| |
|

This overlay will guide you through the buttons:

सूत उवाच ।
ततो लब्धवरः कृष्णो जाम्बवत्यां महेश्वरात् । अजीजनन्महात्मानं साम्बमात्मजमुत्तमम् ॥ २७.१॥
ततस् लब्ध-वरः कृष्णः जाम्बवत्याम् महेश्वरात् । अजीजनत् महात्मानम् साम्बम् आत्मजम् उत्तमम् ॥ २७।१॥
tatas labdha-varaḥ kṛṣṇaḥ jāmbavatyām maheśvarāt . ajījanat mahātmānam sāmbam ātmajam uttamam .. 27.1..
प्रद्युम्नस्याप्यभूत् पुत्रो ह्यनिरुद्धो महाबलः । तावुभौ गुणसंपन्नौ कृष्णस्यैवापरे तनू ॥ २७.२॥
प्रद्युम्नस्य अपि अभूत् पुत्रः हि अनिरुद्धः महा-बलः । तौ उभौ गुण-संपन्नौ कृष्णस्य एव अपरे तनू ॥ २७।२॥
pradyumnasya api abhūt putraḥ hi aniruddhaḥ mahā-balaḥ . tau ubhau guṇa-saṃpannau kṛṣṇasya eva apare tanū .. 27.2..
हत्वा च कंसं नरकमन्यांश्च शतशोऽसुरान् । विजित्य लीलया शक्रं जित्वा बाणं महासुरम् ॥ २७.३॥
हत्वा च कंसम् नरकम् अन्यान् च शतशस् असुरान् । विजित्य लीलया शक्रम् जित्वा बाणम् महा-असुरम् ॥ २७।३॥
hatvā ca kaṃsam narakam anyān ca śataśas asurān . vijitya līlayā śakram jitvā bāṇam mahā-asuram .. 27.3..
स्थापयित्वा जगत् कृत्स्नं लोके धर्मांश्च शाश्वतान् । चक्रे नारायणो गन्तुं स्वस्थानं बुद्धिमुत्तमाम् ॥ २७.४॥
स्थापयित्वा जगत् कृत्स्नम् लोके धर्मान् च शाश्वतान् । चक्रे नारायणः गन्तुम् स्व-स्थानम् बुद्धिम् उत्तमाम् ॥ २७।४॥
sthāpayitvā jagat kṛtsnam loke dharmān ca śāśvatān . cakre nārāyaṇaḥ gantum sva-sthānam buddhim uttamām .. 27.4..
एतस्मिन्नन्तरे विप्रा भृग्वाद्याः कृष्णमीश्वरम् । आजग्मुर्द्वारकां द्रष्टुं कृतकार्यं सनातनम् ॥ २७.५॥
एतस्मिन् अन्तरे विप्राः भृगु-आद्याः कृष्णम् ईश्वरम् । आजग्मुः द्वारकाम् द्रष्टुम् कृत-कार्यम् सनातनम् ॥ २७।५॥
etasmin antare viprāḥ bhṛgu-ādyāḥ kṛṣṇam īśvaram . ājagmuḥ dvārakām draṣṭum kṛta-kāryam sanātanam .. 27.5..
स तानुवाच विश्वात्मा प्रणिपत्याभिपूज्य च । आसनेषूपविष्टान् वै सह रामेण धीमता ॥ २७.६॥
स तान् उवाच विश्वात्मा प्रणिपत्य अभिपूज्य च । आसनेषु उपविष्टान् वै सह रामेण धीमता ॥ २७।६॥
sa tān uvāca viśvātmā praṇipatya abhipūjya ca . āsaneṣu upaviṣṭān vai saha rāmeṇa dhīmatā .. 27.6..
गमिष्ये तत् परं स्थानं स्वकीयं विष्णुसंज्ञितम् । कृतानि सर्वकार्याणि प्रसीदध्वं मुनीश्वराः ॥ २७.७॥
गमिष्ये तत् परम् स्थानम् स्वकीयम् विष्णु-संज्ञितम् । कृतानि सर्व-कार्याणि प्रसीदध्वम् मुनि-ईश्वराः ॥ २७।७॥
gamiṣye tat param sthānam svakīyam viṣṇu-saṃjñitam . kṛtāni sarva-kāryāṇi prasīdadhvam muni-īśvarāḥ .. 27.7..
इदं कलियुगं घोरं संप्राप्तमधुनाऽशुभम् । भविष्यन्ति जनाः सर्वे ह्यस्मिन् पापानुवर्त्तिनः ॥ २७.८॥
इदम् कलि-युगम् घोरम् संप्राप्तम् अधुना अशुभम् । भविष्यन्ति जनाः सर्वे हि अस्मिन् पाप-अनुवर्त्तिनः ॥ २७।८॥
idam kali-yugam ghoram saṃprāptam adhunā aśubham . bhaviṣyanti janāḥ sarve hi asmin pāpa-anuvarttinaḥ .. 27.8..
प्रवर्त्तयध्वं विज्ज्ञानं ब्राह्मणानांच हितावहम् । येनेमे कलिजैः पापैर्मुच्यन्ते हि द्विजोत्तमाः ॥ २७.९॥
प्रवर्त्तयध्वम् विद्-ज्ञानम् ब्राह्मणानाम् च हित-आवहम् । येन इमे कलि-जैः पापैः मुच्यन्ते हि द्विजोत्तमाः ॥ २७।९॥
pravarttayadhvam vid-jñānam brāhmaṇānām ca hita-āvaham . yena ime kali-jaiḥ pāpaiḥ mucyante hi dvijottamāḥ .. 27.9..
ये मां जनाः संस्मरन्ति कलौ सकृदपि प्रभुम् । तेषां नश्यतु तत् पापं भक्तानां पुरुषोत्तमे ॥ २७.१॥
ये माम् जनाः संस्मरन्ति कलौ सकृत् अपि प्रभुम् । तेषाम् नश्यतु तत् पापम् भक्तानाम् पुरुषोत्तमे ॥ २७।१॥
ye mām janāḥ saṃsmaranti kalau sakṛt api prabhum . teṣām naśyatu tat pāpam bhaktānām puruṣottame .. 27.1..
येऽर्चयिष्यन्तिमां भक्त्या नित्यं कलियुगे द्विजाः । विधाना वेददृष्टेन ते गमिष्यन्ति तत् पदम् ॥ २७.११॥
ये अर्चयिष्यन्ति इमाम् भक्त्या नित्यम् कलि-युगे द्विजाः । विधानाः वेद-दृष्टेन ते गमिष्यन्ति तत् पदम् ॥ २७।११॥
ye arcayiṣyanti imām bhaktyā nityam kali-yuge dvijāḥ . vidhānāḥ veda-dṛṣṭena te gamiṣyanti tat padam .. 27.11..
ये ब्राह्मणा वंशजाता युष्माकं वै सहस्रशः । तेषां नारायणे भक्तिर्भविष्यति कलौ युगे ॥ २७.१२॥
ये ब्राह्मणाः वंश-जाताः युष्माकम् वै सहस्रशस् । तेषाम् नारायणे भक्तिः भविष्यति कलौ युगे ॥ २७।१२॥
ye brāhmaṇāḥ vaṃśa-jātāḥ yuṣmākam vai sahasraśas . teṣām nārāyaṇe bhaktiḥ bhaviṣyati kalau yuge .. 27.12..
परात् परतरं यान्ति नारायणपरा जनाः । न ते तत्र गमिष्यन्ति ये द्विषन्ति महेश्वरम् ॥ २७.१३॥
परात् परतरम् यान्ति नारायण-पराः जनाः । न ते तत्र गमिष्यन्ति ये द्विषन्ति महेश्वरम् ॥ २७।१३॥
parāt parataram yānti nārāyaṇa-parāḥ janāḥ . na te tatra gamiṣyanti ye dviṣanti maheśvaram .. 27.13..
ध्यानं होमं तपस्तप्तं ज्ञानं यज्ञादिको विधिः । तेषां विनश्यति क्षिप्रं ये निन्दन्ति पिनाकिनम् ॥ २७.१४॥
ध्यानम् होमम् तपः तप्तम् ज्ञानम् यज्ञ-आदिकः विधिः । तेषाम् विनश्यति क्षिप्रम् ये निन्दन्ति पिनाकिनम् ॥ २७।१४॥
dhyānam homam tapaḥ taptam jñānam yajña-ādikaḥ vidhiḥ . teṣām vinaśyati kṣipram ye nindanti pinākinam .. 27.14..
यो मां समाश्रयेन्नित्यमेकान्तं भावमाश्रितः । विनिन्दन् देवमीशानं स याति नरकायुतम् ॥ २७.१५॥
यः माम् समाश्रयेत् नित्यम् एकान्तम् भावम् आश्रितः । विनिन्दन् देवम् ईशानम् स याति नरक-अयुतम् ॥ २७।१५॥
yaḥ mām samāśrayet nityam ekāntam bhāvam āśritaḥ . vinindan devam īśānam sa yāti naraka-ayutam .. 27.15..
तस्मात् सा परिहर्त्तव्या निन्दा पशुपतेर्द्विजाः । कर्मणा मनसा वाचा मद्भक्तेष्वपि यत्नतः ॥ २७.१६॥
तस्मात् सा परिहर्त्तव्या निन्दा पशुपतेः द्विजाः । कर्मणा मनसा वाचा मद्-भक्तेषु अपि यत्नतः ॥ २७।१६॥
tasmāt sā pariharttavyā nindā paśupateḥ dvijāḥ . karmaṇā manasā vācā mad-bhakteṣu api yatnataḥ .. 27.16..
ये तु दक्षाध्वरे शप्ता दधीचेन द्विजोत्तमाः । भविष्यन्ति कलौ भक्तैः परिहार्याः प्रयत्नतः ॥ २७.१७॥
ये तु दक्ष-अध्वरे शप्ताः दधीचेन द्विजोत्तमाः । भविष्यन्ति कलौ भक्तैः परिहार्याः प्रयत्नतः ॥ २७।१७॥
ye tu dakṣa-adhvare śaptāḥ dadhīcena dvijottamāḥ . bhaviṣyanti kalau bhaktaiḥ parihāryāḥ prayatnataḥ .. 27.17..
द्विषन्तो देवमीशानं युष्माकं वंशसंभवाः । शप्ताश्च गौतमेनोर्व्यां न संभाष्या द्विजोत्तमैः ॥ २७.१८॥
द्विषन्तः देवम् ईशानम् युष्माकम् वंश-संभवाः । शप्ताः च गौतमेन उर्व्याम् न संभाष्याः द्विजोत्तमैः ॥ २७।१८॥
dviṣantaḥ devam īśānam yuṣmākam vaṃśa-saṃbhavāḥ . śaptāḥ ca gautamena urvyām na saṃbhāṣyāḥ dvijottamaiḥ .. 27.18..
इत्येवमुक्ताः कृष्णेन सर्वे ते वै महर्षयः । ओमित्युक्त्वा ययुस्तूर्णं स्वानि स्थानानि सत्तमाः ॥ २७.१९॥
इति एवम् उक्ताः कृष्णेन सर्वे ते वै महा-ऋषयः । ओम् इति उक्त्वा ययुः तूर्णम् स्वानि स्थानानि सत्तमाः ॥ २७।१९॥
iti evam uktāḥ kṛṣṇena sarve te vai mahā-ṛṣayaḥ . om iti uktvā yayuḥ tūrṇam svāni sthānāni sattamāḥ .. 27.19..
ततो नारायणः कृष्णो लीलयैव जगन्मयः । संहृत्य स्वकुलं सर्वं ययौ तत् परमं पदम् ॥ २७.२॥
ततस् नारायणः कृष्णः लीलया एव जगत्-मयः । संहृत्य स्व-कुलम् सर्वम् ययौ तत् परमम् पदम् ॥ २७।२॥
tatas nārāyaṇaḥ kṛṣṇaḥ līlayā eva jagat-mayaḥ . saṃhṛtya sva-kulam sarvam yayau tat paramam padam .. 27.2..
इत्येष वः समासेन राज्ञां वंशोऽनुकीर्त्तितः । न शक्यो विस्तराद् वक्तुं किं भूयः श्रोतुमिच्छथ ॥ २७.२१॥
इति एष वः समासेन राज्ञाम् वंशः अनुकीर्त्तितः । न शक्यः विस्तरात् वक्तुम् किम् भूयस् श्रोतुम् इच्छथ ॥ २७।२१॥
iti eṣa vaḥ samāsena rājñām vaṃśaḥ anukīrttitaḥ . na śakyaḥ vistarāt vaktum kim bhūyas śrotum icchatha .. 27.21..
यः पठेच्छृणुयाद् वापि वंशानां कथनं शुभम् । सर्वपापविनिर्मुक्तः स्वर्गलोके महीयते ॥ २७.२२॥
यः पठेत् शृणुयात् वा अपि वंशानाम् कथनम् शुभम् । सर्व-पाप-विनिर्मुक्तः स्वर्ग-लोके महीयते ॥ २७।२२॥
yaḥ paṭhet śṛṇuyāt vā api vaṃśānām kathanam śubham . sarva-pāpa-vinirmuktaḥ svarga-loke mahīyate .. 27.22..
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे सप्तविंशोऽध्यायः ॥ ॥
इति श्री-कूर्मपुराणे षट्साहस्त्र्याम् संहितायाम् पूर्व-विभागे सप्तविंशः अध्यायः ॥ ॥
iti śrī-kūrmapurāṇe ṣaṭsāhastryām saṃhitāyām pūrva-vibhāge saptaviṃśaḥ adhyāyaḥ .. ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In