| |
|

This overlay will guide you through the buttons:

व्यास उवाच ।
तिष्ये मायामसूयां च वधं चैव तपस्विनाम् । साधयन्ति नरा नित्यं तमसा व्याकुलीकृताः ॥ ३०.१॥
तिष्ये मायाम् असूयाम् च वधम् च एव तपस्विनाम् । साधयन्ति नराः नित्यम् तमसा व्याकुलीकृताः ॥ ३०।१॥
tiṣye māyām asūyām ca vadham ca eva tapasvinām . sādhayanti narāḥ nityam tamasā vyākulīkṛtāḥ .. 30.1..
कलौ प्रमारको रोगः सततं क्षुद् भयं तथा । अनावृष्टिभयं घोरं देशानां च विपर्ययः ॥ ३०.२॥
कलौ प्रमारकः रोगः सततम् क्षुध् भयम् तथा । अनावृष्टि-भयम् घोरम् देशानाम् च विपर्ययः ॥ ३०।२॥
kalau pramārakaḥ rogaḥ satatam kṣudh bhayam tathā . anāvṛṣṭi-bhayam ghoram deśānām ca viparyayaḥ .. 30.2..
अधार्मिका अनाचारा महाकोपाल्पतेजसः । अनृतं ब्रुवते लुब्धास्तिष्ये जाताः सुदुःष्प्रजाः ॥ ३०.३॥
अधार्मिकाः अनाचाराः महा-कोप-अल्प-तेजसः । अनृतम् ब्रुवते लुब्धाः तिष्ये जाताः सु दुःष्प्रजाः ॥ ३०।३॥
adhārmikāḥ anācārāḥ mahā-kopa-alpa-tejasaḥ . anṛtam bruvate lubdhāḥ tiṣye jātāḥ su duḥṣprajāḥ .. 30.3..
दुरिष्टैर्दुरधीतैश्च दुराचारैर्दुरागमैः । विप्राणां कर्मदोषैश्च प्रजानां जायते भयम् ॥ ३०.४॥
दुरिष्टैः दुरधीतैः च दुराचारैः दुरागमैः । विप्राणाम् कर्म-दोषैः च प्रजानाम् जायते भयम् ॥ ३०।४॥
duriṣṭaiḥ duradhītaiḥ ca durācāraiḥ durāgamaiḥ . viprāṇām karma-doṣaiḥ ca prajānām jāyate bhayam .. 30.4..
नाधीयते कलौ वेदान् न यजन्ति द्विजातयः । यजन्त्यन्यायतो वेदान् पठन्ते चाल्पबुद्धयः ॥ ३०.५॥
न अधीयते कलौ वेदान् न यजन्ति द्विजातयः । यजन्ति अन्यायतः वेदान् पठन्ते च अल्पबुद्धयः ॥ ३०।५॥
na adhīyate kalau vedān na yajanti dvijātayaḥ . yajanti anyāyataḥ vedān paṭhante ca alpabuddhayaḥ .. 30.5..
शूद्राणां मन्त्रयौनैश्च संबन्धो ब्राह्मणैः सह । भविष्यति कलौ तस्मिञ् शयनासनभोजनैः ॥ ३०.६॥
शूद्राणाम् मन्त्र-यौनैः च संबन्धः ब्राह्मणैः सह । भविष्यति कलौ तस्मिन् शयन-आसन-भोजनैः ॥ ३०।६॥
śūdrāṇām mantra-yaunaiḥ ca saṃbandhaḥ brāhmaṇaiḥ saha . bhaviṣyati kalau tasmin śayana-āsana-bhojanaiḥ .. 30.6..
राजानः शूद्रभूयिष्ठा ब्राह्मणान् बाधयन्ति च । भ्रूणहत्या वीरहत्या प्रजायेत नरेश्वरे ॥ ३०.७॥
राजानः शूद्र-भूयिष्ठाः ब्राह्मणान् बाधयन्ति च । भ्रूण-हत्या वीर-हत्या प्रजायेत नरेश्वरे ॥ ३०।७॥
rājānaḥ śūdra-bhūyiṣṭhāḥ brāhmaṇān bādhayanti ca . bhrūṇa-hatyā vīra-hatyā prajāyeta nareśvare .. 30.7..
स्नानं होमं जपं दानं देवतानां तथाऽर्चनम् । अन्यानि चैव कर्माणि न कुर्वन्ति द्विजातयः ॥ ३०.८॥
स्नानम् होमम् जपम् दानम् देवतानाम् तथा अर्चनम् । अन्यानि च एव कर्माणि न कुर्वन्ति द्विजातयः ॥ ३०।८॥
snānam homam japam dānam devatānām tathā arcanam . anyāni ca eva karmāṇi na kurvanti dvijātayaḥ .. 30.8..
विनिन्दन्ति महादेवं ब्राह्मणान् पुरुषोत्तमम् । आम्नायधर्मशास्त्राणि पुराणानि कलौ युगे ॥ ३०.९॥
विनिन्दन्ति महादेवम् ब्राह्मणान् पुरुषोत्तमम् । आम्नाय-धर्म-शास्त्राणि पुराणानि कलौ युगे ॥ ३०।९॥
vinindanti mahādevam brāhmaṇān puruṣottamam . āmnāya-dharma-śāstrāṇi purāṇāni kalau yuge .. 30.9..
कुर्वन्त्यवेददृष्टानि कर्माणि विविधानि तु । स्वधर्मेऽभिरुचिर्नैव ब्राह्मणानां प्रजायते ॥ ३०.१॥
कुर्वन्ति अ वेद-दृष्टानि कर्माणि विविधानि तु । स्वधर्मे अभिरुचिः न एव ब्राह्मणानाम् प्रजायते ॥ ३०।१॥
kurvanti a veda-dṛṣṭāni karmāṇi vividhāni tu . svadharme abhiruciḥ na eva brāhmaṇānām prajāyate .. 30.1..
कुशीलचर्याः पाषण्डैर्वृथारूपैः समावृताः । बहुयाचनका लोको भविष्यन्ति परस्परम् ॥ ३०.११॥
कुशील-चर्याः पाषण्डैः वृथारूपैः समावृताः । बहु-याचनकाः लोकः भविष्यन्ति परस्परम् ॥ ३०।११॥
kuśīla-caryāḥ pāṣaṇḍaiḥ vṛthārūpaiḥ samāvṛtāḥ . bahu-yācanakāḥ lokaḥ bhaviṣyanti parasparam .. 30.11..
अट्टशूला जनपदाः शिवशूलाश्चतुष्पथाः । प्रमदाः केशशूलिन्यो भविष्यन्ति कलौ युगे ॥ ३०.१२॥
अट्ट-शूलाः जनपदाः शिव-शूलाः चतुष्पथाः । प्रमदाः केश-शूलिन्यः भविष्यन्ति कलौ युगे ॥ ३०।१२॥
aṭṭa-śūlāḥ janapadāḥ śiva-śūlāḥ catuṣpathāḥ . pramadāḥ keśa-śūlinyaḥ bhaviṣyanti kalau yuge .. 30.12..
शुक्लदन्ताजिनाख्याश्च मुण्डाः काषायवाससः । शूद्रा धर्मं चरिष्यन्ति युगान्ते समुपस्थिते ॥ ३०.१३॥
शुक्ल-दन्त-अजिन-आख्याः च मुण्डाः काषाय-वाससः । शूद्राः धर्मम् चरिष्यन्ति युग-अन्ते समुपस्थिते ॥ ३०।१३॥
śukla-danta-ajina-ākhyāḥ ca muṇḍāḥ kāṣāya-vāsasaḥ . śūdrāḥ dharmam cariṣyanti yuga-ante samupasthite .. 30.13..
सस्यचौरा भविष्यन्ति तथा चैलाभिमर्षिनः । चौराश्चौरस्य हर्त्तारो हर्त्तुर्हर्त्ता तथाऽपरः ॥ ३०.१४॥
सस्य-चौराः भविष्यन्ति तथा चैल-अभिमर्षिनः । चौराः चौरस्य हर्त्तारः हर्त्तुः हर्त्ता तथा अपरः ॥ ३०।१४॥
sasya-caurāḥ bhaviṣyanti tathā caila-abhimarṣinaḥ . caurāḥ caurasya harttāraḥ harttuḥ harttā tathā aparaḥ .. 30.14..
दुः खप्रचुरताल्पायुर्देहोत्सादः सरोगता । अधर्माभिनिवेशित्वात् तमोवृत्तं कलौ स्मृतम् ॥ ३०.१५॥
दुः ख-प्रचुर-ता अल्प-आयुः देह-उत्सादः स रोग-ता । अधर्म-अभिनिवेशि-त्वात् तमः-वृत्तम् कलौ स्मृतम् ॥ ३०।१५॥
duḥ kha-pracura-tā alpa-āyuḥ deha-utsādaḥ sa roga-tā . adharma-abhiniveśi-tvāt tamaḥ-vṛttam kalau smṛtam .. 30.15..
काषायिणोऽथ निर्ग्रन्थास्तथा कापालिकाश्च ये । वेदविक्रयिणश्चान्ये तीर्थविक्रयिणः परे ॥ ३०.१६॥
काषायिणः अथ निर्ग्रन्थाः तथा कापालिकाः च ये । वेद-विक्रयिणः च अन्ये तीर्थ-विक्रयिणः परे ॥ ३०।१६॥
kāṣāyiṇaḥ atha nirgranthāḥ tathā kāpālikāḥ ca ye . veda-vikrayiṇaḥ ca anye tīrtha-vikrayiṇaḥ pare .. 30.16..
आसनस्थान् द्विजान् दृष्ट्वा चलन्त्यल्पबुद्धयः । ताडयन्ति द्विजेन्द्रांश्च शूद्रा राजोपजीविनः ॥ ३०.१७॥
आसन-स्थान् द्विजान् दृष्ट्वा चलन्ति अल्पबुद्धयः । ताडयन्ति द्विजेन्द्रान् च शूद्राः राज-उपजीविनः ॥ ३०।१७॥
āsana-sthān dvijān dṛṣṭvā calanti alpabuddhayaḥ . tāḍayanti dvijendrān ca śūdrāḥ rāja-upajīvinaḥ .. 30.17..
उच्चासनस्थाः शूद्रास्तु द्विजमध्ये परंतप । ज्ञात्वा न हिंसते राजा कलौ कालबलेन तु ॥ ३०.१८॥
उच्च-आसन-स्थाः शूद्राः तु द्विज-मध्ये परंतप । ज्ञात्वा न हिंसते राजा कलौ काल-बलेन तु ॥ ३०।१८॥
ucca-āsana-sthāḥ śūdrāḥ tu dvija-madhye paraṃtapa . jñātvā na hiṃsate rājā kalau kāla-balena tu .. 30.18..
पुष्पैश्च हसितैश्चैव तथान्यैर्मङ्गलैर्द्विजाः । शूद्रानभ्यर्चयन्त्यल्पश्रुतभाग्यबलान्विताः ॥ ३०.१९॥
पुष्पैः च हसितैः च एव तथा अन्यैः मङ्गलैः द्विजाः । शूद्रान् अभ्यर्चयन्ति अल्प-श्रुत-भाग्य-बल-अन्विताः ॥ ३०।१९॥
puṣpaiḥ ca hasitaiḥ ca eva tathā anyaiḥ maṅgalaiḥ dvijāḥ . śūdrān abhyarcayanti alpa-śruta-bhāgya-bala-anvitāḥ .. 30.19..
न प्रेक्षन्तेऽर्चितांश्चापि शूद्रा द्विजवरान् नृप । सेवावसरमालोक्य द्वारि तिष्ठन्ति च द्विजाः ॥ ३०.२॥
न प्रेक्षन्ते अर्चितान् च अपि शूद्राः द्विजवरान् नृप । सेवा-अवसरम् आलोक्य द्वारि तिष्ठन्ति च द्विजाः ॥ ३०।२॥
na prekṣante arcitān ca api śūdrāḥ dvijavarān nṛpa . sevā-avasaram ālokya dvāri tiṣṭhanti ca dvijāḥ .. 30.2..
वाहनस्थान् समावृत्य शूद्राञ् शूद्रोपजीविनः । सेवन्ते ब्राह्मणास्तांस्तु स्तुवन्ति स्तुतिभिः कलौ ॥ ३०.२१॥
वाहन-स्थान् समावृत्य शूद्रान् शूद्र-उपजीविनः । सेवन्ते ब्राह्मणाः तान् तु स्तुवन्ति स्तुतिभिः कलौ ॥ ३०।२१॥
vāhana-sthān samāvṛtya śūdrān śūdra-upajīvinaḥ . sevante brāhmaṇāḥ tān tu stuvanti stutibhiḥ kalau .. 30.21..
अध्यापयन्ति वै वेदाञ् शूद्रान् शूद्रोपजीविनः । पठन्ति वैदिकान् मन्त्रान् नास्तिक्यं घोरमाश्रिताः ॥ ३०.२२॥
अध्यापयन्ति वै वेदान् शूद्रान् शूद्र-उपजीविनः । पठन्ति वैदिकान् मन्त्रान् नास्तिक्यम् घोरम् आश्रिताः ॥ ३०।२२॥
adhyāpayanti vai vedān śūdrān śūdra-upajīvinaḥ . paṭhanti vaidikān mantrān nāstikyam ghoram āśritāḥ .. 30.22..
तपोयज्ञफलानां च विक्रेतारो द्विजोत्तमाः । यतयश्च भविष्यन्ति शतशोऽथ सहस्रशः ॥ ३०.२३॥
तपः-यज्ञ-फलानाम् च विक्रेतारः द्विजोत्तमाः । यतयः च भविष्यन्ति शतशस् अथ सहस्रशस् ॥ ३०।२३॥
tapaḥ-yajña-phalānām ca vikretāraḥ dvijottamāḥ . yatayaḥ ca bhaviṣyanti śataśas atha sahasraśas .. 30.23..
नाशयन्ति ह्यधीतानि नाधिगच्छन्ति चानघ । गायन्ति लौकिकैर्गानैर्दैवतानि नराधिप ॥ ३०.२४॥
नाशयन्ति हि अधीतानि न अधिगच्छन्ति च अनघ । गायन्ति लौकिकैः गानैः दैवतानि नराधिप ॥ ३०।२४॥
nāśayanti hi adhītāni na adhigacchanti ca anagha . gāyanti laukikaiḥ gānaiḥ daivatāni narādhipa .. 30.24..
वामपाशुपताचारास्तथा वै पाञ्चरात्रिकाः । भविष्यन्ति कलौ तस्मिन् ब्राह्मणाः क्षत्रियास्तथा ॥ ३०.२५॥
वाम-पाशुपत-आचाराः तथा वै पाञ्चरात्रिकाः । भविष्यन्ति कलौ तस्मिन् ब्राह्मणाः क्षत्रियाः तथा ॥ ३०।२५॥
vāma-pāśupata-ācārāḥ tathā vai pāñcarātrikāḥ . bhaviṣyanti kalau tasmin brāhmaṇāḥ kṣatriyāḥ tathā .. 30.25..
ज्ञानकर्मण्युपरते लोके निष्क्रियतां गते । कीटमूषकसर्पाश्च धर्षयिष्यन्ति मानवान् ॥ ३०.२६॥
ज्ञान-कर्मणि उपरते लोके निष्क्रिय-ताम् गते । कीट-मूषक-सर्पाः च धर्षयिष्यन्ति मानवान् ॥ ३०।२६॥
jñāna-karmaṇi uparate loke niṣkriya-tām gate . kīṭa-mūṣaka-sarpāḥ ca dharṣayiṣyanti mānavān .. 30.26..
कुर्वान्ति चावताराणि ब्राह्मणानां कुलेषु वै । दधीचशापनिर्दग्धाः पुरा दक्षाध्वरे द्विजाः ॥ ३०.२७॥
कुर्वान्ति च अवताराणि ब्राह्मणानाम् कुलेषु वै । दधीच-शाप-निर्दग्धाः पुरा दक्ष-अध्वरे द्विजाः ॥ ३०।२७॥
kurvānti ca avatārāṇi brāhmaṇānām kuleṣu vai . dadhīca-śāpa-nirdagdhāḥ purā dakṣa-adhvare dvijāḥ .. 30.27..
निन्दन्ति च महादेवं तमसाविष्टचेतसः । वृथा धर्मं चरिष्यन्ति कलौ तस्मिन् युगान्तिके ॥ ३०.२८॥
निन्दन्ति च महादेवम् तमसा आविष्ट-चेतसः । वृथा धर्मम् चरिष्यन्ति कलौ तस्मिन् युग-अन्तिके ॥ ३०।२८॥
nindanti ca mahādevam tamasā āviṣṭa-cetasaḥ . vṛthā dharmam cariṣyanti kalau tasmin yuga-antike .. 30.28..
सर्वे वीरा भविष्यन्ति ब्राह्मणाद्याः स्वजातिषु। ये चान्ये शापनिर्दग्धा गौतमस्य महात्मनः ॥ ३०.२९॥
सर्वे वीराः भविष्यन्ति ब्राह्मण-आद्याः स्व-जातिषु। ये च अन्ये शाप-निर्दग्धाः गौतमस्य महात्मनः ॥ ३०।२९॥
sarve vīrāḥ bhaviṣyanti brāhmaṇa-ādyāḥ sva-jātiṣu. ye ca anye śāpa-nirdagdhāḥ gautamasya mahātmanaḥ .. 30.29..
सर्वे ते च भविष्यन्ति ब्राह्मणाद्याः स्वजातिषु । विनिन्दन्ति हृषीकेशं ब्राह्मणाः ब्रह्मवादिनः । ॥ ३०.३॥
सर्वे ते च भविष्यन्ति ब्राह्मण-आद्याः स्व-जातिषु । विनिन्दन्ति हृषीकेशम् ब्राह्मणाः ब्रह्म-वादिनः । ॥ ३०।३॥
sarve te ca bhaviṣyanti brāhmaṇa-ādyāḥ sva-jātiṣu . vinindanti hṛṣīkeśam brāhmaṇāḥ brahma-vādinaḥ . .. 30.3..
वेदबाह्यव्रताचारा दुराचारा वृथाश्रमाः । मोहयन्ति जनान् सर्वान् दर्शयित्वा फलानि च॥ ३०.३१॥
वेद-बाह्य-व्रत-आचाराः दुराचाराः वृथक् आश्रमाः । मोहयन्ति जनान् सर्वान् दर्शयित्वा फलानि च॥ ३०।३१॥
veda-bāhya-vrata-ācārāḥ durācārāḥ vṛthak āśramāḥ . mohayanti janān sarvān darśayitvā phalāni ca.. 30.31..
तमसाविष्टमनसो बैडालव्रतिकाधमाः । कलौ रुद्रो महादेवो लोकानामीश्वरः परः ॥ ३०.३२॥
तमसा आविष्ट-मनसः बैडालव्रतिक-अधमाः । कलौ रुद्रः महादेवः लोकानाम् ईश्वरः परः ॥ ३०।३२॥
tamasā āviṣṭa-manasaḥ baiḍālavratika-adhamāḥ . kalau rudraḥ mahādevaḥ lokānām īśvaraḥ paraḥ .. 30.32..
न देवता भवेन्नृणां देवतानां च दैवतम् । करिष्यत्यवताराणि शंकरो नीललोहितः ॥ ३०.३३॥
न देवता भवेत् नृणाम् देवतानाम् च दैवतम् । करिष्यति अवताराणि शंकरः नीललोहितः ॥ ३०।३३॥
na devatā bhavet nṛṇām devatānām ca daivatam . kariṣyati avatārāṇi śaṃkaraḥ nīlalohitaḥ .. 30.33..
श्रौतस्मार्त्तप्रतिष्ठार्थं भक्तानां हितकाम्यया । उपदेक्ष्यति तज्ज्ञानं शिष्याणां ब्रह्मसंज्ञितम् ॥ ३०.३४॥
श्रौत-स्मार्त्त-प्रतिष्ठा-अर्थम् भक्तानाम् हित-काम्यया । उपदेक्ष्यति तद्-ज्ञानम् शिष्याणाम् ब्रह्म-संज्ञितम् ॥ ३०।३४॥
śrauta-smārtta-pratiṣṭhā-artham bhaktānām hita-kāmyayā . upadekṣyati tad-jñānam śiṣyāṇām brahma-saṃjñitam .. 30.34..
सर्ववेदान्तसारं हि धर्मान् वेदनिदर्शितान् । सर्ववर्णान् समुद्धिश्य स्वधर्मा ये निदर्शिताः॥ ३०.३५॥
सर्व-वेदान्त-सारम् हि धर्मान् वेद-निदर्शितान् । सर्व-वर्णान् समुद्धिश्य स्वधर्माः ये निदर्शिताः॥ ३०।३५॥
sarva-vedānta-sāram hi dharmān veda-nidarśitān . sarva-varṇān samuddhiśya svadharmāḥ ye nidarśitāḥ.. 30.35..
ये तं प्रीताः निषेवन्ते येन केनोपचारतः । विजित्यकलिजान् दोषान् यान्ति ते परमं पदम् ॥ ३०.३६॥
ये तम् प्रीताः निषेवन्ते येन केन उपचारतः । विजित्य कलि-जान् दोषान् यान्ति ते परमम् पदम् ॥ ३०।३६॥
ye tam prītāḥ niṣevante yena kena upacārataḥ . vijitya kali-jān doṣān yānti te paramam padam .. 30.36..
अनायासेन सुमहत् पुण्यमाप्नोति मानवः । अनेकदोषदुष्टस्य कलेरेष महान् गुणः ॥ ३०.३७॥
अनायासेन सु महत् पुण्यम् आप्नोति मानवः । अनेक-दोष-दुष्टस्य कलेः एष महान् गुणः ॥ ३०।३७॥
anāyāsena su mahat puṇyam āpnoti mānavaḥ . aneka-doṣa-duṣṭasya kaleḥ eṣa mahān guṇaḥ .. 30.37..
तस्मात् सर्वप्रयत्नेन प्राप्य माहेश्वरं युगम् । विशेषाद् ब्राह्मणो रुद्रमीशानं शरणं व्रजेत् ॥ ३०.३८॥
तस्मात् सर्व-प्रयत्नेन प्राप्य माहेश्वरम् युगम् । विशेषात् ब्राह्मणः रुद्रम् ईशानम् शरणम् व्रजेत् ॥ ३०।३८॥
tasmāt sarva-prayatnena prāpya māheśvaram yugam . viśeṣāt brāhmaṇaḥ rudram īśānam śaraṇam vrajet .. 30.38..
ये नमन्ति विरूपाक्षमीशानं कृत्तिवाससम् । प्रसन्नचेतसो रुद्रं ते यान्ति परमं पदम् ॥ ३०.३९॥
ये नमन्ति विरूपाक्षम् ईशानम् कृत्तिवाससम् । प्रसन्न-चेतसः रुद्रम् ते यान्ति परमम् पदम् ॥ ३०।३९॥
ye namanti virūpākṣam īśānam kṛttivāsasam . prasanna-cetasaḥ rudram te yānti paramam padam .. 30.39..
यथा रुद्रनमस्कारः सर्वकर्मफलो ध्रुवः । अन्यदेवनमस्कारान्न तत्फलमवाप्नुयात् ॥ ३०.४॥
यथा रुद्र-नमस्कारः सर्व-कर्म-फलः ध्रुवः । अन्य-देव-नमस्कारात् न तत् फलम् अवाप्नुयात् ॥ ३०।४॥
yathā rudra-namaskāraḥ sarva-karma-phalaḥ dhruvaḥ . anya-deva-namaskārāt na tat phalam avāpnuyāt .. 30.4..
एवंविधे कलियुगे दोषाणामेवशोधनम् । महादेवनमस्कारो ध्यानं दानमिति श्रुतिः ॥ ३०.४१॥
एवंविधे कलि-युगे दोषाणाम् एव शोधनम् । महादेव-नमस्कारः ध्यानम् दानम् इति श्रुतिः ॥ ३०।४१॥
evaṃvidhe kali-yuge doṣāṇām eva śodhanam . mahādeva-namaskāraḥ dhyānam dānam iti śrutiḥ .. 30.41..
तस्मादनीश्वरानन्यान् त्यक्त्वा देवं महेश्वरम् । समाश्रयेद् विरूपाक्षं यदीच्छेत् परमं पदम् ॥ ३०.४२॥
तस्मात् अनीश्वरान् अन्यान् त्यक्त्वा देवम् महेश्वरम् । समाश्रयेत् विरूपाक्षम् यदि इच्छेत् परमम् पदम् ॥ ३०।४२॥
tasmāt anīśvarān anyān tyaktvā devam maheśvaram . samāśrayet virūpākṣam yadi icchet paramam padam .. 30.42..
नार्चयन्तीह ये रुद्रं शिवं त्रिदशवन्दितम् । तेषां दानं तपो यज्ञो वृथा जीवितमेव च ॥ ३०.४३॥
न अर्चयन्ति इह ये रुद्रम् शिवम् त्रिदश-वन्दितम् । तेषाम् दानम् तपः यज्ञः वृथा जीवितम् एव च ॥ ३०।४३॥
na arcayanti iha ye rudram śivam tridaśa-vanditam . teṣām dānam tapaḥ yajñaḥ vṛthā jīvitam eva ca .. 30.43..
नमो रुद्राय महते देवदेवाय शूलिने । त्र्यम्बकाय त्रिनेत्राय योगिनां गुरवे नमः ॥ ३०.४४॥
नमः रुद्राय महते देवदेवाय शूलिने । त्र्यम्बकाय त्रिनेत्राय योगिनाम् गुरवे नमः ॥ ३०।४४॥
namaḥ rudrāya mahate devadevāya śūline . tryambakāya trinetrāya yoginām gurave namaḥ .. 30.44..
नमोऽस्तु वामदेवाय महादेवाय वेधसे । शंभवे स्थाणवे नित्यं शिवाय परमेष्ठिने ॥ ३०.४५॥
नमः अस्तु वामदेवाय महादेवाय वेधसे । शंभवे स्थाणवे नित्यम् शिवाय परमेष्ठिने ॥ ३०।४५॥
namaḥ astu vāmadevāya mahādevāya vedhase . śaṃbhave sthāṇave nityam śivāya parameṣṭhine .. 30.45..
नमः सोमाय रुद्राय महाग्रासाय हेतवे । प्रपद्येऽहं विरूपाक्षं शरण्यं ब्रह्मचारिणम् ॥ ३०.४६॥
नमः सोमाय रुद्राय महाग्रासाय हेतवे । प्रपद्ये अहम् विरूपाक्षम् शरण्यम् ब्रह्मचारिणम् ॥ ३०।४६॥
namaḥ somāya rudrāya mahāgrāsāya hetave . prapadye aham virūpākṣam śaraṇyam brahmacāriṇam .. 30.46..
महादेवं महायोगमीशानं चाम्बिकापतिम् । योगिनां योगदातारं योगमायासमावृतम् ॥ ३०.४७॥
महादेवम् महा-योगम् ईशानम् च अम्बिकापतिम् । योगिनाम् योग-दातारम् योग-माया-समावृतम् ॥ ३०।४७॥
mahādevam mahā-yogam īśānam ca ambikāpatim . yoginām yoga-dātāram yoga-māyā-samāvṛtam .. 30.47..
योगिनां गुरुमाचार्यं योगिगम्यं पिनाकिनम् । संसारतारणं रुद्रं ब्रह्माणं ब्रह्मणोऽधिपम्॥ ३०.४८॥
योगिनाम् गुरुम् आचार्यम् योगि-गम्यम् पिनाकिनम् । संसार-तारणम् रुद्रम् ब्रह्माणम् ब्रह्मणः अधिपम्॥ ३०।४८॥
yoginām gurum ācāryam yogi-gamyam pinākinam . saṃsāra-tāraṇam rudram brahmāṇam brahmaṇaḥ adhipam.. 30.48..
शाश्वतं सर्वगं शान्तं ब्रह्मण्यं ब्राह्मणप्रियम् । कपर्दिनं कालमूर्त्तिममूर्त्ति परमेश्वरम् ॥ ३०.४९॥
शाश्वतम् सर्वगम् शान्तम् ब्रह्मण्यम् ब्राह्मणप्रियम् । कपर्दिनम् काल-मूर्त्तिम् अमूर्त्ति परमेश्वरम् ॥ ३०।४९॥
śāśvatam sarvagam śāntam brahmaṇyam brāhmaṇapriyam . kapardinam kāla-mūrttim amūrtti parameśvaram .. 30.49..
एकमूर्त्ति महामूर्त्ति वेदवेद्यं दिवस्पतिम् । नीलकण्ठं विश्वमूर्त्ति व्यापिनं विश्वरेतसम् ॥ ३०.५॥
एक-मूर्त्ति महा-मूर्त्ति वेद-वेद्यम् दिवस्पतिम् । नीलकण्ठम् विश्वमूर्त्ति व्यापिनम् विश्वरेतसम् ॥ ३०।५॥
eka-mūrtti mahā-mūrtti veda-vedyam divaspatim . nīlakaṇṭham viśvamūrtti vyāpinam viśvaretasam .. 30.5..
कालाग्निं कालदहनं कामदं कामनाशनम् । नमस्ये गिरिशं देवं चन्द्रावयवभूषणम् ॥ ३०.५१॥
कालाग्निम् काल-दहनम् काम-दम् काम-नाशनम् । नमस्ये गिरिशम् देवम् चन्द्र-अवयव-भूषणम् ॥ ३०।५१॥
kālāgnim kāla-dahanam kāma-dam kāma-nāśanam . namasye giriśam devam candra-avayava-bhūṣaṇam .. 30.51..
विलोहितं लेलिहानमादित्यं परमेष्ठिनम् । उग्रं पशुपतिं भीमं भास्करं परमं तपः ॥ ३०.५२॥
विलोहितम् लेलिहानम् आदित्यम् परमेष्ठिनम् । उग्रम् पशुपतिम् भीमम् भास्करम् परमम् तपः ॥ ३०।५२॥
vilohitam lelihānam ādityam parameṣṭhinam . ugram paśupatim bhīmam bhāskaram paramam tapaḥ .. 30.52..
इत्येतल्लक्षणं प्रोक्तं युगानां वै समासतः । अतीतानागतानां वै यावन्मन्वन्तरक्षयः ॥ ३०.५३॥
इति एतत् लक्षणम् प्रोक्तम् युगानाम् वै समासतस् । अतीत-अन् आगतानाम् वै यावत् मन्वन्तर-क्षयः ॥ ३०।५३॥
iti etat lakṣaṇam proktam yugānām vai samāsatas . atīta-an āgatānām vai yāvat manvantara-kṣayaḥ .. 30.53..
मन्वन्तरेण चैकेन सर्वाण्येवान्तराणि वै । व्याख्यातानि न संदेहः कल्पः कल्पेन चैव हि ॥ ३०.५४॥
मन्वन्तरेण च एकेन सर्वाणि एव अन्तराणि वै । व्याख्यातानि न संदेहः कल्पः कल्पेन च एव हि ॥ ३०।५४॥
manvantareṇa ca ekena sarvāṇi eva antarāṇi vai . vyākhyātāni na saṃdehaḥ kalpaḥ kalpena ca eva hi .. 30.54..
मन्वन्तरेषु चैतेषु अतीतानागतेषु वै । तुल्याभिमानिनः सर्वे नामरूपैर्भवन्त्युत ॥ ३०.५५॥
मन्वन्तरेषु च एतेषु अतीत-अनागतेषु वै । तुल्य-अभिमानिनः सर्वे नाम-रूपैः भवन्ति उत ॥ ३०।५५॥
manvantareṣu ca eteṣu atīta-anāgateṣu vai . tulya-abhimāninaḥ sarve nāma-rūpaiḥ bhavanti uta .. 30.55..
एवमुक्तो भगवता किरीटी श्वेतवाहनः । बभार परमां भक्तिमीशानेऽव्यभिचारिणीम् ॥ ३०.५६॥
एवम् उक्तः भगवता किरीटी श्वेतवाहनः । बभार परमाम् भक्तिम् ईशाने अव्यभिचारिणीम् ॥ ३०।५६॥
evam uktaḥ bhagavatā kirīṭī śvetavāhanaḥ . babhāra paramām bhaktim īśāne avyabhicāriṇīm .. 30.56..
नमश्चकार तमृषिं कृष्णद्वैपायनं प्रभुम् । सर्वज्ञं सर्वकर्त्तारं साक्षाद् विष्णुं व्यवस्थितम् ॥ ३०.५७॥
नमश्चकार तम् ऋषिम् कृष्णद्वैपायनम् प्रभुम् । सर्वज्ञम् सर्व-कर्त्तारम् साक्षात् विष्णुम् व्यवस्थितम् ॥ ३०।५७॥
namaścakāra tam ṛṣim kṛṣṇadvaipāyanam prabhum . sarvajñam sarva-karttāram sākṣāt viṣṇum vyavasthitam .. 30.57..
तमुवाच पुनर्व्यासः पार्थं परपुरंजयम् । कराभ्यां सुशुभाभ्यां च संस्पृश्य प्रणतं मुनिः ॥ ३०.५८॥
तम् उवाच पुनर् व्यासः पार्थम् परपुरंजयम् । कराभ्याम् सु शुभाभ्याम् च संस्पृश्य प्रणतम् मुनिः ॥ ३०।५८॥
tam uvāca punar vyāsaḥ pārtham parapuraṃjayam . karābhyām su śubhābhyām ca saṃspṛśya praṇatam muniḥ .. 30.58..
धन्योऽस्यनुगृहीतोऽसि त्वादृशोऽन्यो न विद्यते । त्रैलोक्ये शंकरे नूनं भक्तः परपुरंजय ॥ ३०.५९॥
धन्यः असि अनुगृहीतः असि त्वादृशः अन्यः न विद्यते । त्रैलोक्ये शंकरे नूनम् भक्तः परपुरंजय ॥ ३०।५९॥
dhanyaḥ asi anugṛhītaḥ asi tvādṛśaḥ anyaḥ na vidyate . trailokye śaṃkare nūnam bhaktaḥ parapuraṃjaya .. 30.59..
दृष्टवानसि तं देवं विश्वाक्षं विश्वतोमुखम् । प्रत्यक्षमेव सर्वेशं रुद्रं सर्वजगद्गुरुम् ॥ ३०.६॥
दृष्टवान् असि तम् देवम् विश्वाक्षम् विश्वतोमुखम् । प्रत्यक्षम् एव सर्व-ईशम् रुद्रम् सर्व-जगत्-गुरुम् ॥ ३०।६॥
dṛṣṭavān asi tam devam viśvākṣam viśvatomukham . pratyakṣam eva sarva-īśam rudram sarva-jagat-gurum .. 30.6..
ज्ञानं तदैश्वरं दिव्यं यथावद् विदितं त्वया । स्वयमेव हृषीकेशः प्रीत्योवाच सनातनः ॥ ३०.६१॥
ज्ञानम् तत् ऐश्वरम् दिव्यम् यथावत् विदितम् त्वया । स्वयम् एव हृषीकेशः प्रीत्या उवाच सनातनः ॥ ३०।६१॥
jñānam tat aiśvaram divyam yathāvat viditam tvayā . svayam eva hṛṣīkeśaḥ prītyā uvāca sanātanaḥ .. 30.61..
गच्छ गच्छ स्वकं स्थानं न शोकं कर्त्तुमर्हसि । व्रजस्व परया भक्त्या शरण्यं शरणं शिवम् ॥ ३०.६२॥
गच्छ गच्छ स्वकम् स्थानम् न शोकम् कर्त्तुम् अर्हसि । व्रजस्व परया भक्त्या शरण्यम् शरणम् शिवम् ॥ ३०।६२॥
gaccha gaccha svakam sthānam na śokam karttum arhasi . vrajasva parayā bhaktyā śaraṇyam śaraṇam śivam .. 30.62..
एवमुक्त्वा स भगवाननुगृह्यार्जुनं प्रभुः । जगाम शंकरपुरीं समाराधयितुं भवम् ॥ ३०.६३॥
एवम् उक्त्वा स भगवान् अनुगृह्य अर्जुनम् प्रभुः । जगाम शंकर-पुरीम् समाराधयितुम् भवम् ॥ ३०।६३॥
evam uktvā sa bhagavān anugṛhya arjunam prabhuḥ . jagāma śaṃkara-purīm samārādhayitum bhavam .. 30.63..
पाण्डवेयोऽपि तद् वाक्यात् संप्राप्य शरणं शिवम् । संत्यज्य सर्वकर्माणि तद्भक्तिपरमोऽभवत् ॥ ३०.६४॥
पाण्डवेयः अपि तत् वाक्यात् संप्राप्य शरणम् शिवम् । संत्यज्य सर्व-कर्माणि तद्-भक्ति-परमः अभवत् ॥ ३०।६४॥
pāṇḍaveyaḥ api tat vākyāt saṃprāpya śaraṇam śivam . saṃtyajya sarva-karmāṇi tad-bhakti-paramaḥ abhavat .. 30.64..
नार्चनेन समः शंभोर्भक्त्या भूतो भविष्यति । मुक्त्वा सत्यवतीसूनुं कृष्णं वा देवकीसुतम् ॥ ३०.६५॥
ना अर्चनेन समः शंभोः भक्त्या भूतः भविष्यति । मुक्त्वा सत्यवती-सूनुम् कृष्णम् वा देवकी-सुतम् ॥ ३०।६५॥
nā arcanena samaḥ śaṃbhoḥ bhaktyā bhūtaḥ bhaviṣyati . muktvā satyavatī-sūnum kṛṣṇam vā devakī-sutam .. 30.65..
तस्मै भगवते नित्यं नमः सत्याय धीमते । पाराशर्याय मुनये व्यासायामिततेजसे ॥ ३०.६६॥
तस्मै भगवते नित्यम् नमः सत्याय धीमते । पाराशर्याय मुनये व्यासाय अमित-तेजसे ॥ ३०।६६॥
tasmai bhagavate nityam namaḥ satyāya dhīmate . pārāśaryāya munaye vyāsāya amita-tejase .. 30.66..
कृष्णद्वैपायनः साक्षाद् विष्णुरेव सनातनः । को ह्यन्यस्तत्त्वतो रुद्रं वेत्ति तं परमेश्वरम् ॥ ३०.६७॥
कृष्णद्वैपायनः साक्षात् विष्णुः एव सनातनः । कः हि अन्यः तत्त्वतः रुद्रम् वेत्ति तम् परमेश्वरम् ॥ ३०।६७॥
kṛṣṇadvaipāyanaḥ sākṣāt viṣṇuḥ eva sanātanaḥ . kaḥ hi anyaḥ tattvataḥ rudram vetti tam parameśvaram .. 30.67..
नमः कुरुध्वं तमृषिं कृष्णं सत्यवतीसुतम् । पाराशर्यं महात्मानं योगिनं विष्णुमव्ययम् ॥ ३०.६८॥
नमः कुरुध्वम् तम् ऋषिम् कृष्णम् सत्यवती-सुतम् । पाराशर्यम् महात्मानम् योगिनम् विष्णुम् अव्ययम् ॥ ३०।६८॥
namaḥ kurudhvam tam ṛṣim kṛṣṇam satyavatī-sutam . pārāśaryam mahātmānam yoginam viṣṇum avyayam .. 30.68..
एवमुक्तास्तु मुनयः सर्व एव समीहिताः । प्रेणेमुस्तं महात्मानं व्यासं सत्यवतीसुतम् ॥ ३०.६९॥
एवम् उक्ताः तु मुनयः सर्वे एव समीहिताः । प्रेणेमुः तम् महात्मानम् व्यासम् सत्यवती-सुतम् ॥ ३०।६९॥
evam uktāḥ tu munayaḥ sarve eva samīhitāḥ . preṇemuḥ tam mahātmānam vyāsam satyavatī-sutam .. 30.69..
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे त्रिंशोऽध्यायः ॥ ॥
इति श्री-कूर्मपुराणे षट्साहस्त्र्याम् संहितायाम् पूर्व-विभागे त्रिंशः अध्यायः ॥ ॥
iti śrī-kūrmapurāṇe ṣaṭsāhastryām saṃhitāyām pūrva-vibhāge triṃśaḥ adhyāyaḥ .. ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In