| |
|

This overlay will guide you through the buttons:

ऋषयः ऊचुः
वर्णा भगवतोद्दिष्टाश्चत्वारोऽप्याश्रमास्तथा । इदानीं क्रममस्माकमाश्रमाणां वद प्रभो ॥ ३.१
वर्णाः भगवता उद्दिष्टाः चत्वारः अपि आश्रमाः तथा । इदानीम् क्रमम् अस्माकम् आश्रमाणाम् वद प्रभो ॥ ३।१
varṇāḥ bhagavatā uddiṣṭāḥ catvāraḥ api āśramāḥ tathā . idānīm kramam asmākam āśramāṇām vada prabho .. 3.1
श्रीकूर्म उवाच
ब्रह्मचारी गृहस्थश्च वानप्रस्थो यतिस्तथा । क्रमेणैवाश्रमाः प्रोक्ताः कारणादन्यथा भवेत् ॥ ३.२॥
ब्रह्मचारी गृहस्थः च वानप्रस्थः यतिः तथा । क्रमेण एव आश्रमाः प्रोक्ताः कारणात् अन्यथा भवेत् ॥ ३।२॥
brahmacārī gṛhasthaḥ ca vānaprasthaḥ yatiḥ tathā . krameṇa eva āśramāḥ proktāḥ kāraṇāt anyathā bhavet .. 3.2..
उत्पन्नज्ञानविज्ञानी वैराग्यं परमं गतः । प्रव्रजेद् ब्रह्मचर्यात्तु यदिच्छेत् परमां गतिम् ॥ ३.३॥
उत्पन्न-ज्ञान-विज्ञानी वैराग्यम् परमम् गतः । प्रव्रजेत् ब्रह्मचर्यात् तु यत् इच्छेत् परमाम् गतिम् ॥ ३।३॥
utpanna-jñāna-vijñānī vairāgyam paramam gataḥ . pravrajet brahmacaryāt tu yat icchet paramām gatim .. 3.3..
दारानाहृत्य विधिवदन्यथा विविधैर्मखैः । यजेदुत्पादयेत् पुत्रान् विरक्तो यदि संन्यसेत् ॥ ३.४॥
दारान् आहृत्य विधिवत् अन्यथा विविधैः मखैः । यजेत् उत्पादयेत् पुत्रान् विरक्तः यदि संन्यसेत् ॥ ३।४॥
dārān āhṛtya vidhivat anyathā vividhaiḥ makhaiḥ . yajet utpādayet putrān viraktaḥ yadi saṃnyaset .. 3.4..
अनिष्ट्वा विधिवद् यज्ञैरनुत्पाद्य तथात्मजान् । न गार्हस्थं गृहीत्यक्त्वा संन्यसेद् बुद्धिमान् द्विजः ॥ ३.५॥
अन् इष्ट्वा विधिवत् यज्ञैः अन् उत्पाद्य तथा आत्मजान् । न गार्हस्थम् संन्यसेत् बुद्धिमान् द्विजः ॥ ३।५॥
an iṣṭvā vidhivat yajñaiḥ an utpādya tathā ātmajān . na gārhastham saṃnyaset buddhimān dvijaḥ .. 3.5..
अथ वैराग्यवेगेन स्थातुं नोत्सहते गृहे । तत्रैव संन्यसेद् विद्वाननिष्ट्वाऽपि द्विजोत्तमः ॥ ३.६॥
अथ वैराग्य-वेगेन स्थातुम् ना उत्सहते गृहे । तत्र एव संन्यसेत् विद्वान् अन् इष्ट्वा अपि द्विजोत्तमः ॥ ३।६॥
atha vairāgya-vegena sthātum nā utsahate gṛhe . tatra eva saṃnyaset vidvān an iṣṭvā api dvijottamaḥ .. 3.6..
अन्यथा विविधैर्यज्ञैरिष्ट्वा वनमथाक्षयेत् । तपस्तप्त्वा तपोयोगाद् विरक्तः संन्यसेद् यदि ॥ ३.७॥
अन्यथा विविधैः यज्ञैः इष्ट्वा वनम् अथ आक्षयेत् । तपः तप्त्वा तपः-योगात् विरक्तः संन्यसेत् यदि ॥ ३।७॥
anyathā vividhaiḥ yajñaiḥ iṣṭvā vanam atha ākṣayet . tapaḥ taptvā tapaḥ-yogāt viraktaḥ saṃnyaset yadi .. 3.7..
वानप्रस्थाश्रमं गत्वा न गृहं प्रविशेत् पुनः । न संन्यासी वनञ्चाथ ब्रह्माचर्यानु साधकः ॥ ३.८॥
वानप्रस्थ-आश्रमम् गत्वा न गृहम् प्रविशेत् पुनर् । न संन्यासी वनन् च अथ ब्रह्म आचर्य अनु साधकः ॥ ३।८॥
vānaprastha-āśramam gatvā na gṛham praviśet punar . na saṃnyāsī vanan ca atha brahma ācarya anu sādhakaḥ .. 3.8..
प्राजापत्यां निरूप्येष्टिमाग्नेयीमथवा द्विजः । प्रव्रजेत्तु गृही विद्वान् वनाद्वा श्रुतिचोदनात् ॥ ३.९॥
प्राजापत्याम् निरूप्य इष्टिम् आग्नेयीम् अथवा द्विजः । प्रव्रजेत् तु गृही विद्वान् वनात् वा श्रुति-चोदनात् ॥ ३।९॥
prājāpatyām nirūpya iṣṭim āgneyīm athavā dvijaḥ . pravrajet tu gṛhī vidvān vanāt vā śruti-codanāt .. 3.9..
प्रकर्त्तुमसमर्थोऽपि जुहोतियजतिक्रियाः । अन्धः पङ्गुर्दरिद्रो वा विरक्तः संन्यसेद् द्विजः ॥ ३.१॥
प्रकर्त्तुम् असमर्थः अपि जुहोति-यजति-क्रियाः । अन्धः पङ्गुः दरिद्रः वा विरक्तः संन्यसेत् द्विजः ॥ ३।१॥
prakarttum asamarthaḥ api juhoti-yajati-kriyāḥ . andhaḥ paṅguḥ daridraḥ vā viraktaḥ saṃnyaset dvijaḥ .. 3.1..
सर्वेषामेव वैराग्यं संन्यासाय विधीयते । पतत्येवाविरक्तो यः संन्यासं कर्तुमिच्छति ॥ ३.११॥
सर्वेषाम् एव वैराग्यम् संन्यासाय विधीयते । पतति एव अविरक्तः यः संन्यासम् कर्तुम् इच्छति ॥ ३।११॥
sarveṣām eva vairāgyam saṃnyāsāya vidhīyate . patati eva aviraktaḥ yaḥ saṃnyāsam kartum icchati .. 3.11..
एकस्मिन्नथवा सम्यग् वर्तेतामरणाद्विजाः । श्रद्धावनाश्रमे युक्तः सोऽमृतत्वाय कल्पते ॥ ३.१२॥
एकस्मिन् अथवा सम्यक् वर्तेत आमरणात् विजाः । श्रद्धावान् आश्रमे युक्तः सः अमृत-त्वाय कल्पते ॥ ३।१२॥
ekasmin athavā samyak varteta āmaraṇāt vijāḥ . śraddhāvān āśrame yuktaḥ saḥ amṛta-tvāya kalpate .. 3.12..
न्यायागतधनः शान्तो ब्रह्मविद्यापरायणः । स्वधर्मपालको नित्यं ब्रह्मभूयाय कल्पते ॥ ३.१३॥
न्याय-आगत-धनः शान्तः ब्रह्म-विद्या-परायणः । स्वधर्म-पालकः नित्यम् ब्रह्म-भूयाय कल्पते ॥ ३।१३॥
nyāya-āgata-dhanaḥ śāntaḥ brahma-vidyā-parāyaṇaḥ . svadharma-pālakaḥ nityam brahma-bhūyāya kalpate .. 3.13..
ब्रह्मण्याधाय क्रर्माणि निःसङ्गः कामवर्जितः । प्रसन्नेनैव मनसा कुर्वाणो याति तत्पदम् ॥ ३.१४॥
ब्रह्मणि आधाय क्रर्माणि निःसङ्गः काम-वर्जितः । प्रसन्नेन एव मनसा कुर्वाणः याति तत् पदम् ॥ ३।१४॥
brahmaṇi ādhāya krarmāṇi niḥsaṅgaḥ kāma-varjitaḥ . prasannena eva manasā kurvāṇaḥ yāti tat padam .. 3.14..
ब्रह्मणा दीयते देयं ब्रह्मणे संप्रदीयते । ब्रह्मैव दीयते चेति ब्रह्मार्पणमिदं परम् ॥ ३.१५॥
ब्रह्मणा दीयते देयम् ब्रह्मणे संप्रदीयते । ब्रह्म एव दीयते च इति ब्रह्मार्पणम् इदम् परम् ॥ ३।१५॥
brahmaṇā dīyate deyam brahmaṇe saṃpradīyate . brahma eva dīyate ca iti brahmārpaṇam idam param .. 3.15..
नाहं कर्ता सर्वमेतद् ब्रह्मैव कुरुते तथा । एतद् ब्रह्मार्पणं प्रोक्तमृषिभिः तत्त्वदर्शिभिः ॥ ३.१६॥
न अहम् कर्ता सर्वम् एतत् ब्रह्मा एव कुरुते तथा । एतत् ब्रह्मार्पणम् प्रोक्तम् ऋषिभिः तत्त्व-दर्शिभिः ॥ ३।१६॥
na aham kartā sarvam etat brahmā eva kurute tathā . etat brahmārpaṇam proktam ṛṣibhiḥ tattva-darśibhiḥ .. 3.16..
प्रीणातु भगवानीशः कर्मणाऽनेन शाश्वतः । करोति सततं बुद्ध्या ब्रह्मार्पणमिदं परम् ॥ ३.१७॥
प्रीणातु भगवान् ईशः कर्मणा अनेन शाश्वतः । करोति सततम् बुद्ध्या ब्रह्मार्पणम् इदम् परम् ॥ ३।१७॥
prīṇātu bhagavān īśaḥ karmaṇā anena śāśvataḥ . karoti satatam buddhyā brahmārpaṇam idam param .. 3.17..
यद्वा फलनां संन्यासं प्रकुर्यात् परमेश्वरे । कर्मणामेतदप्याहुः ब्रह्मार्पणमनुत्तमम् ॥ ३.१८॥
यत् वा फलनाम् संन्यासम् प्रकुर्यात् परमेश्वरे । कर्मणाम् एतत् अपि आहुः ब्रह्मार्पणम् अनुत्तमम् ॥ ३।१८॥
yat vā phalanām saṃnyāsam prakuryāt parameśvare . karmaṇām etat api āhuḥ brahmārpaṇam anuttamam .. 3.18..
कार्यमित्येव यत्कर्म नियतं सङ्गवर्जितम् । क्रियते विदुषा कर्म तद्भवेदपि मोक्षदम् ॥ ३.१९॥
कार्यम् इति एव यत् कर्म नियतम् सङ्ग-वर्जितम् । क्रियते विदुषा कर्म तत् भवेत् अपि मोक्ष-दम् ॥ ३।१९॥
kāryam iti eva yat karma niyatam saṅga-varjitam . kriyate viduṣā karma tat bhavet api mokṣa-dam .. 3.19..
अन्यथा यदि कर्माणि कुर्यान्नित्यान्यपि द्विजः । अकृत्वा फलसंन्यासं बध्यते तत्फलेन तु ॥ ३.२॥
अन्यथा यदि कर्माणि कुर्यात् नित्यानि अपि द्विजः । अ कृत्वा फल-संन्यासम् बध्यते तद्-फलेन तु ॥ ३।२॥
anyathā yadi karmāṇi kuryāt nityāni api dvijaḥ . a kṛtvā phala-saṃnyāsam badhyate tad-phalena tu .. 3.2..
तस्मात् सर्वप्रयत्नेन त्यक्त्वा कर्माश्रितं फलम् । अविद्वानपि कुर्वीत कर्माप्नोतिचिरात् पदम् ॥ ३.२१॥
तस्मात् सर्व-प्रयत्नेन त्यक्त्वा कर्म-आश्रितम् फलम् । अ विद्वान् अपि कुर्वीत कर्म आप्नोति चिरात् पदम् ॥ ३।२१॥
tasmāt sarva-prayatnena tyaktvā karma-āśritam phalam . a vidvān api kurvīta karma āpnoti cirāt padam .. 3.21..
कर्मणा क्षीयते पापमैहिकं पौर्विकं तथा । मनः प्रसादमन्वेति ब्रह्मविज्ञायते ततः ॥ ३.२२॥
कर्मणा क्षीयते पापम् ऐहिकम् पौर्विकम् तथा । मनः प्रसादम् अन्वेति ब्रह्म विज्ञायते ततस् ॥ ३।२२॥
karmaṇā kṣīyate pāpam aihikam paurvikam tathā . manaḥ prasādam anveti brahma vijñāyate tatas .. 3.22..
कर्मणा सहिताज्ज्ञानात्सम्यग् योगोऽभिजायते । ज्ञानं च कर्मसहितं जायते दोषवर्जितम् ॥ ३.२३॥
कर्मणा सहितात् ज्ञानात् सम्यक् योगः अभिजायते । ज्ञानम् च कर्म-सहितम् जायते दोष-वर्जितम् ॥ ३।२३॥
karmaṇā sahitāt jñānāt samyak yogaḥ abhijāyate . jñānam ca karma-sahitam jāyate doṣa-varjitam .. 3.23..
तस्मात् सर्वप्रयत्नेन यत्र तत्राश्रमे रतः । कर्माणीश्वरतुष्ट्यर्थं कुर्यान्नैष्कर्म्यमाप्नुयात् ॥ ३.२४॥
तस्मात् सर्व-प्रयत्नेन यत्र तत्र आश्रमे रतः । कर्माणि ईश्वर-तुष्टि-अर्थम् कुर्यात् नैष्कर्म्यम् आप्नुयात् ॥ ३।२४॥
tasmāt sarva-prayatnena yatra tatra āśrame rataḥ . karmāṇi īśvara-tuṣṭi-artham kuryāt naiṣkarmyam āpnuyāt .. 3.24..
संप्राप्य परमं ज्ञानं नैष्कर्म्यं तत्प्रसादतः । एकाकी निर्ममः शान्तो जीवन्नेव विमुच्यते ॥ ३.२५॥
संप्राप्य परमम् ज्ञानम् नैष्कर्म्यम् तद्-प्रसादतः । एकाकी निर्ममः शान्तः जीवन् एव विमुच्यते ॥ ३।२५॥
saṃprāpya paramam jñānam naiṣkarmyam tad-prasādataḥ . ekākī nirmamaḥ śāntaḥ jīvan eva vimucyate .. 3.25..
वीक्षते परमात्मानं परं ब्रह्म महेश्वरम् । नित्यानन्दं निराभासंय तस्मिन्नेव लयं व्रजेत् ॥ ३.२६॥
वीक्षते परमात्मानम् परम् ब्रह्म महेश्वरम् । नित्य-आनन्दम् तस्मिन् एव लयम् व्रजेत् ॥ ३।२६॥
vīkṣate paramātmānam param brahma maheśvaram . nitya-ānandam tasmin eva layam vrajet .. 3.26..
तस्मात् सेवेत सततं कर्मयोगं प्रसन्नधीः । तृप्तये परमेशस्य तत् पदं याति शाश्वतम् ॥ ३.२७॥
तस्मात् सेवेत सततम् कर्म-योगम् प्रसन्न-धीः । तृप्तये परमेशस्य तत् पदम् याति शाश्वतम् ॥ ३।२७॥
tasmāt seveta satatam karma-yogam prasanna-dhīḥ . tṛptaye parameśasya tat padam yāti śāśvatam .. 3.27..
एतद्वः कथितं सर्वं चातुराश्रम्यमुत्तमम् । न ह्येतत् समतिक्रम्य सिद्धिं विन्दति मानवः ॥ ३.२८॥
एतत् वः कथितम् सर्वम् चातुराश्रम्यम् उत्तमम् । न हि एतत् समतिक्रम्य सिद्धिम् विन्दति मानवः ॥ ३।२८॥
etat vaḥ kathitam sarvam cāturāśramyam uttamam . na hi etat samatikramya siddhim vindati mānavaḥ .. 3.28..
इति श्रीकूर्मपुराणे चातुराश्रम्यकथनं नाम षट्साहस्त्र्यां संहितायां पूर्वविभागे तृतीयोऽध्यायः ॥ ३॥
इति श्री-कूर्मपुराणे चातुराश्रम्यकथनम् नाम षट्साहस्त्र्याम् संहितायाम् पूर्व-विभागे तृतीयः अध्यायः ॥ ३॥
iti śrī-kūrmapurāṇe cāturāśramyakathanam nāma ṣaṭsāhastryām saṃhitāyām pūrva-vibhāge tṛtīyaḥ adhyāyaḥ .. 3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In