| |
|

This overlay will guide you through the buttons:

सूत उवाच ।
प्रविश्य मेरुशिखरं कैलासं कनकप्रभम् । रराम भगवान् सोमः केशवेन महेश्वरः ॥ २६.१॥
praviśya meruśikharaṃ kailāsaṃ kanakaprabham . rarāma bhagavān somaḥ keśavena maheśvaraḥ .. 26.1..
अपश्यंस्ते महात्मानं कैलासगिरिवासिनः । पूजयाञ्चक्रिरे कृष्णं देवदेवमथाच्युतम् ॥ २६.२॥
apaśyaṃste mahātmānaṃ kailāsagirivāsinaḥ . pūjayāñcakrire kṛṣṇaṃ devadevamathācyutam .. 26.2..
चतुर्बाहुमुदाराङ्गं कालमेघसमप्रभम् । किरीटिनं शार्ङ्गपाणि श्रीवत्साङ्कितवक्षसम् ॥ २६.३॥
caturbāhumudārāṅgaṃ kālameghasamaprabham . kirīṭinaṃ śārṅgapāṇi śrīvatsāṅkitavakṣasam .. 26.3..
दीर्घबाहुं विशालाक्षं पीतवाससमच्युतम् । दधानमुरसा मालां वैजयन्तीमनुत्तमाम् ॥ २६.४॥
dīrghabāhuṃ viśālākṣaṃ pītavāsasamacyutam . dadhānamurasā mālāṃ vaijayantīmanuttamām .. 26.4..
भ्राजमानं श्रिया दिव्यं युवानमतिकोमलम् । पद्माङ्घ्रिं पद्मनयनं सस्मितं सुगतिप्रदम् ॥ २६.५॥
bhrājamānaṃ śriyā divyaṃ yuvānamatikomalam . padmāṅghriṃ padmanayanaṃ sasmitaṃ sugatipradam .. 26.5..
कदाचित् तत्र लीलार्थं देवकीनन्दवर्द्धनः । भ्राजमानः श्रीया कृष्णश्चचार गिरिकन्दरे ॥ २६.६॥
kadācit tatra līlārthaṃ devakīnandavarddhanaḥ . bhrājamānaḥ śrīyā kṛṣṇaścacāra girikandare .. 26.6..
गन्धर्वाप्सरसां मुख्या नागकन्याश्च कृत्स्नशः । सिद्धा यक्षाश्च गन्धर्वास्तत्र तत्र जगन्मयम् ॥ २६.७॥
gandharvāpsarasāṃ mukhyā nāgakanyāśca kṛtsnaśaḥ . siddhā yakṣāśca gandharvāstatra tatra jaganmayam .. 26.7..
दृष्ट्वाश्चर्यं परं गत्वा हर्षादुत्फुल्लोचनाः । मुमुचुः पुष्पवर्षाणि तस्य मूर्ध्नि महात्मनः ॥ २६.८॥
dṛṣṭvāścaryaṃ paraṃ gatvā harṣādutphullocanāḥ . mumucuḥ puṣpavarṣāṇi tasya mūrdhni mahātmanaḥ .. 26.8..
गन्धर्वकन्यका दिव्यास्तद्वदप्सरसां वराः । दृष्ट्वा चकमिरे कृष्णं स्त्रस्तवस्त्रविभूषणाः ॥ २६.९॥
gandharvakanyakā divyāstadvadapsarasāṃ varāḥ . dṛṣṭvā cakamire kṛṣṇaṃ strastavastravibhūṣaṇāḥ .. 26.9..
काश्चिद् गायन्ति विविधां गीतिं गीतविशारदाः । संप्रेक्ष्य देवकीसूनुं सुन्दरं काममोहिताः ॥ २६.१॥
kāścid gāyanti vividhāṃ gītiṃ gītaviśāradāḥ . saṃprekṣya devakīsūnuṃ sundaraṃ kāmamohitāḥ .. 26.1..
काश्चिद्विलासबहुला नृत्यन्ति स्म तदग्रतः । संप्रेक्ष्य सस्मितं काश्चित् पपुस्तद्वदनामृतम् ॥ २६.११॥
kāścidvilāsabahulā nṛtyanti sma tadagrataḥ . saṃprekṣya sasmitaṃ kāścit papustadvadanāmṛtam .. 26.11..
काश्चिद् भूषणवर्याणि स्वाङ्गादादाय सादरम् । भूषयाञ्चक्रिरे कृष्णं कामिन्यो लोकभूषणम् ॥ २६.१२॥
kāścid bhūṣaṇavaryāṇi svāṅgādādāya sādaram . bhūṣayāñcakrire kṛṣṇaṃ kāminyo lokabhūṣaṇam .. 26.12..
काश्चिद् भूषणवर्याणि समादाय तदङ्गतः । स्वात्मानं बूषयामासुः स्वात्मकैरपि माधवम् ॥ २६.१३॥
kāścid bhūṣaṇavaryāṇi samādāya tadaṅgataḥ . svātmānaṃ būṣayāmāsuḥ svātmakairapi mādhavam .. 26.13..
काश्चिदागत्य कृष्णस्य समीपं काममोहिता । चुचुम्ब वदनाम्भोजं हरेर्मुग्धमृगेक्षणा ॥ २६.१४॥
kāścidāgatya kṛṣṇasya samīpaṃ kāmamohitā . cucumba vadanāmbhojaṃ harermugdhamṛgekṣaṇā .. 26.14..
प्रगृह्य काश्चिद् गोविन्दं करेण भवनं स्वकम् । प्रापयामासर्लोकादिं मायया तस्य मोहिता ॥ २६.१५॥
pragṛhya kāścid govindaṃ kareṇa bhavanaṃ svakam . prāpayāmāsarlokādiṃ māyayā tasya mohitā .. 26.15..
तासां स भगवान् कृष्णः कामान् कमललोचनः । बहूनि कृत्वा रूपाणि पूरयामास लीलया ॥ २६.१६॥
tāsāṃ sa bhagavān kṛṣṇaḥ kāmān kamalalocanaḥ . bahūni kṛtvā rūpāṇi pūrayāmāsa līlayā .. 26.16..
एवं वै सुचिरं कालं देवदेवपुरे हरिः । रेमे नारायणः श्रीमान् मायया मोहयञ्जगत् ॥ २६.१७॥
evaṃ vai suciraṃ kālaṃ devadevapure hariḥ . reme nārāyaṇaḥ śrīmān māyayā mohayañjagat .. 26.17..
गते बहुतिथे काले द्वारवत्यां निवासिनः । बभूवुर्विह्वला भीता गोविन्दविरहे जनाः ॥ २६.१८॥
gate bahutithe kāle dvāravatyāṃ nivāsinaḥ . babhūvurvihvalā bhītā govindavirahe janāḥ .. 26.18..
ततः सुपर्णो बलवान् पूर्वमेव विसर्जितः । कृष्णेन मार्गमाणस्तं हिमवन्तं ययौ गिरिम् ॥ २६.१९॥
tataḥ suparṇo balavān pūrvameva visarjitaḥ . kṛṣṇena mārgamāṇastaṃ himavantaṃ yayau girim .. 26.19..
अदृष्ट्वा तत्र गोविन्दं प्रणम्य शिरसा मुनिम् । आजगामोपमन्युं तं पुरीं द्वारवतीं पुनः ॥ २६.२॥
adṛṣṭvā tatra govindaṃ praṇamya śirasā munim . ājagāmopamanyuṃ taṃ purīṃ dvāravatīṃ punaḥ .. 26.2..
तदन्तरे महादैत्या राक्षसाश्चातिभीषणाः । आजग्मुर्द्वारकां शुभ्रां भीषयन्तः सहस्त्रशः ॥ २६.२१॥
tadantare mahādaityā rākṣasāścātibhīṣaṇāḥ . ājagmurdvārakāṃ śubhrāṃ bhīṣayantaḥ sahastraśaḥ .. 26.21..
स तान् सुपर्णो बलवान् कृष्णतुल्यपराक्रमः । हत्वा युद्धेन महता रक्षति स्म पुरीं शुभाम् ॥ २६.२२॥
sa tān suparṇo balavān kṛṣṇatulyaparākramaḥ . hatvā yuddhena mahatā rakṣati sma purīṃ śubhām .. 26.22..
एतस्मिन्नेव काले तु नारदो भगवानृषिः । दृष्ट्वा कैलासशिखरे कृष्णं द्वारवतीं गतः ॥ २६.२३॥
etasminneva kāle tu nārado bhagavānṛṣiḥ . dṛṣṭvā kailāsaśikhare kṛṣṇaṃ dvāravatīṃ gataḥ .. 26.23..
तं दृष्ट्वा नारदमृषिं सर्वे तत्र निवासिनः । प्रोचुर्नारायणो नाथः कुत्रास्ते भगवान् हरिः ॥ २६.२४॥
taṃ dṛṣṭvā nāradamṛṣiṃ sarve tatra nivāsinaḥ . procurnārāyaṇo nāthaḥ kutrāste bhagavān hariḥ .. 26.24..
स तानुवाच भगवान् कैलसशिखरे हरिः । रमतेऽद्य महायोगीं तं दृष्ट्वाऽहमिहागतः ॥ २६.२५॥
sa tānuvāca bhagavān kailasaśikhare hariḥ . ramate'dya mahāyogīṃ taṃ dṛṣṭvā'hamihāgataḥ .. 26.25..
तस्योपश्रुत्य वचनं सुपर्णः पततां वरः । जगामाकाशगो विप्राः कैलासं गिरिमुत्तमम् ॥ २६.२६॥
tasyopaśrutya vacanaṃ suparṇaḥ patatāṃ varaḥ . jagāmākāśago viprāḥ kailāsaṃ girimuttamam .. 26.26..
ददर्श देवकीसूनुं भवने रत्नमण्डिते । वरासनस्थं गोविन्दं देवदेवान्तिके हरिम् ॥ २६.२७॥
dadarśa devakīsūnuṃ bhavane ratnamaṇḍite . varāsanasthaṃ govindaṃ devadevāntike harim .. 26.27..
उपास्यमानममरैर्दिव्यस्त्रीभिः समन्ततः । महादेवगणैः सिद्धैर्योगिभिः परिवारितम् ॥ २६.२८॥
upāsyamānamamarairdivyastrībhiḥ samantataḥ . mahādevagaṇaiḥ siddhairyogibhiḥ parivāritam .. 26.28..
प्रणम्य दण्डवद् भूमौ सुपर्णः शंकरं शिवम् । निवेदयामास हरिं प्रवृत्तिं द्वारकापुरे ॥ २६.२९॥
praṇamya daṇḍavad bhūmau suparṇaḥ śaṃkaraṃ śivam . nivedayāmāsa hariṃ pravṛttiṃ dvārakāpure .. 26.29..
ततः प्रणम्य शिरसा शंकरं नीललोहितम् । आजगाम पुरीं कृष्णः सोऽनुज्ञातो हरेण तु ॥ २६.३॥
tataḥ praṇamya śirasā śaṃkaraṃ nīlalohitam . ājagāma purīṃ kṛṣṇaḥ so'nujñāto hareṇa tu .. 26.3..
आरुह्य कश्यपसुतं स्त्रीगणैरभिपूजितः । वचोभिरमृतास्वादैर्मानितो मधुसूदनः ॥ २६.३१॥
āruhya kaśyapasutaṃ strīgaṇairabhipūjitaḥ . vacobhiramṛtāsvādairmānito madhusūdanaḥ .. 26.31..
वीक्ष्य यान्तममित्रघ्नं गन्धर्वाप्सरसां वराः । अन्वगच्छन् महोयोगं शङ्खचक्रगदाधरम् ॥ २६.३२॥
vīkṣya yāntamamitraghnaṃ gandharvāpsarasāṃ varāḥ . anvagacchan mahoyogaṃ śaṅkhacakragadādharam .. 26.32..
विसर्जयित्वा विश्वात्मा सर्वा एवाङ्गना हरिः । ययौ स तूर्णं गोविन्दो दिव्यां द्वारवतीं पुरीम् ॥ २६.३३॥
visarjayitvā viśvātmā sarvā evāṅganā hariḥ . yayau sa tūrṇaṃ govindo divyāṃ dvāravatīṃ purīm .. 26.33..
गते मुररिपौ नैव कामिन्यो मुनिपुंगवाः । निशेव चन्द्ररहिता विना तेन चकाशिरे ॥ २६.३४॥
gate muraripau naiva kāminyo munipuṃgavāḥ . niśeva candrarahitā vinā tena cakāśire .. 26.34..
श्रुत्वा पौरजनास्तूर्णं कृष्णागमनमुत्तमम् । मण्डयाञ्चक्रिरे दिव्यां पुरीं द्वारवतीं शुभाम् ॥ २६.३५॥
śrutvā paurajanāstūrṇaṃ kṛṣṇāgamanamuttamam . maṇḍayāñcakrire divyāṃ purīṃ dvāravatīṃ śubhām .. 26.35..
पताकाभिर्विशालाभिर्ध्वजै रत्नपरिष्कृतैः । लाजादिभिः पुरीं रम्यां भूषयाञ्चक्रिरे जनाः ॥ २६.३६॥
patākābhirviśālābhirdhvajai ratnapariṣkṛtaiḥ . lājādibhiḥ purīṃ ramyāṃ bhūṣayāñcakrire janāḥ .. 26.36..
अवादयन्त विविधान् वादित्रान् मधुरस्वनान् । शंखान् सहस्रशो दध्मुर्वीणावादान् वितेनिरे ॥ २६.३७॥
avādayanta vividhān vāditrān madhurasvanān . śaṃkhān sahasraśo dadhmurvīṇāvādān vitenire .. 26.37..
प्रविष्टमात्रे गोविन्दे पुरीं द्वारवतीं शुभाम् । अगायन् मधुरं गानं स्त्रियो यौवनशालिनः ॥ २६.३८॥
praviṣṭamātre govinde purīṃ dvāravatīṃ śubhām . agāyan madhuraṃ gānaṃ striyo yauvanaśālinaḥ .. 26.38..
दृष्ट्वा ननृतुरीशानं स्थिताः प्रासादमूर्द्धसु । मुमुचुः पुष्पवर्षाणि वसुदेवसुतोपरि ॥ २६.३९॥
dṛṣṭvā nanṛturīśānaṃ sthitāḥ prāsādamūrddhasu . mumucuḥ puṣpavarṣāṇi vasudevasutopari .. 26.39..
प्रविश्य भवनं कृष्ण आशीर्वादाभिवर्द्धितः । वरासने महायोगी भाति देवीभिरन्वितः ॥ २६.४॥
praviśya bhavanaṃ kṛṣṇa āśīrvādābhivarddhitaḥ . varāsane mahāyogī bhāti devībhiranvitaḥ .. 26.4..
सुरम्ये मण्डपे शुभ्रे शङ्खाद्यैः परिवारितः । आत्मजैरभितो मुख्यैः स्त्रीसहस्रैश्च संवृतः । ॥ ॥
suramye maṇḍape śubhre śaṅkhādyaiḥ parivāritaḥ . ātmajairabhito mukhyaiḥ strīsahasraiśca saṃvṛtaḥ . .. ..
तत्रासनवरे रम्ये जाम्बवत्या सहाच्युतः । २६.४१भ्राजते चोमया देवो यथा देव्या समन्वितः ॥ २६.४२॥
tatrāsanavare ramye jāmbavatyā sahācyutaḥ . 26.41bhrājate comayā devo yathā devyā samanvitaḥ .. 26.42..
आजग्मुर्देवगन्धर्वा द्रष्टुं लोकादिमव्ययम् । महर्षयः पूर्वजाता मार्कण्डेयादयो द्विजाः ॥ २६.४३॥
ājagmurdevagandharvā draṣṭuṃ lokādimavyayam . maharṣayaḥ pūrvajātā mārkaṇḍeyādayo dvijāḥ .. 26.43..
ततः स भगवान् कृष्णो मार्कण्डेयं समागतम् । ननामोत्थाय शिरसा स्वासनं च ददौ हरिः ॥ २६.४४॥
tataḥ sa bhagavān kṛṣṇo mārkaṇḍeyaṃ samāgatam . nanāmotthāya śirasā svāsanaṃ ca dadau hariḥ .. 26.44..
संपूज्य तानृषिगणान् प्रणामेन महाभुजः । विसर्जयामास हरिर्दत्त्वा तदभिवाञ्छितान् ॥ २६.४५॥
saṃpūjya tānṛṣigaṇān praṇāmena mahābhujaḥ . visarjayāmāsa harirdattvā tadabhivāñchitān .. 26.45..
तदा मध्याह्नसमये देवदेवः स्वयं हरिः । स्नात्वा शुक्लाम्बरो भानुमुपतिष्ठन् कृताञ्जलिः ॥ २६.४६॥
tadā madhyāhnasamaye devadevaḥ svayaṃ hariḥ . snātvā śuklāmbaro bhānumupatiṣṭhan kṛtāñjaliḥ .. 26.46..
जजाप जाप्यं विधिवत् प्रेक्षमाणो दिवाकरम् । तर्पयामास देवेशो देवान् मुनिगणान् पितॄन् ॥ २६.४७॥
jajāpa jāpyaṃ vidhivat prekṣamāṇo divākaram . tarpayāmāsa deveśo devān munigaṇān pitṝn .. 26.47..
प्रविश्य देवभवनं मार्कण्डेयेन चैव हि । पूजयामास लिङ्गस्थं भूतेशं भूतिभूषणम् ॥ २६.४८॥
praviśya devabhavanaṃ mārkaṇḍeyena caiva hi . pūjayāmāsa liṅgasthaṃ bhūteśaṃ bhūtibhūṣaṇam .. 26.48..
समाप्य नियमं सर्वं नियन्ताऽसौ नृणां स्वयम् । भोजयित्वा मुनिवरं ब्राह्मणानभिपूज्य च ॥ २६.४९॥
samāpya niyamaṃ sarvaṃ niyantā'sau nṛṇāṃ svayam . bhojayitvā munivaraṃ brāhmaṇānabhipūjya ca .. 26.49..
कृत्वात्मयोगं विप्रेन्द्रा मार्कण्डेयेन चाच्युतः । कथाः पौराणिकीं पुण्याश्चक्रे पुत्रादिभिर्वृतः ॥ २६.५॥
kṛtvātmayogaṃ viprendrā mārkaṇḍeyena cācyutaḥ . kathāḥ paurāṇikīṃ puṇyāścakre putrādibhirvṛtaḥ .. 26.5..
अथैतत् सर्वमखिलं दृष्ट्वा कर्म महामुनिः । मार्कण्डेयो हसन् कृष्णं बभाषे मधुरं वचः ॥ २६.५१॥
athaitat sarvamakhilaṃ dṛṣṭvā karma mahāmuniḥ . mārkaṇḍeyo hasan kṛṣṇaṃ babhāṣe madhuraṃ vacaḥ .. 26.51..
मार्कण्डेय उवाच ।
कः समाराध्यते देवो भवता कर्मभिः शुभैः । ब्रूहि त्वं कर्मभिः पूज्यो योगिनां ध्येय एव च ॥ २६.५२॥
kaḥ samārādhyate devo bhavatā karmabhiḥ śubhaiḥ . brūhi tvaṃ karmabhiḥ pūjyo yogināṃ dhyeya eva ca .. 26.52..
त्वं हि तत् परमं ब्रह्म निर्वाणममलं पदम् । भारावतरणार्थाय जातो वृष्णिकुले प्रभुः ॥ २६.५३॥
tvaṃ hi tat paramaṃ brahma nirvāṇamamalaṃ padam . bhārāvataraṇārthāya jāto vṛṣṇikule prabhuḥ .. 26.53..
तमब्रवीन्महाबाहुः कृष्णो ब्रह्मविदां वरः । श्रृण्वतामेव पुत्राणां सर्वेषां प्रहसन्निव ॥ २६.५४॥
tamabravīnmahābāhuḥ kṛṣṇo brahmavidāṃ varaḥ . śrṛṇvatāmeva putrāṇāṃ sarveṣāṃ prahasanniva .. 26.54..
श्रीभगवानुवाच ।
भवता कथितं सर्वं तथ्यमेव न संशयः । तथापि देवमीशानं पूजयामि सनातनम् ॥ २६.५५॥
bhavatā kathitaṃ sarvaṃ tathyameva na saṃśayaḥ . tathāpi devamīśānaṃ pūjayāmi sanātanam .. 26.55..
न मे विप्रास्ति कर्त्तव्यं नानवाप्तं कथंचन । पूजयामि तथापीशं जानन्नैतत् परं शिवम् ॥ २६.५६॥
na me viprāsti karttavyaṃ nānavāptaṃ kathaṃcana . pūjayāmi tathāpīśaṃ jānannaitat paraṃ śivam .. 26.56..
न वै पश्यन्ति तं देवं मायया मोहिता जनाः । ततोऽहं स्वात्मनो मूलं ज्ञापयन् पूजयामि तम् ॥ २६.५७॥
na vai paśyanti taṃ devaṃ māyayā mohitā janāḥ . tato'haṃ svātmano mūlaṃ jñāpayan pūjayāmi tam .. 26.57..
न च लिङ्गार्चनात् पुण्यं लोकेस्मिन् भीतिनाशनम् । तथा लिङ्गे हितायैषां लोकानां पूजयेच्छिवम् ॥ २६.५८॥
na ca liṅgārcanāt puṇyaṃ lokesmin bhītināśanam . tathā liṅge hitāyaiṣāṃ lokānāṃ pūjayecchivam .. 26.58..
योऽहं तल्लिङ्गमित्याहुर्वेदवादविदो जनाः । ततोऽहमात्ममीशानं पूजयाम्यात्मनैव तत् ॥ २६.५९॥
yo'haṃ talliṅgamityāhurvedavādavido janāḥ . tato'hamātmamīśānaṃ pūjayāmyātmanaiva tat .. 26.59..
तस्यैव परमा मूर्त्तिस्तन्मयोऽहं न संशयः । नावयोर्द्यिते भेदो वेदेष्वेवं विनिश्चयः ॥ २६.६॥
tasyaiva paramā mūrttistanmayo'haṃ na saṃśayaḥ . nāvayordyite bhedo vedeṣvevaṃ viniścayaḥ .. 26.6..
एष देवो महादेवः सदा संसारभीरुभिः । ध्येयः पूज्यश्च वन्द्यश्च ज्ञेयो लिङ्गे महेश्वरः ॥ २६.६१॥
eṣa devo mahādevaḥ sadā saṃsārabhīrubhiḥ . dhyeyaḥ pūjyaśca vandyaśca jñeyo liṅge maheśvaraḥ .. 26.61..
मार्कण्डेय उवाच ।
किं तल्लिङ्गं सुरश्रेष्ठ लिङ्गे संपूज्यते च कः । ब्रूहि कृष्ण विशालाक्ष गहनं ह्येतदुत्तमम् ॥ २६.६२॥
kiṃ talliṅgaṃ suraśreṣṭha liṅge saṃpūjyate ca kaḥ . brūhi kṛṣṇa viśālākṣa gahanaṃ hyetaduttamam .. 26.62..
अव्यक्तं लिङ्गमित्याहुरानन्दं ज्योतिरक्षरम् । वेदा महेस्वरं देवमाहुर्लिङ्गिनमव्ययम् । पुरा चैकार्णवे घोरे नष्टे स्थावरजङ्गमे ॥ २६.६३॥
avyaktaṃ liṅgamityāhurānandaṃ jyotirakṣaram . vedā mahesvaraṃ devamāhurliṅginamavyayam . purā caikārṇave ghore naṣṭe sthāvarajaṅgame .. 26.63..
प्रबोधार्थं ब्रह्मणो मे प्रादुर्भूतः स्वयं शिवः । तस्मात् कालात् समारभ्य ब्रह्मा चाहं सदैव हि । पूजयावो महादेवं लोकानां हितकाम्यया ॥ २६.६४॥
prabodhārthaṃ brahmaṇo me prādurbhūtaḥ svayaṃ śivaḥ . tasmāt kālāt samārabhya brahmā cāhaṃ sadaiva hi . pūjayāvo mahādevaṃ lokānāṃ hitakāmyayā .. 26.64..
मार्कण्डेय उवाच ।
कथं लिङ्गमभूत् पूर्वमैश्वरं परमं पदम् । प्रबोधार्थं स्वयं कृष्ण वक्तुमर्हसि सांप्रतम् ॥ २६.६५॥
kathaṃ liṅgamabhūt pūrvamaiśvaraṃ paramaṃ padam . prabodhārthaṃ svayaṃ kṛṣṇa vaktumarhasi sāṃpratam .. 26.65..
श्रीभगवानुवाच ।
आसीदेकार्णवं घोरमविभागं तमोमयम् । मध्ये चैकार्णवे तस्मिन् शङ्खचक्रगदाधरः । सहस्रशीर्षा भूत्वाऽहं सहस्राक्षः सहस्रपात् ॥ २६.६६॥
āsīdekārṇavaṃ ghoramavibhāgaṃ tamomayam . madhye caikārṇave tasmin śaṅkhacakragadādharaḥ . sahasraśīrṣā bhūtvā'haṃ sahasrākṣaḥ sahasrapāt .. 26.66..
सहस्रबाहुर्युक्तात्मा शयितोऽहं सनातनः । एतस्मिन्नन्तरे दूरे पश्यमि ह्यमितप्रभम् । कोटिसूर्यप्रतीकाशं भ्राजमानं श्रियावृतम् ॥ २६.६७॥
sahasrabāhuryuktātmā śayito'haṃ sanātanaḥ . etasminnantare dūre paśyami hyamitaprabham . koṭisūryapratīkāśaṃ bhrājamānaṃ śriyāvṛtam .. 26.67..
चतुर्वरक्रं महायोगं पुरुषं काञ्चनप्रभम् । कृष्णाजिनधरं देवमृग्यजुः सामभिः स्तुतम् ॥ २६.६८॥
caturvarakraṃ mahāyogaṃ puruṣaṃ kāñcanaprabham . kṛṣṇājinadharaṃ devamṛgyajuḥ sāmabhiḥ stutam .. 26.68..
निमेषमात्रेण स मां प्राप्तो योगविदां वरः । व्याजहार स्वयं ब्रह्मा स्मयमानो महाद्युतिः ॥ २६.६९॥
nimeṣamātreṇa sa māṃ prāpto yogavidāṃ varaḥ . vyājahāra svayaṃ brahmā smayamāno mahādyutiḥ .. 26.69..
कस्त्वं कुतो वा किं चेह तिष्ठसे वह मे प्रभो । अहं कर्त्ता हि लोकानां स्वयंभूः प्रपितामहः ॥ २६.७॥
kastvaṃ kuto vā kiṃ ceha tiṣṭhase vaha me prabho . ahaṃ karttā hi lokānāṃ svayaṃbhūḥ prapitāmahaḥ .. 26.7..
एवमुक्तस्तदा तेन ब्रह्मणाऽहमुवाच ह । अहं कर्त्ताऽस्मि लोकानां संहर्ता च पुनः पुनः ॥ २६.७१॥
evamuktastadā tena brahmaṇā'hamuvāca ha . ahaṃ karttā'smi lokānāṃ saṃhartā ca punaḥ punaḥ .. 26.71..
एवं विवादे वितते मायया परमेष्ठिनः । प्रबोधार्थं परं लिङ्गं प्रादुर्भूतं शिवात्मकम् ॥ २६.७२॥
evaṃ vivāde vitate māyayā parameṣṭhinaḥ . prabodhārthaṃ paraṃ liṅgaṃ prādurbhūtaṃ śivātmakam .. 26.72..
कालानलसमप्रख्यं ज्वालामालासमाकुलम् । क्षयवृद्धिविनिर्मुक्तमादिमध्यान्तवर्जितम् ॥ २६.७३॥
kālānalasamaprakhyaṃ jvālāmālāsamākulam . kṣayavṛddhivinirmuktamādimadhyāntavarjitam .. 26.73..
ततो मामाह भगवानधो गच्छ त्वमाशु वै । अन्तमस्य विजानीम ऊर्ध्वं गच्छेऽहमित्यजः ॥ २६.७४॥
tato māmāha bhagavānadho gaccha tvamāśu vai . antamasya vijānīma ūrdhvaṃ gacche'hamityajaḥ .. 26.74..
तदाशु समयं कृत्वा गतावूर्ध्वमधश्च द्वौ । पितामहोऽप्यहं नान्तं ज्ञातवन्तौ समाः शतम् ॥ २६.७५॥
tadāśu samayaṃ kṛtvā gatāvūrdhvamadhaśca dvau . pitāmaho'pyahaṃ nāntaṃ jñātavantau samāḥ śatam .. 26.75..
ततो विस्मयमापन्नौ भीतौ देवस्य शूलिनः । मायया मोहितौ तस्य ध्यायन्तौ विश्वमीश्वरम् ॥ २६.७६॥
tato vismayamāpannau bhītau devasya śūlinaḥ . māyayā mohitau tasya dhyāyantau viśvamīśvaram .. 26.76..
प्रोच्चरन्तौ महानादमोङ्कारं परमं पदम् । तं प्राञ्जलिपुटौभूत्वा शंभुं तष्टुवतुः परम् ॥ २६.७७॥
proccarantau mahānādamoṅkāraṃ paramaṃ padam . taṃ prāñjalipuṭaubhūtvā śaṃbhuṃ taṣṭuvatuḥ param .. 26.77..
ब्रह्मविष्णू ऊचतुः ।
अनादिमूलसंसाररागेवैद्याय शंभवे । नमः शिवाय शान्ताय ब्रह्मणे लिङ्गमूर्त्तये ॥ २६.७८॥
anādimūlasaṃsārarāgevaidyāya śaṃbhave . namaḥ śivāya śāntāya brahmaṇe liṅgamūrttaye .. 26.78..
प्रलयार्णवसंस्थाय प्रलयोद्भूतिहेतवे । नमः शिवाय शान्ताय ब्रह्मणे लिङ्गमूर्त्तये ॥ २६.७९॥
pralayārṇavasaṃsthāya pralayodbhūtihetave . namaḥ śivāya śāntāya brahmaṇe liṅgamūrttaye .. 26.79..
ज्वालामालावृताङ्गाय ज्वलनस्तम्भरूपिणे । नमः शिवाय शान्ताय ब्रह्मणे लिङ्गमूर्त्तये ॥ २६.८॥
jvālāmālāvṛtāṅgāya jvalanastambharūpiṇe . namaḥ śivāya śāntāya brahmaṇe liṅgamūrttaye .. 26.8..
आदिमध्यान्तहीनाय स्वबावामलदीप्तये । नमः शिवायानन्ताय ब्रह्मणे लिङ्गमूर्त्तये ॥ २६.८१॥
ādimadhyāntahīnāya svabāvāmaladīptaye . namaḥ śivāyānantāya brahmaṇe liṅgamūrttaye .. 26.81..
प्रधानपुरुषेशाय व्योमरूपाय वेधसेनमः शिवाय शान्ताय ब्रह्मणे लिङ्गमूर्त्तये ॥ २६.८२॥
pradhānapuruṣeśāya vyomarūpāya vedhasenamaḥ śivāya śāntāya brahmaṇe liṅgamūrttaye .. 26.82..
निर्विकाराय सत्याय नित्यायामलतेजसे । वेदान्तसाररुपाय कालरुपाय ते नमः॥ २६.८३॥
nirvikārāya satyāya nityāyāmalatejase . vedāntasārarupāya kālarupāya te namaḥ.. 26.83..
नमः शिवाय शान्ताय ब्रह्मणे लिङ्गमूर्त्तये । एवं संस्तूयमानस्तु व्यक्तो भूत्वा महेश्वरः॥ २६.८४॥
namaḥ śivāya śāntāya brahmaṇe liṅgamūrttaye . evaṃ saṃstūyamānastu vyakto bhūtvā maheśvaraḥ.. 26.84..
भाति देवो महायोगी सूर्यकोटिसमप्रभः । वक्त्रकोटिसहस्त्रेण ग्रसमान इवाम्बरम्॥ २६.८५॥
bhāti devo mahāyogī sūryakoṭisamaprabhaḥ . vaktrakoṭisahastreṇa grasamāna ivāmbaram.. 26.85..
सहस्त्रहस्तचरणः सूर्यसोमाग्निलोचनः । पिनाकपाणिर्भगवान् कृत्तिवासास्त्रिशूलभृत् ॥ २६.८६॥
sahastrahastacaraṇaḥ sūryasomāgnilocanaḥ . pinākapāṇirbhagavān kṛttivāsāstriśūlabhṛt .. 26.86..
व्यालयज्ञोपवीतश्च मेघदुन्दुभिनिः स्वनः । अथोवाच महादेवः प्रीतोऽहं सुरसत्तमौ ॥ २६.८७॥
vyālayajñopavītaśca meghadundubhiniḥ svanaḥ . athovāca mahādevaḥ prīto'haṃ surasattamau .. 26.87..
पश्येतं मां महादेवं भयं सर्वं प्रमुच्यताम् । युवां प्रसूतौ गात्रेभ्यो मम पूर्वं सनातनौ ॥ २६.८८॥
paśyetaṃ māṃ mahādevaṃ bhayaṃ sarvaṃ pramucyatām . yuvāṃ prasūtau gātrebhyo mama pūrvaṃ sanātanau .. 26.88..
अयं मे दक्षिणे पार्श्वे ब्रह्मा लोकपितामहः । वामपार्श्वे च मे विष्णुः पालको हृदये हरः ॥ २६.८९॥
ayaṃ me dakṣiṇe pārśve brahmā lokapitāmahaḥ . vāmapārśve ca me viṣṇuḥ pālako hṛdaye haraḥ .. 26.89..
प्रीतोऽहं युवयोः सम्यक् वरं दद्मि यथेप्सितम् । एवमुक्त्वाऽथ मां देवो महादेवः स्वयं शिवः ॥ २६.९॥
prīto'haṃ yuvayoḥ samyak varaṃ dadmi yathepsitam . evamuktvā'tha māṃ devo mahādevaḥ svayaṃ śivaḥ .. 26.9..
आलिङ्ग्य देवं ब्रह्माणं प्रसादाभिमुखोऽभवत्। ततः प्रहृष्टमनसौ प्रणिपत्य महेश्वरम् ॥ २६.९१॥
āliṅgya devaṃ brahmāṇaṃ prasādābhimukho'bhavat. tataḥ prahṛṣṭamanasau praṇipatya maheśvaram .. 26.91..
ऊचतुः प्रेक्ष्य तद्वक्त्रं नारायणपितामहौ । यदि प्रीतिः समुत्पन्ना यदि देयो वरो हि न॥ २६.९२॥
ūcatuḥ prekṣya tadvaktraṃ nārāyaṇapitāmahau . yadi prītiḥ samutpannā yadi deyo varo hi na.. 26.92..
भक्तिर्भवतु नौ नित्यं त्वयि देव महेश्वरे । ततः स भगवानीशः प्रहसन् परमेश्वरः ॥ २६.९३॥
bhaktirbhavatu nau nityaṃ tvayi deva maheśvare . tataḥ sa bhagavānīśaḥ prahasan parameśvaraḥ .. 26.93..
उवाच मां महादेवः प्रीतः प्रीतेन चेतसा॥ ॥
uvāca māṃ mahādevaḥ prītaḥ prītena cetasā.. ..
देवदेव उवाच ।
प्रलयस्थितिसर्गाणां कर्त्ता त्वं धरणीपते । २६.९४॥ २६.९४॥
pralayasthitisargāṇāṃ karttā tvaṃ dharaṇīpate . 26.94.. 26.94..
वत्स वत्स हरे विश्वं पालयैतच्चराचरम् । त्रिधा भिन्नोऽस्म्यहं विष्णो ब्रह्मविष्णुहराख्यया । ॥ २६.९५॥
vatsa vatsa hare viśvaṃ pālayaitaccarācaram . tridhā bhinno'smyahaṃ viṣṇo brahmaviṣṇuharākhyayā . .. 26.95..
सर्गरक्षालयगुणैर्निर्गुणोऽपि निरञ्जनः । संमोहं त्यज भो विष्णो पालयैनं पितामहम् । ॥ २६.९६॥
sargarakṣālayaguṇairnirguṇo'pi nirañjanaḥ . saṃmohaṃ tyaja bho viṣṇo pālayainaṃ pitāmaham . .. 26.96..
भविष्यत्येव भगवांस्तव पुत्रः सनातनः । अहं च भवतो वक्त्रात् कल्पादौ सुररूपधृक् । ॥ २६.९७॥
bhaviṣyatyeva bhagavāṃstava putraḥ sanātanaḥ . ahaṃ ca bhavato vaktrāt kalpādau surarūpadhṛk . .. 26.97..
शूलपाणिर्भविष्यामि क्रोधजस्तव पुत्रकः । एवमुक्त्वा महादेवो ब्रह्माणं मुनिसत्तम ॥ २६.९८॥
śūlapāṇirbhaviṣyāmi krodhajastava putrakaḥ . evamuktvā mahādevo brahmāṇaṃ munisattama .. 26.98..
अनुगृह्य च मां देवस्तत्रैवान्तरधीयत । ततः प्रभृति लोकेषु लिङ्गार्चा सुप्रतिष्ठिता ॥ २६.९९॥
anugṛhya ca māṃ devastatraivāntaradhīyata . tataḥ prabhṛti lokeṣu liṅgārcā supratiṣṭhitā .. 26.99..
लिङ्गं तत्तु यतो ब्रह्मन् ब्रह्मणः परमं वपुः । एतल्लिङ्गस्य माहात्म्यं भाषितं ते मयाऽनघ ॥ २६.१॥
liṅgaṃ tattu yato brahman brahmaṇaḥ paramaṃ vapuḥ . etalliṅgasya māhātmyaṃ bhāṣitaṃ te mayā'nagha .. 26.1..
एतद् बुध्यन्ति योगज्ञा न देवा न च दानवाः । एतद्धि परमं ज्ञानमव्यक्तं शिवसंज्ञितम् ॥ २६.१०१॥
etad budhyanti yogajñā na devā na ca dānavāḥ . etaddhi paramaṃ jñānamavyaktaṃ śivasaṃjñitam .. 26.101..
येन सूक्ष्ममचिन्त्यं तत् पश्यन्ति ज्ञान चक्षुषः । तस्मै भगवते नित्यं नमस्कारं प्रकुर्महे ॥ २६.१०२॥
yena sūkṣmamacintyaṃ tat paśyanti jñāna cakṣuṣaḥ . tasmai bhagavate nityaṃ namaskāraṃ prakurmahe .. 26.102..
महादेवाय रुद्राय देवदेवाय लिङ्गिने । नमो वेदरहस्याय नीलकण्ठाय ते नमः ॥ २६.१०३॥
mahādevāya rudrāya devadevāya liṅgine . namo vedarahasyāya nīlakaṇṭhāya te namaḥ .. 26.103..
विभीषणाय शान्ताय स्थाणवे हेतवे नमः । ब्रह्मणे वामदेवाय त्रिनेत्राय महीयसे ॥ २६.१०४॥
vibhīṣaṇāya śāntāya sthāṇave hetave namaḥ . brahmaṇe vāmadevāya trinetrāya mahīyase .. 26.104..
शंकराय महेशाय गिरीशाय शिवाय च । नमः कुरुष्व सततं ध्यायस्व मनसा हरम् ॥ २६.१०५॥
śaṃkarāya maheśāya girīśāya śivāya ca . namaḥ kuruṣva satataṃ dhyāyasva manasā haram .. 26.105..
संसारसागरादस्मादचिरादुद्धरिष्यसि । एवं स वासुदेवेन व्याहृतो मुनिपुंगवः ॥ २६.१०६॥
saṃsārasāgarādasmādacirāduddhariṣyasi . evaṃ sa vāsudevena vyāhṛto munipuṃgavaḥ .. 26.106..
जगाम मनसा देवमीशानं विश्वतोमुखम् । प्रणम्य शिरसा कृष्णमनुज्ञातो महामुनिः॥ २६.१०७॥
jagāma manasā devamīśānaṃ viśvatomukham . praṇamya śirasā kṛṣṇamanujñāto mahāmuniḥ.. 26.107..
जगाम चेप्सितं देशं देवदेवस्य शूलिनः । य इमं श्रावयेन्नित्यं लिङ्गाध्यायमनुत्तमम् ॥ २६.१०८॥
jagāma cepsitaṃ deśaṃ devadevasya śūlinaḥ . ya imaṃ śrāvayennityaṃ liṅgādhyāyamanuttamam .. 26.108..
श्रृणुयाद् वा पठेद्वापि सर्वपापैः प्रमुच्यते । श्रुत्वा सकृदपि ह्येतत् तपश्चरणमुत्तमम् ॥ २६.१०९॥
śrṛṇuyād vā paṭhedvāpi sarvapāpaiḥ pramucyate . śrutvā sakṛdapi hyetat tapaścaraṇamuttamam .. 26.109..
वासुदेवस्य विप्रेन्द्राः पापं मुञ्चिति मानवः । जपेद् वाहरहर्नित्यं ब्रह्मलोके महीयते ॥ ॥
vāsudevasya viprendrāḥ pāpaṃ muñciti mānavaḥ . japed vāharaharnityaṃ brahmaloke mahīyate .. ..
एवमाह महायोगी कृष्णद्वैपायनः प्रभुः ॥ २६.११॥
evamāha mahāyogī kṛṣṇadvaipāyanaḥ prabhuḥ .. 26.11..
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे षड्विंशोऽध्यायः ॥ ॥
iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ pūrvavibhāge ṣaḍviṃśo'dhyāyaḥ .. ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In