| |
|

This overlay will guide you through the buttons:

सूत उवाच ।
प्रविश्य मेरुशिखरं कैलासं कनकप्रभम् । रराम भगवान् सोमः केशवेन महेश्वरः ॥ २६.१॥
प्रविश्य मेरु-शिखरम् कैलासम् कनक-प्रभम् । रराम भगवान् स उमः केशवेन महेश्वरः ॥ २६।१॥
praviśya meru-śikharam kailāsam kanaka-prabham . rarāma bhagavān sa umaḥ keśavena maheśvaraḥ .. 26.1..
अपश्यंस्ते महात्मानं कैलासगिरिवासिनः । पूजयाञ्चक्रिरे कृष्णं देवदेवमथाच्युतम् ॥ २६.२॥
अपश्यन् ते महात्मानम् कैलास-गिरि-वासिनः । पूजयाञ्चक्रिरे कृष्णम् देवदेवम् अथ अच्युतम् ॥ २६।२॥
apaśyan te mahātmānam kailāsa-giri-vāsinaḥ . pūjayāñcakrire kṛṣṇam devadevam atha acyutam .. 26.2..
चतुर्बाहुमुदाराङ्गं कालमेघसमप्रभम् । किरीटिनं शार्ङ्गपाणि श्रीवत्साङ्कितवक्षसम् ॥ २६.३॥
चतुर्-बाहुम् उदार-अङ्गम् काल-मेघ-सम-प्रभम् । किरीटिनम् शार्ङ्गपाणि श्रीवत्स-अङ्कित-वक्षसम् ॥ २६।३॥
catur-bāhum udāra-aṅgam kāla-megha-sama-prabham . kirīṭinam śārṅgapāṇi śrīvatsa-aṅkita-vakṣasam .. 26.3..
दीर्घबाहुं विशालाक्षं पीतवाससमच्युतम् । दधानमुरसा मालां वैजयन्तीमनुत्तमाम् ॥ २६.४॥
दीर्घ-बाहुम् विशाल-अक्षम् पीतवाससम् अच्युतम् । दधानम् उरसा मालाम् वैजयन्तीम् अनुत्तमाम् ॥ २६।४॥
dīrgha-bāhum viśāla-akṣam pītavāsasam acyutam . dadhānam urasā mālām vaijayantīm anuttamām .. 26.4..
भ्राजमानं श्रिया दिव्यं युवानमतिकोमलम् । पद्माङ्घ्रिं पद्मनयनं सस्मितं सुगतिप्रदम् ॥ २६.५॥
भ्राजमानम् श्रिया दिव्यम् युवानम् अति कोमलम् । पद्म-अङ्घ्रिम् पद्म-नयनम् स स्मितम् सुगति-प्रदम् ॥ २६।५॥
bhrājamānam śriyā divyam yuvānam ati komalam . padma-aṅghrim padma-nayanam sa smitam sugati-pradam .. 26.5..
कदाचित् तत्र लीलार्थं देवकीनन्दवर्द्धनः । भ्राजमानः श्रीया कृष्णश्चचार गिरिकन्दरे ॥ २६.६॥
कदाचिद् तत्र लीला-अर्थम् देवकी-नन्द-वर्द्धनः । भ्राजमानः कृष्णः चचार गिरि-कन्दरे ॥ २६।६॥
kadācid tatra līlā-artham devakī-nanda-varddhanaḥ . bhrājamānaḥ kṛṣṇaḥ cacāra giri-kandare .. 26.6..
गन्धर्वाप्सरसां मुख्या नागकन्याश्च कृत्स्नशः । सिद्धा यक्षाश्च गन्धर्वास्तत्र तत्र जगन्मयम् ॥ २६.७॥
गन्धर्व-अप्सरसाम् मुख्याः नाग-कन्याः च कृत्स्नशस् । सिद्धाः यक्षाः च गन्धर्वाः तत्र तत्र जगत्-मयम् ॥ २६।७॥
gandharva-apsarasām mukhyāḥ nāga-kanyāḥ ca kṛtsnaśas . siddhāḥ yakṣāḥ ca gandharvāḥ tatra tatra jagat-mayam .. 26.7..
दृष्ट्वाश्चर्यं परं गत्वा हर्षादुत्फुल्लोचनाः । मुमुचुः पुष्पवर्षाणि तस्य मूर्ध्नि महात्मनः ॥ २६.८॥
दृष्ट्वा आश्चर्यम् परम् गत्वा हर्षात् उत्फुल्ल-उचनाः । मुमुचुः पुष्प-वर्षाणि तस्य मूर्ध्नि महात्मनः ॥ २६।८॥
dṛṣṭvā āścaryam param gatvā harṣāt utphulla-ucanāḥ . mumucuḥ puṣpa-varṣāṇi tasya mūrdhni mahātmanaḥ .. 26.8..
गन्धर्वकन्यका दिव्यास्तद्वदप्सरसां वराः । दृष्ट्वा चकमिरे कृष्णं स्त्रस्तवस्त्रविभूषणाः ॥ २६.९॥
गन्धर्व-कन्यकाः दिव्याः तद्वत् अप्सरसाम् वराः । दृष्ट्वा चकमिरे कृष्णम् स्त्रस्त-वस्त्र-विभूषणाः ॥ २६।९॥
gandharva-kanyakāḥ divyāḥ tadvat apsarasām varāḥ . dṛṣṭvā cakamire kṛṣṇam strasta-vastra-vibhūṣaṇāḥ .. 26.9..
काश्चिद् गायन्ति विविधां गीतिं गीतविशारदाः । संप्रेक्ष्य देवकीसूनुं सुन्दरं काममोहिताः ॥ २६.१॥
काश्चिद् गायन्ति विविधाम् गीतिम् गीत-विशारदाः । संप्रेक्ष्य देवकी-सूनुम् सुन्दरम् काम-मोहिताः ॥ २६।१॥
kāścid gāyanti vividhām gītim gīta-viśāradāḥ . saṃprekṣya devakī-sūnum sundaram kāma-mohitāḥ .. 26.1..
काश्चिद्विलासबहुला नृत्यन्ति स्म तदग्रतः । संप्रेक्ष्य सस्मितं काश्चित् पपुस्तद्वदनामृतम् ॥ २६.११॥
काश्चिद् विलास-बहुलाः नृत्यन्ति स्म तद्-अग्रतस् । संप्रेक्ष्य स स्मितम् काश्चिद् पपुः तद्-वदन-अमृतम् ॥ २६।११॥
kāścid vilāsa-bahulāḥ nṛtyanti sma tad-agratas . saṃprekṣya sa smitam kāścid papuḥ tad-vadana-amṛtam .. 26.11..
काश्चिद् भूषणवर्याणि स्वाङ्गादादाय सादरम् । भूषयाञ्चक्रिरे कृष्णं कामिन्यो लोकभूषणम् ॥ २६.१२॥
काश्चिद् भूषण-वर्याणि स्व-अङ्गात् आदाय स आदरम् । भूषयाञ्चक्रिरे कृष्णम् कामिन्यः लोक-भूषणम् ॥ २६।१२॥
kāścid bhūṣaṇa-varyāṇi sva-aṅgāt ādāya sa ādaram . bhūṣayāñcakrire kṛṣṇam kāminyaḥ loka-bhūṣaṇam .. 26.12..
काश्चिद् भूषणवर्याणि समादाय तदङ्गतः । स्वात्मानं बूषयामासुः स्वात्मकैरपि माधवम् ॥ २६.१३॥
काश्चिद् भूषण-वर्याणि समादाय तद्-अङ्गतः । स्व-आत्मानम् बूषयामासुः स्व-आत्मकैः अपि माधवम् ॥ २६।१३॥
kāścid bhūṣaṇa-varyāṇi samādāya tad-aṅgataḥ . sva-ātmānam būṣayāmāsuḥ sva-ātmakaiḥ api mādhavam .. 26.13..
काश्चिदागत्य कृष्णस्य समीपं काममोहिता । चुचुम्ब वदनाम्भोजं हरेर्मुग्धमृगेक्षणा ॥ २६.१४॥
काश्चिद् आगत्य कृष्णस्य समीपम् काम-मोहिता । चुचुम्ब वदन-अम्भोजम् हरेः मुग्ध-मृग-ईक्षणा ॥ २६।१४॥
kāścid āgatya kṛṣṇasya samīpam kāma-mohitā . cucumba vadana-ambhojam hareḥ mugdha-mṛga-īkṣaṇā .. 26.14..
प्रगृह्य काश्चिद् गोविन्दं करेण भवनं स्वकम् । प्रापयामासर्लोकादिं मायया तस्य मोहिता ॥ २६.१५॥
प्रगृह्य काश्चिद् गोविन्दम् करेण भवनम् स्वकम् । प्रापयामासः लोक-आदिम् मायया तस्य मोहिता ॥ २६।१५॥
pragṛhya kāścid govindam kareṇa bhavanam svakam . prāpayāmāsaḥ loka-ādim māyayā tasya mohitā .. 26.15..
तासां स भगवान् कृष्णः कामान् कमललोचनः । बहूनि कृत्वा रूपाणि पूरयामास लीलया ॥ २६.१६॥
तासाम् स भगवान् कृष्णः कामान् कमल-लोचनः । बहूनि कृत्वा रूपाणि पूरयामास लीलया ॥ २६।१६॥
tāsām sa bhagavān kṛṣṇaḥ kāmān kamala-locanaḥ . bahūni kṛtvā rūpāṇi pūrayāmāsa līlayā .. 26.16..
एवं वै सुचिरं कालं देवदेवपुरे हरिः । रेमे नारायणः श्रीमान् मायया मोहयञ्जगत् ॥ २६.१७॥
एवम् वै सु चिरम् कालम् देवदेव-पुरे हरिः । रेमे नारायणः श्रीमान् मायया मोहयन् जगत् ॥ २६।१७॥
evam vai su ciram kālam devadeva-pure hariḥ . reme nārāyaṇaḥ śrīmān māyayā mohayan jagat .. 26.17..
गते बहुतिथे काले द्वारवत्यां निवासिनः । बभूवुर्विह्वला भीता गोविन्दविरहे जनाः ॥ २६.१८॥
गते बहुतिथे काले द्वारवत्याम् निवासिनः । बभूवुः विह्वलाः भीताः गोविन्द-विरहे जनाः ॥ २६।१८॥
gate bahutithe kāle dvāravatyām nivāsinaḥ . babhūvuḥ vihvalāḥ bhītāḥ govinda-virahe janāḥ .. 26.18..
ततः सुपर्णो बलवान् पूर्वमेव विसर्जितः । कृष्णेन मार्गमाणस्तं हिमवन्तं ययौ गिरिम् ॥ २६.१९॥
ततस् सुपर्णः बलवान् पूर्वम् एव विसर्जितः । कृष्णेन मार्गमाणः तम् हिमवन्तम् ययौ गिरिम् ॥ २६।१९॥
tatas suparṇaḥ balavān pūrvam eva visarjitaḥ . kṛṣṇena mārgamāṇaḥ tam himavantam yayau girim .. 26.19..
अदृष्ट्वा तत्र गोविन्दं प्रणम्य शिरसा मुनिम् । आजगामोपमन्युं तं पुरीं द्वारवतीं पुनः ॥ २६.२॥
अ दृष्ट्वा तत्र गोविन्दम् प्रणम्य शिरसा मुनिम् । आजगाम उपमन्युम् तम् पुरीम् द्वारवतीम् पुनर् ॥ २६।२॥
a dṛṣṭvā tatra govindam praṇamya śirasā munim . ājagāma upamanyum tam purīm dvāravatīm punar .. 26.2..
तदन्तरे महादैत्या राक्षसाश्चातिभीषणाः । आजग्मुर्द्वारकां शुभ्रां भीषयन्तः सहस्त्रशः ॥ २६.२१॥
तद्-अन्तरे महा-दैत्याः राक्षसाः च अति भीषणाः । आजग्मुः द्वारकाम् शुभ्राम् भीषयन्तः सहस्त्रशस् ॥ २६।२१॥
tad-antare mahā-daityāḥ rākṣasāḥ ca ati bhīṣaṇāḥ . ājagmuḥ dvārakām śubhrām bhīṣayantaḥ sahastraśas .. 26.21..
स तान् सुपर्णो बलवान् कृष्णतुल्यपराक्रमः । हत्वा युद्धेन महता रक्षति स्म पुरीं शुभाम् ॥ २६.२२॥
स तान् सुपर्णः बलवान् कृष्ण-तुल्य-पराक्रमः । हत्वा युद्धेन महता रक्षति स्म पुरीम् शुभाम् ॥ २६।२२॥
sa tān suparṇaḥ balavān kṛṣṇa-tulya-parākramaḥ . hatvā yuddhena mahatā rakṣati sma purīm śubhām .. 26.22..
एतस्मिन्नेव काले तु नारदो भगवानृषिः । दृष्ट्वा कैलासशिखरे कृष्णं द्वारवतीं गतः ॥ २६.२३॥
एतस्मिन् एव काले तु नारदः भगवान् ऋषिः । दृष्ट्वा कैलास-शिखरे कृष्णम् द्वारवतीम् गतः ॥ २६।२३॥
etasmin eva kāle tu nāradaḥ bhagavān ṛṣiḥ . dṛṣṭvā kailāsa-śikhare kṛṣṇam dvāravatīm gataḥ .. 26.23..
तं दृष्ट्वा नारदमृषिं सर्वे तत्र निवासिनः । प्रोचुर्नारायणो नाथः कुत्रास्ते भगवान् हरिः ॥ २६.२४॥
तम् दृष्ट्वा नारदम् ऋषिम् सर्वे तत्र निवासिनः । प्रोचुः नारायणः नाथः कुत्र आस्ते भगवान् हरिः ॥ २६।२४॥
tam dṛṣṭvā nāradam ṛṣim sarve tatra nivāsinaḥ . procuḥ nārāyaṇaḥ nāthaḥ kutra āste bhagavān hariḥ .. 26.24..
स तानुवाच भगवान् कैलसशिखरे हरिः । रमतेऽद्य महायोगीं तं दृष्ट्वाऽहमिहागतः ॥ २६.२५॥
स तान् उवाच भगवान् कैलस-शिखरे हरिः । रमते अद्य महा-योगीम् तम् दृष्ट्वा अहम् इह आगतः ॥ २६।२५॥
sa tān uvāca bhagavān kailasa-śikhare hariḥ . ramate adya mahā-yogīm tam dṛṣṭvā aham iha āgataḥ .. 26.25..
तस्योपश्रुत्य वचनं सुपर्णः पततां वरः । जगामाकाशगो विप्राः कैलासं गिरिमुत्तमम् ॥ २६.२६॥
तस्य उपश्रुत्य वचनम् सुपर्णः पतताम् वरः । जगाम आकाश-गः विप्राः कैलासम् गिरिम् उत्तमम् ॥ २६।२६॥
tasya upaśrutya vacanam suparṇaḥ patatām varaḥ . jagāma ākāśa-gaḥ viprāḥ kailāsam girim uttamam .. 26.26..
ददर्श देवकीसूनुं भवने रत्नमण्डिते । वरासनस्थं गोविन्दं देवदेवान्तिके हरिम् ॥ २६.२७॥
ददर्श देवकी-सूनुम् भवने रत्न-मण्डिते । वरासन-स्थम् गोविन्दम् देवदेव-अन्तिके हरिम् ॥ २६।२७॥
dadarśa devakī-sūnum bhavane ratna-maṇḍite . varāsana-stham govindam devadeva-antike harim .. 26.27..
उपास्यमानममरैर्दिव्यस्त्रीभिः समन्ततः । महादेवगणैः सिद्धैर्योगिभिः परिवारितम् ॥ २६.२८॥
उपास्यमानम् अमरैः दिव्य-स्त्रीभिः समन्ततः । महादेव-गणैः सिद्धैः योगिभिः परिवारितम् ॥ २६।२८॥
upāsyamānam amaraiḥ divya-strībhiḥ samantataḥ . mahādeva-gaṇaiḥ siddhaiḥ yogibhiḥ parivāritam .. 26.28..
प्रणम्य दण्डवद् भूमौ सुपर्णः शंकरं शिवम् । निवेदयामास हरिं प्रवृत्तिं द्वारकापुरे ॥ २६.२९॥
प्रणम्य दण्ड-वत् भूमौ सुपर्णः शंकरम् शिवम् । निवेदयामास हरिम् प्रवृत्तिम् द्वारका-पुरे ॥ २६।२९॥
praṇamya daṇḍa-vat bhūmau suparṇaḥ śaṃkaram śivam . nivedayāmāsa harim pravṛttim dvārakā-pure .. 26.29..
ततः प्रणम्य शिरसा शंकरं नीललोहितम् । आजगाम पुरीं कृष्णः सोऽनुज्ञातो हरेण तु ॥ २६.३॥
ततस् प्रणम्य शिरसा शंकरम् नीललोहितम् । आजगाम पुरीम् कृष्णः सः अनुज्ञातः हरेण तु ॥ २६।३॥
tatas praṇamya śirasā śaṃkaram nīlalohitam . ājagāma purīm kṛṣṇaḥ saḥ anujñātaḥ hareṇa tu .. 26.3..
आरुह्य कश्यपसुतं स्त्रीगणैरभिपूजितः । वचोभिरमृतास्वादैर्मानितो मधुसूदनः ॥ २६.३१॥
आरुह्य कश्यप-सुतम् स्त्री-गणैः अभिपूजितः । वचोभिः अमृत-आस्वादैः मानितः मधुसूदनः ॥ २६।३१॥
āruhya kaśyapa-sutam strī-gaṇaiḥ abhipūjitaḥ . vacobhiḥ amṛta-āsvādaiḥ mānitaḥ madhusūdanaḥ .. 26.31..
वीक्ष्य यान्तममित्रघ्नं गन्धर्वाप्सरसां वराः । अन्वगच्छन् महोयोगं शङ्खचक्रगदाधरम् ॥ २६.३२॥
वीक्ष्य यान्तम् अमित्र-घ्नम् गन्धर्व-अप्सरसाम् वराः । अन्वगच्छत् महः-योगम् शङ्ख-चक्र-गदा-धरम् ॥ २६।३२॥
vīkṣya yāntam amitra-ghnam gandharva-apsarasām varāḥ . anvagacchat mahaḥ-yogam śaṅkha-cakra-gadā-dharam .. 26.32..
विसर्जयित्वा विश्वात्मा सर्वा एवाङ्गना हरिः । ययौ स तूर्णं गोविन्दो दिव्यां द्वारवतीं पुरीम् ॥ २६.३३॥
विसर्जयित्वा विश्वात्मा सर्वाः एव अङ्गनाः हरिः । ययौ स तूर्णम् गोविन्दः दिव्याम् द्वारवतीम् पुरीम् ॥ २६।३३॥
visarjayitvā viśvātmā sarvāḥ eva aṅganāḥ hariḥ . yayau sa tūrṇam govindaḥ divyām dvāravatīm purīm .. 26.33..
गते मुररिपौ नैव कामिन्यो मुनिपुंगवाः । निशेव चन्द्ररहिता विना तेन चकाशिरे ॥ २६.३४॥
गते मुररिपौ ना एव कामिन्यः मुनि-पुंगवाः । निशा इव चन्द्र-रहिता विना तेन चकाशिरे ॥ २६।३४॥
gate muraripau nā eva kāminyaḥ muni-puṃgavāḥ . niśā iva candra-rahitā vinā tena cakāśire .. 26.34..
श्रुत्वा पौरजनास्तूर्णं कृष्णागमनमुत्तमम् । मण्डयाञ्चक्रिरे दिव्यां पुरीं द्वारवतीं शुभाम् ॥ २६.३५॥
श्रुत्वा पौर-जनाः तूर्णम् कृष्ण-आगमनम् उत्तमम् । मण्डयाञ्चक्रिरे दिव्याम् पुरीम् द्वारवतीम् शुभाम् ॥ २६।३५॥
śrutvā paura-janāḥ tūrṇam kṛṣṇa-āgamanam uttamam . maṇḍayāñcakrire divyām purīm dvāravatīm śubhām .. 26.35..
पताकाभिर्विशालाभिर्ध्वजै रत्नपरिष्कृतैः । लाजादिभिः पुरीं रम्यां भूषयाञ्चक्रिरे जनाः ॥ २६.३६॥
पताकाभिः विशालाभिः ध्वजैः रत्न-परिष्कृतैः । लाज-आदिभिः पुरीम् रम्याम् भूषयाञ्चक्रिरे जनाः ॥ २६।३६॥
patākābhiḥ viśālābhiḥ dhvajaiḥ ratna-pariṣkṛtaiḥ . lāja-ādibhiḥ purīm ramyām bhūṣayāñcakrire janāḥ .. 26.36..
अवादयन्त विविधान् वादित्रान् मधुरस्वनान् । शंखान् सहस्रशो दध्मुर्वीणावादान् वितेनिरे ॥ २६.३७॥
अवादयन्त विविधान् वादित्रान् मधुर-स्वनान् । शंखान् सहस्रशस् दध्मुः वीणा-वादान् वितेनिरे ॥ २६।३७॥
avādayanta vividhān vāditrān madhura-svanān . śaṃkhān sahasraśas dadhmuḥ vīṇā-vādān vitenire .. 26.37..
प्रविष्टमात्रे गोविन्दे पुरीं द्वारवतीं शुभाम् । अगायन् मधुरं गानं स्त्रियो यौवनशालिनः ॥ २६.३८॥
प्रविष्ट-मात्रे गोविन्दे पुरीम् द्वारवतीम् शुभाम् । अगायत् मधुरम् गानम् स्त्रियः यौवन-शालिनः ॥ २६।३८॥
praviṣṭa-mātre govinde purīm dvāravatīm śubhām . agāyat madhuram gānam striyaḥ yauvana-śālinaḥ .. 26.38..
दृष्ट्वा ननृतुरीशानं स्थिताः प्रासादमूर्द्धसु । मुमुचुः पुष्पवर्षाणि वसुदेवसुतोपरि ॥ २६.३९॥
दृष्ट्वा ननृतुः ईशानम् स्थिताः प्रासाद-मूर्द्धसु । मुमुचुः पुष्प-वर्षाणि वसुदेव-सुत-उपरि ॥ २६।३९॥
dṛṣṭvā nanṛtuḥ īśānam sthitāḥ prāsāda-mūrddhasu . mumucuḥ puṣpa-varṣāṇi vasudeva-suta-upari .. 26.39..
प्रविश्य भवनं कृष्ण आशीर्वादाभिवर्द्धितः । वरासने महायोगी भाति देवीभिरन्वितः ॥ २६.४॥
प्रविश्य भवनम् कृष्णः आशीर्वाद-अभिवर्द्धितः । वरासने महा-योगी भाति देवीभिः अन्वितः ॥ २६।४॥
praviśya bhavanam kṛṣṇaḥ āśīrvāda-abhivarddhitaḥ . varāsane mahā-yogī bhāti devībhiḥ anvitaḥ .. 26.4..
सुरम्ये मण्डपे शुभ्रे शङ्खाद्यैः परिवारितः । आत्मजैरभितो मुख्यैः स्त्रीसहस्रैश्च संवृतः । ॥ ॥
सु रम्ये मण्डपे शुभ्रे शङ्ख-आद्यैः परिवारितः । आत्मजैः अभितस् मुख्यैः स्त्री-सहस्रैः च संवृतः । ॥ ॥
su ramye maṇḍape śubhre śaṅkha-ādyaiḥ parivāritaḥ . ātmajaiḥ abhitas mukhyaiḥ strī-sahasraiḥ ca saṃvṛtaḥ . .. ..
तत्रासनवरे रम्ये जाम्बवत्या सहाच्युतः । २६.४१भ्राजते चोमया देवो यथा देव्या समन्वितः ॥ २६.४२॥
तत्र आसन-वरे रम्ये जाम्बवत्या सह अच्युतः । २६।४१भ्राजते च उमया देवः यथा देव्या समन्वितः ॥ २६।४२॥
tatra āsana-vare ramye jāmbavatyā saha acyutaḥ . 26.41bhrājate ca umayā devaḥ yathā devyā samanvitaḥ .. 26.42..
आजग्मुर्देवगन्धर्वा द्रष्टुं लोकादिमव्ययम् । महर्षयः पूर्वजाता मार्कण्डेयादयो द्विजाः ॥ २६.४३॥
आजग्मुः देव-गन्धर्वाः द्रष्टुम् लोकादिम् अव्ययम् । महा-ऋषयः पूर्व-जाताः मार्कण्डेय-आदयः द्विजाः ॥ २६।४३॥
ājagmuḥ deva-gandharvāḥ draṣṭum lokādim avyayam . mahā-ṛṣayaḥ pūrva-jātāḥ mārkaṇḍeya-ādayaḥ dvijāḥ .. 26.43..
ततः स भगवान् कृष्णो मार्कण्डेयं समागतम् । ननामोत्थाय शिरसा स्वासनं च ददौ हरिः ॥ २६.४४॥
ततस् स भगवान् कृष्णः मार्कण्डेयम् समागतम् । ननाम उत्थाय शिरसा स्व-आसनम् च ददौ हरिः ॥ २६।४४॥
tatas sa bhagavān kṛṣṇaḥ mārkaṇḍeyam samāgatam . nanāma utthāya śirasā sva-āsanam ca dadau hariḥ .. 26.44..
संपूज्य तानृषिगणान् प्रणामेन महाभुजः । विसर्जयामास हरिर्दत्त्वा तदभिवाञ्छितान् ॥ २६.४५॥
संपूज्य तान् ऋषि-गणान् प्रणामेन महा-भुजः । विसर्जयामास हरिः दत्त्वा तद्-अभिवाञ्छितान् ॥ २६।४५॥
saṃpūjya tān ṛṣi-gaṇān praṇāmena mahā-bhujaḥ . visarjayāmāsa hariḥ dattvā tad-abhivāñchitān .. 26.45..
तदा मध्याह्नसमये देवदेवः स्वयं हरिः । स्नात्वा शुक्लाम्बरो भानुमुपतिष्ठन् कृताञ्जलिः ॥ २६.४६॥
तदा मध्याह्न-समये देवदेवः स्वयम् हरिः । स्नात्वा शुक्ल-अम्बरः भानुम् उपतिष्ठन् कृताञ्जलिः ॥ २६।४६॥
tadā madhyāhna-samaye devadevaḥ svayam hariḥ . snātvā śukla-ambaraḥ bhānum upatiṣṭhan kṛtāñjaliḥ .. 26.46..
जजाप जाप्यं विधिवत् प्रेक्षमाणो दिवाकरम् । तर्पयामास देवेशो देवान् मुनिगणान् पितॄन् ॥ २६.४७॥
जजाप जाप्यम् विधिवत् प्रेक्षमाणः दिवाकरम् । तर्पयामास देवेशः देवान् मुनि-गणान् पितॄन् ॥ २६।४७॥
jajāpa jāpyam vidhivat prekṣamāṇaḥ divākaram . tarpayāmāsa deveśaḥ devān muni-gaṇān pitṝn .. 26.47..
प्रविश्य देवभवनं मार्कण्डेयेन चैव हि । पूजयामास लिङ्गस्थं भूतेशं भूतिभूषणम् ॥ २६.४८॥
प्रविश्य देव-भवनम् मार्कण्डेयेन च एव हि । पूजयामास लिङ्ग-स्थम् भूतेशम् भूतिभूषणम् ॥ २६।४८॥
praviśya deva-bhavanam mārkaṇḍeyena ca eva hi . pūjayāmāsa liṅga-stham bhūteśam bhūtibhūṣaṇam .. 26.48..
समाप्य नियमं सर्वं नियन्ताऽसौ नृणां स्वयम् । भोजयित्वा मुनिवरं ब्राह्मणानभिपूज्य च ॥ २६.४९॥
समाप्य नियमम् सर्वम् नियन्ता असौ नृणाम् स्वयम् । भोजयित्वा मुनि-वरम् ब्राह्मणान् अभिपूज्य च ॥ २६।४९॥
samāpya niyamam sarvam niyantā asau nṛṇām svayam . bhojayitvā muni-varam brāhmaṇān abhipūjya ca .. 26.49..
कृत्वात्मयोगं विप्रेन्द्रा मार्कण्डेयेन चाच्युतः । कथाः पौराणिकीं पुण्याश्चक्रे पुत्रादिभिर्वृतः ॥ २६.५॥
कृत्वा आत्म-योगम् विप्र-इन्द्राः मार्कण्डेयेन च अच्युतः । कथाः पौराणिकीम् पुण्याः चक्रे पुत्र-आदिभिः वृतः ॥ २६।५॥
kṛtvā ātma-yogam vipra-indrāḥ mārkaṇḍeyena ca acyutaḥ . kathāḥ paurāṇikīm puṇyāḥ cakre putra-ādibhiḥ vṛtaḥ .. 26.5..
अथैतत् सर्वमखिलं दृष्ट्वा कर्म महामुनिः । मार्कण्डेयो हसन् कृष्णं बभाषे मधुरं वचः ॥ २६.५१॥
अथा एतत् सर्वम् अखिलम् दृष्ट्वा कर्म महा-मुनिः । मार्कण्डेयः हसन् कृष्णम् बभाषे मधुरम् वचः ॥ २६।५१॥
athā etat sarvam akhilam dṛṣṭvā karma mahā-muniḥ . mārkaṇḍeyaḥ hasan kṛṣṇam babhāṣe madhuram vacaḥ .. 26.51..
मार्कण्डेय उवाच ।
कः समाराध्यते देवो भवता कर्मभिः शुभैः । ब्रूहि त्वं कर्मभिः पूज्यो योगिनां ध्येय एव च ॥ २६.५२॥
कः समाराध्यते देवः भवता कर्मभिः शुभैः । ब्रूहि त्वम् कर्मभिः पूज्यः योगिनाम् ध्येयः एव च ॥ २६।५२॥
kaḥ samārādhyate devaḥ bhavatā karmabhiḥ śubhaiḥ . brūhi tvam karmabhiḥ pūjyaḥ yoginām dhyeyaḥ eva ca .. 26.52..
त्वं हि तत् परमं ब्रह्म निर्वाणममलं पदम् । भारावतरणार्थाय जातो वृष्णिकुले प्रभुः ॥ २६.५३॥
त्वम् हि तत् परमम् ब्रह्म निर्वाणम् अमलम् पदम् । भार-अवतरण-अर्थाय जातः वृष्णि-कुले प्रभुः ॥ २६।५३॥
tvam hi tat paramam brahma nirvāṇam amalam padam . bhāra-avataraṇa-arthāya jātaḥ vṛṣṇi-kule prabhuḥ .. 26.53..
तमब्रवीन्महाबाहुः कृष्णो ब्रह्मविदां वरः । श्रृण्वतामेव पुत्राणां सर्वेषां प्रहसन्निव ॥ २६.५४॥
तम् अब्रवीत् महा-बाहुः कृष्णः ब्रह्म-विदाम् वरः । श्रृण्वताम् एव पुत्राणाम् सर्वेषाम् प्रहसन् इव ॥ २६।५४॥
tam abravīt mahā-bāhuḥ kṛṣṇaḥ brahma-vidām varaḥ . śrṛṇvatām eva putrāṇām sarveṣām prahasan iva .. 26.54..
श्रीभगवानुवाच ।
भवता कथितं सर्वं तथ्यमेव न संशयः । तथापि देवमीशानं पूजयामि सनातनम् ॥ २६.५५॥
भवता कथितम् सर्वम् तथ्यम् एव न संशयः । तथा अपि देवम् ईशानम् पूजयामि सनातनम् ॥ २६।५५॥
bhavatā kathitam sarvam tathyam eva na saṃśayaḥ . tathā api devam īśānam pūjayāmi sanātanam .. 26.55..
न मे विप्रास्ति कर्त्तव्यं नानवाप्तं कथंचन । पूजयामि तथापीशं जानन्नैतत् परं शिवम् ॥ २६.५६॥
न मे विप्र अस्ति कर्त्तव्यम् न अनवाप्तम् कथंचन । पूजयामि तथा अपि ईशम् जानन् न एतत् परम् शिवम् ॥ २६।५६॥
na me vipra asti karttavyam na anavāptam kathaṃcana . pūjayāmi tathā api īśam jānan na etat param śivam .. 26.56..
न वै पश्यन्ति तं देवं मायया मोहिता जनाः । ततोऽहं स्वात्मनो मूलं ज्ञापयन् पूजयामि तम् ॥ २६.५७॥
न वै पश्यन्ति तम् देवम् मायया मोहिताः जनाः । ततस् अहम् स्व-आत्मनः मूलम् ज्ञापयन् पूजयामि तम् ॥ २६।५७॥
na vai paśyanti tam devam māyayā mohitāḥ janāḥ . tatas aham sva-ātmanaḥ mūlam jñāpayan pūjayāmi tam .. 26.57..
न च लिङ्गार्चनात् पुण्यं लोकेस्मिन् भीतिनाशनम् । तथा लिङ्गे हितायैषां लोकानां पूजयेच्छिवम् ॥ २६.५८॥
न च लिङ्ग-अर्चनात् पुण्यम् लोके स्मिन् भीति-नाशनम् । तथा लिङ्गे हिताय एषाम् लोकानाम् पूजयेत् शिवम् ॥ २६।५८॥
na ca liṅga-arcanāt puṇyam loke smin bhīti-nāśanam . tathā liṅge hitāya eṣām lokānām pūjayet śivam .. 26.58..
योऽहं तल्लिङ्गमित्याहुर्वेदवादविदो जनाः । ततोऽहमात्ममीशानं पूजयाम्यात्मनैव तत् ॥ २६.५९॥
यः अहम् तत् लिङ्गम् इति आहुः वेद-वाद-विदः जनाः । ततस् अहम् आत्मम् ईशानम् पूजयामि आत्मना एव तत् ॥ २६।५९॥
yaḥ aham tat liṅgam iti āhuḥ veda-vāda-vidaḥ janāḥ . tatas aham ātmam īśānam pūjayāmi ātmanā eva tat .. 26.59..
तस्यैव परमा मूर्त्तिस्तन्मयोऽहं न संशयः । नावयोर्द्यिते भेदो वेदेष्वेवं विनिश्चयः ॥ २६.६॥
तस्य एव परमा मूर्त्तिः तद्-मयः अहम् न संशयः । भेदः वेदेषु एवम् विनिश्चयः ॥ २६।६॥
tasya eva paramā mūrttiḥ tad-mayaḥ aham na saṃśayaḥ . bhedaḥ vedeṣu evam viniścayaḥ .. 26.6..
एष देवो महादेवः सदा संसारभीरुभिः । ध्येयः पूज्यश्च वन्द्यश्च ज्ञेयो लिङ्गे महेश्वरः ॥ २६.६१॥
एष देवः महादेवः सदा संसार-भीरुभिः । ध्येयः पूज्यः च वन्द्यः च ज्ञेयः लिङ्गे महेश्वरः ॥ २६।६१॥
eṣa devaḥ mahādevaḥ sadā saṃsāra-bhīrubhiḥ . dhyeyaḥ pūjyaḥ ca vandyaḥ ca jñeyaḥ liṅge maheśvaraḥ .. 26.61..
मार्कण्डेय उवाच ।
किं तल्लिङ्गं सुरश्रेष्ठ लिङ्गे संपूज्यते च कः । ब्रूहि कृष्ण विशालाक्ष गहनं ह्येतदुत्तमम् ॥ २६.६२॥
किम् तत् लिङ्गम् सुरश्रेष्ठ लिङ्गे संपूज्यते च कः । ब्रूहि कृष्ण विशाल-अक्ष गहनम् हि एतत् उत्तमम् ॥ २६।६२॥
kim tat liṅgam suraśreṣṭha liṅge saṃpūjyate ca kaḥ . brūhi kṛṣṇa viśāla-akṣa gahanam hi etat uttamam .. 26.62..
अव्यक्तं लिङ्गमित्याहुरानन्दं ज्योतिरक्षरम् । वेदा महेस्वरं देवमाहुर्लिङ्गिनमव्ययम् । पुरा चैकार्णवे घोरे नष्टे स्थावरजङ्गमे ॥ २६.६३॥
अव्यक्तम् लिङ्गम् इति आहुः आनन्दम् ज्योतिः अक्षरम् । वेदाः महेस्वरम् देवम् आहुः लिङ्गिनम् अव्ययम् । पुरा च एकार्णवे घोरे नष्टे स्थावर-जङ्गमे ॥ २६।६३॥
avyaktam liṅgam iti āhuḥ ānandam jyotiḥ akṣaram . vedāḥ mahesvaram devam āhuḥ liṅginam avyayam . purā ca ekārṇave ghore naṣṭe sthāvara-jaṅgame .. 26.63..
प्रबोधार्थं ब्रह्मणो मे प्रादुर्भूतः स्वयं शिवः । तस्मात् कालात् समारभ्य ब्रह्मा चाहं सदैव हि । पूजयावो महादेवं लोकानां हितकाम्यया ॥ २६.६४॥
प्रबोध-अर्थम् ब्रह्मणः मे प्रादुर्भूतः स्वयम् शिवः । तस्मात् कालात् समारभ्य ब्रह्मा च अहम् सदा एव हि । पूजयावः महादेवम् लोकानाम् हित-काम्यया ॥ २६।६४॥
prabodha-artham brahmaṇaḥ me prādurbhūtaḥ svayam śivaḥ . tasmāt kālāt samārabhya brahmā ca aham sadā eva hi . pūjayāvaḥ mahādevam lokānām hita-kāmyayā .. 26.64..
मार्कण्डेय उवाच ।
कथं लिङ्गमभूत् पूर्वमैश्वरं परमं पदम् । प्रबोधार्थं स्वयं कृष्ण वक्तुमर्हसि सांप्रतम् ॥ २६.६५॥
कथम् लिङ्गम् अभूत् पूर्वम् ऐश्वरम् परमम् पदम् । प्रबोध-अर्थम् स्वयम् कृष्ण वक्तुम् अर्हसि सांप्रतम् ॥ २६।६५॥
katham liṅgam abhūt pūrvam aiśvaram paramam padam . prabodha-artham svayam kṛṣṇa vaktum arhasi sāṃpratam .. 26.65..
श्रीभगवानुवाच ।
आसीदेकार्णवं घोरमविभागं तमोमयम् । मध्ये चैकार्णवे तस्मिन् शङ्खचक्रगदाधरः । सहस्रशीर्षा भूत्वाऽहं सहस्राक्षः सहस्रपात् ॥ २६.६६॥
आसीत् एकार्णवम् घोरम् अविभागम् तमः-मयम् । मध्ये च एकार्णवे तस्मिन् शङ्ख-चक्र-गदा-धरः । सहस्र-शीर्षा भूत्वा अहम् सहस्र-अक्षः सहस्रपाद् ॥ २६।६६॥
āsīt ekārṇavam ghoram avibhāgam tamaḥ-mayam . madhye ca ekārṇave tasmin śaṅkha-cakra-gadā-dharaḥ . sahasra-śīrṣā bhūtvā aham sahasra-akṣaḥ sahasrapād .. 26.66..
सहस्रबाहुर्युक्तात्मा शयितोऽहं सनातनः । एतस्मिन्नन्तरे दूरे पश्यमि ह्यमितप्रभम् । कोटिसूर्यप्रतीकाशं भ्राजमानं श्रियावृतम् ॥ २६.६७॥
सहस्र-बाहुः युक्त-आत्मा शयितः अहम् सनातनः । एतस्मिन् अन्तरे दूरे पश्यमि हि अमित-प्रभम् । कोटि-सूर्य-प्रतीकाशम् भ्राजमानम् श्रिया आवृतम् ॥ २६।६७॥
sahasra-bāhuḥ yukta-ātmā śayitaḥ aham sanātanaḥ . etasmin antare dūre paśyami hi amita-prabham . koṭi-sūrya-pratīkāśam bhrājamānam śriyā āvṛtam .. 26.67..
चतुर्वरक्रं महायोगं पुरुषं काञ्चनप्रभम् । कृष्णाजिनधरं देवमृग्यजुः सामभिः स्तुतम् ॥ २६.६८॥
चतुर्-वरक्रम् महा-योगम् पुरुषम् काञ्चन-प्रभम् । कृष्ण-अजिन-धरम् देवम् ऋच्-यजुः सामभिः स्तुतम् ॥ २६।६८॥
catur-varakram mahā-yogam puruṣam kāñcana-prabham . kṛṣṇa-ajina-dharam devam ṛc-yajuḥ sāmabhiḥ stutam .. 26.68..
निमेषमात्रेण स मां प्राप्तो योगविदां वरः । व्याजहार स्वयं ब्रह्मा स्मयमानो महाद्युतिः ॥ २६.६९॥
निमेष-मात्रेण स माम् प्राप्तः योग-विदाम् वरः । व्याजहार स्वयम् ब्रह्मा स्मयमानः महा-द्युतिः ॥ २६।६९॥
nimeṣa-mātreṇa sa mām prāptaḥ yoga-vidām varaḥ . vyājahāra svayam brahmā smayamānaḥ mahā-dyutiḥ .. 26.69..
कस्त्वं कुतो वा किं चेह तिष्ठसे वह मे प्रभो । अहं कर्त्ता हि लोकानां स्वयंभूः प्रपितामहः ॥ २६.७॥
कः त्वम् कुतस् वा किम् च इह तिष्ठसे वह मे प्रभो । अहम् कर्त्ता हि लोकानाम् स्वयंभूः प्रपितामहः ॥ २६।७॥
kaḥ tvam kutas vā kim ca iha tiṣṭhase vaha me prabho . aham karttā hi lokānām svayaṃbhūḥ prapitāmahaḥ .. 26.7..
एवमुक्तस्तदा तेन ब्रह्मणाऽहमुवाच ह । अहं कर्त्ताऽस्मि लोकानां संहर्ता च पुनः पुनः ॥ २६.७१॥
एवम् उक्तः तदा तेन ब्रह्मणा अहम् उवाच ह । अहम् कर्त्ता अस्मि लोकानाम् संहर्ता च पुनर् पुनर् ॥ २६।७१॥
evam uktaḥ tadā tena brahmaṇā aham uvāca ha . aham karttā asmi lokānām saṃhartā ca punar punar .. 26.71..
एवं विवादे वितते मायया परमेष्ठिनः । प्रबोधार्थं परं लिङ्गं प्रादुर्भूतं शिवात्मकम् ॥ २६.७२॥
एवम् विवादे वितते मायया परमेष्ठिनः । प्रबोध-अर्थम् परम् लिङ्गम् प्रादुर्भूतम् शिव-आत्मकम् ॥ २६।७२॥
evam vivāde vitate māyayā parameṣṭhinaḥ . prabodha-artham param liṅgam prādurbhūtam śiva-ātmakam .. 26.72..
कालानलसमप्रख्यं ज्वालामालासमाकुलम् । क्षयवृद्धिविनिर्मुक्तमादिमध्यान्तवर्जितम् ॥ २६.७३॥
काल-अनल-सम-प्रख्यम् ज्वाला-माला-समाकुलम् । क्षय-वृद्धि-विनिर्मुक्तम् आदि-मध्य-अन्त-वर्जितम् ॥ २६।७३॥
kāla-anala-sama-prakhyam jvālā-mālā-samākulam . kṣaya-vṛddhi-vinirmuktam ādi-madhya-anta-varjitam .. 26.73..
ततो मामाह भगवानधो गच्छ त्वमाशु वै । अन्तमस्य विजानीम ऊर्ध्वं गच्छेऽहमित्यजः ॥ २६.७४॥
ततस् माम् आह भगवान् अधस् गच्छ त्वम् आशु वै । अन्तम् अस्य विजानीमः ऊर्ध्वम् गच्छे अहम् इति अजः ॥ २६।७४॥
tatas mām āha bhagavān adhas gaccha tvam āśu vai . antam asya vijānīmaḥ ūrdhvam gacche aham iti ajaḥ .. 26.74..
तदाशु समयं कृत्वा गतावूर्ध्वमधश्च द्वौ । पितामहोऽप्यहं नान्तं ज्ञातवन्तौ समाः शतम् ॥ २६.७५॥
तदा आशु समयम् कृत्वा गतौ ऊर्ध्वम् अधस् च द्वौ । पितामहः अपि अहम् न अन्तम् ज्ञातवन्तौ समाः शतम् ॥ २६।७५॥
tadā āśu samayam kṛtvā gatau ūrdhvam adhas ca dvau . pitāmahaḥ api aham na antam jñātavantau samāḥ śatam .. 26.75..
ततो विस्मयमापन्नौ भीतौ देवस्य शूलिनः । मायया मोहितौ तस्य ध्यायन्तौ विश्वमीश्वरम् ॥ २६.७६॥
ततस् विस्मयम् आपन्नौ भीतौ देवस्य शूलिनः । मायया मोहितौ तस्य ध्यायन्तौ विश्वम् ईश्वरम् ॥ २६।७६॥
tatas vismayam āpannau bhītau devasya śūlinaḥ . māyayā mohitau tasya dhyāyantau viśvam īśvaram .. 26.76..
प्रोच्चरन्तौ महानादमोङ्कारं परमं पदम् । तं प्राञ्जलिपुटौभूत्वा शंभुं तष्टुवतुः परम् ॥ २६.७७॥
प्रोच्चरन्तौ महा-नादम् ओङ्कारम् परमम् पदम् । तम् प्राञ्जलि-पुटौ भूत्वा शंभुम् तष्टुवतुः परम् ॥ २६।७७॥
proccarantau mahā-nādam oṅkāram paramam padam . tam prāñjali-puṭau bhūtvā śaṃbhum taṣṭuvatuḥ param .. 26.77..
ब्रह्मविष्णू ऊचतुः ।
अनादिमूलसंसाररागेवैद्याय शंभवे । नमः शिवाय शान्ताय ब्रह्मणे लिङ्गमूर्त्तये ॥ २६.७८॥
अनादि-मूल-संसार-राग-वैद्याय शंभवे । नमः शिवाय शान्ताय ब्रह्मणे लिङ्ग-मूर्त्तये ॥ २६।७८॥
anādi-mūla-saṃsāra-rāga-vaidyāya śaṃbhave . namaḥ śivāya śāntāya brahmaṇe liṅga-mūrttaye .. 26.78..
प्रलयार्णवसंस्थाय प्रलयोद्भूतिहेतवे । नमः शिवाय शान्ताय ब्रह्मणे लिङ्गमूर्त्तये ॥ २६.७९॥
प्रलय-अर्णव-संस्थाय प्रलय-उद्भूति-हेतवे । नमः शिवाय शान्ताय ब्रह्मणे लिङ्ग-मूर्त्तये ॥ २६।७९॥
pralaya-arṇava-saṃsthāya pralaya-udbhūti-hetave . namaḥ śivāya śāntāya brahmaṇe liṅga-mūrttaye .. 26.79..
ज्वालामालावृताङ्गाय ज्वलनस्तम्भरूपिणे । नमः शिवाय शान्ताय ब्रह्मणे लिङ्गमूर्त्तये ॥ २६.८॥
ज्वाला-माला-वृत-अङ्गाय ज्वलन-स्तम्भ-रूपिणे । नमः शिवाय शान्ताय ब्रह्मणे लिङ्ग-मूर्त्तये ॥ २६।८॥
jvālā-mālā-vṛta-aṅgāya jvalana-stambha-rūpiṇe . namaḥ śivāya śāntāya brahmaṇe liṅga-mūrttaye .. 26.8..
आदिमध्यान्तहीनाय स्वबावामलदीप्तये । नमः शिवायानन्ताय ब्रह्मणे लिङ्गमूर्त्तये ॥ २६.८१॥
आदि-मध्य-अन्त-हीनाय स्व-बाव-अमल-दीप्तये । नमः शिवाय अनन्ताय ब्रह्मणे लिङ्ग-मूर्त्तये ॥ २६।८१॥
ādi-madhya-anta-hīnāya sva-bāva-amala-dīptaye . namaḥ śivāya anantāya brahmaṇe liṅga-mūrttaye .. 26.81..
प्रधानपुरुषेशाय व्योमरूपाय वेधसेनमः शिवाय शान्ताय ब्रह्मणे लिङ्गमूर्त्तये ॥ २६.८२॥
प्रधानपुरुष-ईशाय व्योम-रूपाय वेधसे नमः शिवाय शान्ताय ब्रह्मणे लिङ्ग-मूर्त्तये ॥ २६।८२॥
pradhānapuruṣa-īśāya vyoma-rūpāya vedhase namaḥ śivāya śāntāya brahmaṇe liṅga-mūrttaye .. 26.82..
निर्विकाराय सत्याय नित्यायामलतेजसे । वेदान्तसाररुपाय कालरुपाय ते नमः॥ २६.८३॥
निर्विकाराय सत्याय नित्याय अमल-तेजसे । वेदान्त-सार-रुपाय काल-रुपाय ते नमः॥ २६।८३॥
nirvikārāya satyāya nityāya amala-tejase . vedānta-sāra-rupāya kāla-rupāya te namaḥ.. 26.83..
नमः शिवाय शान्ताय ब्रह्मणे लिङ्गमूर्त्तये । एवं संस्तूयमानस्तु व्यक्तो भूत्वा महेश्वरः॥ २६.८४॥
नमः शिवाय शान्ताय ब्रह्मणे लिङ्ग-मूर्त्तये । एवम् संस्तूयमानः तु व्यक्तः भूत्वा महेश्वरः॥ २६।८४॥
namaḥ śivāya śāntāya brahmaṇe liṅga-mūrttaye . evam saṃstūyamānaḥ tu vyaktaḥ bhūtvā maheśvaraḥ.. 26.84..
भाति देवो महायोगी सूर्यकोटिसमप्रभः । वक्त्रकोटिसहस्त्रेण ग्रसमान इवाम्बरम्॥ २६.८५॥
भाति देवः महा-योगी सूर्य-कोटि-सम-प्रभः । वक्त्र-कोटि-सहस्त्रेण ग्रसमानः इव अम्बरम्॥ २६।८५॥
bhāti devaḥ mahā-yogī sūrya-koṭi-sama-prabhaḥ . vaktra-koṭi-sahastreṇa grasamānaḥ iva ambaram.. 26.85..
सहस्त्रहस्तचरणः सूर्यसोमाग्निलोचनः । पिनाकपाणिर्भगवान् कृत्तिवासास्त्रिशूलभृत् ॥ २६.८६॥
। पिनाकपाणिः भगवान् कृत्तिवासाः त्रिशूलभृत् ॥ २६।८६॥
. pinākapāṇiḥ bhagavān kṛttivāsāḥ triśūlabhṛt .. 26.86..
व्यालयज्ञोपवीतश्च मेघदुन्दुभिनिः स्वनः । अथोवाच महादेवः प्रीतोऽहं सुरसत्तमौ ॥ २६.८७॥
व्याल-यज्ञोपवीतः च मेघ-दुन्दुभिनिः स्वनः । अथा उवाच महादेवः प्रीतः अहम् सुर-सत्तमौ ॥ २६।८७॥
vyāla-yajñopavītaḥ ca megha-dundubhiniḥ svanaḥ . athā uvāca mahādevaḥ prītaḥ aham sura-sattamau .. 26.87..
पश्येतं मां महादेवं भयं सर्वं प्रमुच्यताम् । युवां प्रसूतौ गात्रेभ्यो मम पूर्वं सनातनौ ॥ २६.८८॥
पश्येतम् माम् महादेवम् भयम् सर्वम् प्रमुच्यताम् । युवाम् प्रसूतौ गात्रेभ्यः मम पूर्वम् सनातनौ ॥ २६।८८॥
paśyetam mām mahādevam bhayam sarvam pramucyatām . yuvām prasūtau gātrebhyaḥ mama pūrvam sanātanau .. 26.88..
अयं मे दक्षिणे पार्श्वे ब्रह्मा लोकपितामहः । वामपार्श्वे च मे विष्णुः पालको हृदये हरः ॥ २६.८९॥
अयम् मे दक्षिणे पार्श्वे ब्रह्मा लोकपितामहः । वाम-पार्श्वे च मे विष्णुः पालकः हृदये हरः ॥ २६।८९॥
ayam me dakṣiṇe pārśve brahmā lokapitāmahaḥ . vāma-pārśve ca me viṣṇuḥ pālakaḥ hṛdaye haraḥ .. 26.89..
प्रीतोऽहं युवयोः सम्यक् वरं दद्मि यथेप्सितम् । एवमुक्त्वाऽथ मां देवो महादेवः स्वयं शिवः ॥ २६.९॥
प्रीतः अहम् युवयोः सम्यक् वरम् दद्मि यथा ईप्सितम् । एवम् उक्त्वा अथ माम् देवः महादेवः स्वयम् शिवः ॥ २६।९॥
prītaḥ aham yuvayoḥ samyak varam dadmi yathā īpsitam . evam uktvā atha mām devaḥ mahādevaḥ svayam śivaḥ .. 26.9..
आलिङ्ग्य देवं ब्रह्माणं प्रसादाभिमुखोऽभवत्। ततः प्रहृष्टमनसौ प्रणिपत्य महेश्वरम् ॥ २६.९१॥
आलिङ्ग्य देवम् ब्रह्माणम् प्रसाद-अभिमुखः अभवत्। ततस् प्रहृष्ट-मनसौ प्रणिपत्य महेश्वरम् ॥ २६।९१॥
āliṅgya devam brahmāṇam prasāda-abhimukhaḥ abhavat. tatas prahṛṣṭa-manasau praṇipatya maheśvaram .. 26.91..
ऊचतुः प्रेक्ष्य तद्वक्त्रं नारायणपितामहौ । यदि प्रीतिः समुत्पन्ना यदि देयो वरो हि न॥ २६.९२॥
ऊचतुः प्रेक्ष्य तद्-वक्त्रम् नारायण-पितामहौ । यदि प्रीतिः समुत्पन्ना यदि देयः वरः हि न॥ २६।९२॥
ūcatuḥ prekṣya tad-vaktram nārāyaṇa-pitāmahau . yadi prītiḥ samutpannā yadi deyaḥ varaḥ hi na.. 26.92..
भक्तिर्भवतु नौ नित्यं त्वयि देव महेश्वरे । ततः स भगवानीशः प्रहसन् परमेश्वरः ॥ २६.९३॥
भक्तिः भवतु नौ नित्यम् त्वयि देव महेश्वरे । ततस् स भगवान् ईशः प्रहसन् परमेश्वरः ॥ २६।९३॥
bhaktiḥ bhavatu nau nityam tvayi deva maheśvare . tatas sa bhagavān īśaḥ prahasan parameśvaraḥ .. 26.93..
उवाच मां महादेवः प्रीतः प्रीतेन चेतसा॥ ॥
उवाच माम् महादेवः प्रीतः प्रीतेन चेतसा॥ ॥
uvāca mām mahādevaḥ prītaḥ prītena cetasā.. ..
देवदेव उवाच ।
प्रलयस्थितिसर्गाणां कर्त्ता त्वं धरणीपते । २६.९४॥ २६.९४॥
प्रलय-स्थिति-सर्गाणाम् कर्त्ता त्वम् धरणी-पते । २६।९४॥ २६।९४॥
pralaya-sthiti-sargāṇām karttā tvam dharaṇī-pate . 26.94.. 26.94..
वत्स वत्स हरे विश्वं पालयैतच्चराचरम् । त्रिधा भिन्नोऽस्म्यहं विष्णो ब्रह्मविष्णुहराख्यया । ॥ २६.९५॥
वत्स वत्स हरे विश्वम् पालय एतत् चराचरम् । त्रिधा भिन्नः अस्मि अहम् विष्णो ब्रह्म-विष्णु-हर-आख्यया । ॥ २६।९५॥
vatsa vatsa hare viśvam pālaya etat carācaram . tridhā bhinnaḥ asmi aham viṣṇo brahma-viṣṇu-hara-ākhyayā . .. 26.95..
सर्गरक्षालयगुणैर्निर्गुणोऽपि निरञ्जनः । संमोहं त्यज भो विष्णो पालयैनं पितामहम् । ॥ २६.९६॥
सर्ग-रक्षा-लय-गुणैः निर्गुणः अपि निरञ्जनः । संमोहम् त्यज भो विष्णो पालय एनम् पितामहम् । ॥ २६।९६॥
sarga-rakṣā-laya-guṇaiḥ nirguṇaḥ api nirañjanaḥ . saṃmoham tyaja bho viṣṇo pālaya enam pitāmaham . .. 26.96..
भविष्यत्येव भगवांस्तव पुत्रः सनातनः । अहं च भवतो वक्त्रात् कल्पादौ सुररूपधृक् । ॥ २६.९७॥
भविष्यति एव भगवान् तव पुत्रः सनातनः । अहम् च भवतः वक्त्रात् कल्प-आदौ सुर-रूपधृक् । ॥ २६।९७॥
bhaviṣyati eva bhagavān tava putraḥ sanātanaḥ . aham ca bhavataḥ vaktrāt kalpa-ādau sura-rūpadhṛk . .. 26.97..
शूलपाणिर्भविष्यामि क्रोधजस्तव पुत्रकः । एवमुक्त्वा महादेवो ब्रह्माणं मुनिसत्तम ॥ २६.९८॥
शूलपाणिः भविष्यामि क्रोध-जः तव पुत्रकः । एवम् उक्त्वा महादेवः ब्रह्माणम् मुनि-सत्तम ॥ २६।९८॥
śūlapāṇiḥ bhaviṣyāmi krodha-jaḥ tava putrakaḥ . evam uktvā mahādevaḥ brahmāṇam muni-sattama .. 26.98..
अनुगृह्य च मां देवस्तत्रैवान्तरधीयत । ततः प्रभृति लोकेषु लिङ्गार्चा सुप्रतिष्ठिता ॥ २६.९९॥
अनुगृह्य च माम् देवः तत्र एव अन्तरधीयत । ततस् प्रभृति लोकेषु लिङ्ग-अर्चा सु प्रतिष्ठिता ॥ २६।९९॥
anugṛhya ca mām devaḥ tatra eva antaradhīyata . tatas prabhṛti lokeṣu liṅga-arcā su pratiṣṭhitā .. 26.99..
लिङ्गं तत्तु यतो ब्रह्मन् ब्रह्मणः परमं वपुः । एतल्लिङ्गस्य माहात्म्यं भाषितं ते मयाऽनघ ॥ २६.१॥
लिङ्गम् तत् तु यतस् ब्रह्मन् ब्रह्मणः परमम् वपुः । एतत् लिङ्गस्य माहात्म्यम् भाषितम् ते मया अनघ ॥ २६।१॥
liṅgam tat tu yatas brahman brahmaṇaḥ paramam vapuḥ . etat liṅgasya māhātmyam bhāṣitam te mayā anagha .. 26.1..
एतद् बुध्यन्ति योगज्ञा न देवा न च दानवाः । एतद्धि परमं ज्ञानमव्यक्तं शिवसंज्ञितम् ॥ २६.१०१॥
एतत् बुध्यन्ति योग-ज्ञाः न देवाः न च दानवाः । एतत् हि परमम् ज्ञानम् अव्यक्तम् शिव-संज्ञितम् ॥ २६।१०१॥
etat budhyanti yoga-jñāḥ na devāḥ na ca dānavāḥ . etat hi paramam jñānam avyaktam śiva-saṃjñitam .. 26.101..
येन सूक्ष्ममचिन्त्यं तत् पश्यन्ति ज्ञान चक्षुषः । तस्मै भगवते नित्यं नमस्कारं प्रकुर्महे ॥ २६.१०२॥
येन सूक्ष्मम् अचिन्त्यम् तत् पश्यन्ति ज्ञान चक्षुषः । तस्मै भगवते नित्यम् नमस्कारम् प्रकुर्महे ॥ २६।१०२॥
yena sūkṣmam acintyam tat paśyanti jñāna cakṣuṣaḥ . tasmai bhagavate nityam namaskāram prakurmahe .. 26.102..
महादेवाय रुद्राय देवदेवाय लिङ्गिने । नमो वेदरहस्याय नीलकण्ठाय ते नमः ॥ २६.१०३॥
महादेवाय रुद्राय देवदेवाय लिङ्गिने । नमः वेद-रहस्याय नीलकण्ठाय ते नमः ॥ २६।१०३॥
mahādevāya rudrāya devadevāya liṅgine . namaḥ veda-rahasyāya nīlakaṇṭhāya te namaḥ .. 26.103..
विभीषणाय शान्ताय स्थाणवे हेतवे नमः । ब्रह्मणे वामदेवाय त्रिनेत्राय महीयसे ॥ २६.१०४॥
विभीषणाय शान्ताय स्थाणवे हेतवे नमः । ब्रह्मणे वामदेवाय त्रिनेत्राय महीयसे ॥ २६।१०४॥
vibhīṣaṇāya śāntāya sthāṇave hetave namaḥ . brahmaṇe vāmadevāya trinetrāya mahīyase .. 26.104..
शंकराय महेशाय गिरीशाय शिवाय च । नमः कुरुष्व सततं ध्यायस्व मनसा हरम् ॥ २६.१०५॥
शंकराय महेशाय गिरीशाय शिवाय च । नमः कुरुष्व सततम् ध्यायस्व मनसा हरम् ॥ २६।१०५॥
śaṃkarāya maheśāya girīśāya śivāya ca . namaḥ kuruṣva satatam dhyāyasva manasā haram .. 26.105..
संसारसागरादस्मादचिरादुद्धरिष्यसि । एवं स वासुदेवेन व्याहृतो मुनिपुंगवः ॥ २६.१०६॥
संसार-सागरात् अस्मात् अचिरात् उद्धरिष्यसि । एवम् स वासुदेवेन व्याहृतः मुनि-पुंगवः ॥ २६।१०६॥
saṃsāra-sāgarāt asmāt acirāt uddhariṣyasi . evam sa vāsudevena vyāhṛtaḥ muni-puṃgavaḥ .. 26.106..
जगाम मनसा देवमीशानं विश्वतोमुखम् । प्रणम्य शिरसा कृष्णमनुज्ञातो महामुनिः॥ २६.१०७॥
जगाम मनसा देवम् ईशानम् विश्वतोमुखम् । प्रणम्य शिरसा कृष्णम् अनुज्ञातः महा-मुनिः॥ २६।१०७॥
jagāma manasā devam īśānam viśvatomukham . praṇamya śirasā kṛṣṇam anujñātaḥ mahā-muniḥ.. 26.107..
जगाम चेप्सितं देशं देवदेवस्य शूलिनः । य इमं श्रावयेन्नित्यं लिङ्गाध्यायमनुत्तमम् ॥ २६.१०८॥
जगाम च ईप्सितम् देशम् देवदेवस्य शूलिनः । यः इमम् श्रावयेत् नित्यम् लिङ्ग-अध्यायम् अनुत्तमम् ॥ २६।१०८॥
jagāma ca īpsitam deśam devadevasya śūlinaḥ . yaḥ imam śrāvayet nityam liṅga-adhyāyam anuttamam .. 26.108..
श्रृणुयाद् वा पठेद्वापि सर्वपापैः प्रमुच्यते । श्रुत्वा सकृदपि ह्येतत् तपश्चरणमुत्तमम् ॥ २६.१०९॥
श्रृणुयात् वा पठेत् वा अपि सर्व-पापैः प्रमुच्यते । श्रुत्वा सकृत् अपि हि एतत् तपः-चरणम् उत्तमम् ॥ २६।१०९॥
śrṛṇuyāt vā paṭhet vā api sarva-pāpaiḥ pramucyate . śrutvā sakṛt api hi etat tapaḥ-caraṇam uttamam .. 26.109..
वासुदेवस्य विप्रेन्द्राः पापं मुञ्चिति मानवः । जपेद् वाहरहर्नित्यं ब्रह्मलोके महीयते ॥ ॥
वासुदेवस्य विप्र-इन्द्राः पापम् मुञ्चिति मानवः । जपेत् वा अहरहर् नित्यम् ब्रह्म-लोके महीयते ॥ ॥
vāsudevasya vipra-indrāḥ pāpam muñciti mānavaḥ . japet vā aharahar nityam brahma-loke mahīyate .. ..
एवमाह महायोगी कृष्णद्वैपायनः प्रभुः ॥ २६.११॥
एवम् आह महा-योगी कृष्णद्वैपायनः प्रभुः ॥ २६।११॥
evam āha mahā-yogī kṛṣṇadvaipāyanaḥ prabhuḥ .. 26.11..
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे षड्विंशोऽध्यायः ॥ ॥
इति श्री-कूर्मपुराणे षट्साहस्त्र्याम् संहितायाम् पूर्व-विभागे षड्विंशः अध्यायः ॥ ॥
iti śrī-kūrmapurāṇe ṣaṭsāhastryām saṃhitāyām pūrva-vibhāge ṣaḍviṃśaḥ adhyāyaḥ .. ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In