhūyāt iti prabhuḥ . tasya babhruḥ iti khyātaḥ puṇya-ślokaḥ abhavat nṛpaḥ .. 24.36..
धार्मिको रूपसंपन्नस्तत्त्वज्ञानरतः सदा । भजमानस्य मृञ्जय्यां भजमानाद्विजज्ञिरे ॥ २४.३७॥
धार्मिकः रूप-संपन्नः तत्त्व-ज्ञान-रतः सदा । भजमानस्य मृञ्जय्याम् भजमानात् विजज्ञिरे ॥ २४।३७॥
dhārmikaḥ rūpa-saṃpannaḥ tattva-jñāna-rataḥ sadā . bhajamānasya mṛñjayyām bhajamānāt vijajñire .. 24.37..
तेषां प्रधानौ विख्यातौ निमिः कृकण एव च । महाभोजकुले जाता भोजा वैमातृकास्तथा ॥ २४.३८॥
तेषाम् प्रधानौ विख्यातौ निमिः कृकणः एव च । महाभोज-कुले जाताः भोजाः वैमातृकाः तथा ॥ २४।३८॥
teṣām pradhānau vikhyātau nimiḥ kṛkaṇaḥ eva ca . mahābhoja-kule jātāḥ bhojāḥ vaimātṛkāḥ tathā .. 24.38..
वृष्णेः सुमित्रो बलवाननमित्रस्तिमिस्तथा । अनमित्रादभून्निघ्नो निघ्नस्य द्वौ बभूवतुः ॥ २४.३९॥
वृष्णेः सुमित्रः बलवान् अनमित्रः तिमिः तथा । अनमित्रात् अभूत् निघ्नः निघ्नस्य द्वौ बभूवतुः ॥ २४।३९॥
vṛṣṇeḥ sumitraḥ balavān anamitraḥ timiḥ tathā . anamitrāt abhūt nighnaḥ nighnasya dvau babhūvatuḥ .. 24.39..
प्रसेनस्तु महाभागः सत्राजिन्नाम चोत्तमः । अनमित्राच्छिनिर्जज्ञे कनिष्ठाद् वृष्णिनन्दनात्॥ २४.४॥
प्रसेनः तु महाभागः सत्राजित् नाम च उत्तमः । अनमित्रात् शिनिः जज्ञे कनिष्ठात् वृष्णि-नन्दनात्॥ २४।४॥
prasenaḥ tu mahābhāgaḥ satrājit nāma ca uttamaḥ . anamitrāt śiniḥ jajñe kaniṣṭhāt vṛṣṇi-nandanāt.. 24.4..
सत्यवान् सत्यसंपन्नः सत्यकस्तत्सुतोऽभवत् । सात्यकिर्युयुधानस्तु तस्यासङ्गोऽभवत् सुतः॥ २४.४१॥
सत्यवान् सत्य-संपन्नः सत्यकः तद्-सुतः अभवत् । सात्यकिः युयुधानः तु तस्य असङ्गः अभवत् सुतः॥ २४।४१॥
satyavān satya-saṃpannaḥ satyakaḥ tad-sutaḥ abhavat . sātyakiḥ yuyudhānaḥ tu tasya asaṅgaḥ abhavat sutaḥ.. 24.41..
कुणिस्तस्य सुतो धीमांस्तस्य पुत्रो युगंधरः । माद्र्या वृष्णेः सुतो जज्ञे वृष्णेर्वै यदुनन्दनः ॥ २४.४२॥
कुणिः तस्य सुतः धीमान् तस्य पुत्रः युगंधरः । माद्र्याः वृष्णेः सुतः जज्ञे वृष्णेः वै यदु-नन्दनः ॥ २४।४२॥
kuṇiḥ tasya sutaḥ dhīmān tasya putraḥ yugaṃdharaḥ . mādryāḥ vṛṣṇeḥ sutaḥ jajñe vṛṣṇeḥ vai yadu-nandanaḥ .. 24.42..
जज्ञाते तनयौ पृश्नेः श्वफल्कश्चित्रकश्च हि । श्वफल्कः काशिराजस्यसुतां भार्यामविन्दत॥ २४.४३॥
जज्ञाते तनयौ पृश्नेः श्वफल्कः चित्रकः च हि । श्वफल्कः काशि-राजस्य असुताम् भार्याम् अविन्दत॥ २४।४३॥
jajñāte tanayau pṛśneḥ śvaphalkaḥ citrakaḥ ca hi . śvaphalkaḥ kāśi-rājasya asutām bhāryām avindata.. 24.43..
तस्यामजनयत् पुत्रमक्रूरं नाम धार्मिकम् । उपमङ्गुस्तथा मङ्गुरन्ये च बहवः सुताः ॥ २४.४४॥
तस्याम् अजनयत् पुत्रम् अक्रूरम् नाम धार्मिकम् । उपमङ्गुः तथा मङ्गुः अन्ये च बहवः सुताः ॥ २४।४४॥
tasyām ajanayat putram akrūram nāma dhārmikam . upamaṅguḥ tathā maṅguḥ anye ca bahavaḥ sutāḥ .. 24.44..
अक्रूरस्य स्मृतः पुत्रो देववानिति विश्रुतः । उपदेवश्च पुण्यात्मा तयोर्विश्वप्रमाथिनौ ॥ २४.४५॥
अक्रूरस्य स्मृतः पुत्रः देववान् इति विश्रुतः । उपदेवः च पुण्य-आत्मा तयोः विश्व-प्रमाथिनौ ॥ २४।४५॥
akrūrasya smṛtaḥ putraḥ devavān iti viśrutaḥ . upadevaḥ ca puṇya-ātmā tayoḥ viśva-pramāthinau .. 24.45..
चित्रकस्याभवत् पुत्रः पृथुर्विपृथुरेव च । अश्वग्रीवः सुबाहुश्च सुपार्श्वकगवेषणौ ॥ २४.४६॥
चित्रकस्य अभवत् पुत्रः पृथुः विपृथुः एव च । अश्वग्रीवः सुबाहुः च सुपार्श्वक-गवेषणौ ॥ २४।४६॥
citrakasya abhavat putraḥ pṛthuḥ vipṛthuḥ eva ca . aśvagrīvaḥ subāhuḥ ca supārśvaka-gaveṣaṇau .. 24.46..
अन्धकात् कास्यदुहिता लेभे च चतुरः सुतान् । कुकुरं भजमानं च शमीकं बलगर्वितम्॥ २४.४७॥
अन्धकात् का अस्य दुहिता लेभे च चतुरः सुतान् । कुकुरम् भजमानम् च शमीकम् बल-गर्वितम्॥ २४।४७॥
andhakāt kā asya duhitā lebhe ca caturaḥ sutān . kukuram bhajamānam ca śamīkam bala-garvitam.. 24.47..
कुकुरस्य सुतो वृष्णिर्वृष्णेस्तु तनयोऽभवत् । कपोतरोमा विपुलस्तस्य पुत्रो विलोमकः ॥ २४.४८॥
कुकुरस्य सुतः वृष्णिः वृष्णेः तु तनयः अभवत् । कपोतरोमा विपुलः तस्य पुत्रः विलोमकः ॥ २४।४८॥
kukurasya sutaḥ vṛṣṇiḥ vṛṣṇeḥ tu tanayaḥ abhavat . kapotaromā vipulaḥ tasya putraḥ vilomakaḥ .. 24.48..
तस्यासीत् तुम्बुरुसखा विद्वान् पुत्रस्तलः किल । स्थीयते तस्यनाम्नातु तयोरानकदुन्दुभिः ॥ २४.४९॥
तस्य आसीत् तुम्बुरुसखा विद्वान् पुत्रः तलः किल । स्थीयते तयोः आनकदुन्दुभिः ॥ २४।४९॥
tasya āsīt tumburusakhā vidvān putraḥ talaḥ kila . sthīyate tayoḥ ānakadundubhiḥ .. 24.49..
स गोवर्धनमासाद्य तताप विपुलं तपः । वरं तस्मै ददौ देवो ब्रह्मा लोकमहेश्वरः ॥ २४.५॥
स गोवर्धनम् आसाद्य तताप विपुलम् तपः । वरम् तस्मै ददौ देवः ब्रह्मा लोक-महेश्वरः ॥ २४।५॥
sa govardhanam āsādya tatāpa vipulam tapaḥ . varam tasmai dadau devaḥ brahmā loka-maheśvaraḥ .. 24.5..
वंशस्य चाक्षयां कीर्ति ज्ञानयोगमनुत्तमम् । गुरोरप्यधिकं विप्राः कामरूपित्वमेव च ॥ २४.५१॥
वंशस्य च अक्षयाम् कीर्ति ज्ञान-योगम् अनुत्तमम् । गुरोः अपि अधिकम् विप्राः कामरूपि-त्वम् एव च ॥ २४।५१॥
vaṃśasya ca akṣayām kīrti jñāna-yogam anuttamam . guroḥ api adhikam viprāḥ kāmarūpi-tvam eva ca .. 24.51..
स लब्ध्वा वरमव्यग्रो वरेण्यं वृषवाहनम् । पूजयामास गानेन स्थाणुं त्रिदशपूजितम् ॥ २४.५२॥
स लब्ध्वा वरम् अव्यग्रः वरेण्यम् वृषवाहनम् । पूजयामास गानेन स्थाणुम् त्रिदश-पूजितम् ॥ २४।५२॥
sa labdhvā varam avyagraḥ vareṇyam vṛṣavāhanam . pūjayāmāsa gānena sthāṇum tridaśa-pūjitam .. 24.52..
तस्य गानरतस्याथ भगवानम्बिकापतिः । कन्यारत्नं ददौ देवो दुर्लभं त्रिदशैरपि ॥ २४.५३॥
तस्य गान-रतस्य अथ भगवान् अम्बिकापतिः । कन्या-रत्नम् ददौ देवः दुर्लभम् त्रिदशैः अपि ॥ २४।५३॥
tasya gāna-ratasya atha bhagavān ambikāpatiḥ . kanyā-ratnam dadau devaḥ durlabham tridaśaiḥ api .. 24.53..
तया स सङ्गतो राजा गानयोगमनुत्तमम् । अशिक्षयदमित्रघ्नः प्रियां तां भ्रान्तलोचनाम् ॥ २४.५४॥
तया स सङ्गतः राजा गान-योगम् अनुत्तमम् । अशिक्षयत् अमित्र-घ्नः प्रियाम् ताम् भ्रान्त-लोचनाम् ॥ २४।५४॥
tayā sa saṅgataḥ rājā gāna-yogam anuttamam . aśikṣayat amitra-ghnaḥ priyām tām bhrānta-locanām .. 24.54..
तस्यामुत्पादयामास सुभुजं नाम शोभनम् । रूपलावण्यसंपन्नां ह्रीमतीमपि कन्यकाम् ॥ २४.५५॥
तस्याम् उत्पादयामास सुभुजम् नाम शोभनम् । रूप-लावण्य-संपन्नाम् ह्रीमतीम् अपि कन्यकाम् ॥ २४।५५॥
tasyām utpādayāmāsa subhujam nāma śobhanam . rūpa-lāvaṇya-saṃpannām hrīmatīm api kanyakām .. 24.55..
ततस्तं जननी पुत्रं बाल्ये वयसि शोभनम् । शिक्षयामास विधिवद् गानविद्यां च कन्यकाम् ॥ २४.५६॥
ततस् तम् जननी पुत्रम् बाल्ये वयसि शोभनम् । शिक्षयामास विधिवत् गान-विद्याम् च कन्यकाम् ॥ २४।५६॥
tatas tam jananī putram bālye vayasi śobhanam . śikṣayāmāsa vidhivat gāna-vidyām ca kanyakām .. 24.56..
कृतोपनयनो वेदानधीत्य विधिवद् गुरोः । उद्ववाहात्मजां कन्यां गन्धर्वाणां तु मानसीम् ॥ २४.५७॥
कृत-उपनयनः वेदान् अधीत्य विधिवत् गुरोः । उद्ववाह आत्मजाम् कन्याम् गन्धर्वाणाम् तु मानसीम् ॥ २४।५७॥
kṛta-upanayanaḥ vedān adhītya vidhivat guroḥ . udvavāha ātmajām kanyām gandharvāṇām tu mānasīm .. 24.57..
तस्यामुत्पादयामास पञ्च पुत्राननुत्तमान् । वीणावादनतत्त्वज्ञान् गानशास्त्रविशारदान् ॥ २४.५८॥
तस्याम् उत्पादयामास पञ्च पुत्रान् अनुत्तमान् । वीणा-वादन-तत्त्व-ज्ञान् गान-शास्त्र-विशारदान् ॥ २४।५८॥
tasyām utpādayāmāsa pañca putrān anuttamān . vīṇā-vādana-tattva-jñān gāna-śāstra-viśāradān .. 24.58..
पुत्रैः पौत्रैः सपत्नीको राजा गानविशारदः । पूजयामास गानेन देवं त्रिपुरनाशनम् ॥ २४.५९॥
पुत्रैः पौत्रैः स पत्नीकः राजा गान-विशारदः । पूजयामास गानेन देवम् त्रिपुर-नाशनम् ॥ २४।५९॥
putraiḥ pautraiḥ sa patnīkaḥ rājā gāna-viśāradaḥ . pūjayāmāsa gānena devam tripura-nāśanam .. 24.59..
ह्रीमती चापि या कन्या श्रीरिवायतलोचना । सुबाहुर्नाम गन्धर्वस्तामादाय ययौ पुरीम् ॥ २४.६॥
ह्रीमती च अपि या कन्या श्रीः इव आयत-लोचना । सुबाहुः नाम गन्धर्वः ताम् आदाय ययौ पुरीम् ॥ २४।६॥
hrīmatī ca api yā kanyā śrīḥ iva āyata-locanā . subāhuḥ nāma gandharvaḥ tām ādāya yayau purīm .. 24.6..
तस्यामप्यभवन् पुत्रा गन्धर्वस्य सुतेजसः । सुषेणधीरसुग्रीवसुभोजनरवाहनाः ॥ २४.६१॥
तस्याम् अपि अभवन् पुत्राः गन्धर्वस्य सु तेजसः । सुषेण-धीर-सुग्रीव-सुभोज-नरवाहनाः ॥ २४।६१॥
tasyām api abhavan putrāḥ gandharvasya su tejasaḥ . suṣeṇa-dhīra-sugrīva-subhoja-naravāhanāḥ .. 24.61..
अथासीदभिजित् पुत्रो वीरस्त्वानकदुन्दुभेः । पुनर्वसुश्चाभिजितः संबभूवाहुकस्ततः ॥ २४.६२॥
अथ आसीत् अभिजित् पुत्रः वीरः तु आनकदुन्दुभेः । पुनर्वसुः च अभिजितः संबभूव आहुकः ततस् ॥ २४।६२॥
atha āsīt abhijit putraḥ vīraḥ tu ānakadundubheḥ . punarvasuḥ ca abhijitaḥ saṃbabhūva āhukaḥ tatas .. 24.62..
आहुकस्योग्रसेनश्च देवकश्च द्विजोत्तमाः । देवकस्य सुता वीरा जज्ञिरे त्रिदशोपमाः ॥ २४.६३॥
आहुकस्य उग्रसेनः च देवकः च द्विजोत्तमाः । देवकस्य सुताः वीराः जज्ञिरे त्रिदश-उपमाः ॥ २४।६३॥
āhukasya ugrasenaḥ ca devakaḥ ca dvijottamāḥ . devakasya sutāḥ vīrāḥ jajñire tridaśa-upamāḥ .. 24.63..
देववानुपदेवश्च सुदेवो देवरक्षितः । तेषां स्वसारः सप्तासन् वसुदेवाय ता ददौ ॥ २४.६४॥
देववान् उपदेवः च सुदेवः देवरक्षितः । तेषाम् स्वसारः सप्ता आसन् वसुदेवाय ताः ददौ ॥ २४।६४॥
devavān upadevaḥ ca sudevaḥ devarakṣitaḥ . teṣām svasāraḥ saptā āsan vasudevāya tāḥ dadau .. 24.64..
वृकदेवोपदेवा च तथान्या देवरक्षिता । श्रीदेवा शान्तिदेवा च सहदेवा च सुव्रता ॥ २४.६५॥
वृकदेवा उपदेवा च तथा अन्या देवरक्षिता । श्रीदेवा शान्तिदेवा च सहदेवा च सुव्रता ॥ २४।६५॥
vṛkadevā upadevā ca tathā anyā devarakṣitā . śrīdevā śāntidevā ca sahadevā ca suvratā .. 24.65..
देवकी चापि तासां तु वरिष्ठाऽभूत् सुमध्यमा । उग्रसेनस्य पुत्रोऽभून्न्यग्रोधः कंस एव च ॥ २४.६६॥
देवकी च अपि तासाम् तु वरिष्ठा अभूत् सुमध्यमा । उग्रसेनस्य पुत्रः अभूत् न्यग्रोधः कंसः एव च ॥ २४।६६॥
devakī ca api tāsām tu variṣṭhā abhūt sumadhyamā . ugrasenasya putraḥ abhūt nyagrodhaḥ kaṃsaḥ eva ca .. 24.66..
सुभूमी राष्ट्रपालश्च तुष्टिमाञ्छङ्कुरेव च । भजमानादबूत् पुत्रः प्रख्यातोऽसौ विदूरथः॥ २४.६७॥
सुभूमिः राष्ट्रपालः च तुष्टिमान् शङ्कुः एव च । भजमानात् अबूत् पुत्रः प्रख्यातः असौ विदूरथः॥ २४।६७॥
subhūmiḥ rāṣṭrapālaḥ ca tuṣṭimān śaṅkuḥ eva ca . bhajamānāt abūt putraḥ prakhyātaḥ asau vidūrathaḥ.. 24.67..
तस्य सूरसमस्तस्मात् प्रतिक्षत्रस्ततोऽभवत् । स्वयंभोजस्ततस्तस्माद् हृदिकः शत्रुतापनः ॥ २४.६८॥
तस्य सूरसमः तस्मात् प्रतिक्षत्रः ततस् अभवत् । स्वयंभोजः ततस् तस्मात् हृदिकः शत्रु-तापनः ॥ २४।६८॥
tasya sūrasamaḥ tasmāt pratikṣatraḥ tatas abhavat . svayaṃbhojaḥ tatas tasmāt hṛdikaḥ śatru-tāpanaḥ .. 24.68..
कृतवर्माऽथ तत्पुत्रो देवलस्तत्सुतः स्मृतः । स शूरस्तत्सुतो धीमान् वसुदेवोऽथ तत्सुतः ॥ २४.६९॥
कृतवर्मा अथ तद्-पुत्रः देवलः तद्-सुतः स्मृतः । स शूरः तद्-सुतः धीमान् वसुदेवः अथ तद्-सुतः ॥ २४।६९॥
kṛtavarmā atha tad-putraḥ devalaḥ tad-sutaḥ smṛtaḥ . sa śūraḥ tad-sutaḥ dhīmān vasudevaḥ atha tad-sutaḥ .. 24.69..
वसुदेवावन्महाबाहुर्वासुदेवो जगद्गुरुः । बभूव देवकीपुत्रो देवैरभ्यर्थितो हरिः ॥ २४.७॥
वसुदेवा-वत् महा-बाहुः वासुदेवः जगद्गुरुः । बभूव देवकीपुत्रः देवैः अभ्यर्थितः हरिः ॥ २४।७॥
vasudevā-vat mahā-bāhuḥ vāsudevaḥ jagadguruḥ . babhūva devakīputraḥ devaiḥ abhyarthitaḥ hariḥ .. 24.7..
रोहिणी च महाभागा वसुदेवस्य शोभना । असूत पत्नी संकर्षं रामं ज्येष्ठं हलायुधम् ॥ २४.७१॥
रोहिणी च महाभागा वसुदेवस्य शोभना । असूत पत्नी संकर्षम् रामम् ज्येष्ठम् हलायुधम् ॥ २४।७१॥
rohiṇī ca mahābhāgā vasudevasya śobhanā . asūta patnī saṃkarṣam rāmam jyeṣṭham halāyudham .. 24.71..
स एव परमात्माऽसौ वासुदेवो जगन्मयः । हलायुधः स्वयं साक्षाच्छेषः संकर्षणः प्रभुः ॥ २४.७२॥
सः एव परमात्मा असौ वासुदेवः जगत्-मयः । हलायुधः स्वयम् साक्षात् शेषः संकर्षणः प्रभुः ॥ २४।७२॥
saḥ eva paramātmā asau vāsudevaḥ jagat-mayaḥ . halāyudhaḥ svayam sākṣāt śeṣaḥ saṃkarṣaṇaḥ prabhuḥ .. 24.72..
भृगुशापच्छलेनैव मानयन् मानुषीं तनुम् । बभूत तस्यां देवक्यां रोहिण्यामपि माधवः ॥ २४.७३॥
भृगु-शाप-छलेन एव मानयन् मानुषीम् तनुम् । बभूत तस्याम् देवक्याम् रोहिण्याम् अपि माधवः ॥ २४।७३॥
bhṛgu-śāpa-chalena eva mānayan mānuṣīm tanum . babhūta tasyām devakyām rohiṇyām api mādhavaḥ .. 24.73..
उमादेहसमुद्भूता योगनिद्रा च कौशीकी । नियोगाद् वासुदेवस्य यशोदातनया ह्यभूत् ॥ २४.७४॥
उमा-देह-समुद्भूता योग-निद्रा च कौशीकी । नियोगात् वासुदेवस्य यशोदा-तनया हि अभूत् ॥ २४।७४॥
umā-deha-samudbhūtā yoga-nidrā ca kauśīkī . niyogāt vāsudevasya yaśodā-tanayā hi abhūt .. 24.74..
ये चान्ये वसुदेवस्य वासुदेवाग्रजाः सुताः । प्रागेव कंसस्तान् सर्वान् जघान मुनिपुंगवाः ॥ २४.७५॥
ये च अन्ये वसुदेवस्य वासुदेव-अग्रजाः सुताः । प्राक् एव कंसः तान् सर्वान् जघान मुनि-पुंगवाः ॥ २४।७५॥
ye ca anye vasudevasya vāsudeva-agrajāḥ sutāḥ . prāk eva kaṃsaḥ tān sarvān jaghāna muni-puṃgavāḥ .. 24.75..
सुषेणश्च तथोदायी भद्रसेनो महाबलः । ऋजुदासो भद्रदासः कीर्तिमानपि पूर्वजः ॥ २४.७६॥
सुषेणः च तथा उदायी भद्रसेनः महा-बलः । ऋजुदासः भद्रदासः कीर्तिमान् अपि पूर्वजः ॥ २४।७६॥
suṣeṇaḥ ca tathā udāyī bhadrasenaḥ mahā-balaḥ . ṛjudāsaḥ bhadradāsaḥ kīrtimān api pūrvajaḥ .. 24.76..
हतेष्वेतेषु सर्वेषु रोहिणी वसुदेवतः । असूत रामं लोकेशं बलभद्रं हलायुधम् ॥ २४.७७॥
हतेषु एतेषु सर्वेषु रोहिणी वसुदेवतः । असूत रामम् लोक-ईशम् बलभद्रम् हलायुधम् ॥ २४।७७॥
hateṣu eteṣu sarveṣu rohiṇī vasudevataḥ . asūta rāmam loka-īśam balabhadram halāyudham .. 24.77..
जातेऽथ रामे देवानामादिमात्मानमच्युतम् । असूत देवकी कृष्णं श्रीवत्साङ्कितवक्षसम् ॥ २४.७८॥
जाते अथ रामे देवानाम् आदिम् आत्मानम् अच्युतम् । असूत देवकी कृष्णम् श्रीवत्स-अङ्कित-वक्षसम् ॥ २४।७८॥
jāte atha rāme devānām ādim ātmānam acyutam . asūta devakī kṛṣṇam śrīvatsa-aṅkita-vakṣasam .. 24.78..
रेवती नाम रामस्य भार्यासीत् सुगुणान्विता । तस्यामुत्पादयामास पुत्रौ द्वौ निशितोल्मुकौ ॥ २४.७९॥
रेवती नाम रामस्य भार्या आसीत् सु गुण-अन्विता । तस्याम् उत्पादयामास पुत्रौ द्वौ निशित-उल्मुकौ ॥ २४।७९॥
revatī nāma rāmasya bhāryā āsīt su guṇa-anvitā . tasyām utpādayāmāsa putrau dvau niśita-ulmukau .. 24.79..
षोडशस्त्रीसहस्त्राणि कृष्णस्याक्लिष्टकर्मणः । बभूवुरात्मजास्तासु शतशोऽथ सहस्त्रशः ॥ २४.८॥
षोडश-स्त्री-सहस्त्राणि कृष्णस्य अक्लिष्ट-कर्मणः । बभूवुः आत्मजाः तासु शतशस् अथ सहस्त्रशस् ॥ २४।८॥
ṣoḍaśa-strī-sahastrāṇi kṛṣṇasya akliṣṭa-karmaṇaḥ . babhūvuḥ ātmajāḥ tāsu śataśas atha sahastraśas .. 24.8..
चारुदेष्णः सुचारुश्च चारुवेषो यशोधरः । चारुश्रवाश्चारुयशाः प्रद्युम्नः शंख एव च ॥ २४.८१॥
चारुदेष्णः सुचारुः च चारुवेषः यशोधरः । चारुश्रवाः चारुयशाः प्रद्युम्नः शंखः एव च ॥ २४।८१॥
cārudeṣṇaḥ sucāruḥ ca cāruveṣaḥ yaśodharaḥ . cāruśravāḥ cāruyaśāḥ pradyumnaḥ śaṃkhaḥ eva ca .. 24.81..
रुक्मिण्यां वासुदेवस्य महाबलपराक्रमाः । विशिष्टाः सर्वपुत्राणां संबभूवुरिमे सुताः ॥ २४.८२॥
रुक्मिण्याम् वासुदेवस्य महा-बल-पराक्रमाः । विशिष्टाः सर्व-पुत्राणाम् संबभूवुः इमे सुताः ॥ २४।८२॥
rukmiṇyām vāsudevasya mahā-bala-parākramāḥ . viśiṣṭāḥ sarva-putrāṇām saṃbabhūvuḥ ime sutāḥ .. 24.82..
तान् दृष्ट्वा तनयान् वीरान् रौक्मिणेयाञ्जनार्दनात् । जाम्बवत्यब्रवीत् कृष्णं भार्या तस्य शुचिस्मिता ॥ २४.८३॥
तान् दृष्ट्वा तनयान् वीरान् रौक्मिणेयान् जनार्दनात् । जाम्बवती अब्रवीत् कृष्णम् भार्या तस्य शुचि-स्मिता ॥ २४।८३॥
tān dṛṣṭvā tanayān vīrān raukmiṇeyān janārdanāt . jāmbavatī abravīt kṛṣṇam bhāryā tasya śuci-smitā .. 24.83..
मम त्वं पुण्डरीकाक्ष विशिष्टं गुणवत्तमम् । सुरेशसदृशं पुत्रं देहि दानवसूदन ॥ २४.८४॥
मम त्वम् पुण्डरीकाक्ष विशिष्टम् गुणवत्तमम् । सुरेश-सदृशम् पुत्रम् देहि दानव-सूदन ॥ २४।८४॥
mama tvam puṇḍarīkākṣa viśiṣṭam guṇavattamam . sureśa-sadṛśam putram dehi dānava-sūdana .. 24.84..
जाम्बवत्या वचः श्रुत्वा जगन्नाथः स्वयं हरिः । समारेभे तपः कर्त्तुं तपोनिधिररिंदमः ॥ २४.८५॥
जाम्बवत्याः वचः श्रुत्वा जगन्नाथः स्वयम् हरिः । समारेभे तपः कर्त्तुम् तपोनिधिः अरिंदमः ॥ २४।८५॥
jāmbavatyāḥ vacaḥ śrutvā jagannāthaḥ svayam hariḥ . samārebhe tapaḥ karttum taponidhiḥ ariṃdamaḥ .. 24.85..
तच्छृणुध्वं मुनिश्रेष्ठा यथाऽसौ देवकीसुतः । दृष्ट्वा लेभे सुतं रुद्रं तप्त्वा तीव्रं महत् तपः ॥ २४.८६॥
तत् शृणुध्वम् मुनि-श्रेष्ठाः यथा असौ देवकी-सुतः । दृष्ट्वा लेभे सुतम् रुद्रम् तप्त्वा तीव्रम् महत् तपः ॥ २४।८६॥
tat śṛṇudhvam muni-śreṣṭhāḥ yathā asau devakī-sutaḥ . dṛṣṭvā lebhe sutam rudram taptvā tīvram mahat tapaḥ .. 24.86..
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे चतुर्विंशोऽध्यायः॥ ॥
इति श्री-कूर्मपुराणे षट्साहस्त्र्याम् संहितायाम् पूर्व-विभागे चतुर्विंशः अध्यायः॥ ॥
iti śrī-kūrmapurāṇe ṣaṭsāhastryām saṃhitāyām pūrva-vibhāge caturviṃśaḥ adhyāyaḥ.. ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In