| |
|

This overlay will guide you through the buttons:

सूत उवाच
अथ देवो हृषीकेशो भगवान् पुरुषोत्तमः । तताप घोरं पुत्रार्थं निदानं तपसस्तपः ॥ २५.१॥
अथ देवः हृषीकेशः भगवान् पुरुषोत्तमः । तताप घोरम् पुत्र-अर्थम् निदानम् तपसः तपः ॥ २५।१॥
atha devaḥ hṛṣīkeśaḥ bhagavān puruṣottamaḥ . tatāpa ghoram putra-artham nidānam tapasaḥ tapaḥ .. 25.1..
स्वेच्छयाऽप्यवतीर्णोऽसौ कृतकृत्योऽपि विश्वधृक् । चचार स्वात्मनो मूलं बोधयन् भावमैश्वरम् ॥ २५.२॥
स्व-इच्छया अपि अवतीर्णः असौ कृतकृत्यः अपि विश्वधृक् । चचार स्व-आत्मनः मूलम् बोधयन् भावम् ऐश्वरम् ॥ २५।२॥
sva-icchayā api avatīrṇaḥ asau kṛtakṛtyaḥ api viśvadhṛk . cacāra sva-ātmanaḥ mūlam bodhayan bhāvam aiśvaram .. 25.2..
जगाम योगिभिर्जुष्टं नानापक्षिसमाकुलम् । आश्रमं तूपमन्योर्वै मुनीन्द्रस्य महात्मनः ॥ २५.३॥
जगाम योगिभिः जुष्टम् नाना पक्षि-समाकुलम् । आश्रमम् तु उपमन्योः वै मुनि-इन्द्रस्य महात्मनः ॥ २५।३॥
jagāma yogibhiḥ juṣṭam nānā pakṣi-samākulam . āśramam tu upamanyoḥ vai muni-indrasya mahātmanaḥ .. 25.3..
पतत्त्रिराजमारूढः सुपर्णमतितेजसम् । शङ्खचक्रगदापाणिः श्रीवत्सकृतलक्षणः ॥ २५.४॥
पतत्त्रि-राजम् आरूढः सुपर्णम् अति तेजसम् । शङ्ख-चक्र-गदा-पाणिः श्रीवत्स-कृत-लक्षणः ॥ २५।४॥
patattri-rājam ārūḍhaḥ suparṇam ati tejasam . śaṅkha-cakra-gadā-pāṇiḥ śrīvatsa-kṛta-lakṣaṇaḥ .. 25.4..
नानाद्रुमलताकीर्णं नानापुष्पोपशोभितम् । ऋषीणामाश्रमैर्जुष्टं वेदघोषनिनादितम् ॥ २५.५॥
नाना द्रुम-लता-आकीर्णम् नाना पुष्प-उपशोभितम् । ऋषीणाम् आश्रमैः जुष्टम् वेद-घोष-निनादितम् ॥ २५।५॥
nānā druma-latā-ākīrṇam nānā puṣpa-upaśobhitam . ṛṣīṇām āśramaiḥ juṣṭam veda-ghoṣa-nināditam .. 25.5..
सिंहर्क्षशरभाकीर्णं शार्दूलगजसंयुतम् । विमलस्वादुपानीयैः सरोभिरुपशोभितम् ॥ २५.६॥
सिंह-ऋक्ष-शरभ-आकीर्णम् शार्दूल-गज-संयुतम् । विमल-स्वादु-पानीयैः सरोभिः उपशोभितम् ॥ २५।६॥
siṃha-ṛkṣa-śarabha-ākīrṇam śārdūla-gaja-saṃyutam . vimala-svādu-pānīyaiḥ sarobhiḥ upaśobhitam .. 25.6..
आरामैर्विविधैर्जुष्टं देवतायतनैः शुभैः । ऋषिभिऋषिपुत्रैश्च महामुनिगणैस्तथा ॥ २५.७॥
आरामैः विविधैः जुष्टम् देवतायतनैः शुभैः । ऋषिभिः ऋषि-पुत्रैः च महा-मुनि-गणैः तथा ॥ २५।७॥
ārāmaiḥ vividhaiḥ juṣṭam devatāyatanaiḥ śubhaiḥ . ṛṣibhiḥ ṛṣi-putraiḥ ca mahā-muni-gaṇaiḥ tathā .. 25.7..
वेदाध्ययनसंपन्नैः सेवितं चाग्निहोत्रिभिः । योगिभिर्ध्याननिरतैर्नासाग्रन्यस्तलोचनैः ॥ २५.८॥
वेद-अध्ययन-संपन्नैः सेवितम् च अग्निहोत्रिभिः । योगिभिः ध्यान-निरतैः नासा-अग्र-न्यस्त-लोचनैः ॥ २५।८॥
veda-adhyayana-saṃpannaiḥ sevitam ca agnihotribhiḥ . yogibhiḥ dhyāna-nirataiḥ nāsā-agra-nyasta-locanaiḥ .. 25.8..
उपेतं सर्वतः पुण्यं ज्ञानिभिस्तत्त्वदर्शिभिः । नदीभिरभितो जुष्टं जापकैर्ब्रह्मवादिभिः ॥ २५.९॥
उपेतम् सर्वतस् पुण्यम् ज्ञानिभिः तत्त्व-दर्शिभिः । नदीभिः अभितस् जुष्टम् जापकैः ब्रह्म-वादिभिः ॥ २५।९॥
upetam sarvatas puṇyam jñānibhiḥ tattva-darśibhiḥ . nadībhiḥ abhitas juṣṭam jāpakaiḥ brahma-vādibhiḥ .. 25.9..
सेवितं तापसैः पुण्यैरीशाराधनतत्परैः । प्रशान्तैः सत्यसंकल्पैर्निः शोकैर्निरुपद्रवैः ॥ २५.१॥
सेवितम् तापसैः पुण्यैः ईश-आराधन-तत्परैः । प्रशान्तैः सत्य-संकल्पैः निः शोकैः निरुपद्रवैः ॥ २५।१॥
sevitam tāpasaiḥ puṇyaiḥ īśa-ārādhana-tatparaiḥ . praśāntaiḥ satya-saṃkalpaiḥ niḥ śokaiḥ nirupadravaiḥ .. 25.1..
भस्मावदातसर्वाङ्गै रुद्रजाप्यपरायणैः । मुण्डितैर्जटिलैः शुद्धैस्तथान्यैश्च शिखाजटैः ॥ २५.११॥
भस्म-अवदात-सर्व-अङ्गैः रुद्र-जाप्य-परायणैः । मुण्डितैः जटिलैः शुद्धैः तथा अन्यैः च शिखाजटैः ॥ २५।११॥
bhasma-avadāta-sarva-aṅgaiḥ rudra-jāpya-parāyaṇaiḥ . muṇḍitaiḥ jaṭilaiḥ śuddhaiḥ tathā anyaiḥ ca śikhājaṭaiḥ .. 25.11..
सेवितं तापसैर्नित्यं ज्ञानिभिर्ब्रह्मवादिभिः । तत्राश्रमवरे रम्ये सिद्धाश्रमविभूषिते ॥ २५.१२॥
सेवितम् तापसैः नित्यम् ज्ञानिभिः ब्रह्म-वादिभिः । तत्र आश्रम-वरे रम्ये सिद्ध-आश्रम-विभूषिते ॥ २५।१२॥
sevitam tāpasaiḥ nityam jñānibhiḥ brahma-vādibhiḥ . tatra āśrama-vare ramye siddha-āśrama-vibhūṣite .. 25.12..
गङ्गा भगवती नित्यं वहत्येवाघनाशिनी । स तानन्विष्य विश्वात्मा तापसान् वीतकल्मषान् ॥ २५.१३॥
गङ्गा भगवती नित्यम् वहति एव अघ-नाशिनी । स तान् अन्विष्य विश्वात्मा तापसान् वीत-कल्मषान् ॥ २५।१३॥
gaṅgā bhagavatī nityam vahati eva agha-nāśinī . sa tān anviṣya viśvātmā tāpasān vīta-kalmaṣān .. 25.13..
प्रणामेनाथ वचसा पूजयामास माधवः । ते ते दृष्ट्वा जगद्योनिं शङ्खचक्रगदाधरम् ॥ २५.१४॥
प्रणामेन अथ वचसा पूजयामास माधवः । ते ते दृष्ट्वा जगद्योनिम् शङ्ख-चक्र-गदा-धरम् ॥ २५।१४॥
praṇāmena atha vacasā pūjayāmāsa mādhavaḥ . te te dṛṣṭvā jagadyonim śaṅkha-cakra-gadā-dharam .. 25.14..
प्रणेमुर्भक्तिसंयुक्ता योगिनां परमं गुरुम् । स्तुवन्ति वैदिकैर्मन्त्रैः कृत्वा हृदि सनातनम् ॥ २५.१५॥
प्रणेमुः भक्ति-संयुक्ताः योगिनाम् परमम् गुरुम् । स्तुवन्ति वैदिकैः मन्त्रैः कृत्वा हृदि सनातनम् ॥ २५।१५॥
praṇemuḥ bhakti-saṃyuktāḥ yoginām paramam gurum . stuvanti vaidikaiḥ mantraiḥ kṛtvā hṛdi sanātanam .. 25.15..
प्रोचुरन्योन्यमव्यक्तमादिदेवं महामुनिम् । अयं स भगवानेकः साक्षान्नारायणः परः ॥ २५.१६॥
प्रोचुः अन्योन्यम् अव्यक्तम् आदिदेवम् महा-मुनिम् । अयम् स भगवान् एकः साक्षात् नारायणः परः ॥ २५।१६॥
procuḥ anyonyam avyaktam ādidevam mahā-munim . ayam sa bhagavān ekaḥ sākṣāt nārāyaṇaḥ paraḥ .. 25.16..
अगच्छत्यधुना देवः पुराणपुरुषः स्वयम् । अयमेवाव्ययः स्रष्टा संहर्त्ता चैव रक्षकः ॥ २५.१७॥
अगच्छति अधुना देवः पुराणपुरुषः स्वयम् । अयम् एव अव्ययः स्रष्टा संहर्त्ता च एव रक्षकः ॥ २५।१७॥
agacchati adhunā devaḥ purāṇapuruṣaḥ svayam . ayam eva avyayaḥ sraṣṭā saṃharttā ca eva rakṣakaḥ .. 25.17..
अमूर्त्तो मूर्तिमान् भूत्वा मुनीन् द्रष्टुमिहागतः । एष धाता विधाता च समागच्छति सर्वगः ॥ २५.१८॥
अमूर्त्तः मूर्तिमान् भूत्वा मुनीन् द्रष्टुम् इह आगतः । एष धाता विधाता च समागच्छति सर्व-गः ॥ २५।१८॥
amūrttaḥ mūrtimān bhūtvā munīn draṣṭum iha āgataḥ . eṣa dhātā vidhātā ca samāgacchati sarva-gaḥ .. 25.18..
अनादिरक्षयोऽनन्तो महाभूतो महेश्वरः । श्रुत्वा बुध्वा हरिस्तेषां वचांसि वचनातिगः॥ २५.१९॥
अनादिः अक्षयः अनन्तः महाभूतः महेश्वरः । श्रुत्वा बुध्वा हरिः तेषाम् वचांसि वचन-अतिगः॥ २५।१९॥
anādiḥ akṣayaḥ anantaḥ mahābhūtaḥ maheśvaraḥ . śrutvā budhvā hariḥ teṣām vacāṃsi vacana-atigaḥ.. 25.19..
ययौ स तूर्णं गोविन्दः स्थानं तस्य महात्मनः। उपस्पृश्याथ भावेन तीर्थे तीर्थे स यादवः॥ २५.२॥
ययौ स तूर्णम् गोविन्दः स्थानम् तस्य महात्मनः। उपस्पृश्य अथ भावेन तीर्थे तीर्थे स यादवः॥ २५।२॥
yayau sa tūrṇam govindaḥ sthānam tasya mahātmanaḥ. upaspṛśya atha bhāvena tīrthe tīrthe sa yādavaḥ.. 25.2..
चकार देवकीसूनुर्देवर्षिपितृतर्पणम् । नदीनां तीरसंस्थानि स्थापितानि मुनीश्वरैः ॥ २५.२१॥
चकार देवकी-सूनुः देव-ऋषि-पितृ-तर्पणम् । नदीनाम् तीर-संस्थानि स्थापितानि मुनि-ईश्वरैः ॥ २५।२१॥
cakāra devakī-sūnuḥ deva-ṛṣi-pitṛ-tarpaṇam . nadīnām tīra-saṃsthāni sthāpitāni muni-īśvaraiḥ .. 25.21..
लिङ्गानि पूजयामास शंभोरमिततेजसः । दृष्ट्वा दृष्ट्वा समायान्तं यत्र यत्र जनार्दनम् ॥ २५.२२॥
लिङ्गानि पूजयामास शंभोः अमित-तेजसः । दृष्ट्वा दृष्ट्वा समायान्तम् यत्र यत्र जनार्दनम् ॥ २५।२२॥
liṅgāni pūjayāmāsa śaṃbhoḥ amita-tejasaḥ . dṛṣṭvā dṛṣṭvā samāyāntam yatra yatra janārdanam .. 25.22..
पूजयाञ्चक्रिरे पुष्पैरक्षतैस्तत्र वासिनः । समीक्ष्य वासुदेवं तं शार्ङ्गशङ्खासिधारिणम् ॥ २५.२३॥
पूजयाञ्चक्रिरे पुष्पैः अक्षतैः तत्र वासिनः । समीक्ष्य वासुदेवम् तम् शार्ङ्ग-शङ्ख-असि-धारिणम् ॥ २५।२३॥
pūjayāñcakrire puṣpaiḥ akṣataiḥ tatra vāsinaḥ . samīkṣya vāsudevam tam śārṅga-śaṅkha-asi-dhāriṇam .. 25.23..
तस्थिरे निश्चलाः सर्वे शुभाङ्गं तन्निवासिनः । यानि तत्रारुरुक्षूणां मानसानि जनार्दनम् ॥ २५.२४॥
तस्थिरे निश्चलाः सर्वे शुभ-अङ्गम् तद्-निवासिनः । यानि तत्र आरुरुक्षूणाम् मानसानि जनार्दनम् ॥ २५।२४॥
tasthire niścalāḥ sarve śubha-aṅgam tad-nivāsinaḥ . yāni tatra ārurukṣūṇām mānasāni janārdanam .. 25.24..
दृष्ट्वा समीहितान्यासन् निष्क्रामन्ति पुराहिरम् । अथावगाह्य गङ्गायां कृत्वा देवादितर्पणम् ॥ २५.२५॥
दृष्ट्वा समीहितानि आसन् निष्क्रामन्ति पुरा अहिरम् । अथ अवगाह्य गङ्गायाम् कृत्वा देव-आदि-तर्पणम् ॥ २५।२५॥
dṛṣṭvā samīhitāni āsan niṣkrāmanti purā ahiram . atha avagāhya gaṅgāyām kṛtvā deva-ādi-tarpaṇam .. 25.25..
आदाय पुष्पवर्याणि मुनीन्द्रस्याविशद् गृहम् । दृष्ट्वा तं योगिनां श्रेष्ठं भस्मोद्धूलितविग्रहम्॥ २५.२६॥
आदाय पुष्प-वर्याणि मुनि-इन्द्रस्य आविशत् गृहम् । दृष्ट्वा तम् योगिनाम् श्रेष्ठम् भस्म-उद्धूलित-विग्रहम्॥ २५।२६॥
ādāya puṣpa-varyāṇi muni-indrasya āviśat gṛham . dṛṣṭvā tam yoginām śreṣṭham bhasma-uddhūlita-vigraham.. 25.26..
जटाचीरधरं शान्तं ननाम शिरसा मुनिम् । आलोक्य कृष्णमायान्तं पूजयामास तत्त्ववित् ॥ २५.२७॥
जटा-चीर-धरम् शान्तम् ननाम शिरसा मुनिम् । आलोक्य कृष्णम् आयान्तम् पूजयामास तत्त्व-विद् ॥ २५।२७॥
jaṭā-cīra-dharam śāntam nanāma śirasā munim . ālokya kṛṣṇam āyāntam pūjayāmāsa tattva-vid .. 25.27..
आसने चासयामास योगिनां प्रथमातिथिम् । उवाच वचसां योनिं जानीमः परमं पदम् ॥ २५.२८॥
आसने च आसयामास योगिनाम् प्रथम-अतिथिम् । उवाच वचसाम् योनिम् जानीमः परमम् पदम् ॥ २५।२८॥
āsane ca āsayāmāsa yoginām prathama-atithim . uvāca vacasām yonim jānīmaḥ paramam padam .. 25.28..
विष्णुमव्यक्तसंस्थानं शिष्यभावेन संस्थितम् । स्वागतं ते हृषीकेश सफलानि तपांसि नः ॥ २५.२९॥
विष्णुम् अव्यक्त-संस्थानम् शिष्य-भावेन संस्थितम् । स्वागतम् ते हृषीकेश स फलानि तपांसि नः ॥ २५।२९॥
viṣṇum avyakta-saṃsthānam śiṣya-bhāvena saṃsthitam . svāgatam te hṛṣīkeśa sa phalāni tapāṃsi naḥ .. 25.29..
यत् साक्षादेव विश्वात्मा मद्गेहं विष्णुरागतः । त्वां न पश्यन्ति मुनयो यतन्तोऽपि हि योगिनः॥ २५.३॥
यत् साक्षात् एव विश्वात्मा मद्-गेहम् विष्णुः आगतः । त्वाम् न पश्यन्ति मुनयः यतन्तः अपि हि योगिनः॥ २५।३॥
yat sākṣāt eva viśvātmā mad-geham viṣṇuḥ āgataḥ . tvām na paśyanti munayaḥ yatantaḥ api hi yoginaḥ.. 25.3..
तादृशस्याथ भवतः किमागमनकारणम् । श्रुत्वोपमन्योस्तद् वाक्यं भगवान् केशिमर्दनः ॥ ॥
तादृशस्य अथ भवतः किम् आगमन-कारणम् । श्रुत्वा उपमन्योः तत् वाक्यम् भगवान् केशिमर्दनः ॥ ॥
tādṛśasya atha bhavataḥ kim āgamana-kāraṇam . śrutvā upamanyoḥ tat vākyam bhagavān keśimardanaḥ .. ..
व्याजहार महायोगी वचनं प्रणिपत्य तम् ॥ २५.३१॥
व्याजहार महा-योगी वचनम् प्रणिपत्य तम् ॥ २५।३१॥
vyājahāra mahā-yogī vacanam praṇipatya tam .. 25.31..
श्रीकृष्ण उवाच
भगवन् द्रष्टुमिच्छामि गिरीशं कृत्तिवाससम् ॥ २५.३२॥
भगवन् द्रष्टुम् इच्छामि गिरीशम् कृत्तिवाससम् ॥ २५।३२॥
bhagavan draṣṭum icchāmi girīśam kṛttivāsasam .. 25.32..
संप्राप्तो भवतः स्थानं भगवद्दर्शनोत्सुकः । कथं स भगवानीशो दृश्यो योगविदां वरः ॥ २५.३३॥
संप्राप्तः भवतः स्थानम् भगवत्-दर्शन-उत्सुकः । कथम् स भगवान् ईशः दृश्यः योग-विदाम् वरः ॥ २५।३३॥
saṃprāptaḥ bhavataḥ sthānam bhagavat-darśana-utsukaḥ . katham sa bhagavān īśaḥ dṛśyaḥ yoga-vidām varaḥ .. 25.33..
मयाऽचिरेण कुत्राहं द्रक्ष्यामि तमुमापतिम् । इत्याह भगवानुक्तो दृश्यते परमेश्वरः॥ २५.३४॥
मया अचिरेण कुत्र अहम् द्रक्ष्यामि तम् उमापतिम् । इति आह भगवान् उक्तः दृश्यते परमेश्वरः॥ २५।३४॥
mayā acireṇa kutra aham drakṣyāmi tam umāpatim . iti āha bhagavān uktaḥ dṛśyate parameśvaraḥ.. 25.34..
भक्त्या चोग्रेण तपसा तत्कुरुष्वेह यत्नतः । इहेश्वरं देवदेवं मुनीन्द्रा ब्रह्मवादिनः॥ २५.३५॥
भक्त्या च उग्रेण तपसा तत् कुरुष्व इह यत्नतः । इह ईश्वरम् देवदेवम् मुनि-इन्द्राः ब्रह्म-वादिनः॥ २५।३५॥
bhaktyā ca ugreṇa tapasā tat kuruṣva iha yatnataḥ . iha īśvaram devadevam muni-indrāḥ brahma-vādinaḥ.. 25.35..
ध्यायन्तः आसते देवं जापिनस्तापसाश्च ये । इह देवः सपत्नीको भगवान् वृषभध्वजः॥ २५.३६॥
ध्यायन्तः आसते देवम् जापिनः तापसाः च ये । इह देवः स पत्नीकः भगवान् वृषभध्वजः॥ २५।३६॥
dhyāyantaḥ āsate devam jāpinaḥ tāpasāḥ ca ye . iha devaḥ sa patnīkaḥ bhagavān vṛṣabhadhvajaḥ.. 25.36..
क्रीडते विविधैर्भूतैर्योगिभिः परिवारितः । इहाश्रमे पुरा रुद्रं तपस्तप्त्वा सुदारुणम् ॥ २५.३७॥
क्रीडते विविधैः भूतैः योगिभिः परिवारितः । इह आश्रमे पुरा रुद्रम् तपः तप्त्वा सु दारुणम् ॥ २५।३७॥
krīḍate vividhaiḥ bhūtaiḥ yogibhiḥ parivāritaḥ . iha āśrame purā rudram tapaḥ taptvā su dāruṇam .. 25.37..
लेभे महेश्वराद् योगं वसिष्ठो भगवानृषिः । इहैव भगवान् व्यसः कृष्णद्वैपायनः प्रभुः ॥ २५.३८॥
लेभे महेश्वरात् योगम् वसिष्ठः भगवान् ऋषिः । इह एव भगवान् व्यसः कृष्णद्वैपायनः प्रभुः ॥ २५।३८॥
lebhe maheśvarāt yogam vasiṣṭhaḥ bhagavān ṛṣiḥ . iha eva bhagavān vyasaḥ kṛṣṇadvaipāyanaḥ prabhuḥ .. 25.38..
दृष्ट्वा तं परमं ज्ञानं लब्धवान् ज्ञानमैश्वरम् । इहाश्रमवरे रम्ये तपस्तप्त्वा कपर्दिनः ॥ २५.३९॥
दृष्ट्वा तम् परमम् ज्ञानम् लब्धवान् ज्ञानम् ऐश्वरम् । इह आश्रम-वरे रम्ये तपः तप्त्वा कपर्दिनः ॥ २५।३९॥
dṛṣṭvā tam paramam jñānam labdhavān jñānam aiśvaram . iha āśrama-vare ramye tapaḥ taptvā kapardinaḥ .. 25.39..
अविन्दत् पुत्रकान् रुद्रात् सूरयोर्भक्तिसंयुता । इहैव देवताः पूर्वं कालाद् भीता महेश्वरम् ॥ २५.४॥
अविन्दत् पुत्रकान् रुद्रात् सूरयोः भक्ति-संयुता । इह एव देवताः पूर्वम् कालात् भीताः महेश्वरम् ॥ २५।४॥
avindat putrakān rudrāt sūrayoḥ bhakti-saṃyutā . iha eva devatāḥ pūrvam kālāt bhītāḥ maheśvaram .. 25.4..
संस्तुवन्त महादेवं निर्भया निर्वृतिं ययुः । इहाराध्य महादेवं सावर्णिस्तपतां वरः ॥ २५.४१॥
संस्तुवन्त महादेवम् निर्भयाः निर्वृतिम् ययुः । इह आराध्य महादेवम् सावर्णिः तपताम् वरः ॥ २५।४१॥
saṃstuvanta mahādevam nirbhayāḥ nirvṛtim yayuḥ . iha ārādhya mahādevam sāvarṇiḥ tapatām varaḥ .. 25.41..
लब्धवान् परमं योगं ग्रन्थकारत्वमुत्तमम् । प्रवर्तयामास शुभां कृत्वा वै संहितां द्विजः ॥ २५.४२॥
लब्धवान् परमम् योगम् ग्रन्थकार-त्वम् उत्तमम् । प्रवर्तयामास शुभाम् कृत्वा वै संहिताम् द्विजः ॥ २५।४२॥
labdhavān paramam yogam granthakāra-tvam uttamam . pravartayāmāsa śubhām kṛtvā vai saṃhitām dvijaḥ .. 25.42..
(इहैव संहितां दृष्ट्वा कामो यः। शशिपायिनः। महादेवं चकारेमां पौराणीं तन्नियोगतः । द्वादशैव सहस्त्राणि श्लोकानां पुरुषोत्तम । इह प्रवर्तिता पुण्या द्व्यष्टसाहस्रिकोत्तरा । वायवीयोत्तरं नाम पुराणं वेदसंमितम् । )॥ ॥
(इह एव संहिताम् दृष्ट्वा कामः यः। शशिपायिनः। महादेवम् चकार इमाम् पौराणीम् तद्-नियोगतः । द्वादश एव सहस्त्राणि श्लोकानाम् पुरुषोत्तम । इह प्रवर्तिता पुण्या द्वि-अष्ट-साहस्रिका उत्तरा । वायवीयोत्तरम् नाम पुराणम् वेद-संमितम् । )॥ ॥
(iha eva saṃhitām dṛṣṭvā kāmaḥ yaḥ. śaśipāyinaḥ. mahādevam cakāra imām paurāṇīm tad-niyogataḥ . dvādaśa eva sahastrāṇi ślokānām puruṣottama . iha pravartitā puṇyā dvi-aṣṭa-sāhasrikā uttarā . vāyavīyottaram nāma purāṇam veda-saṃmitam . ).. ..
द्विजः पौराणिकीं पुण्यां प्रसादेन द्विजोत्तमैःइहैव ख्यापितं शिष्यैः शांशपायनभाषितम् ॥ २५.४३॥
द्विजः पौराणिकीम् पुण्याम् प्रसादेन द्विजोत्तमैः इह एव ख्यापितम् शिष्यैः शांशपायन-भाषितम् ॥ २५।४३॥
dvijaḥ paurāṇikīm puṇyām prasādena dvijottamaiḥ iha eva khyāpitam śiṣyaiḥ śāṃśapāyana-bhāṣitam .. 25.43..
याज्ञवल्क्यो महायोगी दृष्ट्वाऽत्र तपसा हरम् । चकार तन्नियोगेन योगशास्त्रमनुत्तमम् ॥ २५.४४॥
याज्ञवल्क्यः महा-योगी दृष्ट्वा अत्र तपसा हरम् । चकार तद्-नियोगेन योग-शास्त्रम् अनुत्तमम् ॥ २५।४४॥
yājñavalkyaḥ mahā-yogī dṛṣṭvā atra tapasā haram . cakāra tad-niyogena yoga-śāstram anuttamam .. 25.44..
इहैव भृगुणा पूर्वं तप्त्वा वै परमं तपः । शुक्रो महेश्वरात् पुत्रो लब्धो योगविदां वरः ॥ २५.४५॥
इह एव भृगुणा पूर्वम् तप्त्वा वै परमम् तपः । शुक्रः महेश्वरात् पुत्रः लब्धः योग-विदाम् वरः ॥ २५।४५॥
iha eva bhṛguṇā pūrvam taptvā vai paramam tapaḥ . śukraḥ maheśvarāt putraḥ labdhaḥ yoga-vidām varaḥ .. 25.45..
तस्मादिहैव देवेशं तपस्तप्त्वा महेश्वरम् । द्रष्टुमर्हसि विश्वेशमुग्रं भीमं कपर्दिनम् ॥ २५.४६॥
तस्मात् इह एव देवेशम् तपः तप्त्वा महेश्वरम् । द्रष्टुम् अर्हसि विश्वेशम् उग्रम् भीमम् कपर्दिनम् ॥ २५।४६॥
tasmāt iha eva deveśam tapaḥ taptvā maheśvaram . draṣṭum arhasi viśveśam ugram bhīmam kapardinam .. 25.46..
एवमुक्त्वा ददौ ज्ञानमुपमन्युर्महामुनिः । व्रतं पाशुपतं योगं कृष्णायाक्लिष्टकर्मणे ॥ २५.४७॥
एवम् उक्त्वा ददौ ज्ञानम् उपमन्युः महा-मुनिः । व्रतम् पाशुपतम् योगम् कृष्णाय अक्लिष्ट-कर्मणे ॥ २५।४७॥
evam uktvā dadau jñānam upamanyuḥ mahā-muniḥ . vratam pāśupatam yogam kṛṣṇāya akliṣṭa-karmaṇe .. 25.47..
स तेन मुनिवर्येण व्याहृतो मधुसूदनः । तत्रैव तपसा देवं रुद्रमाराधयत् प्रभुः ॥ २५.४८॥
स तेन मुनि-वर्येण व्याहृतः मधुसूदनः । तत्र एव तपसा देवम् रुद्रम् आराधयत् प्रभुः ॥ २५।४८॥
sa tena muni-varyeṇa vyāhṛtaḥ madhusūdanaḥ . tatra eva tapasā devam rudram ārādhayat prabhuḥ .. 25.48..
भस्मौद्धूलितसर्वाङ्गो मुण्डो वल्कलसंयुतः । जजाप रुद्रमनिशं शिवैकाहितमानसः ॥ २५.४९॥
भस्म-उद्धूलित-सर्व-अङ्गः मुण्डः वल्कल-संयुतः । जजाप रुद्रम् अनिशम् शिव-एक-आहित-मानसः ॥ २५।४९॥
bhasma-uddhūlita-sarva-aṅgaḥ muṇḍaḥ valkala-saṃyutaḥ . jajāpa rudram aniśam śiva-eka-āhita-mānasaḥ .. 25.49..
ततो बहुतिथे काले सोमः सोमार्धभूषणः । अदृश्यत महादेवो व्योम्नि देव्या महेश्वरः ॥ २५.५॥
ततस् बहुतिथे काले स उमः सोम-अर्ध-भूषणः । अदृश्यत महादेवः व्योम्नि देव्या महेश्वरः ॥ २५।५॥
tatas bahutithe kāle sa umaḥ soma-ardha-bhūṣaṇaḥ . adṛśyata mahādevaḥ vyomni devyā maheśvaraḥ .. 25.5..
किरीटिनं गदिनं चित्रमालंपिनाकिनं शूलिनं देवदेवम् । शार्दूलचर्माम्बरसंवृताङ्गंदेव्या महादेवमसौ ददर्श ॥ २५.५१॥
किरीटिनम् गदिनम् चित्रम् आलम् पिनाकिनम् शूलिनम् देवदेवम् । शार्दूल-चर्म-अम्बर-संवृत-अङ्गम् देव्या महादेवम् असौ ददर्श ॥ २५।५१॥
kirīṭinam gadinam citram ālam pinākinam śūlinam devadevam . śārdūla-carma-ambara-saṃvṛta-aṅgam devyā mahādevam asau dadarśa .. 25.51..
प्रभुं पुराणं पुरुषं पुरुस्तात्। सनातनं योगिनमीशतारम् । अणोरणीयांसमनन्तशक्तिंप्राणेश्वरं शम्भमसौ ददर्श॥ २५.५२॥
प्रभुम् पुराणम् पुरुषम् पुरुस्तात्। सनातनम् योगिनम् ईशतारम् । अणोः अणीयांसम् अनन्तशक्तिम् प्राणेश्वरम् शम्भम् असौ ददर्श॥ २५।५२॥
prabhum purāṇam puruṣam purustāt. sanātanam yoginam īśatāram . aṇoḥ aṇīyāṃsam anantaśaktim prāṇeśvaram śambham asau dadarśa.. 25.52..
परश्वधासक्तकरं त्रिनेत्रं.नृसिंहचर्मावृतभस्मगात्रम् । समुद्गिरन्तं प्रणवं बृहन्तं। सहस्त्रसूर्यप्रतिमं ददर्श ॥ २५.५३॥
परश्वध-आसक्त-करम् त्रिनेत्रम्।नृसिंह-चर्म-आवृत-भस्म-गात्रम् । समुद्गिरन्तम् प्रणवम् बृहन्तम्। सहस्त्र-सूर्य-प्रतिमम् ददर्श ॥ २५।५३॥
paraśvadha-āsakta-karam trinetram.nṛsiṃha-carma-āvṛta-bhasma-gātram . samudgirantam praṇavam bṛhantam. sahastra-sūrya-pratimam dadarśa .. 25.53..
न यस्य देवा न पितामहोऽपिनेन्द्रो न चाग्निर्वरुणो न मृत्युः । प्रभावमद्यापि वदन्ति रुद्रंतमादिदेवं पुरतो ददर्श ॥ २५.५४॥
न यस्य देवाः न पितामहः अपि न इन्द्रः न च अग्निः वरुणः न मृत्युः । प्रभावम् अद्य अपि वदन्ति रुद्रंतम् आदिदेवम् पुरतस् ददर्श ॥ २५।५४॥
na yasya devāḥ na pitāmahaḥ api na indraḥ na ca agniḥ varuṇaḥ na mṛtyuḥ . prabhāvam adya api vadanti rudraṃtam ādidevam puratas dadarśa .. 25.54..
तदान्वपश्यद् गिरिशस्य वामेस्वात्मानमव्यक्तमनन्तरूपम् । स्तुवन्तमीशं बहुभिर्वचोभिःशङ्खासिचक्रार्पितहस्तमाद्यम् ॥ २५.५५॥
तदा अन्वपश्यत् गिरिशस्य वामेसु आत्मानम् अव्यक्तम् अनन्त-रूपम् । स्तुवन्तम् ईशम् बहुभिः वचोभिः शङ्ख-असि-चक्र-अर्पित-हस्तम् आद्यम् ॥ २५।५५॥
tadā anvapaśyat giriśasya vāmesu ātmānam avyaktam ananta-rūpam . stuvantam īśam bahubhiḥ vacobhiḥ śaṅkha-asi-cakra-arpita-hastam ādyam .. 25.55..
कृताञ्जलिं दक्षिणतः सुरेशंहंसाधिरूढं पुरुषं ददर्श । स्तुवानमीशस्य परं प्रभावंपितामहं लोकगुरुं दिवस्थम् ॥ २५.५६॥
कृताञ्जलिम् दक्षिणतस् सुरेशम् हंस-अधिरूढम् पुरुषम् ददर्श । स्तुवानम् ईशस्य परम् प्रभावम् पितामहम् लोकगुरुम् दिव-स्थम् ॥ २५।५६॥
kṛtāñjalim dakṣiṇatas sureśam haṃsa-adhirūḍham puruṣam dadarśa . stuvānam īśasya param prabhāvam pitāmaham lokagurum diva-stham .. 25.56..
गणेश्वरानर्कसहस्त्रकल्पान्नन्दीश्वरादीनमितप्रभावान् । त्रिलोकभर्त्तुः पुरतोऽन्वपश्यत्कुमारमग्निप्रतिमं विशाखम् ॥ २५.५७॥
गणेश्वरान् अर्क-सहस्त्र-कल्पान् नन्दीश्वर-आदीन् अमित-प्रभावान् । त्रिलोक-भर्त्तुः पुरतस् अन्वपश्यत् कुमारम् अग्नि-प्रतिमम् विशाखम् ॥ २५।५७॥
gaṇeśvarān arka-sahastra-kalpān nandīśvara-ādīn amita-prabhāvān . triloka-bharttuḥ puratas anvapaśyat kumāram agni-pratimam viśākham .. 25.57..
मरीचिमत्रिं पुलहं पुलस्त्यंप्रचेतसं दक्षमथापि कण्वम् । पराशरं तत्परतो वसिष्ठंस्वायंभुवं चापि मनुं ददर्श ॥ २५.५८॥
मरीचिम् अत्रिम् पुलहम् पुलस्त्यम् प्रचेतसम् दक्षम् अथ अपि कण्वम् । पराशरम् तद्-परतस् वसिष्ठम् स्वायंभुवम् च अपि मनुम् ददर्श ॥ २५।५८॥
marīcim atrim pulaham pulastyam pracetasam dakṣam atha api kaṇvam . parāśaram tad-paratas vasiṣṭham svāyaṃbhuvam ca api manum dadarśa .. 25.58..
तुष्टाव मन्त्रैरमरप्रधानंबद्धाञ्जलिर्विष्णुरुदारबुद्धिः । प्रणम्य देव्या गिरिशं सभक्त्यास्वात्मन्यथात्मानमसौ विचिन्त्य ॥ २५.५९॥
तुष्टाव मन्त्रैः अमर-प्रधानम् बद्धाञ्जलिः विष्णुः उदार-बुद्धिः । प्रणम्य देव्या गिरिशम् स भक्त्या अस्व-आत्मन् अथ आत्मानम् असौ विचिन्त्य ॥ २५।५९॥
tuṣṭāva mantraiḥ amara-pradhānam baddhāñjaliḥ viṣṇuḥ udāra-buddhiḥ . praṇamya devyā giriśam sa bhaktyā asva-ātman atha ātmānam asau vicintya .. 25.59..
श्रीकृष्ण उवाच
नमोऽस्तु ते शाश्वत सर्वयोनेब्रह्माधिपं त्वामृषयो वदन्ति । तपश्च सत्त्वं च रजस्तमश्चत्वामेव सर्व प्रवदन्ति सन्तः ॥ २५.६॥
नमः अस्तु ते शाश्वत सर्व-योने ब्रह्म-अधिपम् त्वाम् ऋषयः वदन्ति । तपः च सत्त्वम् च रजः तमः च त्वाम् एव सर्व प्रवदन्ति सन्तः ॥ २५।६॥
namaḥ astu te śāśvata sarva-yone brahma-adhipam tvām ṛṣayaḥ vadanti . tapaḥ ca sattvam ca rajaḥ tamaḥ ca tvām eva sarva pravadanti santaḥ .. 25.6..
त्वं ब्रह्मा हरिरथ विश्वयोनिरग्निःसंहर्त्ता दिनकरमण्डलाधिवासः । प्राणस्त्वं हुतवहवासवादिभेद-सत्वामेकं शरणमुपैमि देवमीशम् ॥ २५.६१॥
त्वम् ब्रह्मा हरिः अथ विश्वयोनिः अग्निः संहर्त्ता दिनकर-मण्डल-अधिवासः । प्राणः त्वम् हुतवह-वासव-आदि-भेद स त्वाम् एकम् शरणम् उपैमि देवम् ईशम् ॥ २५।६१॥
tvam brahmā hariḥ atha viśvayoniḥ agniḥ saṃharttā dinakara-maṇḍala-adhivāsaḥ . prāṇaḥ tvam hutavaha-vāsava-ādi-bheda sa tvām ekam śaraṇam upaimi devam īśam .. 25.61..
सांख्यास्त्वां अगुणमथाहुरेकरूपंयोगास्थं सततमुपासते हृदिस्थम् । वेदास्त्वामभिदधतीह रुद्रमग्निंत्वामेकं शरणमुपैमि देवमीशम् ॥ २५.६२॥
सांख्याः त्वाम् अगुणम् अथ आहुः एक-रूपम् योग-आस्थम् सततम् उपासते हृदिस्थम् । वेदाः त्वाम् अभिदधति इह रुद्रम् अग्निम् त्वाम् एकम् शरणम् उपैमि देवम् ईशम् ॥ २५।६२॥
sāṃkhyāḥ tvām aguṇam atha āhuḥ eka-rūpam yoga-āstham satatam upāsate hṛdistham . vedāḥ tvām abhidadhati iha rudram agnim tvām ekam śaraṇam upaimi devam īśam .. 25.62..
त्वात्पादे कुसुममथापि पत्रमेकंदत्त्वासौ भवति विमुक्तविश्वबन्धः । सर्वांध्यं प्रणुदति सिद्धयोगिजुष्टंस्मृत्वा ते पदयुगलं भवत्प्रसादात् ॥ २५.६३॥
त्वात् पादे कुसुमम् अथ अपि पत्रम् एकम् दत्त्वा असौ भवति विमुक्त-विश्व-बन्धः । सर्व-आंध्यम् प्रणुदति सिद्ध-योगि-जुष्टम् स्मृत्वा ते पद-युगलम् भवत्-प्रसादात् ॥ २५।६३॥
tvāt pāde kusumam atha api patram ekam dattvā asau bhavati vimukta-viśva-bandhaḥ . sarva-āṃdhyam praṇudati siddha-yogi-juṣṭam smṛtvā te pada-yugalam bhavat-prasādāt .. 25.63..
यस्याशेषविभागहीनममलं हृद्यन्तरावस्थितं तेतत्त्वं योनिमनन्तमेकमचलं सत्यं परं सर्वगम् ॥ २५.६४॥
यस्य अशेष-विभाग-हीनम् अमलम् हृदि अन्तर-अवस्थितम् ते योनिम् अनन्तम् एकम् अचलम् सत्यम् परम् सर्वगम् ॥ २५।६४॥
yasya aśeṣa-vibhāga-hīnam amalam hṛdi antara-avasthitam te yonim anantam ekam acalam satyam param sarvagam .. 25.64..
स्थानं प्राहुरनादिमध्यनिधनं यस्मादिदं जायतेनित्यं त्वामहमुपैमि सत्यविभवंविश्वेश्वरंतंशिवम् ॥ २५.६५॥
स्थानम् प्राहुः अन् आदि-मध्य-निधनम् यस्मात् इदम् जायते नित्यम् त्वाम् अहम् उपैमि सत्य-विभवम् विश्वेश्वरम् तम् शिवम् ॥ २५।६५॥
sthānam prāhuḥ an ādi-madhya-nidhanam yasmāt idam jāyate nityam tvām aham upaimi satya-vibhavam viśveśvaram tam śivam .. 25.65..
ॐ नमो नीलकण्ठाय त्रिनेत्राय च रंहसे । महादेवाय ते नित्यमीशानाय नमो नमः ॥ २५.६६॥
ओम् नमः नीलकण्ठाय त्रिनेत्राय च रंहसे । महादेवाय ते नित्यम् ईशानाय नमः नमः ॥ २५।६६॥
om namaḥ nīlakaṇṭhāya trinetrāya ca raṃhase . mahādevāya te nityam īśānāya namaḥ namaḥ .. 25.66..
नमः पिनाकिने तुभ्यं नमो मुण्डाय दण्डिने । नमस्ते वज्रहस्ताय दिग्वस्त्राय कपर्दिने ॥ २५.६७॥
नमः पिनाकिने तुभ्यम् नमः मुण्डाय दण्डिने । नमः ते वज्रहस्ताय दिग्वस्त्राय कपर्दिने ॥ २५।६७॥
namaḥ pinākine tubhyam namaḥ muṇḍāya daṇḍine . namaḥ te vajrahastāya digvastrāya kapardine .. 25.67..
नमो भैरवनादाय कालरूपाय दंष्ट्रिणे । नागयज्ञोपवीताय नमस्ते वह्निरेतसे ॥ २५.६८॥
नमः भैरव-नादाय काल-रूपाय दंष्ट्रिणे । नाग-यज्ञोपवीताय नमः ते वह्निरेतसे ॥ २५।६८॥
namaḥ bhairava-nādāya kāla-rūpāya daṃṣṭriṇe . nāga-yajñopavītāya namaḥ te vahniretase .. 25.68..
नमोऽस्तु ते गिरीशाय स्वाहाकाराय ते नमः । नमो मुक्ताट्टहासाय भीमाय च नमो नमः ॥ २५.६९॥
नमः अस्तु ते गिरीशाय स्वाहाकाराय ते नमः । नमः मुक्त-अट्टहासाय भीमाय च नमः नमः ॥ २५।६९॥
namaḥ astu te girīśāya svāhākārāya te namaḥ . namaḥ mukta-aṭṭahāsāya bhīmāya ca namaḥ namaḥ .. 25.69..
नमस्ते कामनाशाय नमः कालप्रमाथिने । नमो भैरववेषाय हराय च निषङ्गिणे ॥ २५.७॥
नमः ते काम-नाशाय नमः काल-प्रमाथिने । नमः भैरव-वेषाय हराय च निषङ्गिणे ॥ २५।७॥
namaḥ te kāma-nāśāya namaḥ kāla-pramāthine . namaḥ bhairava-veṣāya harāya ca niṣaṅgiṇe .. 25.7..
नमोऽस्तु ते त्र्यम्बकाय नमस्ते कृत्तिवाससे । नमोऽम्बिकाधिपतये पशूनां पतये नमः ॥ २५.७१॥
नमः अस्तु ते त्र्यम्बकाय नमः ते कृत्तिवाससे । नमः अम्बिका-अधिपतये पशूनाम् पतये नमः ॥ २५।७१॥
namaḥ astu te tryambakāya namaḥ te kṛttivāsase . namaḥ ambikā-adhipataye paśūnām pataye namaḥ .. 25.71..
नमस्ते व्योमरूपाय व्योमाधिपतये नमः । नरनारीशरीराय सांख्ययोगप्रवर्त्तिने ॥ २५.७२॥
नमः ते व्योम-रूपाय व्योम-अधिपतये नमः । नर-नारी-शरीराय सांख्य-योग-प्रवर्त्तिने ॥ २५।७२॥
namaḥ te vyoma-rūpāya vyoma-adhipataye namaḥ . nara-nārī-śarīrāya sāṃkhya-yoga-pravarttine .. 25.72..
नमो भैरवनाथाय देवानुगतलिङ्गिने । कुमारगुरवे तुभ्यं देवदेवाय ते नमः ॥ २५.७३॥
नमः भैरव-नाथाय देव-अनुगत-लिङ्गिने । कुमार-गुरवे तुभ्यम् देवदेवाय ते नमः ॥ २५।७३॥
namaḥ bhairava-nāthāya deva-anugata-liṅgine . kumāra-gurave tubhyam devadevāya te namaḥ .. 25.73..
तमो यज्ञाधिपतये नमस्ते ब्रह्मचारिणे । मृगव्याधाय महते ब्रह्माधिपतये नमः ॥ २५.७४॥
तमः यज्ञ-अधिपतये नमः ते ब्रह्मचारिणे । मृगव्याधाय महते ब्रह्म-अधिपतये नमः ॥ २५।७४॥
tamaḥ yajña-adhipataye namaḥ te brahmacāriṇe . mṛgavyādhāya mahate brahma-adhipataye namaḥ .. 25.74..
नमो हंसाय विश्वाय मोहनाय नमो नमः । योगिने योगगम्याय योगमायाय ते नमः ॥ २५.७५॥
नमः हंसाय विश्वाय मोहनाय नमः नमः । योगिने योग-गम्याय योग-मायाय ते नमः ॥ २५।७५॥
namaḥ haṃsāya viśvāya mohanāya namaḥ namaḥ . yogine yoga-gamyāya yoga-māyāya te namaḥ .. 25.75..
नमस्ते प्राणपालाय घण्टानादप्रियाय च । कपालिने नमस्तुभ्यं ज्योतिषां पतये नमः ॥ २५.७६॥
नमः ते प्राण-पालाय घण्टा-नाद-प्रियाय च । कपालिने नमः तुभ्यम् ज्योतिषाम् पतये नमः ॥ २५।७६॥
namaḥ te prāṇa-pālāya ghaṇṭā-nāda-priyāya ca . kapāline namaḥ tubhyam jyotiṣām pataye namaḥ .. 25.76..
नमो नमो नमस्तुभ्यं भूय एव नमो नमः । मह्यं सर्वात्मना कामान् प्रयच्छ परमेश्वर ॥ २५.७७॥
नमः नमः नमः तुभ्यम् भूयस् एव नमः नमः । मह्यम् सर्व-आत्मना कामान् प्रयच्छ परमेश्वर ॥ २५।७७॥
namaḥ namaḥ namaḥ tubhyam bhūyas eva namaḥ namaḥ . mahyam sarva-ātmanā kāmān prayaccha parameśvara .. 25.77..
सूत उवाच
एवं हि भक्त्या देवेशमभिष्टूय स माधवः । पपात पादयोर्विप्रा देवदेव्योः स दण्डवत् ॥ २५.७८॥
एवम् हि भक्त्या देवेशम् अभिष्टूय स माधवः । पपात पादयोः विप्राः देव-देव्योः स दण्ड-वत् ॥ २५।७८॥
evam hi bhaktyā deveśam abhiṣṭūya sa mādhavaḥ . papāta pādayoḥ viprāḥ deva-devyoḥ sa daṇḍa-vat .. 25.78..
उत्थाप्य भगवान् सोमः कृष्णं केशिनिषूदनम् । बभाषे मधुरं वाक्यं मेघगम्भीरनिः स्वनः ॥ २५.७९॥
उत्थाप्य भगवान् स उमः कृष्णम् केशिनिषूदनम् । बभाषे मधुरम् वाक्यम् मेघ-गम्भीर-निः स्वनः ॥ २५।७९॥
utthāpya bhagavān sa umaḥ kṛṣṇam keśiniṣūdanam . babhāṣe madhuram vākyam megha-gambhīra-niḥ svanaḥ .. 25.79..
किमर्थं पुण्डरीकाक्ष तपस्तप्तं त्वयाऽव्यय । त्वमेव दाता सर्वेषां कामानां कामिनामिह ॥ २५.८॥
किमर्थम् पुण्डरीकाक्ष तपः तप्तम् त्वया अव्यय । त्वम् एव दाता सर्वेषाम् कामानाम् कामिनाम् इह ॥ २५।८॥
kimartham puṇḍarīkākṣa tapaḥ taptam tvayā avyaya . tvam eva dātā sarveṣām kāmānām kāminām iha .. 25.8..
त्वं हि सा परमा मूर्तिर्मम नारायणाह्वया । नानवाप्तं त्वया तात विद्यते पुरुषोत्तम ॥ २५.८१॥
त्वम् हि सा परमा मूर्तिः मम नारायण-आह्वया । न अनवाप्तम् त्वया तात विद्यते पुरुषोत्तम ॥ २५।८१॥
tvam hi sā paramā mūrtiḥ mama nārāyaṇa-āhvayā . na anavāptam tvayā tāta vidyate puruṣottama .. 25.81..
वेत्थ नारायणानन्तमात्मानं परमेश्वरम् । महादेवं महायोगं स्वेन योगेन केशव ॥ २५.८२॥
वेत्थ नारायण अनन्तम् आत्मानम् परमेश्वरम् । महादेवम् महा-योगम् स्वेन योगेन केशव ॥ २५।८२॥
vettha nārāyaṇa anantam ātmānam parameśvaram . mahādevam mahā-yogam svena yogena keśava .. 25.82..
श्रुत्वा तद्वचनं कृष्णः प्रहसन् वै वृषध्वजम् । उवाचान्वीक्ष्य विश्वेशं देवीं च हिमशैलजाम् ॥ २५.८३॥
श्रुत्वा तद्-वचनम् कृष्णः प्रहसन् वै वृषध्वजम् । उवाच अन्वीक्ष्य विश्वेशम् देवीम् च हिमशैलजाम् ॥ २५।८३॥
śrutvā tad-vacanam kṛṣṇaḥ prahasan vai vṛṣadhvajam . uvāca anvīkṣya viśveśam devīm ca himaśailajām .. 25.83..
ज्ञातं हि भवता सर्वं स्वेन योगेन शंकर । इच्छाम्यात्मसमं पुत्रं त्वद्भक्तं देहि शंकर ॥ २५.८४॥
ज्ञातम् हि भवता सर्वम् स्वेन योगेन शंकर । इच्छामि आत्म-समम् पुत्रम् त्वद्-भक्तम् देहि शंकर ॥ २५।८४॥
jñātam hi bhavatā sarvam svena yogena śaṃkara . icchāmi ātma-samam putram tvad-bhaktam dehi śaṃkara .. 25.84..
तथास्त्वित्याह विश्वात्मा प्रहृष्टमनसा हरः । देवीमालोक्य गिरिजां केशवं परिषस्वजे ॥ २५.८५॥
तथा अस्तु इति आह विश्वात्मा प्रहृष्ट-मनसा हरः । देवीम् आलोक्य गिरिजाम् केशवम् परिषस्वजे ॥ २५।८५॥
tathā astu iti āha viśvātmā prahṛṣṭa-manasā haraḥ . devīm ālokya girijām keśavam pariṣasvaje .. 25.85..
ततः सा जगतां माता शंकरार्द्धशरीरिणी । व्याजहार हृषीकेशं देवी हिमगिरीन्द्रजा ॥ २५.८६॥
ततस् सा जगताम् माता शंकर-अर्द्ध-शरीरिणी । व्याजहार हृषीकेशम् देवी हिमगिरीन्द्रजा ॥ २५।८६॥
tatas sā jagatām mātā śaṃkara-arddha-śarīriṇī . vyājahāra hṛṣīkeśam devī himagirīndrajā .. 25.86..
वत्स जाने तवानन्ता निश्चलां सर्वदाच्युत । अनन्यामीश्वरे भक्तिमात्मन्यपि च केशव ॥ २५.८७॥
वत्स जाने तव अनन्ता निश्चलाम् सर्वदा अच्युत । अनन्याम् ईश्वरे भक्तिम् आत्मनि अपि च केशव ॥ २५।८७॥
vatsa jāne tava anantā niścalām sarvadā acyuta . ananyām īśvare bhaktim ātmani api ca keśava .. 25.87..
त्वं हि नारायणः साक्षात् सर्वात्मा पुरुषोत्तमः । प्रार्थितो दैवतैः पूर्वं संजातो दैवकीसुतः ॥ २५.८८॥
त्वम् हि नारायणः साक्षात् सर्व-आत्मा पुरुषोत्तमः । प्रार्थितः दैवतैः पूर्वम् संजातः दैवकी-सुतः ॥ २५।८८॥
tvam hi nārāyaṇaḥ sākṣāt sarva-ātmā puruṣottamaḥ . prārthitaḥ daivataiḥ pūrvam saṃjātaḥ daivakī-sutaḥ .. 25.88..
पश्य त्वमात्मनात्मानमात्मीयममलं पदम् । नावयोर्विद्यते भेद एकं पश्यन्ति सूरयः ॥ २५.८९॥
पश्य त्वम् आत्मना आत्मानम् आत्मीयम् अमलम् पदम् । न आवयोः विद्यते भेदः एकम् पश्यन्ति सूरयः ॥ २५।८९॥
paśya tvam ātmanā ātmānam ātmīyam amalam padam . na āvayoḥ vidyate bhedaḥ ekam paśyanti sūrayaḥ .. 25.89..
इमानिह वरानिष्टान् मत्तो गृह्णीष्व केशव । सर्वज्ञत्वं तथैश्वर्यं ज्ञानं तत् पारमेश्वरम् ॥ २५.९॥
इमान् इह वरान् इष्टान् मत्तः गृह्णीष्व केशव । सर्वज्ञ-त्वम् तथा ऐश्वर्यम् ज्ञानम् तत् पारमेश्वरम् ॥ २५।९॥
imān iha varān iṣṭān mattaḥ gṛhṇīṣva keśava . sarvajña-tvam tathā aiśvaryam jñānam tat pārameśvaram .. 25.9..
ईश्वरे निश्चलां भक्तिमात्मन्यपि परं बलम् । एवमुक्तस्तया कृष्णो महादेव्या जनार्दनः ॥ २५.९१॥
ईश्वरे निश्चलाम् भक्तिम् आत्मनि अपि परम् बलम् । एवम् उक्तः तया कृष्णः महादेव्या जनार्दनः ॥ २५।९१॥
īśvare niścalām bhaktim ātmani api param balam . evam uktaḥ tayā kṛṣṇaḥ mahādevyā janārdanaḥ .. 25.91..
आशिषं शिरसागृह्य देवोऽप्याह महेश्वरः । ॥ ॥
आशिषम् शिरसा आगृह्य देवः अपि आह महेश्वरः । ॥ ॥
āśiṣam śirasā āgṛhya devaḥ api āha maheśvaraḥ . .. ..
प्रगृह्य कृष्णं भगवानथेशः करेण देव्या सह देवदेवः । संपूज्यमानो मुनिभिः सुरेशै- र्जगाम कैलासगिरिं गिरीशः ॥ २५.९२॥
प्रगृह्य कृष्णम् भगवान् अथ ईशः करेण देव्या सह देवदेवः । संपूज्यमानः मुनिभिः सुर-ईशैः जगाम कैलास-गिरिम् गिरीशः ॥ २५।९२॥
pragṛhya kṛṣṇam bhagavān atha īśaḥ kareṇa devyā saha devadevaḥ . saṃpūjyamānaḥ munibhiḥ sura-īśaiḥ jagāma kailāsa-girim girīśaḥ .. 25.92..
इति श्रीकूर्मपूराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे पञ्चविंशोऽध्यायः ॥ २५॥
इति श्री-कूर्मपूराणे षट्साहस्त्र्याम् संहितायाम् पूर्व-विभागे पञ्चविंशः अध्यायः ॥ २५॥
iti śrī-kūrmapūrāṇe ṣaṭsāhastryām saṃhitāyām pūrva-vibhāge pañcaviṃśaḥ adhyāyaḥ .. 25..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In