| |
|

This overlay will guide you through the buttons:

इदं कलियुगं घोरं संप्राप्तं पाण्डुनन्दन। ततो गच्छामि देवस्य वाराणसीं महापुरीम् ॥ २९.१॥
इदम् कलि-युगम् घोरम् संप्राप्तम् पाण्डु-नन्दन। ततस् गच्छामि देवस्य वाराणसीम् महा-पुरीम् ॥ २९।१॥
idam kali-yugam ghoram saṃprāptam pāṇḍu-nandana. tatas gacchāmi devasya vārāṇasīm mahā-purīm .. 29.1..
अस्मिन् कलियुगे घोरे लोकाः पापानुवर्त्तिनः । भविष्यन्ति महापापा वर्णाश्रमविवर्जिताः ॥ २९.२॥
अस्मिन् कलि-युगे घोरे लोकाः पाप-अनुवर्त्तिनः । भविष्यन्ति महा-पापाः वर्ण-आश्रम-विवर्जिताः ॥ २९।२॥
asmin kali-yuge ghore lokāḥ pāpa-anuvarttinaḥ . bhaviṣyanti mahā-pāpāḥ varṇa-āśrama-vivarjitāḥ .. 29.2..
नान्यत् पश्यामि जन्तूनांमुक्त्वा वाराणसीं पुरीम् । सर्वपापप्रशमनं प्रायश्चित्तं कलौ युगे ॥ २९.३॥
न अन्यत् पश्यामि जन्तूनाम् मुक्त्वा वाराणसीम् पुरीम् । सर्व-पाप-प्रशमनम् प्रायश्चित्तम् कलौ युगे ॥ २९।३॥
na anyat paśyāmi jantūnām muktvā vārāṇasīm purīm . sarva-pāpa-praśamanam prāyaścittam kalau yuge .. 29.3..
कृतं त्रेता द्वापरं च सर्वेष्वेतेषु वै नराः । भविष्यन्ति महात्मानो धार्मिकाः सत्यवादिनः ॥ २९.४॥
कृतम् त्रेता द्वापरम् च सर्वेषु एतेषु वै नराः । भविष्यन्ति महात्मानः धार्मिकाः सत्य-वादिनः ॥ २९।४॥
kṛtam tretā dvāparam ca sarveṣu eteṣu vai narāḥ . bhaviṣyanti mahātmānaḥ dhārmikāḥ satya-vādinaḥ .. 29.4..
त्वं हि लोकेषु विख्यातो धृतिमाञ् जनवत्सलः । पालयाद्य परं धर्मं स्वकीयं मुच्यसे भयात् ॥ २९.५॥
त्वम् हि लोकेषु विख्यातः धृतिमान् जन-वत्सलः । पालय अद्य परम् धर्मम् स्वकीयम् मुच्यसे भयात् ॥ २९।५॥
tvam hi lokeṣu vikhyātaḥ dhṛtimān jana-vatsalaḥ . pālaya adya param dharmam svakīyam mucyase bhayāt .. 29.5..
एवमुक्तो भगवता पार्थः परपुरंजयः । पृष्टवान् प्रणिपत्यासौ युगधर्मान् द्विजोत्तमाः ॥ २९.६॥
एवम् उक्तः भगवता पार्थः परपुरंजयः । पृष्टवान् प्रणिपत्य असौ युग-धर्मान् द्विजोत्तमाः ॥ २९।६॥
evam uktaḥ bhagavatā pārthaḥ parapuraṃjayaḥ . pṛṣṭavān praṇipatya asau yuga-dharmān dvijottamāḥ .. 29.6..
तस्मै प्रोवाच सकलं मुनिः सत्यवतीसुतः । प्रणम्य देवमीशानं युगधर्मान् सनातनान् ॥ २९.७॥
तस्मै प्रोवाच सकलम् मुनिः सत्यवती-सुतः । प्रणम्य देवम् ईशानम् युग-धर्मान् सनातनान् ॥ २९।७॥
tasmai provāca sakalam muniḥ satyavatī-sutaḥ . praṇamya devam īśānam yuga-dharmān sanātanān .. 29.7..
व्यास उवाच
वक्ष्यामि ते समासेन युगधर्मान् नरेश्वरन शक्यते मया पार्थ विस्तरेणाभिभाषितुम् ॥ २९.८॥
वक्ष्यामि ते समासेन युग-धर्मात् शक्यते मया पार्थ विस्तरेण अभिभाषितुम् ॥ २९।८॥
vakṣyāmi te samāsena yuga-dharmāt śakyate mayā pārtha vistareṇa abhibhāṣitum .. 29.8..
आद्यं कृतयुगं प्रोक्तं ततस्त्रेतायुगं बुधैःतृतीयं द्वापरं पार्थ चतुर्थं कलिरुच्यते ॥ २९.९॥
आद्यम् कृत-युगम् प्रोक्तम् ततस् त्रेता-युगम् बुधैः तृतीयम् द्वापरम् पार्थ चतुर्थम् कलिः उच्यते ॥ २९।९॥
ādyam kṛta-yugam proktam tatas tretā-yugam budhaiḥ tṛtīyam dvāparam pārtha caturtham kaliḥ ucyate .. 29.9..
ध्यानं परं कृतयुगे त्रेतायां ज्ञानमुच्यते। द्वापरे यज्ञमेवाहुर्दानमेव कलौ युगे ॥ २९.१॥
ध्यानम् परम् कृत-युगे त्रेतायाम् ज्ञानम् उच्यते। द्वापरे यज्ञम् एव आहुः दानम् एव कलौ युगे ॥ २९।१॥
dhyānam param kṛta-yuge tretāyām jñānam ucyate. dvāpare yajñam eva āhuḥ dānam eva kalau yuge .. 29.1..
ब्रह्मा कृतयुगे देवस्त्रेतायां भगवान् रविः । द्वापरे दैवतं विष्णुः कलौ रुद्रो महेश्वरः ॥ २९.११॥
ब्रह्मा कृत-युगे देवः त्रेतायाम् भगवान् रविः । द्वापरे दैवतम् विष्णुः कलौ रुद्रः महेश्वरः ॥ २९।११॥
brahmā kṛta-yuge devaḥ tretāyām bhagavān raviḥ . dvāpare daivatam viṣṇuḥ kalau rudraḥ maheśvaraḥ .. 29.11..
ब्रह्मा विष्णुस्तथा सूर्यः सर्व एव कलावपि । पूज्यते भगवान् रुद्रश्चतुर्ष्वपि पिनाकधृक् ॥ २९.१२॥
ब्रह्मा विष्णुः तथा सूर्यः सर्वे एव कलौ अपि । पूज्यते भगवान् रुद्रः चतुर्षु अपि पिनाकधृक् ॥ २९।१२॥
brahmā viṣṇuḥ tathā sūryaḥ sarve eva kalau api . pūjyate bhagavān rudraḥ caturṣu api pinākadhṛk .. 29.12..
आद्ये कृतयुगे धर्मश्चतुष्पादः सनातनः । त्रेतायुगे त्रिपादः स्याद् द्विपादो द्वापरे स्थितः ॥ २९.१३॥
आद्ये कृत-युगे धर्मः चतुष्पादः सनातनः । त्रेता-युगे त्रि-पादः स्यात् द्वि-पादः द्वापरे स्थितः ॥ २९।१३॥
ādye kṛta-yuge dharmaḥ catuṣpādaḥ sanātanaḥ . tretā-yuge tri-pādaḥ syāt dvi-pādaḥ dvāpare sthitaḥ .. 29.13..
त्रिपादहीनस्तिष्टे तु सत्तामात्रेण तिष्ठति । कृते तु मिथुनोत्पत्तिर्वृत्तिः साक्षाद् अलोलुपा ॥ २९.१४॥
त्रि-पाद-हीनः तिष्टे तु सत्ता-मात्रेण तिष्ठति । कृते तु मिथुन-उत्पत्तिः वृत्तिः साक्षात् अ लोलुपा ॥ २९।१४॥
tri-pāda-hīnaḥ tiṣṭe tu sattā-mātreṇa tiṣṭhati . kṛte tu mithuna-utpattiḥ vṛttiḥ sākṣāt a lolupā .. 29.14..
प्रजास्तृप्ताः सदा सर्वाः सदानन्दाश्च भोगिनः । अधमोत्तमत्वं नास्त्यासां निर्विशेषाः पुरंजय॥ २९.१५॥
प्रजाः तृप्ताः सदा सर्वाः सत्-आनन्दाः च भोगिनः । अधम-उत्तम-त्वम् ना अस्ति आसाम् निर्विशेषाः पुरंजय॥ २९।१५॥
prajāḥ tṛptāḥ sadā sarvāḥ sat-ānandāḥ ca bhoginaḥ . adhama-uttama-tvam nā asti āsām nirviśeṣāḥ puraṃjaya.. 29.15..
तुल्यमायुः सुखं रूपं तासां तस्मिन् कृते युगे । विशोकाः सत्त्वबहुला एकान्तबहुलास्तथा ॥ २९.१६॥
तुल्यम् आयुः सुखम् रूपम् तासाम् तस्मिन् कृते युगे । विशोकाः सत्त्व-बहुलाः एकान्त-बहुलाः तथा ॥ २९।१६॥
tulyam āyuḥ sukham rūpam tāsām tasmin kṛte yuge . viśokāḥ sattva-bahulāḥ ekānta-bahulāḥ tathā .. 29.16..
ध्याननिष्ठास्तपोनिष्ठा महादेवपरायणाः । ता वै निष्कामचारिण्यो नित्यं मुदितमानसाः ॥ २९.१७॥
ध्यान-निष्ठाः तपः-निष्ठाः महादेव-परायणाः । ताः वै निष्काम-चारिण्यः नित्यम् मुदित-मानसाः ॥ २९।१७॥
dhyāna-niṣṭhāḥ tapaḥ-niṣṭhāḥ mahādeva-parāyaṇāḥ . tāḥ vai niṣkāma-cāriṇyaḥ nityam mudita-mānasāḥ .. 29.17..
पर्वतोदधिवासिन्यो ह्यनिकेतः परंतप । रसोल्लासा कालयोगात् त्रेताख्ये नश्यते ततः ॥ २९.१८॥
पर्वत-उदधि-वासिन्यः हि अनिकेतः परंतप । रसोल्लासा काल-योगात् त्रेता-आख्ये नश्यते ततस् ॥ २९।१८॥
parvata-udadhi-vāsinyaḥ hi aniketaḥ paraṃtapa . rasollāsā kāla-yogāt tretā-ākhye naśyate tatas .. 29.18..
तस्यां सिद्धौ प्रणष्टायामन्या सिद्धिरवर्त्तत । अपां सौख्ये प्रतिहते तदा मेघात्मना तु वै ॥ २९.१९॥
तस्याम् सिद्धौ प्रणष्टायाम् अन्या सिद्धिः अवर्त्तत । अपाम् सौख्ये प्रतिहते तदा मेघ-आत्मना तु वै ॥ २९।१९॥
tasyām siddhau praṇaṣṭāyām anyā siddhiḥ avarttata . apām saukhye pratihate tadā megha-ātmanā tu vai .. 29.19..
मेघेभ्यः स्तनयित्नुभ्यः प्रवृत्तं वृष्टिसर्जनम् । सकृदेव तया वृष्ट्या संयुक्ते पृथिवीतले ॥ २९.२॥
मेघेभ्यः स्तनयित्नुभ्यः प्रवृत्तम् वृष्टि-सर्जनम् । सकृत् एव तया वृष्ट्या संयुक्ते पृथिवी-तले ॥ २९।२॥
meghebhyaḥ stanayitnubhyaḥ pravṛttam vṛṣṭi-sarjanam . sakṛt eva tayā vṛṣṭyā saṃyukte pṛthivī-tale .. 29.2..
प्रादुरासंस्तदा तासां वृक्षा वै गृहसंज्ञिताः । सर्वप्रत्युपयोगस्तु तासां तेभ्यः प्रजायते ॥ २९.२१॥
प्रादुरासन् तदा तासाम् वृक्षाः वै गृह-संज्ञिताः । सर्व-प्रत्युपयोगः तु तासाम् तेभ्यः प्रजायते ॥ २९।२१॥
prādurāsan tadā tāsām vṛkṣāḥ vai gṛha-saṃjñitāḥ . sarva-pratyupayogaḥ tu tāsām tebhyaḥ prajāyate .. 29.21..
वर्त्तयन्ति स्म तेभ्यस्तास्त्रेतायुगमुखे प्रजाः । ततः कालेन महता तासामेव विपर्यतात् ॥ २९.२२॥
वर्त्तयन्ति स्म तेभ्यः ताः त्रेता-युग-मुखे प्रजाः । ततस् कालेन महता तासाम् एव ॥ २९।२२॥
varttayanti sma tebhyaḥ tāḥ tretā-yuga-mukhe prajāḥ . tatas kālena mahatā tāsām eva .. 29.22..
रागलोभात्मको भावस्तदा ह्याकस्मिकोऽभवत् । विपर्ययेण तासां तु तेन तत्कालभाविता ॥ २९.२३॥
राग-लोभ-आत्मकः भावः तदा हि आकस्मिकः अभवत् । विपर्ययेण तासाम् तु तेन तद्-काल-भावि-ता ॥ २९।२३॥
rāga-lobha-ātmakaḥ bhāvaḥ tadā hi ākasmikaḥ abhavat . viparyayeṇa tāsām tu tena tad-kāla-bhāvi-tā .. 29.23..
प्रणश्यन्ति ततः सर्वे वृक्षास्ते गृहसंज्ञिताः । ततस्तेषु प्रनष्टेषु विभ्रान्ता मैथुनोद्भवाः ॥ २९.२४॥
प्रणश्यन्ति ततस् सर्वे वृक्षाः ते गृह-संज्ञिताः । ततस् तेषु प्रनष्टेषु विभ्रान्ताः मैथुन-उद्भवाः ॥ २९।२४॥
praṇaśyanti tatas sarve vṛkṣāḥ te gṛha-saṃjñitāḥ . tatas teṣu pranaṣṭeṣu vibhrāntāḥ maithuna-udbhavāḥ .. 29.24..
अभिध्यायन्ति तां सिद्धिं सत्याभिध्यायिनस्तदा । प्रादुर्बभूवुस्तासां तु वृक्षास्ते गृहसंज्ञिताः ॥ २९.२५॥
अभिध्यायन्ति ताम् सिद्धिम् सत्य-अभिध्यायिनः तदा । प्रादुर्बभूवुः तासाम् तु वृक्षाः ते गृह-संज्ञिताः ॥ २९।२५॥
abhidhyāyanti tām siddhim satya-abhidhyāyinaḥ tadā . prādurbabhūvuḥ tāsām tu vṛkṣāḥ te gṛha-saṃjñitāḥ .. 29.25..
वस्राणि ते प्रसूयन्ते फलान्याभरणानि च । तेष्वेव जायते तासां गन्धवर्णरसान्वितम् ॥ २९.२६॥
वस्राणि ते प्रसूयन्ते फलानि आभरणानि च । तेषु एव जायते तासाम् गन्ध-वर्ण-रस-अन्वितम् ॥ २९।२६॥
vasrāṇi te prasūyante phalāni ābharaṇāni ca . teṣu eva jāyate tāsām gandha-varṇa-rasa-anvitam .. 29.26..
अमाक्षिकं महावीर्यं पुटके पुटके मधु । तेन ता वर्त्तयन्ति स्म त्रेतायुगमुखे प्रजाः ॥ २९.२७॥
अमाक्षिकम् महा-वीर्यम् पुटके पुटके मधु । तेन ताः वर्त्तयन्ति स्म त्रेता-युग-मुखे प्रजाः ॥ २९।२७॥
amākṣikam mahā-vīryam puṭake puṭake madhu . tena tāḥ varttayanti sma tretā-yuga-mukhe prajāḥ .. 29.27..
हृष्टपुष्टास्तया सिद्ध्या सर्वा वै विगतज्वराः । ततः कालान्तरेणैव पुनर्लोभावृतास्तदा ॥ २९.२८॥
हृष्ट-पुष्टाः तया सिद्ध्या सर्वाः वै विगत-ज्वराः । ततस् काल-अन्तरेण एव पुनर् लोभ-आवृताः तदा ॥ २९।२८॥
hṛṣṭa-puṣṭāḥ tayā siddhyā sarvāḥ vai vigata-jvarāḥ . tatas kāla-antareṇa eva punar lobha-āvṛtāḥ tadā .. 29.28..
वृक्षांस्तान् पर्यगृह्णन्त मधु वामाक्षिकं बलात् । तासां तेनापचारेण पुनर्लोभकृतेन वै ॥ २९.२९॥
वृक्षान् तान् पर्यगृह्णन्त मधु वा अमाक्षिकम् बलात् । तासाम् तेन अपचारेण पुनर् लोभ-कृतेन वै ॥ २९।२९॥
vṛkṣān tān paryagṛhṇanta madhu vā amākṣikam balāt . tāsām tena apacāreṇa punar lobha-kṛtena vai .. 29.29..
प्रनष्टामधुना सार्द्धं कल्पवृक्षाः क्वचित् क्वचित् । शीतवर्षातपैस्तीव्रै स्तास्ततो दुःखिता भृशम्॥ २९.३॥
प्रनष्टाम् अमधुना सार्द्धम् कल्पवृक्षाः क्वचिद् क्वचिद् । शीत-वर्ष-आतपैः तीव्रैः स्ताः ततस् दुःखिताः भृशम्॥ २९।३॥
pranaṣṭām amadhunā sārddham kalpavṛkṣāḥ kvacid kvacid . śīta-varṣa-ātapaiḥ tīvraiḥ stāḥ tatas duḥkhitāḥ bhṛśam.. 29.3..
द्वन्द्वैः संपीड्यमानास्तु चक्रुरावरणानि च । कृत्वा द्वन्द्वप्रतीघातान् वार्त्तोपायमचिन्तयन् ॥ २९.३१॥
द्वन्द्वैः संपीड्यमानाः तु चक्रुः आवरणानि च । कृत्वा द्वन्द्व-प्रतीघातान् वार्त्ता-उपायम् अचिन्तयन् ॥ २९।३१॥
dvandvaiḥ saṃpīḍyamānāḥ tu cakruḥ āvaraṇāni ca . kṛtvā dvandva-pratīghātān vārttā-upāyam acintayan .. 29.31..
नष्टेषु मधुना सार्द्धं कल्पवृक्षेषु वै तदा । ततः प्रादुर्बभौ तासां सिद्धिस्त्रेतायुगे पुनः ॥ २९.३२॥
नष्टेषु मधुना सार्द्धम् कल्पवृक्षेषु वै तदा । ततस् प्रादुर् बभौ तासाम् सिद्धिः त्रेता-युगे पुनर् ॥ २९।३२॥
naṣṭeṣu madhunā sārddham kalpavṛkṣeṣu vai tadā . tatas prādur babhau tāsām siddhiḥ tretā-yuge punar .. 29.32..
वार्त्तायाः साधिका ह्यन्या वृष्टिस्तासां निकामतः । तासां वृष्ट्यूदकानीह यानि निम्नैर्गतानि तु॥ २९.३३॥
वार्त्तायाः साधिका हि अन्या वृष्टिः तासाम् निकामतः । तासाम् वृष्ट्युदकानि इह यानि निम्नैः गतानि तु॥ २९।३३॥
vārttāyāḥ sādhikā hi anyā vṛṣṭiḥ tāsām nikāmataḥ . tāsām vṛṣṭyudakāni iha yāni nimnaiḥ gatāni tu.. 29.33..
अवहन् वृष्टिसंतत्या स्रोतः स्थानानि निम्नगाः । ये पुनस्तदपां स्तोका आपन्नाः पृथिवीतले ॥ २९.३४॥
अवहन् वृष्टि-संतत्या स्रोतः स्थानानि निम्नगाः । ये पुनर् तत् अपाम् स्तोकाः आपन्नाः पृथिवी-तले ॥ २९।३४॥
avahan vṛṣṭi-saṃtatyā srotaḥ sthānāni nimnagāḥ . ye punar tat apām stokāḥ āpannāḥ pṛthivī-tale .. 29.34..
अपां भूणेश्च संयोगादोषध्यस्तास्तदाऽभवन् । अफालकृष्टाश्चानुप्ता ग्राम्यारण्याश्चतुर्दश ॥ २९.३५॥
अपाम् भूणेः च संयोगात् ओषध्यः ताः तदा अभवन् । अ फाल-कृष्टाः च अनुप्ताः ग्राम्य-आरण्याः चतुर्दश ॥ २९।३५॥
apām bhūṇeḥ ca saṃyogāt oṣadhyaḥ tāḥ tadā abhavan . a phāla-kṛṣṭāḥ ca anuptāḥ grāmya-āraṇyāḥ caturdaśa .. 29.35..
ऋतुपुष्पफलैश्चैव वृक्षगुल्माश्च जज्ञिरे । ततः प्रादुरभूत् तासां रागो लोभश्च सर्वशः ॥ २९.३६॥
ऋतु-पुष्प-फलैः च एव वृक्ष-गुल्माः च जज्ञिरे । ततस् प्रादुरभूत् तासाम् रागः लोभः च सर्वशस् ॥ २९।३६॥
ṛtu-puṣpa-phalaiḥ ca eva vṛkṣa-gulmāḥ ca jajñire . tatas prādurabhūt tāsām rāgaḥ lobhaḥ ca sarvaśas .. 29.36..
अवश्यं भाविताऽर्थेन त्रेतायुगवशेन वै । ततस्ताः पर्यगृह्णन्त नदीक्षेत्राणि पर्वतान् ॥ २९.३७॥
अवश्यम् भाविता अर्थेन त्रेता-युग-वशेन वै । ततस् ताः पर्यगृह्णन्त नदी-क्षेत्राणि पर्वतान् ॥ २९।३७॥
avaśyam bhāvitā arthena tretā-yuga-vaśena vai . tatas tāḥ paryagṛhṇanta nadī-kṣetrāṇi parvatān .. 29.37..
वृक्षगुल्मौषधीश्चैव प्रसह्य तु यथाबलम् । विपर्ययेण तासां ता ओषध्यो विविशुर्महीम् ॥ २९.३८॥
वृक्ष-गुल्म-ओषधीः च एव प्रसह्य तु यथाबलम् । विपर्ययेण तासाम् ताः ओषध्यः विविशुः महीम् ॥ २९।३८॥
vṛkṣa-gulma-oṣadhīḥ ca eva prasahya tu yathābalam . viparyayeṇa tāsām tāḥ oṣadhyaḥ viviśuḥ mahīm .. 29.38..
पितामहनियोगेन दुदोह पृथिवीं पृथुः । ततस्ता जगृहुः सर्वा अन्योन्यं क्रोधमूर्च्छिताः ॥ २९.३९॥
पितामह-नियोगेन दुदोह पृथिवीम् पृथुः । ततस् ताः जगृहुः सर्वाः अन्योन्यम् क्रोध-मूर्च्छिताः ॥ २९।३९॥
pitāmaha-niyogena dudoha pṛthivīm pṛthuḥ . tatas tāḥ jagṛhuḥ sarvāḥ anyonyam krodha-mūrcchitāḥ .. 29.39..
वसुदारधनाद्यांस्तु बलात् कालबलेन तु । मर्यादायाः प्रतिष्ठार्थं ज्ञात्वैतद् भगवानजः ॥ २९.४॥
वसु-दार-धन-आद्यान् तु बलात् काल-बलेन तु । मर्यादायाः प्रतिष्ठा-अर्थम् ज्ञात्वा एतत् भगवान् अजः ॥ २९।४॥
vasu-dāra-dhana-ādyān tu balāt kāla-balena tu . maryādāyāḥ pratiṣṭhā-artham jñātvā etat bhagavān ajaḥ .. 29.4..
ससर्ज क्षत्रियान् ब्रह्मा ब्राह्मणानां हिताय च । वर्णाश्रमव्यवस्थां च त्रेतायां कृतवान् प्रभुः ॥ २९.४१॥
ससर्ज क्षत्रियान् ब्रह्मा ब्राह्मणानाम् हिताय च । वर्ण-आश्रम-व्यवस्थाम् च त्रेतायाम् कृतवान् प्रभुः ॥ २९।४१॥
sasarja kṣatriyān brahmā brāhmaṇānām hitāya ca . varṇa-āśrama-vyavasthām ca tretāyām kṛtavān prabhuḥ .. 29.41..
यज्ञप्रवर्त्तनं चैव पशुहिंसाविवर्जितम् । द्वापरेष्वथ विद्यन्ते मतिभेदाः सदा नृणाम् ॥ २९.४२॥
यज्ञ-प्रवर्त्तनम् च एव पशु-हिंसा-विवर्जितम् । द्वापरेषु अथ विद्यन्ते मति-भेदाः सदा नृणाम् ॥ २९।४२॥
yajña-pravarttanam ca eva paśu-hiṃsā-vivarjitam . dvāpareṣu atha vidyante mati-bhedāḥ sadā nṛṇām .. 29.42..
रागो लोभस्तथा युद्धं मत्वा बुद्धिविनिश्चयम् । एको वेदश्चतुष्पादस्त्रेदास्विह विधीयते ॥ २९.४३॥
रागः लोभः तथा युद्धम् मत्वा बुद्धि-विनिश्चयम् । एकः वेदः चतुष्पादः त्रेदासु इह विधीयते ॥ २९।४३॥
rāgaḥ lobhaḥ tathā yuddham matvā buddhi-viniścayam . ekaḥ vedaḥ catuṣpādaḥ tredāsu iha vidhīyate .. 29.43..
वेदव्यासैश्चतुर्द्धा तु न्य्स्यते द्वापरादिषु । ऋषिपुत्रैः पुनर्भेदाद् भिद्यन्ते दृष्टिविभ्रमैः ॥ २९.४४॥
वेदव्यासैः चतुर्द्धा तु द्वापर-आदिषु । ऋषि-पुत्रैः पुनर् भेदात् भिद्यन्ते दृष्टि-विभ्रमैः ॥ २९।४४॥
vedavyāsaiḥ caturddhā tu dvāpara-ādiṣu . ṛṣi-putraiḥ punar bhedāt bhidyante dṛṣṭi-vibhramaiḥ .. 29.44..
मन्त्रब्राह्मणविन्यासैः स्वरवर्णविपर्ययैः । संहिता ऋग्यजुः साम्नां संहन्यन्ते श्रुतर्षिभिः ॥ २९.४५॥
मन्त्र-ब्राह्मण-विन्यासैः स्वर-वर्ण-विपर्ययैः । संहिताः ऋक्-यजुः-साम्नाम् संहन्यन्ते श्रुत-ऋषिभिः ॥ २९।४५॥
mantra-brāhmaṇa-vinyāsaiḥ svara-varṇa-viparyayaiḥ . saṃhitāḥ ṛk-yajuḥ-sāmnām saṃhanyante śruta-ṛṣibhiḥ .. 29.45..
सामान्याद् वैकृताच्चैवदृष्टिभेदैः क्वचित् क्वचित् । ब्राह्मणं कल्पसूत्राणि मन्त्रप्रवचनानि च ॥ २९.४६॥
सामान्यात् वैकृतात् च एव दृष्टि-भेदैः क्वचिद् क्वचिद् । ब्राह्मणम् कल्पसूत्राणि मन्त्र-प्रवचनानि च ॥ २९।४६॥
sāmānyāt vaikṛtāt ca eva dṛṣṭi-bhedaiḥ kvacid kvacid . brāhmaṇam kalpasūtrāṇi mantra-pravacanāni ca .. 29.46..
इतिहासपुराणानि धर्मशास्त्राणि सुव्रत । अवृष्टिर्मरणं चैव तथैव व्याध्युपद्रवाः ॥ २९.४७॥
इतिहास-पुराणानि धर्म-शास्त्राणि सुव्रत । अवृष्टिः मरणम् च एव तथा एव व्याधि-उपद्रवाः ॥ २९।४७॥
itihāsa-purāṇāni dharma-śāstrāṇi suvrata . avṛṣṭiḥ maraṇam ca eva tathā eva vyādhi-upadravāḥ .. 29.47..
वाङ्मनः कायजैर्दोषैर्निर्वेदो जायते नृणाम् । निर्वेदाज्जायते तेषां दुःखमोक्षविचारणा ॥ २९.४८॥
वाच्-मनः काय-जैः दोषैः निर्वेदः जायते नृणाम् । निर्वेदात् जायते तेषाम् दुःख-मोक्ष-विचारणा ॥ २९।४८॥
vāc-manaḥ kāya-jaiḥ doṣaiḥ nirvedaḥ jāyate nṛṇām . nirvedāt jāyate teṣām duḥkha-mokṣa-vicāraṇā .. 29.48..
विचारणाच्च वैराग्यं वैराग्याद् दोषदर्शनम् । दोषाणां दर्शनाच्चैव द्वापरे ज्ञानसंभवः ॥ २९.४९॥
विचारणात् च वैराग्यम् वैराग्यात् दोष-दर्शनम् । दोषाणाम् दर्शनात् च एव द्वापरे ज्ञान-संभवः ॥ २९।४९॥
vicāraṇāt ca vairāgyam vairāgyāt doṣa-darśanam . doṣāṇām darśanāt ca eva dvāpare jñāna-saṃbhavaḥ .. 29.49..
एषा रजस्तमोयुक्ता वृत्तिर्वै द्वापरे स्मृता । आद्ये कृते तु धर्मोऽस्ति स त्रेतायां प्रवर्त्तते ॥ २९.५॥
एषा रजः-तमः-युक्ता वृत्तिः वै द्वापरे स्मृता । आद्ये कृते तु धर्मः अस्ति स त्रेतायाम् प्रवर्त्तते ॥ २९।५॥
eṣā rajaḥ-tamaḥ-yuktā vṛttiḥ vai dvāpare smṛtā . ādye kṛte tu dharmaḥ asti sa tretāyām pravarttate .. 29.5..
द्वापरे व्याकुलीभूत्वा प्रणश्यति कलौ युगे ॥ २९.५१॥
द्वापरे व्याकुलीभूत्वा प्रणश्यति कलौ युगे ॥ २९।५१॥
dvāpare vyākulībhūtvā praṇaśyati kalau yuge .. 29.51..
इती श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे एकोनत्रिंशो ऽध्यायः ॥ ॥
श्री-कूर्मपुराणे षट्साहस्त्र्याम् संहितायाम् पूर्व-विभागे एकोनत्रिंशः अध्यायः ॥ ॥
śrī-kūrmapurāṇe ṣaṭsāhastryām saṃhitāyām pūrva-vibhāge ekonatriṃśaḥ adhyāyaḥ .. ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In