| |
|

This overlay will guide you through the buttons:

ऋषय ऊचुः ।
प्राप्य वाराणसीं दिव्यां कृष्णद्वैपायनो मुनिः । किमकार्षीन्महाबुद्धिः श्रोतुं कौतूहलं हि नः ॥ ३१.१॥
प्राप्य वाराणसीम् दिव्याम् कृष्णद्वैपायनः मुनिः । किम् अकार्षीत् महाबुद्धिः श्रोतुम् कौतूहलम् हि नः ॥ ३१।१॥
prāpya vārāṇasīm divyām kṛṣṇadvaipāyanaḥ muniḥ . kim akārṣīt mahābuddhiḥ śrotum kautūhalam hi naḥ .. 31.1..
सूत उवाच ।
प्राप्य वाराणसीं दिव्यामुपस्पृश्य महामुनिः । पूजयामास जाह्नव्यां देवं विश्वेश्वरं शिवम् ॥ ३१.२॥
प्राप्य वाराणसीम् दिव्याम् उपस्पृश्य महा-मुनिः । पूजयामास जाह्नव्याम् देवम् विश्वेश्वरम् शिवम् ॥ ३१।२॥
prāpya vārāṇasīm divyām upaspṛśya mahā-muniḥ . pūjayāmāsa jāhnavyām devam viśveśvaram śivam .. 31.2..
तमागतं मुनिं दृष्ट्वा तत्र ये निवसन्ति वै । पूजयाञ्चक्रिरे व्यासं मुनयो मुनिपुंगवम् ॥ ३१.३॥
तम् आगतम् मुनिम् दृष्ट्वा तत्र ये निवसन्ति वै । पूजयाञ्चक्रिरे व्यासम् मुनयः मुनि-पुंगवम् ॥ ३१।३॥
tam āgatam munim dṛṣṭvā tatra ye nivasanti vai . pūjayāñcakrire vyāsam munayaḥ muni-puṃgavam .. 31.3..
पप्रच्छुः प्रणताः सर्वे कथाः पापविनाशनीम् । महादेवाश्रयाः पुण्यां मोक्षधर्मान् सनातनान् ॥ ३९.४॥
पप्रच्छुः प्रणताः सर्वे कथाः पाप-विनाशनीम् । महादेव-आश्रयाः पुण्याम् मोक्ष-धर्मान् सनातनान् ॥ ३९।४॥
papracchuḥ praṇatāḥ sarve kathāḥ pāpa-vināśanīm . mahādeva-āśrayāḥ puṇyām mokṣa-dharmān sanātanān .. 39.4..
स चापि कथयामास सर्वज्ञो भगवानृषिः । माहात्म्यं देवदेवस्य धर्मान् वेदनिदर्शितान् ॥ ३१.५॥
स च अपि कथयामास सर्वज्ञः भगवान् ऋषिः । माहात्म्यम् देवदेवस्य धर्मान् वेद-निदर्शितान् ॥ ३१।५॥
sa ca api kathayāmāsa sarvajñaḥ bhagavān ṛṣiḥ . māhātmyam devadevasya dharmān veda-nidarśitān .. 31.5..
तेषां मध्ये मुनीन्द्राणां व्यासशिष्यो महामुनिः । पृष्टवान् जैमिनिर्व्यासं गूढमर्थं सनातनम् ॥ ३१.६॥
तेषाम् मध्ये मुनि-इन्द्राणाम् व्यास-शिष्यः महा-मुनिः । पृष्टवान् जैमिनिः व्यासम् गूढम् अर्थम् सनातनम् ॥ ३१।६॥
teṣām madhye muni-indrāṇām vyāsa-śiṣyaḥ mahā-muniḥ . pṛṣṭavān jaiminiḥ vyāsam gūḍham artham sanātanam .. 31.6..
जैमिनिरुवाच ।
भगवन् संशयञ्चैकं छेत्तुमर्हसि तत्त्ववित् । न विद्यते ह्यविदितं भवता परमर्षिणः ॥ ३१.७॥
भगवन् संशयम् च एकम् छेत्तुम् अर्हसि तत्त्व-विद् । न विद्यते हि अविदितम् भवता परम-ऋषिणः ॥ ३१।७॥
bhagavan saṃśayam ca ekam chettum arhasi tattva-vid . na vidyate hi aviditam bhavatā parama-ṛṣiṇaḥ .. 31.7..
केचिद् ध्यानं प्रशंसन्ति धर्ममेवापरे जनाः । अन्ये सांख्यं तथा योगं तपस्त्वन्ये महर्षयः ॥ ३१.८॥
केचिद् ध्यानम् प्रशंसन्ति धर्मम् एव अपरे जनाः । अन्ये सांख्यम् तथा योगम् तपः तु अन्ये महा-ऋषयः ॥ ३१।८॥
kecid dhyānam praśaṃsanti dharmam eva apare janāḥ . anye sāṃkhyam tathā yogam tapaḥ tu anye mahā-ṛṣayaḥ .. 31.8..
ब्रह्मचर्यमथो मौनमन्ये प्राहुर्महर्षयः । अहिंसां सत्यमप्यन्ये संन्यासमपरे विदुः ॥ ३१.९॥
ब्रह्मचर्यम् अथो मौनम् अन्ये प्राहुः महा-ऋषयः । अहिंसाम् सत्यम् अपि अन्ये संन्यासम् अपरे विदुः ॥ ३१।९॥
brahmacaryam atho maunam anye prāhuḥ mahā-ṛṣayaḥ . ahiṃsām satyam api anye saṃnyāsam apare viduḥ .. 31.9..
केचिद् दयां प्रशंसन्ति दानमध्ययनं तथा । तीर्थयात्रां तथा केचिदन्ये चेन्द्रियनिग्रहम् ॥ ३१.१॥
केचिद् दयाम् प्रशंसन्ति दानम् अध्ययनम् तथा । तीर्थ-यात्राम् तथा केचिद् अन्ये च इन्द्रिय-निग्रहम् ॥ ३१।१॥
kecid dayām praśaṃsanti dānam adhyayanam tathā . tīrtha-yātrām tathā kecid anye ca indriya-nigraham .. 31.1..
किमेतेषां भवेज्ज्यायः प्रब्रूहि मुनिपुंगव । यदि वा विद्यतेऽप्यन्यद् गुह्यं तद्वक्तुमर्हसि ॥ ३१.११॥
किम् एतेषाम् भवेत् ज्यायः प्रब्रूहि मुनि-पुंगव । यदि वा विद्यते अपि अन्यत् गुह्यम् तत् वक्तुम् अर्हसि ॥ ३१।११॥
kim eteṣām bhavet jyāyaḥ prabrūhi muni-puṃgava . yadi vā vidyate api anyat guhyam tat vaktum arhasi .. 31.11..
श्रुत्वा स जैमिनेर्वाक्यं कृष्णद्वैपायनो मुनिः । प्राह गम्भीरया वाचा प्रणम्य वृषकेतनम् ॥ ३१.१२॥
श्रुत्वा स जैमिनेः वाक्यम् कृष्णद्वैपायनः मुनिः । प्राह गम्भीरया वाचा प्रणम्य वृषकेतनम् ॥ ३१।१२॥
śrutvā sa jaimineḥ vākyam kṛṣṇadvaipāyanaḥ muniḥ . prāha gambhīrayā vācā praṇamya vṛṣaketanam .. 31.12..
साधु साधु महाभाग यत्पृष्टं भवता मुने । वक्ष्ये गुह्यतमाद् गुह्यं श्रुण्वन्त्वन्ये महर्षयः ॥ ३१.१३॥
साधु साधु महाभाग यत् पृष्टम् भवता मुने । वक्ष्ये गुह्यतमात् गुह्यम् श्रुण्वन्तु अन्ये महा-ऋषयः ॥ ३१।१३॥
sādhu sādhu mahābhāga yat pṛṣṭam bhavatā mune . vakṣye guhyatamāt guhyam śruṇvantu anye mahā-ṛṣayaḥ .. 31.13..
ईश्वरेण पुरा प्रोक्तं ज्ञानमेतत् सनातनम् । गूढमप्राज्ञविद्विष्टं सेवितं सूक्ष्मदर्शिभिः ॥ ३१.१४॥
ईश्वरेण पुरा प्रोक्तम् ज्ञानम् एतत् सनातनम् । गूढम् अप्राज्ञ-विद्विष्टम् सेवितम् सूक्ष्म-दर्शिभिः ॥ ३१।१४॥
īśvareṇa purā proktam jñānam etat sanātanam . gūḍham aprājña-vidviṣṭam sevitam sūkṣma-darśibhiḥ .. 31.14..
नाश्रद्दधाने दातव्यं नाभक्ते परमेष्ठिनः । न वेदविदुषे देयं ज्ञानानां ज्ञानमुत्तमम् ॥ ३१.१५॥
न अश्रद्दधाने दातव्यम् न अभक्ते परमेष्ठिनः । न वेद-विदुषे देयम् ज्ञानानाम् ज्ञानम् उत्तमम् ॥ ३१।१५॥
na aśraddadhāne dātavyam na abhakte parameṣṭhinaḥ . na veda-viduṣe deyam jñānānām jñānam uttamam .. 31.15..
मेरुश्रृङ्गे महा देवंमीशानं त्रिपुरद्विषम् । देवासनगता देवी महादेवमपृच्छत ॥ ३१.१६॥
मेरु-श्रृङ्गे महा त्रिपुर-द्विषम् । देव-आसन-गता देवी महादेवम् अपृच्छत ॥ ३१।१६॥
meru-śrṛṅge mahā tripura-dviṣam . deva-āsana-gatā devī mahādevam apṛcchata .. 31.16..
देव्युवाच ।
देवदेव महादेव भक्तानामार्त्तिनाशन । कथं त्वां पुरुषो देवमचिरादेव पश्यति ॥ ३१.१७॥
देवदेव महादेव भक्तानाम् आर्त्ति-नाशन । कथम् त्वाम् पुरुषः देवम् अचिरात् एव पश्यति ॥ ३१।१७॥
devadeva mahādeva bhaktānām ārtti-nāśana . katham tvām puruṣaḥ devam acirāt eva paśyati .. 31.17..
सांख्ययोगस्तथा ध्यानं कर्मयोगोऽथ वैदिकः । आयासबहुलान्याहुर्यानि चान्यानि शंकर ॥ ३१.१८॥
सांख्य-योगः तथा ध्यानम् कर्म-योगः अथ वैदिकः । आयास-बहुलानि आहुः यानि च अन्यानि शंकर ॥ ३१।१८॥
sāṃkhya-yogaḥ tathā dhyānam karma-yogaḥ atha vaidikaḥ . āyāsa-bahulāni āhuḥ yāni ca anyāni śaṃkara .. 31.18..
येन विब्रान्तचित्तानां योगिनां कर्मिणामपि । दृश्यो हि भगवान् सूक्ष्मः सर्वेषामपि देहिनाम् ॥ ३१.१९॥
येन विब्रान्त-चित्तानाम् योगिनाम् कर्मिणाम् अपि । दृश्यः हि भगवान् सूक्ष्मः सर्वेषाम् अपि देहिनाम् ॥ ३१।१९॥
yena vibrānta-cittānām yoginām karmiṇām api . dṛśyaḥ hi bhagavān sūkṣmaḥ sarveṣām api dehinām .. 31.19..
एतद् गुह्यतमं ज्ञानं गूढं ब्रह्मादिसेवितम । हिताय सर्वभक्तानां ब्रूहि कामाङ्गनाशन ॥ ३१.२॥
एतत् गुह्यतमम् ज्ञानम् गूढम् ब्रह्म-आदि-सेवितम । हिताय सर्व-भक्तानाम् ब्रूहि काम-अङ्ग-नाशन ॥ ३१।२॥
etat guhyatamam jñānam gūḍham brahma-ādi-sevitama . hitāya sarva-bhaktānām brūhi kāma-aṅga-nāśana .. 31.2..
ईश्वर उवाच ।
अवाच्यमेतद् विज्ञानं ज्ञानमज्ञैर्बहिष्कृ । वक्ष्ये तव यथा तत्त्वं यदुक्तं परमर्षिभिः ॥ ३१.२१॥
अवाच्यम् एतत् विज्ञानम् ज्ञानम् अज्ञैः बहिष्कृ । वक्ष्ये तव यथा तत्त्वम् यत् उक्तम् परम-ऋषिभिः ॥ ३१।२१॥
avācyam etat vijñānam jñānam ajñaiḥ bahiṣkṛ . vakṣye tava yathā tattvam yat uktam parama-ṛṣibhiḥ .. 31.21..
परं गुह्यतमं क्षेत्रं मम वाराणसी पुरी । सर्वेषामेव भूतानां संसारार्णवतारिणी ॥ ३१.२२॥
परम् गुह्यतमम् क्षेत्रम् मम वाराणसी पुरी । सर्वेषाम् एव भूतानाम् संसार-अर्णव-तारिणी ॥ ३१।२२॥
param guhyatamam kṣetram mama vārāṇasī purī . sarveṣām eva bhūtānām saṃsāra-arṇava-tāriṇī .. 31.22..
तत्र भक्ता महादेवि मदीयं व्रतमास्थिताः । निवसन्ति महात्मानः परं नियममास्थिताः ॥ ३१.२३॥
तत्र भक्ताः महादेवि मदीयम् व्रतम् आस्थिताः । निवसन्ति महात्मानः परम् नियमम् आस्थिताः ॥ ३१।२३॥
tatra bhaktāḥ mahādevi madīyam vratam āsthitāḥ . nivasanti mahātmānaḥ param niyamam āsthitāḥ .. 31.23..
उत्तमं सर्वतीर्थानां स्थानानामुत्तमं च तत् । ज्ञानानामुत्तमं ज्ञानमविमुक्तं परं मम ॥ ३१.२४॥
उत्तमम् सर्व-तीर्थानाम् स्थानानाम् उत्तमम् च तत् । ज्ञानानाम् उत्तमम् ज्ञानम् अविमुक्तम् परम् मम ॥ ३१।२४॥
uttamam sarva-tīrthānām sthānānām uttamam ca tat . jñānānām uttamam jñānam avimuktam param mama .. 31.24..
स्थानान्तरं पवित्राणि तीर्थान्यायतनानि च । श्मशानेसंस्थितान्येव दिव्यभूमिगतानि च ॥ ३१.२५॥
स्थान-अन्तरम् पवित्राणि तीर्थानि आयतनानि च । श्मशाने संस्थितानि एव दिव्य-भूमि-गतानि च ॥ ३१।२५॥
sthāna-antaram pavitrāṇi tīrthāni āyatanāni ca . śmaśāne saṃsthitāni eva divya-bhūmi-gatāni ca .. 31.25..
भूर्लोके नैव संलग्नमन्तरिक्षे ममालयम् । अयुक्तास्तन्न पश्यन्ति युक्ताः पश्यन्ति चेतसा ॥ ३१.२६॥
भूर्लोके ना एव संलग्नम् अन्तरिक्षे मम आलयम् । अयुक्ताः तत् न पश्यन्ति युक्ताः पश्यन्ति चेतसा ॥ ३१।२६॥
bhūrloke nā eva saṃlagnam antarikṣe mama ālayam . ayuktāḥ tat na paśyanti yuktāḥ paśyanti cetasā .. 31.26..
श्मसानमेतद् विख्यातमविमुक्तमिति श्रुतम् । कालो भूत्वा जगदिदं संहराम्यत्र सुन्दरि ॥ ३१.२७॥
श्मसानम् एतत् विख्यातम् अविमुक्तम् इति श्रुतम् । कालः भूत्वा जगत् इदम् संहरामि अत्र सुन्दरि ॥ ३१।२७॥
śmasānam etat vikhyātam avimuktam iti śrutam . kālaḥ bhūtvā jagat idam saṃharāmi atra sundari .. 31.27..
देवीदं सर्वगुह्यानां स्थानं प्रियतमं मम । मद्भक्तास्तत्र गच्छन्ति मामेव प्रविशन्तते ॥ ३१.२८॥
देवि इदम् सर्व-गुह्यानाम् स्थानम् प्रियतमम् मम । मद्-भक्ताः तत्र गच्छन्ति माम् एव प्रविशन् ते ॥ ३१।२८॥
devi idam sarva-guhyānām sthānam priyatamam mama . mad-bhaktāḥ tatra gacchanti mām eva praviśan te .. 31.28..
दत्तं जप्तं हुतं चेष्टं तपस्तप्तं कृतं च यत् । ध्यानमध्ययनं ज्ञानं सर्वं तत्राक्षयं भवेत् ॥ ३१.२९॥
दत्तम् जप्तम् हुतम् च इष्टम् तपः तप्तम् कृतम् च यत् । ध्यानम् अध्ययनम् ज्ञानम् सर्वम् तत्र अक्षयम् भवेत् ॥ ३१।२९॥
dattam japtam hutam ca iṣṭam tapaḥ taptam kṛtam ca yat . dhyānam adhyayanam jñānam sarvam tatra akṣayam bhavet .. 31.29..
जन्मान्तरसहस्रेषु यत्पापं पूर्वसंचितम् । अविमुक्तं प्रविष्टस्य तत्सर्वं व्रजति क्षयम् ॥ ३१.३१॥
जन्म-अन्तर-सहस्रेषु यत् पापम् पूर्व-संचितम् । अविमुक्तम् प्रविष्टस्य तत् सर्वम् व्रजति क्षयम् ॥ ३१।३१॥
janma-antara-sahasreṣu yat pāpam pūrva-saṃcitam . avimuktam praviṣṭasya tat sarvam vrajati kṣayam .. 31.31..
ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा ये वर्णसंकराः । स्त्रियो म्लेच्छाश्च ये चान्ये संकीर्णाः पापयोनयः ॥ ३१.३१॥
ब्राह्मणाः क्षत्रियाः वैश्याः शूद्राः ये वर्ण-संकराः । स्त्रियः म्लेच्छाः च ये च अन्ये संकीर्णाः पाप-योनयः ॥ ३१।३१॥
brāhmaṇāḥ kṣatriyāḥ vaiśyāḥ śūdrāḥ ye varṇa-saṃkarāḥ . striyaḥ mlecchāḥ ca ye ca anye saṃkīrṇāḥ pāpa-yonayaḥ .. 31.31..
कीटाः पिपीलिकाश्चैव ये चान्ये मृगपक्षिणः । कालेन निधनं प्राप्ता अविमुक्ते वरानने ॥ ३१.३२॥
कीटाः पिपीलिकाः च एव ये च अन्ये मृग-पक्षिणः । कालेन निधनम् प्राप्ताः अविमुक्ते वरानने ॥ ३१।३२॥
kīṭāḥ pipīlikāḥ ca eva ye ca anye mṛga-pakṣiṇaḥ . kālena nidhanam prāptāḥ avimukte varānane .. 31.32..
चन्द्रार्द्धमौलयस्त्र्यक्षा महावृषभवाहनाः । शिवे मम पुरे देवि जायन्ते तत्र मानवाः ॥ ३१.३३॥
चन्द्र-अर्द्ध-मौलयः त्रि-अक्षाः महा-वृषभ-वाहनाः । शिवे मम पुरे देवि जायन्ते तत्र मानवाः ॥ ३१।३३॥
candra-arddha-maulayaḥ tri-akṣāḥ mahā-vṛṣabha-vāhanāḥ . śive mama pure devi jāyante tatra mānavāḥ .. 31.33..
नाविमुक्ते मृतः कश्चिन्नरकं याति किल्बिषः। ईश्वरानुगृहीता हि सर्वे यान्ति परां गतिम् ॥ ३१.३४॥
न अविमुक्ते मृतः कश्चिद् नरकम् याति किल्बिषः। ईश्वर-अनुगृहीताः हि सर्वे यान्ति पराम् गतिम् ॥ ३१।३४॥
na avimukte mṛtaḥ kaścid narakam yāti kilbiṣaḥ. īśvara-anugṛhītāḥ hi sarve yānti parām gatim .. 31.34..
मोक्षं सुदुर्लभं मत्वा संसारं चातिभीषणम् । अश्मना चरणौ हत्वा वाराणस्यां वसेन्नरः ॥ ३१.३५॥
मोक्षम् सु दुर्लभम् मत्वा संसारम् च अति भीषणम् । अश्मना चरणौ हत्वा वाराणस्याम् वसेत् नरः ॥ ३१।३५॥
mokṣam su durlabham matvā saṃsāram ca ati bhīṣaṇam . aśmanā caraṇau hatvā vārāṇasyām vaset naraḥ .. 31.35..
दुर्लभा तपसा चापि पूतस्य परमेश्वरि । यत्र तत्र विपन्नस्य गतिः संसारमोक्षणी ॥ ३१.३६॥
दुर्लभा तपसा च अपि पूतस्य परमेश्वरि । यत्र तत्र विपन्नस्य गतिः संसार-मोक्षणी ॥ ३१।३६॥
durlabhā tapasā ca api pūtasya parameśvari . yatra tatra vipannasya gatiḥ saṃsāra-mokṣaṇī .. 31.36..
प्रसादाज्जायते ह्येतन्मम शैलेन्द्रनन्दिनि । अप्रबुद्धा न पश्यन्ति मम मायाविमोहिताः ॥ ३१.३७॥
प्रसादात् जायते हि एतत् मम शैलेन्द्रनन्दिनि । अप्रबुद्धाः न पश्यन्ति मम माया-विमोहिताः ॥ ३१।३७॥
prasādāt jāyate hi etat mama śailendranandini . aprabuddhāḥ na paśyanti mama māyā-vimohitāḥ .. 31.37..
अविमुक्तं न सेवन्ति मूढा ये तमसावृताः । विण्मूत्ररेतसां मध्ये संवसन्ति पुनः पुनः ॥ ३१.३८॥
अविमुक्तम् न सेवन्ति मूढाः ये तमसा आवृताः । विष्-मूत्र-रेतसाम् मध्ये संवसन्ति पुनर् पुनर् ॥ ३१।३८॥
avimuktam na sevanti mūḍhāḥ ye tamasā āvṛtāḥ . viṣ-mūtra-retasām madhye saṃvasanti punar punar .. 31.38..
हन्यमानोऽपि यो विद्वान् वसेद् विघ्नशतैरपि । स याति परमं स्थानं यत्र गत्वा न शोचति ॥ ३१.३९॥
हन्यमानः अपि यः विद्वान् वसेत् विघ्न-शतैः अपि । स याति परमम् स्थानम् यत्र गत्वा न शोचति ॥ ३१।३९॥
hanyamānaḥ api yaḥ vidvān vaset vighna-śataiḥ api . sa yāti paramam sthānam yatra gatvā na śocati .. 31.39..
जन्ममृत्युजरामुक्तं परं याति शिवालयम् । अपुनर्मरणानां हि सा गतिर्मोक्षकाङिक्षणाम् ॥ ३१.४॥
जन्म-मृत्यु-जरा-मुक्तम् परम् याति शिव-आलयम् । अपुनर् मरणानाम् हि सा गतिः मोक्ष-काङिक्षणाम् ॥ ३१।४॥
janma-mṛtyu-jarā-muktam param yāti śiva-ālayam . apunar maraṇānām hi sā gatiḥ mokṣa-kāṅikṣaṇām .. 31.4..
यां प्राप्य कृतकृत्यः स्यादिति मन्यन्ति पण्डतः । न दानैर्न तपोभिश्च न यज्ञैर्नापि विद्यया ॥ ३१.४१॥
याम् प्राप्य कृतकृत्यः स्यात् इति मन्यन्ति पण्डतः । न दानैः न तपोभिः च न यज्ञैः ना अपि विद्यया ॥ ३१।४१॥
yām prāpya kṛtakṛtyaḥ syāt iti manyanti paṇḍataḥ . na dānaiḥ na tapobhiḥ ca na yajñaiḥ nā api vidyayā .. 31.41..
प्राप्यते गतिरुत्कृष्टा याऽविमुक्ते तु लभ्यते । नानावर्णा विवर्णाश्च चण्डालाद्या जुगुप्सिताः ॥ ३१.४२॥
प्राप्यते गतिः उत्कृष्टा या अविमुक्ते तु लभ्यते । नाना वर्णाः विवर्णाः च चण्डाल-आद्याः जुगुप्सिताः ॥ ३१।४२॥
prāpyate gatiḥ utkṛṣṭā yā avimukte tu labhyate . nānā varṇāḥ vivarṇāḥ ca caṇḍāla-ādyāḥ jugupsitāḥ .. 31.42..
किल्बिषैः पूर्णदेहा ये विशिष्टैः पातकैस्तथा । भेषजं परमं तेषामविमुक्तं विदुर्बुधाः ॥ २९.४३॥
किल्बिषैः पूर्ण-देहाः ये विशिष्टैः पातकैः तथा । भेषजम् परमम् तेषाम् अविमुक्तम् विदुः बुधाः ॥ २९।४३॥
kilbiṣaiḥ pūrṇa-dehāḥ ye viśiṣṭaiḥ pātakaiḥ tathā . bheṣajam paramam teṣām avimuktam viduḥ budhāḥ .. 29.43..
अविमुक्तं परं ज्ञानमविमुक्तं परं पदम् । अविमुक्तं परं तत्त्वमविमुक्तं परं शिवम् ॥ ३१.४४॥
अविमुक्तम् परम् ज्ञानम् अविमुक्तम् परम् पदम् । अविमुक्तम् परम् तत्त्वम् अविमुक्तम् परम् शिवम् ॥ ३१।४४॥
avimuktam param jñānam avimuktam param padam . avimuktam param tattvam avimuktam param śivam .. 31.44..
कृत्वा वै नैष्ठिकीं दीक्षामविमुक्ते वसन्ति ये । तेषां तत्परमं ज्ञानं ददाम्यन्ते परं पदम् ॥ ३१.४५॥
कृत्वा वै नैष्ठिकीम् दीक्षाम् अविमुक्ते वसन्ति ये । तेषाम् तत् परमम् ज्ञानम् ददामि अन्ते परम् पदम् ॥ ३१।४५॥
kṛtvā vai naiṣṭhikīm dīkṣām avimukte vasanti ye . teṣām tat paramam jñānam dadāmi ante param padam .. 31.45..
प्रायागं नैमिषं पुण्यं श्रीशैलोऽथ महालयः । केदारं भद्रकर्णं च गया पुष्करमेव च ॥ ३१.४६॥
प्रायागम् नैमिषम् पुण्यम् श्रीशैलः अथ महा-लयः । केदारम् भद्रकर्णम् च गया पुष्करम् एव च ॥ ३१।४६॥
prāyāgam naimiṣam puṇyam śrīśailaḥ atha mahā-layaḥ . kedāram bhadrakarṇam ca gayā puṣkaram eva ca .. 31.46..
कुरुक्षेत्रं रुद्रकोटिर्नर्मदाहाटकेश्वरम् । शालिग्रामं च पुष्पाग्रं वंशं कोकामुखं तथा॥ ३१.४७॥
। शालिग्रामम् च पुष्पाग्रम् वंशम् कोकामुखम् तथा॥ ३१।४७॥
. śāligrāmam ca puṣpāgram vaṃśam kokāmukham tathā.. 31.47..
प्रभासं विजयेशानं गोकर्णं शङ्कुकर्णकम् । एतानि पुण्यस्थानानि त्रैलोक्ये विश्रुतानि ह ॥ ३१.४८॥
। एतानि पुण्य-स्थानानि त्रैलोक्ये विश्रुतानि ह ॥ ३१।४८॥
. etāni puṇya-sthānāni trailokye viśrutāni ha .. 31.48..
न यास्यन्ति परं मोक्षं वाराणस्यां यथा मृताः । वाराणस्यां विशेषेण गङ्गा त्रिपथगामिनी ॥ ३१.४९॥
न यास्यन्ति परम् मोक्षम् वाराणस्याम् यथा मृताः । वाराणस्याम् विशेषेण गङ्गा त्रिपथगामिनी ॥ ३१।४९॥
na yāsyanti param mokṣam vārāṇasyām yathā mṛtāḥ . vārāṇasyām viśeṣeṇa gaṅgā tripathagāminī .. 31.49..
प्रविष्टा नाशयेत् पापं जन्मान्तरशतैः कृतम् । अन्यत्र सुलभा गङ्गा श्राद्धं दानं तथा जपः ॥ ३१.५॥
प्रविष्टा नाशयेत् पापम् जन्म-अन्तर-शतैः कृतम् । अन्यत्र सुलभा गङ्गा श्राद्धम् दानम् तथा जपः ॥ ३१।५॥
praviṣṭā nāśayet pāpam janma-antara-śataiḥ kṛtam . anyatra sulabhā gaṅgā śrāddham dānam tathā japaḥ .. 31.5..
व्रतानि सर्वमेवैतद् वाराणस्यां सुदुर्लभम् । यजेत जुहुयान्नित्यं ददात्यर्चयतेऽमरान् ॥ ३१.५१॥
व्रतानि सर्वम् एव एतत् वाराणस्याम् सु दुर्लभम् । यजेत जुहुयात् नित्यम् ददाति अर्चयते अमरान् ॥ ३१।५१॥
vratāni sarvam eva etat vārāṇasyām su durlabham . yajeta juhuyāt nityam dadāti arcayate amarān .. 31.51..
वायुभक्षश्च सततं वाराणस्यां स्तितो नरः । यदि पापो यदि शठो यदि वाऽधार्मिको नरः ॥ ३१.५२॥
वायुभक्षः च सततम् वाराणस्याम् स्तितः नरः । यदि पापः यदि शठः यदि वा अधार्मिकः नरः ॥ ३१।५२॥
vāyubhakṣaḥ ca satatam vārāṇasyām stitaḥ naraḥ . yadi pāpaḥ yadi śaṭhaḥ yadi vā adhārmikaḥ naraḥ .. 31.52..
वाराणसीं समासाद्य पुनाति सकुलत्रयं । वाराणस्यां महादेवं येऽर्चयन्ति स्तुवन्ति वै ॥ ३१.५३॥
वाराणसीम् समासाद्य पुनाति स कुल-त्रयम् । वाराणस्याम् महादेवम् ये अर्चयन्ति स्तुवन्ति वै ॥ ३१।५३॥
vārāṇasīm samāsādya punāti sa kula-trayam . vārāṇasyām mahādevam ye arcayanti stuvanti vai .. 31.53..
सर्वपापविनिर्मुक्तास्ते विज्ञेया गणेश्वराः । अन्यत्र यागज्ज्ञानाद्वा संन्यासादथवाऽन्यतः ॥ ३१.५४॥
सर्व-पाप-विनिर्मुक्ताः ते विज्ञेयाः गणेश्वराः । अन्यत्र यागत्-ज्ञानात् वा संन्यासात् अथवा अन्यतस् ॥ ३१।५४॥
sarva-pāpa-vinirmuktāḥ te vijñeyāḥ gaṇeśvarāḥ . anyatra yāgat-jñānāt vā saṃnyāsāt athavā anyatas .. 31.54..
प्राप्यते तत् परं स्थानं सहस्रेणैव जन्मना । ये भक्ता देवदेवेशे वाराणस्यां वसन्ति वै ॥ ३१.५५॥
प्राप्यते तत् परम् स्थानम् सहस्रेण एव जन्मना । ये भक्ताः देवदेवेशे वाराणस्याम् वसन्ति वै ॥ ३१।५५॥
prāpyate tat param sthānam sahasreṇa eva janmanā . ye bhaktāḥ devadeveśe vārāṇasyām vasanti vai .. 31.55..
ते विन्दन्ति परं मोक्षमेकेनैव तु जन्मना । यत्र योगस्तथा ज्ञानं मुक्तिरेकेन जन्मना ॥ ३१.५६॥
ते विन्दन्ति परम् मोक्षम् एकेन एव तु जन्मना । यत्र योगः तथा ज्ञानम् मुक्तिः एकेन जन्मना ॥ ३१।५६॥
te vindanti param mokṣam ekena eva tu janmanā . yatra yogaḥ tathā jñānam muktiḥ ekena janmanā .. 31.56..
अविमुक्तं समासाद्य नान्यद् गच्छेत् तपोवनम् । यतो मया न मुक्तं तदविमुक्तं ततः स्मृतम् ॥ ३१.५७॥
अविमुक्तम् समासाद्य न अन्यत् गच्छेत् तपः-वनम् । यतस् मया न मुक्तम् तत् अविमुक्तम् ततस् स्मृतम् ॥ ३१।५७॥
avimuktam samāsādya na anyat gacchet tapaḥ-vanam . yatas mayā na muktam tat avimuktam tatas smṛtam .. 31.57..
तदेव गुह्यं गुह्यानामेतद् विज्ञाय मुच्यते । ज्ञानध्यानाभिनिष्ठानां परमानन्दमिच्छताम् ॥ ३१.५८॥
तत् एव गुह्यम् गुह्यानाम् एतत् विज्ञाय मुच्यते । ज्ञान-ध्यान-अभिनिष्ठानाम् परमानन्दम् इच्छताम् ॥ ३१।५८॥
tat eva guhyam guhyānām etat vijñāya mucyate . jñāna-dhyāna-abhiniṣṭhānām paramānandam icchatām .. 31.58..
या गतिर्विहिता सुभ्रु साविमुक्ते मृतस्य तु । यानि कान्यविमुक्तानि देवैरुक्तानि नित्यशः ॥ ३१.५९॥
या गतिः विहिता सुभ्रु सा अविमुक्ते मृतस्य तु । यानि कानि अविमुक्तानि देवैः उक्तानि नित्यशस् ॥ ३१।५९॥
yā gatiḥ vihitā subhru sā avimukte mṛtasya tu . yāni kāni avimuktāni devaiḥ uktāni nityaśas .. 31.59..
पुरी वाराणसी तेभ्यः स्थानेभ्यो ह्यधिकाशुभा । यत्र साक्षान्महादेवो देहान्ते स्वयमीश्वरः ॥ ३१.६॥
पुरी वाराणसी तेभ्यः स्थानेभ्यः हि अधिका अशुभा । यत्र साक्षात् महादेवः देहान्ते स्वयम् ईश्वरः ॥ ३१।६॥
purī vārāṇasī tebhyaḥ sthānebhyaḥ hi adhikā aśubhā . yatra sākṣāt mahādevaḥ dehānte svayam īśvaraḥ .. 31.6..
व्याचष्टे तारकं ब्रह्म तत्रैव ह्यविमुक्तकम् । यत् तत् परतरं तत्त्वमविमुक्तमिति श्रुतम् ॥ ३१.६१॥
व्याचष्टे तारकम् ब्रह्म तत्र एव हि अविमुक्तकम् । यत् तत् परतरम् तत्त्वम् अविमुक्तम् इति श्रुतम् ॥ ३१।६१॥
vyācaṣṭe tārakam brahma tatra eva hi avimuktakam . yat tat parataram tattvam avimuktam iti śrutam .. 31.61..
एकेन जन्मना देवि वाराणस्यां तदाप्नुयात् । भ्रूमध्ये नाभिमध्ये च हृदये चैव मूर्द्धनि ॥ ३१.६२॥
एकेन जन्मना देवि वाराणस्याम् तत् आप्नुयात् । भ्रू-मध्ये नाभि-मध्ये च हृदये च एव मूर्द्धनि ॥ ३१।६२॥
ekena janmanā devi vārāṇasyām tat āpnuyāt . bhrū-madhye nābhi-madhye ca hṛdaye ca eva mūrddhani .. 31.62..
यथाऽविमुक्तादित्ये वाराणस्यां व्यवस्थितम् । वरणायास्तथा चास्या मध्ये वाराणसी पुरी ॥ ३१.६३॥
यथा अविमुक्तादित्ये वाराणस्याम् व्यवस्थितम् । वरणायाः तथा च अस्याः मध्ये वाराणसी पुरी ॥ ३१।६३॥
yathā avimuktāditye vārāṇasyām vyavasthitam . varaṇāyāḥ tathā ca asyāḥ madhye vārāṇasī purī .. 31.63..
तत्रैव संस्थितं तत्त्वं नित्यमेवाविमुक्तकम् । वाराणस्याः परं स्थानं न भूतं न भविष्यति ॥ ३१.६४॥
तत्र एव संस्थितम् तत्त्वम् नित्यम् एव अविमुक्तकम् । वाराणस्याः परम् स्थानम् न भूतम् न भविष्यति ॥ ३१।६४॥
tatra eva saṃsthitam tattvam nityam eva avimuktakam . vārāṇasyāḥ param sthānam na bhūtam na bhaviṣyati .. 31.64..
यत्र नारायणो देवो महादेवादिवेश्वरात् । तत्र देवाः सगन्धर्वाः सयक्षोरगराक्षसाः ॥ ३१.६५॥
यत्र नारायणः देवः महादेवात् इव ईश्वरात् । तत्र देवाः स गन्धर्वाः स यक्ष-उरग-राक्षसाः ॥ ३१।६५॥
yatra nārāyaṇaḥ devaḥ mahādevāt iva īśvarāt . tatra devāḥ sa gandharvāḥ sa yakṣa-uraga-rākṣasāḥ .. 31.65..
उपासते मां सततं देवदेवः पितामहः । महापातकिनो ये च ये तेभ्यः पापकृत्तमाः ॥ ३१.६६॥
उपासते माम् सततम् देवदेवः पितामहः । महापातकिनः ये च ये तेभ्यः पाप-कृत्तमाः ॥ ३१।६६॥
upāsate mām satatam devadevaḥ pitāmahaḥ . mahāpātakinaḥ ye ca ye tebhyaḥ pāpa-kṛttamāḥ .. 31.66..
वाराणसीं समासाद्य ते यान्ति परमां गतिम् । तस्मान्मुमुक्षुर्नियतो वसेच्चामरणान्तिकम् ॥ ३१.६७॥
वाराणसीम् समासाद्य ते यान्ति परमाम् गतिम् । तस्मात् मुमुक्षुः नियतः वसेत् च आमरणान्तिकम् ॥ ३१।६७॥
vārāṇasīm samāsādya te yānti paramām gatim . tasmāt mumukṣuḥ niyataḥ vaset ca āmaraṇāntikam .. 31.67..
वाराणस्यां महादेवाज्ज्ञानं लब्ध्वा विमुच्यते । किन्तु विघ्ना भविष्यन्ति पापोपहतचेतसः ॥ ३१.६८॥
वाराणस्याम् महादेवात् ज्ञानम् लब्ध्वा विमुच्यते । किन्तु विघ्नाः भविष्यन्ति पाप-उपहत-चेतसः ॥ ३१।६८॥
vārāṇasyām mahādevāt jñānam labdhvā vimucyate . kintu vighnāḥ bhaviṣyanti pāpa-upahata-cetasaḥ .. 31.68..
ततो नैव चरेत् पापं कायेन मनसा गिरा । एतद् रहस्यं वेदानां पुराणानां द्विजोत्तमाः ॥ ३१.६९॥
ततस् ना एव चरेत् पापम् कायेन मनसा गिरा । एतत् रहस्यम् वेदानाम् पुराणानाम् द्विजोत्तमाः ॥ ३१।६९॥
tatas nā eva caret pāpam kāyena manasā girā . etat rahasyam vedānām purāṇānām dvijottamāḥ .. 31.69..
अविमुक्ताश्रयं ज्ञानं न कश्चिद् वेत्ति तत्त्वतः । देवतानामृषीणां च श्रृण्वतां परमेष्ठिनाम् ॥ ३१.७॥
अविमुक्त-आश्रयम् ज्ञानम् न कश्चिद् वेत्ति तत्त्वतः । देवतानाम् ऋषीणाम् च श्रृण्वताम् परमेष्ठिनाम् ॥ ३१।७॥
avimukta-āśrayam jñānam na kaścid vetti tattvataḥ . devatānām ṛṣīṇām ca śrṛṇvatām parameṣṭhinām .. 31.7..
देव्यै देवेन कथितं सर्वपापविनाशनम् । यथा नारायणः श्रेष्ठो देवानां पुरुषोत्तमः ॥ ३१.७१॥
देव्यै देवेन कथितम् सर्व-पाप-विनाशनम् । यथा नारायणः श्रेष्ठः देवानाम् पुरुषोत्तमः ॥ ३१।७१॥
devyai devena kathitam sarva-pāpa-vināśanam . yathā nārāyaṇaḥ śreṣṭhaḥ devānām puruṣottamaḥ .. 31.71..
यथेश्वराणां गिरिशः स्थानानां चैतदुत्तमम् । यैः समाराधितो रुद्रः पूर्वस्मिन्नेव जन्मनि ॥ ३१.७२॥
यथा ईश्वराणाम् गिरिशः स्थानानाम् च एतत् उत्तमम् । यैः समाराधितः रुद्रः पूर्वस्मिन् एव जन्मनि ॥ ३१।७२॥
yathā īśvarāṇām giriśaḥ sthānānām ca etat uttamam . yaiḥ samārādhitaḥ rudraḥ pūrvasmin eva janmani .. 31.72..
तं विन्दन्ति परं क्षेत्रमविमुक्तं शिवालयम् । कलिकल्मषसंभूता येषामुपहता मतिः ॥ ३१.७३॥
तम् विन्दन्ति परम् क्षेत्रम् अविमुक्तम् शिव-आलयम् । कलि-कल्मष-संभूता येषाम् उपहता मतिः ॥ ३१।७३॥
tam vindanti param kṣetram avimuktam śiva-ālayam . kali-kalmaṣa-saṃbhūtā yeṣām upahatā matiḥ .. 31.73..
न तेषां वेदितुं शक्यं स्थानं तत् परमेष्ठिनः । ये स्मरन्ति सदा कालं विन्दन्ति च पुरीमिमाम् ॥ ३१.७४॥
न तेषाम् वेदितुम् शक्यम् स्थानम् तत् परमेष्ठिनः । ये स्मरन्ति सदा कालम् विन्दन्ति च पुरीम् इमाम् ॥ ३१।७४॥
na teṣām veditum śakyam sthānam tat parameṣṭhinaḥ . ye smaranti sadā kālam vindanti ca purīm imām .. 31.74..
तेषां विनश्यति क्षिप्रमिहामुत्र च पातकम्। यानि चेह प्रकुर्वन्ति पातकानि कृतालयाः ॥ ३१.७५॥
तेषाम् विनश्यति क्षिप्रम् इह अमुत्र च पातकम्। यानि च इह प्रकुर्वन्ति पातकानि कृत-आलयाः ॥ ३१।७५॥
teṣām vinaśyati kṣipram iha amutra ca pātakam. yāni ca iha prakurvanti pātakāni kṛta-ālayāḥ .. 31.75..
नाशयेत् तानि सर्वाणि देवः कालतनुः शिवः । आगच्छतामिदं स्थानं सेवितुं मोक्षकाङ्क्षिणाम् ॥ ३१.७६॥
नाशयेत् तानि सर्वाणि देवः काल-तनुः शिवः । आगच्छताम् इदम् स्थानम् सेवितुम् मोक्ष-काङ्क्षिणाम् ॥ ३१।७६॥
nāśayet tāni sarvāṇi devaḥ kāla-tanuḥ śivaḥ . āgacchatām idam sthānam sevitum mokṣa-kāṅkṣiṇām .. 31.76..
मृतानां च पुनर्जनम् न भूयो भवसागरे । तस्मात् सर्वप्रयत्नेन वाराणस्यां वसेन्नरः ॥ ३१.७७॥
मृतानाम् च पुनर् जनम् न भूयस् भव-सागरे । तस्मात् सर्व-प्रयत्नेन वाराणस्याम् वसेत् नरः ॥ ३१।७७॥
mṛtānām ca punar janam na bhūyas bhava-sāgare . tasmāt sarva-prayatnena vārāṇasyām vaset naraḥ .. 31.77..
योगी वाप्यथवाऽयोगी पापी वा पुण्यकृत्तमः । न वेदवचनात् पित्रोर्न चैव गुरुवादतः ॥ ३१.७८॥
योगी वा अपि अथवा अयोगी पापी वा पुण्य-कृत्तमः । न वेद-वचनात् पित्रोः न च एव गुरु-वादतः ॥ ३१।७८॥
yogī vā api athavā ayogī pāpī vā puṇya-kṛttamaḥ . na veda-vacanāt pitroḥ na ca eva guru-vādataḥ .. 31.78..
मतिरुत्क्रमणीया स्यादविमुक्तागतिं प्रति ॥ ३१.७९॥
मतिः उत्क्रमणीया स्यात् अविमुक्त-आगतिम् प्रति ॥ ३१।७९॥
matiḥ utkramaṇīyā syāt avimukta-āgatim prati .. 31.79..
सूत उवाच
इत्येवमुक्त्वा भगवान् व्यासो वेदविदां वरः । सहैव शिष्यप्रवरैर्वाराणस्यां चचार ह ॥ ३१.८॥
इति एवम् उक्त्वा भगवान् व्यासः वेद-विदाम् वरः । सह एव शिष्य-प्रवरैः वाराणस्याम् चचार ह ॥ ३१।८॥
iti evam uktvā bhagavān vyāsaḥ veda-vidām varaḥ . saha eva śiṣya-pravaraiḥ vārāṇasyām cacāra ha .. 31.8..
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वंविभागे एकत्रिशोऽध्यायः ॥ ॥
इति श्री-कूर्मपुराणे षट्साहस्त्र्याम् संहितायाम् पूर्वम् विभागे एकत्रिशः अध्यायः ॥ ॥
iti śrī-kūrmapurāṇe ṣaṭsāhastryām saṃhitāyām pūrvam vibhāge ekatriśaḥ adhyāyaḥ .. ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In