| |
|

This overlay will guide you through the buttons:

सूत उवाच ।
ततो लब्धवरः कृष्णो जाम्बवत्यां महेश्वरात् । अजीजनन्महात्मानं साम्बमात्मजमुत्तमम् ॥ २७.१॥
tato labdhavaraḥ kṛṣṇo jāmbavatyāṃ maheśvarāt . ajījananmahātmānaṃ sāmbamātmajamuttamam .. 27.1..
प्रद्युम्नस्याप्यभूत् पुत्रो ह्यनिरुद्धो महाबलः । तावुभौ गुणसंपन्नौ कृष्णस्यैवापरे तनू ॥ २७.२॥
pradyumnasyāpyabhūt putro hyaniruddho mahābalaḥ . tāvubhau guṇasaṃpannau kṛṣṇasyaivāpare tanū .. 27.2..
हत्वा च कंसं नरकमन्यांश्च शतशोऽसुरान् । विजित्य लीलया शक्रं जित्वा बाणं महासुरम् ॥ २७.३॥
hatvā ca kaṃsaṃ narakamanyāṃśca śataśo'surān . vijitya līlayā śakraṃ jitvā bāṇaṃ mahāsuram .. 27.3..
स्थापयित्वा जगत् कृत्स्नं लोके धर्मांश्च शाश्वतान् । चक्रे नारायणो गन्तुं स्वस्थानं बुद्धिमुत्तमाम् ॥ २७.४॥
sthāpayitvā jagat kṛtsnaṃ loke dharmāṃśca śāśvatān . cakre nārāyaṇo gantuṃ svasthānaṃ buddhimuttamām .. 27.4..
एतस्मिन्नन्तरे विप्रा भृग्वाद्याः कृष्णमीश्वरम् । आजग्मुर्द्वारकां द्रष्टुं कृतकार्यं सनातनम् ॥ २७.५॥
etasminnantare viprā bhṛgvādyāḥ kṛṣṇamīśvaram . ājagmurdvārakāṃ draṣṭuṃ kṛtakāryaṃ sanātanam .. 27.5..
स तानुवाच विश्वात्मा प्रणिपत्याभिपूज्य च । आसनेषूपविष्टान् वै सह रामेण धीमता ॥ २७.६॥
sa tānuvāca viśvātmā praṇipatyābhipūjya ca . āsaneṣūpaviṣṭān vai saha rāmeṇa dhīmatā .. 27.6..
गमिष्ये तत् परं स्थानं स्वकीयं विष्णुसंज्ञितम् । कृतानि सर्वकार्याणि प्रसीदध्वं मुनीश्वराः ॥ २७.७॥
gamiṣye tat paraṃ sthānaṃ svakīyaṃ viṣṇusaṃjñitam . kṛtāni sarvakāryāṇi prasīdadhvaṃ munīśvarāḥ .. 27.7..
इदं कलियुगं घोरं संप्राप्तमधुनाऽशुभम् । भविष्यन्ति जनाः सर्वे ह्यस्मिन् पापानुवर्त्तिनः ॥ २७.८॥
idaṃ kaliyugaṃ ghoraṃ saṃprāptamadhunā'śubham . bhaviṣyanti janāḥ sarve hyasmin pāpānuvarttinaḥ .. 27.8..
प्रवर्त्तयध्वं विज्ज्ञानं ब्राह्मणानांच हितावहम् । येनेमे कलिजैः पापैर्मुच्यन्ते हि द्विजोत्तमाः ॥ २७.९॥
pravarttayadhvaṃ vijjñānaṃ brāhmaṇānāṃca hitāvaham . yeneme kalijaiḥ pāpairmucyante hi dvijottamāḥ .. 27.9..
ये मां जनाः संस्मरन्ति कलौ सकृदपि प्रभुम् । तेषां नश्यतु तत् पापं भक्तानां पुरुषोत्तमे ॥ २७.१॥
ye māṃ janāḥ saṃsmaranti kalau sakṛdapi prabhum . teṣāṃ naśyatu tat pāpaṃ bhaktānāṃ puruṣottame .. 27.1..
येऽर्चयिष्यन्तिमां भक्त्या नित्यं कलियुगे द्विजाः । विधाना वेददृष्टेन ते गमिष्यन्ति तत् पदम् ॥ २७.११॥
ye'rcayiṣyantimāṃ bhaktyā nityaṃ kaliyuge dvijāḥ . vidhānā vedadṛṣṭena te gamiṣyanti tat padam .. 27.11..
ये ब्राह्मणा वंशजाता युष्माकं वै सहस्रशः । तेषां नारायणे भक्तिर्भविष्यति कलौ युगे ॥ २७.१२॥
ye brāhmaṇā vaṃśajātā yuṣmākaṃ vai sahasraśaḥ . teṣāṃ nārāyaṇe bhaktirbhaviṣyati kalau yuge .. 27.12..
परात् परतरं यान्ति नारायणपरा जनाः । न ते तत्र गमिष्यन्ति ये द्विषन्ति महेश्वरम् ॥ २७.१३॥
parāt parataraṃ yānti nārāyaṇaparā janāḥ . na te tatra gamiṣyanti ye dviṣanti maheśvaram .. 27.13..
ध्यानं होमं तपस्तप्तं ज्ञानं यज्ञादिको विधिः । तेषां विनश्यति क्षिप्रं ये निन्दन्ति पिनाकिनम् ॥ २७.१४॥
dhyānaṃ homaṃ tapastaptaṃ jñānaṃ yajñādiko vidhiḥ . teṣāṃ vinaśyati kṣipraṃ ye nindanti pinākinam .. 27.14..
यो मां समाश्रयेन्नित्यमेकान्तं भावमाश्रितः । विनिन्दन् देवमीशानं स याति नरकायुतम् ॥ २७.१५॥
yo māṃ samāśrayennityamekāntaṃ bhāvamāśritaḥ . vinindan devamīśānaṃ sa yāti narakāyutam .. 27.15..
तस्मात् सा परिहर्त्तव्या निन्दा पशुपतेर्द्विजाः । कर्मणा मनसा वाचा मद्भक्तेष्वपि यत्नतः ॥ २७.१६॥
tasmāt sā pariharttavyā nindā paśupaterdvijāḥ . karmaṇā manasā vācā madbhakteṣvapi yatnataḥ .. 27.16..
ये तु दक्षाध्वरे शप्ता दधीचेन द्विजोत्तमाः । भविष्यन्ति कलौ भक्तैः परिहार्याः प्रयत्नतः ॥ २७.१७॥
ye tu dakṣādhvare śaptā dadhīcena dvijottamāḥ . bhaviṣyanti kalau bhaktaiḥ parihāryāḥ prayatnataḥ .. 27.17..
द्विषन्तो देवमीशानं युष्माकं वंशसंभवाः । शप्ताश्च गौतमेनोर्व्यां न संभाष्या द्विजोत्तमैः ॥ २७.१८॥
dviṣanto devamīśānaṃ yuṣmākaṃ vaṃśasaṃbhavāḥ . śaptāśca gautamenorvyāṃ na saṃbhāṣyā dvijottamaiḥ .. 27.18..
इत्येवमुक्ताः कृष्णेन सर्वे ते वै महर्षयः । ओमित्युक्त्वा ययुस्तूर्णं स्वानि स्थानानि सत्तमाः ॥ २७.१९॥
ityevamuktāḥ kṛṣṇena sarve te vai maharṣayaḥ . omityuktvā yayustūrṇaṃ svāni sthānāni sattamāḥ .. 27.19..
ततो नारायणः कृष्णो लीलयैव जगन्मयः । संहृत्य स्वकुलं सर्वं ययौ तत् परमं पदम् ॥ २७.२॥
tato nārāyaṇaḥ kṛṣṇo līlayaiva jaganmayaḥ . saṃhṛtya svakulaṃ sarvaṃ yayau tat paramaṃ padam .. 27.2..
इत्येष वः समासेन राज्ञां वंशोऽनुकीर्त्तितः । न शक्यो विस्तराद् वक्तुं किं भूयः श्रोतुमिच्छथ ॥ २७.२१॥
ityeṣa vaḥ samāsena rājñāṃ vaṃśo'nukīrttitaḥ . na śakyo vistarād vaktuṃ kiṃ bhūyaḥ śrotumicchatha .. 27.21..
यः पठेच्छृणुयाद् वापि वंशानां कथनं शुभम् । सर्वपापविनिर्मुक्तः स्वर्गलोके महीयते ॥ २७.२२॥
yaḥ paṭhecchṛṇuyād vāpi vaṃśānāṃ kathanaṃ śubham . sarvapāpavinirmuktaḥ svargaloke mahīyate .. 27.22..
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे सप्तविंशोऽध्यायः ॥ ॥
iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ pūrvavibhāge saptaviṃśo'dhyāyaḥ .. ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In