| |
|

This overlay will guide you through the buttons:

व्यास उवाच ।
तिष्ये मायामसूयां च वधं चैव तपस्विनाम् । साधयन्ति नरा नित्यं तमसा व्याकुलीकृताः ॥ ३०.१॥
tiṣye māyāmasūyāṃ ca vadhaṃ caiva tapasvinām . sādhayanti narā nityaṃ tamasā vyākulīkṛtāḥ .. 30.1..
कलौ प्रमारको रोगः सततं क्षुद् भयं तथा । अनावृष्टिभयं घोरं देशानां च विपर्ययः ॥ ३०.२॥
kalau pramārako rogaḥ satataṃ kṣud bhayaṃ tathā . anāvṛṣṭibhayaṃ ghoraṃ deśānāṃ ca viparyayaḥ .. 30.2..
अधार्मिका अनाचारा महाकोपाल्पतेजसः । अनृतं ब्रुवते लुब्धास्तिष्ये जाताः सुदुःष्प्रजाः ॥ ३०.३॥
adhārmikā anācārā mahākopālpatejasaḥ . anṛtaṃ bruvate lubdhāstiṣye jātāḥ suduḥṣprajāḥ .. 30.3..
दुरिष्टैर्दुरधीतैश्च दुराचारैर्दुरागमैः । विप्राणां कर्मदोषैश्च प्रजानां जायते भयम् ॥ ३०.४॥
duriṣṭairduradhītaiśca durācārairdurāgamaiḥ . viprāṇāṃ karmadoṣaiśca prajānāṃ jāyate bhayam .. 30.4..
नाधीयते कलौ वेदान् न यजन्ति द्विजातयः । यजन्त्यन्यायतो वेदान् पठन्ते चाल्पबुद्धयः ॥ ३०.५॥
nādhīyate kalau vedān na yajanti dvijātayaḥ . yajantyanyāyato vedān paṭhante cālpabuddhayaḥ .. 30.5..
शूद्राणां मन्त्रयौनैश्च संबन्धो ब्राह्मणैः सह । भविष्यति कलौ तस्मिञ् शयनासनभोजनैः ॥ ३०.६॥
śūdrāṇāṃ mantrayaunaiśca saṃbandho brāhmaṇaiḥ saha . bhaviṣyati kalau tasmiñ śayanāsanabhojanaiḥ .. 30.6..
राजानः शूद्रभूयिष्ठा ब्राह्मणान् बाधयन्ति च । भ्रूणहत्या वीरहत्या प्रजायेत नरेश्वरे ॥ ३०.७॥
rājānaḥ śūdrabhūyiṣṭhā brāhmaṇān bādhayanti ca . bhrūṇahatyā vīrahatyā prajāyeta nareśvare .. 30.7..
स्नानं होमं जपं दानं देवतानां तथाऽर्चनम् । अन्यानि चैव कर्माणि न कुर्वन्ति द्विजातयः ॥ ३०.८॥
snānaṃ homaṃ japaṃ dānaṃ devatānāṃ tathā'rcanam . anyāni caiva karmāṇi na kurvanti dvijātayaḥ .. 30.8..
विनिन्दन्ति महादेवं ब्राह्मणान् पुरुषोत्तमम् । आम्नायधर्मशास्त्राणि पुराणानि कलौ युगे ॥ ३०.९॥
vinindanti mahādevaṃ brāhmaṇān puruṣottamam . āmnāyadharmaśāstrāṇi purāṇāni kalau yuge .. 30.9..
कुर्वन्त्यवेददृष्टानि कर्माणि विविधानि तु । स्वधर्मेऽभिरुचिर्नैव ब्राह्मणानां प्रजायते ॥ ३०.१॥
kurvantyavedadṛṣṭāni karmāṇi vividhāni tu . svadharme'bhirucirnaiva brāhmaṇānāṃ prajāyate .. 30.1..
कुशीलचर्याः पाषण्डैर्वृथारूपैः समावृताः । बहुयाचनका लोको भविष्यन्ति परस्परम् ॥ ३०.११॥
kuśīlacaryāḥ pāṣaṇḍairvṛthārūpaiḥ samāvṛtāḥ . bahuyācanakā loko bhaviṣyanti parasparam .. 30.11..
अट्टशूला जनपदाः शिवशूलाश्चतुष्पथाः । प्रमदाः केशशूलिन्यो भविष्यन्ति कलौ युगे ॥ ३०.१२॥
aṭṭaśūlā janapadāḥ śivaśūlāścatuṣpathāḥ . pramadāḥ keśaśūlinyo bhaviṣyanti kalau yuge .. 30.12..
शुक्लदन्ताजिनाख्याश्च मुण्डाः काषायवाससः । शूद्रा धर्मं चरिष्यन्ति युगान्ते समुपस्थिते ॥ ३०.१३॥
śukladantājinākhyāśca muṇḍāḥ kāṣāyavāsasaḥ . śūdrā dharmaṃ cariṣyanti yugānte samupasthite .. 30.13..
सस्यचौरा भविष्यन्ति तथा चैलाभिमर्षिनः । चौराश्चौरस्य हर्त्तारो हर्त्तुर्हर्त्ता तथाऽपरः ॥ ३०.१४॥
sasyacaurā bhaviṣyanti tathā cailābhimarṣinaḥ . caurāścaurasya harttāro hartturharttā tathā'paraḥ .. 30.14..
दुः खप्रचुरताल्पायुर्देहोत्सादः सरोगता । अधर्माभिनिवेशित्वात् तमोवृत्तं कलौ स्मृतम् ॥ ३०.१५॥
duḥ khapracuratālpāyurdehotsādaḥ sarogatā . adharmābhiniveśitvāt tamovṛttaṃ kalau smṛtam .. 30.15..
काषायिणोऽथ निर्ग्रन्थास्तथा कापालिकाश्च ये । वेदविक्रयिणश्चान्ये तीर्थविक्रयिणः परे ॥ ३०.१६॥
kāṣāyiṇo'tha nirgranthāstathā kāpālikāśca ye . vedavikrayiṇaścānye tīrthavikrayiṇaḥ pare .. 30.16..
आसनस्थान् द्विजान् दृष्ट्वा चलन्त्यल्पबुद्धयः । ताडयन्ति द्विजेन्द्रांश्च शूद्रा राजोपजीविनः ॥ ३०.१७॥
āsanasthān dvijān dṛṣṭvā calantyalpabuddhayaḥ . tāḍayanti dvijendrāṃśca śūdrā rājopajīvinaḥ .. 30.17..
उच्चासनस्थाः शूद्रास्तु द्विजमध्ये परंतप । ज्ञात्वा न हिंसते राजा कलौ कालबलेन तु ॥ ३०.१८॥
uccāsanasthāḥ śūdrāstu dvijamadhye paraṃtapa . jñātvā na hiṃsate rājā kalau kālabalena tu .. 30.18..
पुष्पैश्च हसितैश्चैव तथान्यैर्मङ्गलैर्द्विजाः । शूद्रानभ्यर्चयन्त्यल्पश्रुतभाग्यबलान्विताः ॥ ३०.१९॥
puṣpaiśca hasitaiścaiva tathānyairmaṅgalairdvijāḥ . śūdrānabhyarcayantyalpaśrutabhāgyabalānvitāḥ .. 30.19..
न प्रेक्षन्तेऽर्चितांश्चापि शूद्रा द्विजवरान् नृप । सेवावसरमालोक्य द्वारि तिष्ठन्ति च द्विजाः ॥ ३०.२॥
na prekṣante'rcitāṃścāpi śūdrā dvijavarān nṛpa . sevāvasaramālokya dvāri tiṣṭhanti ca dvijāḥ .. 30.2..
वाहनस्थान् समावृत्य शूद्राञ् शूद्रोपजीविनः । सेवन्ते ब्राह्मणास्तांस्तु स्तुवन्ति स्तुतिभिः कलौ ॥ ३०.२१॥
vāhanasthān samāvṛtya śūdrāñ śūdropajīvinaḥ . sevante brāhmaṇāstāṃstu stuvanti stutibhiḥ kalau .. 30.21..
अध्यापयन्ति वै वेदाञ् शूद्रान् शूद्रोपजीविनः । पठन्ति वैदिकान् मन्त्रान् नास्तिक्यं घोरमाश्रिताः ॥ ३०.२२॥
adhyāpayanti vai vedāñ śūdrān śūdropajīvinaḥ . paṭhanti vaidikān mantrān nāstikyaṃ ghoramāśritāḥ .. 30.22..
तपोयज्ञफलानां च विक्रेतारो द्विजोत्तमाः । यतयश्च भविष्यन्ति शतशोऽथ सहस्रशः ॥ ३०.२३॥
tapoyajñaphalānāṃ ca vikretāro dvijottamāḥ . yatayaśca bhaviṣyanti śataśo'tha sahasraśaḥ .. 30.23..
नाशयन्ति ह्यधीतानि नाधिगच्छन्ति चानघ । गायन्ति लौकिकैर्गानैर्दैवतानि नराधिप ॥ ३०.२४॥
nāśayanti hyadhītāni nādhigacchanti cānagha . gāyanti laukikairgānairdaivatāni narādhipa .. 30.24..
वामपाशुपताचारास्तथा वै पाञ्चरात्रिकाः । भविष्यन्ति कलौ तस्मिन् ब्राह्मणाः क्षत्रियास्तथा ॥ ३०.२५॥
vāmapāśupatācārāstathā vai pāñcarātrikāḥ . bhaviṣyanti kalau tasmin brāhmaṇāḥ kṣatriyāstathā .. 30.25..
ज्ञानकर्मण्युपरते लोके निष्क्रियतां गते । कीटमूषकसर्पाश्च धर्षयिष्यन्ति मानवान् ॥ ३०.२६॥
jñānakarmaṇyuparate loke niṣkriyatāṃ gate . kīṭamūṣakasarpāśca dharṣayiṣyanti mānavān .. 30.26..
कुर्वान्ति चावताराणि ब्राह्मणानां कुलेषु वै । दधीचशापनिर्दग्धाः पुरा दक्षाध्वरे द्विजाः ॥ ३०.२७॥
kurvānti cāvatārāṇi brāhmaṇānāṃ kuleṣu vai . dadhīcaśāpanirdagdhāḥ purā dakṣādhvare dvijāḥ .. 30.27..
निन्दन्ति च महादेवं तमसाविष्टचेतसः । वृथा धर्मं चरिष्यन्ति कलौ तस्मिन् युगान्तिके ॥ ३०.२८॥
nindanti ca mahādevaṃ tamasāviṣṭacetasaḥ . vṛthā dharmaṃ cariṣyanti kalau tasmin yugāntike .. 30.28..
सर्वे वीरा भविष्यन्ति ब्राह्मणाद्याः स्वजातिषु। ये चान्ये शापनिर्दग्धा गौतमस्य महात्मनः ॥ ३०.२९॥
sarve vīrā bhaviṣyanti brāhmaṇādyāḥ svajātiṣu. ye cānye śāpanirdagdhā gautamasya mahātmanaḥ .. 30.29..
सर्वे ते च भविष्यन्ति ब्राह्मणाद्याः स्वजातिषु । विनिन्दन्ति हृषीकेशं ब्राह्मणाः ब्रह्मवादिनः । ॥ ३०.३॥
sarve te ca bhaviṣyanti brāhmaṇādyāḥ svajātiṣu . vinindanti hṛṣīkeśaṃ brāhmaṇāḥ brahmavādinaḥ . .. 30.3..
वेदबाह्यव्रताचारा दुराचारा वृथाश्रमाः । मोहयन्ति जनान् सर्वान् दर्शयित्वा फलानि च॥ ३०.३१॥
vedabāhyavratācārā durācārā vṛthāśramāḥ . mohayanti janān sarvān darśayitvā phalāni ca.. 30.31..
तमसाविष्टमनसो बैडालव्रतिकाधमाः । कलौ रुद्रो महादेवो लोकानामीश्वरः परः ॥ ३०.३२॥
tamasāviṣṭamanaso baiḍālavratikādhamāḥ . kalau rudro mahādevo lokānāmīśvaraḥ paraḥ .. 30.32..
न देवता भवेन्नृणां देवतानां च दैवतम् । करिष्यत्यवताराणि शंकरो नीललोहितः ॥ ३०.३३॥
na devatā bhavennṛṇāṃ devatānāṃ ca daivatam . kariṣyatyavatārāṇi śaṃkaro nīlalohitaḥ .. 30.33..
श्रौतस्मार्त्तप्रतिष्ठार्थं भक्तानां हितकाम्यया । उपदेक्ष्यति तज्ज्ञानं शिष्याणां ब्रह्मसंज्ञितम् ॥ ३०.३४॥
śrautasmārttapratiṣṭhārthaṃ bhaktānāṃ hitakāmyayā . upadekṣyati tajjñānaṃ śiṣyāṇāṃ brahmasaṃjñitam .. 30.34..
सर्ववेदान्तसारं हि धर्मान् वेदनिदर्शितान् । सर्ववर्णान् समुद्धिश्य स्वधर्मा ये निदर्शिताः॥ ३०.३५॥
sarvavedāntasāraṃ hi dharmān vedanidarśitān . sarvavarṇān samuddhiśya svadharmā ye nidarśitāḥ.. 30.35..
ये तं प्रीताः निषेवन्ते येन केनोपचारतः । विजित्यकलिजान् दोषान् यान्ति ते परमं पदम् ॥ ३०.३६॥
ye taṃ prītāḥ niṣevante yena kenopacārataḥ . vijityakalijān doṣān yānti te paramaṃ padam .. 30.36..
अनायासेन सुमहत् पुण्यमाप्नोति मानवः । अनेकदोषदुष्टस्य कलेरेष महान् गुणः ॥ ३०.३७॥
anāyāsena sumahat puṇyamāpnoti mānavaḥ . anekadoṣaduṣṭasya kalereṣa mahān guṇaḥ .. 30.37..
तस्मात् सर्वप्रयत्नेन प्राप्य माहेश्वरं युगम् । विशेषाद् ब्राह्मणो रुद्रमीशानं शरणं व्रजेत् ॥ ३०.३८॥
tasmāt sarvaprayatnena prāpya māheśvaraṃ yugam . viśeṣād brāhmaṇo rudramīśānaṃ śaraṇaṃ vrajet .. 30.38..
ये नमन्ति विरूपाक्षमीशानं कृत्तिवाससम् । प्रसन्नचेतसो रुद्रं ते यान्ति परमं पदम् ॥ ३०.३९॥
ye namanti virūpākṣamīśānaṃ kṛttivāsasam . prasannacetaso rudraṃ te yānti paramaṃ padam .. 30.39..
यथा रुद्रनमस्कारः सर्वकर्मफलो ध्रुवः । अन्यदेवनमस्कारान्न तत्फलमवाप्नुयात् ॥ ३०.४॥
yathā rudranamaskāraḥ sarvakarmaphalo dhruvaḥ . anyadevanamaskārānna tatphalamavāpnuyāt .. 30.4..
एवंविधे कलियुगे दोषाणामेवशोधनम् । महादेवनमस्कारो ध्यानं दानमिति श्रुतिः ॥ ३०.४१॥
evaṃvidhe kaliyuge doṣāṇāmevaśodhanam . mahādevanamaskāro dhyānaṃ dānamiti śrutiḥ .. 30.41..
तस्मादनीश्वरानन्यान् त्यक्त्वा देवं महेश्वरम् । समाश्रयेद् विरूपाक्षं यदीच्छेत् परमं पदम् ॥ ३०.४२॥
tasmādanīśvarānanyān tyaktvā devaṃ maheśvaram . samāśrayed virūpākṣaṃ yadīcchet paramaṃ padam .. 30.42..
नार्चयन्तीह ये रुद्रं शिवं त्रिदशवन्दितम् । तेषां दानं तपो यज्ञो वृथा जीवितमेव च ॥ ३०.४३॥
nārcayantīha ye rudraṃ śivaṃ tridaśavanditam . teṣāṃ dānaṃ tapo yajño vṛthā jīvitameva ca .. 30.43..
नमो रुद्राय महते देवदेवाय शूलिने । त्र्यम्बकाय त्रिनेत्राय योगिनां गुरवे नमः ॥ ३०.४४॥
namo rudrāya mahate devadevāya śūline . tryambakāya trinetrāya yogināṃ gurave namaḥ .. 30.44..
नमोऽस्तु वामदेवाय महादेवाय वेधसे । शंभवे स्थाणवे नित्यं शिवाय परमेष्ठिने ॥ ३०.४५॥
namo'stu vāmadevāya mahādevāya vedhase . śaṃbhave sthāṇave nityaṃ śivāya parameṣṭhine .. 30.45..
नमः सोमाय रुद्राय महाग्रासाय हेतवे । प्रपद्येऽहं विरूपाक्षं शरण्यं ब्रह्मचारिणम् ॥ ३०.४६॥
namaḥ somāya rudrāya mahāgrāsāya hetave . prapadye'haṃ virūpākṣaṃ śaraṇyaṃ brahmacāriṇam .. 30.46..
महादेवं महायोगमीशानं चाम्बिकापतिम् । योगिनां योगदातारं योगमायासमावृतम् ॥ ३०.४७॥
mahādevaṃ mahāyogamīśānaṃ cāmbikāpatim . yogināṃ yogadātāraṃ yogamāyāsamāvṛtam .. 30.47..
योगिनां गुरुमाचार्यं योगिगम्यं पिनाकिनम् । संसारतारणं रुद्रं ब्रह्माणं ब्रह्मणोऽधिपम्॥ ३०.४८॥
yogināṃ gurumācāryaṃ yogigamyaṃ pinākinam . saṃsāratāraṇaṃ rudraṃ brahmāṇaṃ brahmaṇo'dhipam.. 30.48..
शाश्वतं सर्वगं शान्तं ब्रह्मण्यं ब्राह्मणप्रियम् । कपर्दिनं कालमूर्त्तिममूर्त्ति परमेश्वरम् ॥ ३०.४९॥
śāśvataṃ sarvagaṃ śāntaṃ brahmaṇyaṃ brāhmaṇapriyam . kapardinaṃ kālamūrttimamūrtti parameśvaram .. 30.49..
एकमूर्त्ति महामूर्त्ति वेदवेद्यं दिवस्पतिम् । नीलकण्ठं विश्वमूर्त्ति व्यापिनं विश्वरेतसम् ॥ ३०.५॥
ekamūrtti mahāmūrtti vedavedyaṃ divaspatim . nīlakaṇṭhaṃ viśvamūrtti vyāpinaṃ viśvaretasam .. 30.5..
कालाग्निं कालदहनं कामदं कामनाशनम् । नमस्ये गिरिशं देवं चन्द्रावयवभूषणम् ॥ ३०.५१॥
kālāgniṃ kāladahanaṃ kāmadaṃ kāmanāśanam . namasye giriśaṃ devaṃ candrāvayavabhūṣaṇam .. 30.51..
विलोहितं लेलिहानमादित्यं परमेष्ठिनम् । उग्रं पशुपतिं भीमं भास्करं परमं तपः ॥ ३०.५२॥
vilohitaṃ lelihānamādityaṃ parameṣṭhinam . ugraṃ paśupatiṃ bhīmaṃ bhāskaraṃ paramaṃ tapaḥ .. 30.52..
इत्येतल्लक्षणं प्रोक्तं युगानां वै समासतः । अतीतानागतानां वै यावन्मन्वन्तरक्षयः ॥ ३०.५३॥
ityetallakṣaṇaṃ proktaṃ yugānāṃ vai samāsataḥ . atītānāgatānāṃ vai yāvanmanvantarakṣayaḥ .. 30.53..
मन्वन्तरेण चैकेन सर्वाण्येवान्तराणि वै । व्याख्यातानि न संदेहः कल्पः कल्पेन चैव हि ॥ ३०.५४॥
manvantareṇa caikena sarvāṇyevāntarāṇi vai . vyākhyātāni na saṃdehaḥ kalpaḥ kalpena caiva hi .. 30.54..
मन्वन्तरेषु चैतेषु अतीतानागतेषु वै । तुल्याभिमानिनः सर्वे नामरूपैर्भवन्त्युत ॥ ३०.५५॥
manvantareṣu caiteṣu atītānāgateṣu vai . tulyābhimāninaḥ sarve nāmarūpairbhavantyuta .. 30.55..
एवमुक्तो भगवता किरीटी श्वेतवाहनः । बभार परमां भक्तिमीशानेऽव्यभिचारिणीम् ॥ ३०.५६॥
evamukto bhagavatā kirīṭī śvetavāhanaḥ . babhāra paramāṃ bhaktimīśāne'vyabhicāriṇīm .. 30.56..
नमश्चकार तमृषिं कृष्णद्वैपायनं प्रभुम् । सर्वज्ञं सर्वकर्त्तारं साक्षाद् विष्णुं व्यवस्थितम् ॥ ३०.५७॥
namaścakāra tamṛṣiṃ kṛṣṇadvaipāyanaṃ prabhum . sarvajñaṃ sarvakarttāraṃ sākṣād viṣṇuṃ vyavasthitam .. 30.57..
तमुवाच पुनर्व्यासः पार्थं परपुरंजयम् । कराभ्यां सुशुभाभ्यां च संस्पृश्य प्रणतं मुनिः ॥ ३०.५८॥
tamuvāca punarvyāsaḥ pārthaṃ parapuraṃjayam . karābhyāṃ suśubhābhyāṃ ca saṃspṛśya praṇataṃ muniḥ .. 30.58..
धन्योऽस्यनुगृहीतोऽसि त्वादृशोऽन्यो न विद्यते । त्रैलोक्ये शंकरे नूनं भक्तः परपुरंजय ॥ ३०.५९॥
dhanyo'syanugṛhīto'si tvādṛśo'nyo na vidyate . trailokye śaṃkare nūnaṃ bhaktaḥ parapuraṃjaya .. 30.59..
दृष्टवानसि तं देवं विश्वाक्षं विश्वतोमुखम् । प्रत्यक्षमेव सर्वेशं रुद्रं सर्वजगद्गुरुम् ॥ ३०.६॥
dṛṣṭavānasi taṃ devaṃ viśvākṣaṃ viśvatomukham . pratyakṣameva sarveśaṃ rudraṃ sarvajagadgurum .. 30.6..
ज्ञानं तदैश्वरं दिव्यं यथावद् विदितं त्वया । स्वयमेव हृषीकेशः प्रीत्योवाच सनातनः ॥ ३०.६१॥
jñānaṃ tadaiśvaraṃ divyaṃ yathāvad viditaṃ tvayā . svayameva hṛṣīkeśaḥ prītyovāca sanātanaḥ .. 30.61..
गच्छ गच्छ स्वकं स्थानं न शोकं कर्त्तुमर्हसि । व्रजस्व परया भक्त्या शरण्यं शरणं शिवम् ॥ ३०.६२॥
gaccha gaccha svakaṃ sthānaṃ na śokaṃ karttumarhasi . vrajasva parayā bhaktyā śaraṇyaṃ śaraṇaṃ śivam .. 30.62..
एवमुक्त्वा स भगवाननुगृह्यार्जुनं प्रभुः । जगाम शंकरपुरीं समाराधयितुं भवम् ॥ ३०.६३॥
evamuktvā sa bhagavānanugṛhyārjunaṃ prabhuḥ . jagāma śaṃkarapurīṃ samārādhayituṃ bhavam .. 30.63..
पाण्डवेयोऽपि तद् वाक्यात् संप्राप्य शरणं शिवम् । संत्यज्य सर्वकर्माणि तद्भक्तिपरमोऽभवत् ॥ ३०.६४॥
pāṇḍaveyo'pi tad vākyāt saṃprāpya śaraṇaṃ śivam . saṃtyajya sarvakarmāṇi tadbhaktiparamo'bhavat .. 30.64..
नार्चनेन समः शंभोर्भक्त्या भूतो भविष्यति । मुक्त्वा सत्यवतीसूनुं कृष्णं वा देवकीसुतम् ॥ ३०.६५॥
nārcanena samaḥ śaṃbhorbhaktyā bhūto bhaviṣyati . muktvā satyavatīsūnuṃ kṛṣṇaṃ vā devakīsutam .. 30.65..
तस्मै भगवते नित्यं नमः सत्याय धीमते । पाराशर्याय मुनये व्यासायामिततेजसे ॥ ३०.६६॥
tasmai bhagavate nityaṃ namaḥ satyāya dhīmate . pārāśaryāya munaye vyāsāyāmitatejase .. 30.66..
कृष्णद्वैपायनः साक्षाद् विष्णुरेव सनातनः । को ह्यन्यस्तत्त्वतो रुद्रं वेत्ति तं परमेश्वरम् ॥ ३०.६७॥
kṛṣṇadvaipāyanaḥ sākṣād viṣṇureva sanātanaḥ . ko hyanyastattvato rudraṃ vetti taṃ parameśvaram .. 30.67..
नमः कुरुध्वं तमृषिं कृष्णं सत्यवतीसुतम् । पाराशर्यं महात्मानं योगिनं विष्णुमव्ययम् ॥ ३०.६८॥
namaḥ kurudhvaṃ tamṛṣiṃ kṛṣṇaṃ satyavatīsutam . pārāśaryaṃ mahātmānaṃ yoginaṃ viṣṇumavyayam .. 30.68..
एवमुक्तास्तु मुनयः सर्व एव समीहिताः । प्रेणेमुस्तं महात्मानं व्यासं सत्यवतीसुतम् ॥ ३०.६९॥
evamuktāstu munayaḥ sarva eva samīhitāḥ . preṇemustaṃ mahātmānaṃ vyāsaṃ satyavatīsutam .. 30.69..
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे त्रिंशोऽध्यायः ॥ ॥
iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ pūrvavibhāge triṃśo'dhyāyaḥ .. ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In